31 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकत्रिंशः सर्गः स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ।। 4.31.1 ।। अथाङ्गदेन लक्ष्मणकोपकथनं सुग्रीवायैकत्रिंशे स कामिनमिति । कामिनम् अधिककामम् । अत एव दीनम् । तथाप्यदीनसत्त्वम् । एतेन वस्तुतः अदीनसत्त्वो ऽपि दैन्यं भावयतीति गम्यते । शोकाभिपन्नं शोकं प्राप्तम् । समुदीर्णकोपम् अभिवृद्धकोपम् । अस्मिन् श्लोके नरदेवपुत्रमित्यत्र देकारो गायात्र्या एकादशाक्षरम् । […]

30 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिंशः सर्गः गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्षरात्रोषितो रामः कामशोकाभिपीडितः ।। 4.30.1 ।। पाण्डरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् । शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ।। 4.30.2 ।। कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् । बुद्ध्वा कालमतीतं च मुमोह परमातुरः ।। 4.30.3 ।। अथ शरत्समागमे ऽपि सुग्रीवस्यानुद्योगाद्रामकोपस्त्रिंशे गुहामित्यादि । सुग्रीवे […]

29 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् । सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ।। 4.29.1 ।। समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् । अत्यर्थमसतां मार्गमेकान्तगतमानसम् ।। 4.29.2 ।। निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा । प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ।। 4.29.3 ।। स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ।। 4.29.4 ।। क्रीडन्तमिव देवेशं नन्दने ऽप्सरसां गणैः […]

28 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टाविंशः सर्गः स तथा वालिनं हत्वा सुग्रीवमभिषिच्य च । वसन्माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत् ।। 4.28.1 ।। अथ रामः स्वस्याश्रितविश्लेषासहिष्णुत्वमन्यापदेशेन लक्ष्मणाय प्रदर्शयन् वर्षर्तुवर्णनमारभते ऽष्टाविंशे स तथेत्यादि । सः, यत्किञ्चिद्विरोधिनिरसनाश्रितसंरक्षणलाभेप्यसत्कल्पमेतन्मन्यमानः माल्यवतः पूर्वं प्रस्रवणाख्यतयोक्तस्य गिरेः पृष्ठे उपरि वसन्, सर्वजनोज्जीवनाय सन्निहित इत्यर्थः ।। 4.28.1 ।। अयं स कालः सम्प्राप्तः समयो ऽद्य जलागमः । सम्पश्य त्वं […]

27 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ।। 4.27.1 ।। शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसङ्कुलम् ।। 4.27.2 ।। ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् । मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ।। 4.27.3 ।। तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह ।। 4.27.4 ।। अथ […]

26 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षड्विंशः सर्गः ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे ।। 4.26.1 ।। अथ सुग्रीवाभिषेकः षड्विंशे तत इत्यादि । क्लिन्नवाससम् आर्द्रवस्त्रम् । सद्यः स्नानादिति भावः । शाखामृगमहामात्राः वानरूपा मन्त्रिणः ।। 4.26.1 ।। अभिगम्य महाबाहुं राममक्लिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ।। 4.26.2 ।। ततः काञ्चनशैलाभस्तरुणार्कनिभाननः । अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ।। 4.26.3 ।। सर्वे […]

25 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः । समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ।। 4.25.1 ।। अथ रामः सर्वसान्त्वनपूर्वकं वालिनः संस्कारं कारयति पञ्चविंशे सुग्रीवमित्यदि । साङ्गदमिति सुग्रीवविशेषणम् । समानशोकः ताराङ्गदादिभिस्तुल्यशोकः ।। 4.25.1 ।। न शोकपरितापेन श्रेयसा युज्यते मृतः । यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ ।। 4.25.2 ।। नेति । शोकपरितापेन शोककृतपरितापेन, युष्मदीयेनेति शेषः । […]

24 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन । पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ।। 4.24.1 ।। अथ ताराप्रलापश्रवणदुःखितसुग्रीवनिर्वेदप्रदर्शन(समाश्वासन)पूर्वकं ताराया रामे प्रतिपत्तिं दर्शयति चतुर्विंशे तामित्यादि । अश्रुवेगेन च दुरासदेन दुष्प्रापेण शोकमहार्णवेन च अभिप्लुतां व्याप्तां तां तारां पश्यन् तेन भ्रातुर्वधेन च तेपे दुःखितो ऽभूत् ।। 4.24.1 ।। स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी […]

23 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् । पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ।। 4.23.1 ।। अथ मरणानन्तरं ताराविलापस्त्रयोविंशे ततः समुपजिघ्रन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकाच्च्युतम् । स्वर्गगमित्यर्थः ।। 4.23.1 ।। शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले ।। 4.23.2 ।। मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि […]

22 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् । आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ।। 4.22.1 ।। एवममोघरामशराभिघातेन मोहसमाविष्टं वालिनं मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति दैवात्किञ्चित्समाश्वस्तो वाली कर्तव्यभागं नियच्छति द्वाविंशे वीक्षमाण इत्यादि । मन्दासुः अल्पप्राणः ।। 4.22.1 ।। तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः । आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ।। 4.22.2 ।। तमिति । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.