41 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान् ।। 4.41.1 ।। अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे ततः प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ।। 4.41.1 ।। नीलमग्निसुतं चैव हनुमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महाबलम् ।। 4.41.2 ।। सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणमृषभं तथा ।। […]

40 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चत्वारिंशः सर्गः अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । उवाच नरशार्दूलं रामं परबलार्दनम् ।। 4.40.1 ।। अथ सीतान्वेषणाय पूर्वस्यां दिशि सुग्रीवेण विनतप्रेषणं चत्वारिंशे अथ राजेत्यादि ।। 4.40.1 ।। आगता विनिविष्टाश्च बलिनः कामरूपिणः । वानरा वारणेन्द्राभा ये मद्विषयवासिनः ।। 4.40.2 ।। त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसन्ननिभाः ।। 4.40.3 ।। आगता […]

39 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ।। 4.39.1 ।। अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे इति ब्रुवाणमित्यादि ।। 4.39.1 ।। यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्विचित् । आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ।। 4.39.2 ।। चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप ।। 4.39.3 […]

38 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ।। 4.38.1 ।। विसर्जयित्वा स हनीन् शूरांस्तान्कृतकर्मणः । मेने कृतार्थमात्मानं राघवं च महाबलम् ।। 4.38.2 ।। स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् । अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् । किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ।। 4.38.3 ।। तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् […]

37 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ।। 4.37.1 ।। अथ सर्ववानरसमानयनं सप्तत्रिंशे एवमित्यादि ।। 4.37.1 ।। महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च । मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ।। 4.37.2 ।। महेन्द्रादय एव पञ्च शैलाः ।। 4.37.2 ।। तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः । पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ।। […]

36 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्त्रिंशः सर्गः इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् । मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ।। 4.36.1 ।। अथ लक्ष्मणसुग्रीवसौहृदभाषणं षट्त्रिंशे इत्युक्त इत्यादि ।। 4.36.1 ।। तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः । लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ।। 4.36.2 ।। तस्मिन्निति । सुमहत्त्रासमिति “आन्महतः” इत्याकाराभाव आर्षः । क्लिन्नम् आर्द्रम् ।। 4.36.2 ।। ततः कण्ठगतं माल्यं चित्रं बहुगुणं […]

35 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ।। 4.35.1 ।। अथ पुनस्तारया लक्ष्मणसान्त्वनं पञ्चत्रिंशे तथा ब्रुवाणमित्यादि ।। 4.35.1 ।। नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद्विषेषतः ।। 4.35.2 ।। वक्तव्यः, परुषमिति शेषः ।। 4.35.2 ।। नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः । नैवानृतकथो वीर […]

34 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् । सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ।। 4.34.1 ।। अथ सुग्रीवं प्रति रामसन्देशकथनं चतुस्त्रिंशे तमप्रतिहतमित्यादि ।। 4.34.1 ।। क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा । भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ।। 4.34.2 ।। उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् । महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः ।। 4.34.3 ।। क्रुद्धमित्यादि । […]

33 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा । प्रविवेष गुहां घोरां किष्किन्धां रामशासनात् ।। 4.33.1 ।। द्वारस्था हरयस्तत्र महाकाया महाबलाः । बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ।। 4.33.2 ।। अथान्तःपुरं प्रविष्टस्य लक्ष्मणस्य तारया प्रसादनं त्रयस्त्रिंशे अथेत्यादि । प्रतिसमादिष्टः प्रत्याहूतः, अङ्गदेनेति शेषः ।। 4.33.1,2 ।। निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् । बभूवुर्हरयस्त्रस्ता […]

32 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशः सर्गः अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह । लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ।। 4.32.1 ।। अथ हनुमता हितोपदेशो द्वात्रिंशे अङ्गदस्येत्यादि । अङ्गदस्य प्राधान्यादङ्गदस्य वचः श्रुत्वेत्युक्तम् । आसनं मुमोच भयेनासनादुदतिष्ठदित्यर्थः ।। 4.32.1 ।। सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् । मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ।। 4.32.2 ।। सचवानिति । मन्त्रकुशलः मन्त्रप्रयोगकुशलः ।। 4.32.2 ।। न […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.