101 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोत्तरशततमः सर्गः रामरावणयोर्युद्धावसरे मध्येलब्धावकाशेनलक्ष्मणेन रावणंप्रतियोधनम् ॥ १ ॥ तत्रलक्ष्मणेन रावणस्यध्वजसारथिधनुवांछेदनम् ॥ २ ॥ विभीषणेन गदया रावणरथहयहननम् ॥ ३ ॥ लक्ष्मणेन रावणेनविभीषणजिघांसया क्षिप्तायाः शक्तेः शरैः शकलीकरणम् ॥ ४ ॥ ततो रावणक्षिप्तयामहत्याशक्त्या वक्षसिगाढाभिहतेनलक्ष्मणेन मूर्च्छयाभूमौपतनम् ॥ ५ ॥ ततः कोपाद्रामेणशरगणवर्षणे पुरस्स्थातुमशक्नुवतारावणेन पलायनम् ॥ ६ ॥ तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः । क्रोधं च द्विगुणं […]
100 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः महोदरादिनिधनक्रुद्धेनरावणेन सूतंप्रति रामवधप्रतिज्ञानेनरथतुरगचोदनचोदनापूर्वकं लक्ष्मणातिक्रमणेनरामंप्रत्यभियानम् ॥ १ ॥ रामरावणाभ्यां विचित्रास्त्रनिकरप्रयोगेण समरप्रवर्तनम् ॥ २ ॥ महोदरमहापार्श्वो हतौ दृष्ट्वा तु राक्षसौ । तस्मिंश्च निहते वीरे विरूपाक्षे महाबले । आविवेश महान्क्रोधो रावणं तं महामृधे ॥ १ ॥ सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥ निहतानाममात्यानां रुद्धस्य नगरस्य च । दुःखमेषोपनेष्यामि हत्वा […]
99 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः अङ्गदेनमहापार्श्वभङ्गः ॥ १ ॥ महोदरे तु निहते महापार्श्वो महाबलः । सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः । अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ॥ १ ॥ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः । पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥ २ ॥ केषांचिदिषुर्भिर्बाहून्स्कन्धांश्चिच्छेद राक्षसः । वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् ॥ ३ ॥ तेऽर्दिता बाणवर्षेण महापार्श्वेन […]
98 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः सुग्रीवेण महोदरवधः ॥ १ ॥ हन्यमाने बले तूर्णमन्योन्यं ते महामृधे । सरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥ १ ॥ स्वबलस्य विघातेन विरूपाक्षवधेन च । बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥ प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः । बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् । उवाच च समीपस्थं महोदरमरिंदमम् […]
97 Sarga युद्धकाण्डः
श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः सुग्रीवेण विरूपाक्षवधः ॥ १ ॥ तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः । बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ १ ॥ अथ विरूपाक्षवधः – तथा तैरित्यादि ॥ १ ॥ रावणस्याप्रसह्यं तं शरसंपातमेकतः । न शेकुः सहितुं दीप्तं पतङ्गो ज्वलनं यथा ॥ २ ॥ तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः । पावकार्चिःसमाविष्टा दह्यमाना […]
96 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षण्णवतितमः सर्गः राक्षसीगणविलापश्रवणरुष्टेनरावणेन राक्षसान्प्रतिसंनाहनचोदनपूर्वकं स्वप्रतापप्रशंस -नेन रामादिवधप्रतिज्ञानम् ॥ १ ॥ तथा महापार्श्वादिभिःसह रथाधिरोहणेनरणधरणिंगतेनतेन बाणगणैर्वानरगणविदारणम् ॥ २ ॥ आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले । रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥ १ ॥ स तु दीर्घं विनिश्वस मुहूर्तं ध्यानमास्थितः । बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ २ ॥ अथ रावणिनिर्याणं – आर्तानामित्यादि […]
95 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः तत्रतत्रराक्षसीभिस्सङ्घीभूय बन्धुनिधनशोकेन रावणगर्हणपूर्वकंविलापः ॥ १ ॥ तानि तानि सहस्राणि सारोहाणां च वाजिनाम् । रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥ १ ॥ राक्षसानां सहस्राणि गदापरिघयोधिनाम् । काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ २ ॥ निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः । रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥ ३ ॥ दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः । राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः […]
94 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्नवतितमः सर्गः रामेण रावणमूलबलवधः ॥ १ ॥ स प्रविश्य सभां राजा दीनः परमदुःखितः । निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥ १ ॥ अथ मूलबलयुद्धं–स प्रविश्येत्यादि ॥ १ ॥ अब्रवीच्च स तान्सर्वान्बलमुख्यान्महाबलः । रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्षितः ॥ २ ॥ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः । निर्यान्तु रथसङ्घैच पादातैश्चोपशोभिताः ॥ ३ […]
93 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः लक्ष्मणकृतेन्द्रजिद्वधश्रवणमुग्धेनरावणेनेन्द्रजितंप्रति शोचनपूर्वकं बहुधाविलापः ॥ १ ॥ तथामन्त्रिणःप्रति स्वप्रतापप्रशंसनेन रामादिवधप्रतिज्ञानम् ॥ २ ॥ तथा सीतावधप्रतिज्ञा -नेनाशोकवनिकांप्रतिजवादभिधावनम् ॥ ३ ॥ तदवलोकनभीतयासीतया बहुधाविलापः ॥ ४ ॥ अत्रान्तरे सुपार्श्वनाम्नासचिवेन युक्त्युपन्यासेनसान्त्वनपूर्वकं सीताबधोद्यमात्प्रतिनिवर्तनेन गृहंप्रतियापनम् ॥ ५ ॥ ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् । आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ १ ॥ अथ सीतावधोद्योगपर्यन्तो रावणस्य पुत्रशोकातिशय उच्यते — […]
92 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विनवतितमः सर्गः इन्द्रजिद्विजयहृष्टेनलक्ष्मणेन विभीषणादिभिः सह रामसमीपमेत्य तच्चरणयोः प्रणामः ॥ १॥ विभीषणमुखाल्लक्ष्मणकृतेन्द्रजिद्वधश्रवणहृष्टेनरामेण लक्ष्मणस्यनिजाङ्कारोपणेन -परिष्वङ्गपूर्वकं प्रशंसनम् ॥ २ ॥ रामप्रेरणयासुषेणेनेन्द्रजिद्बाणविशकलीकृतानांल -क्ष्मणादीनां समुचितचिकित्सयाविशल्यीकरणम् ॥ ३ ॥ रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः । बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥ १ ॥ अथ लक्ष्मणश्लाघनं– रुधिरक्लिन्नगात्रेत्यादि ॥ १ ॥ ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान् । सन्निहत्य महातेजास्तांश्च […]