52 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विपञ्चाशः सर्गः तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राघवाश्रमात् ।। 3.52.1 ।। जटायुर्युद्धकाले विसृष्टायाः पुनरपि रावणेन हरणप्रकारमाह तमित्यादि । राघवाश्रमादित्यवधित्वात्पञ्चमी ।। 3.52.1 ।। सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता ।। 3.52.2 ।। सा त्विति । रावणेन विनिहतं समीक्ष्येत्यन्वयः ।। 3.52.2 ।। आलिङ्ग्य गृध्रं […]

51 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकपञ्चाशः सर्गः इत्युक्तस्य यथान्यायं रावणस्य जटायुषा । क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ।। 3.51.1 ।। अथ स्वामिकार्याय प्राणत्यागमकरोज्जटायुरित्याह इतीत्यादि ।। 3.51.1 ।। संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रममर्षणः ।। 3.51.2 ।। अमर्षणः असहनः ।। 3.51.2 ।। स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने । बभूव वातोद्धतयोर्मेघयोर्गगने यथा ।। 3.51.3 ।। सः युद्ध्यस्वेति पूर्वं प्रवर्तितः । सम्प्रहारः युद्धम् […]

50 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चाशः सर्गः तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ।। 3.50.1 ।। अथ स्वामिविषये दासेन यावच्छक्ति शेषवृत्तिरवश्य कर्तव्येत्यमुमर्थं लोके प्रवर्तयितुं जटायुवृत्तान्तमुपक्षिपति सर्गद्वयेन । अत्र प्रथमं जटायुः सान्त्वनभर्त्सनाभ्यां रावणमनुकूलयितुमिच्छतीत्याह तं शब्दमित्यादि । अवसुप्तः ईषत्सुप्तो जटायुः । अथ सीतावचनानन्तरम् । तं शब्दं शुश्रुवे । आत्मनेपदमार्षम् । ततः प्रथमं […]

49 Sarga अरण्यकाण्डः

। अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।। (49सर्गतः 75सर्गपर्यन्तम्) श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनप़ञ्चाशः सर्गः सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । त्ित्र त्त्र त्रहस्ते हस्तं समाहत्य चकार सुमहद्वपुः ।। 3.49.1 ।। यश्चिन्तनीयः सततमापत्सु परमासु च । नान्योस्ति चिन्तनीयस्तं सीतापतिमुपास्महे ।। सीताया इत्यादि । हस्ते हस्तं समाहत्य संयोज्य । अयं च कोपाकृतिविशेषः ।। 3.49.1 ।। स मैथिलीं पुनर्वाक्यं […]

48 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टचत्वारिंशः सर्गः एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ।। 3.48.1 ।। एवं ब्रुवन्तीं सीतां रावणो भर्त्सयति एवमित्यादिना । संरब्धः कुपितः सम्भ्रमाविष्टो वा ।। 3.48.1 ।। भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ।। 3.48.2 ।। भ्रातेति । वैश्रवणस्य सपत्न्या मातुरपत्यं […]

47 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तचत्वारिंशः सर्गः रावणेन तु वैदेही तथा पृष्टा जिहीर्षता । परिव्राजकलिङ्गेन शशंसात्मानमङ्गना ।। 3.47.1 ।। अथ मैथिली आर्जवेन स्वस्वरूपमुक्त्वा रावणानार्जवदर्शनेन स्वपातिव्रत्यानुरूपं तमुपालभते रावणेन त्वित्यादिना । जिहीर्षता हर्तुमिच्छता । तेन कापट्येन पृष्टापि यतिचिह्नं पुरस्कृत्य स्वयाथात्म्यमुक्तवतीति भावः ।। 3.47.1 ।। ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ।। 3.47.2 ।। […]

46 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः तया परुषमुक्तस्तु कुपितो राघवानुजः । स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ।। 3.46.1 ।। अथ सीतायाः लक्ष्मणविषयपरुषभाषणफलं दर्शयत्येकादशभिः सर्गैः । रावणप्रलोभनमाह षट्चत्वारिंशे तया परुषमित्यादि । विकाङ्क्षन् अनिच्छन्नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाकर्षतः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः ।। […]

45 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ।। 3.45.1 ।। अस्थाने भयशङ्किन्या जानक्यापि सुहृज्जनम् । धिक्कृत्य चिन्तितं रामं नित्यापूर्वामहं भजे ।। आर्त्तस्वरं त्वित्यादि । भर्तुः भर्तुस्स्वरस्य ।। 3.45.1 ।। नहि मे हृदयं स्थाने जीवितं वावतिष्ठति । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ।। […]

44 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ।। 3.44.1 ।। अजानन्निव यो मायामृगं कार्यान्तरैकदृक् । अनुसृत्य जघानाशु तं लीलामानुषं भजे ।। अथ मारीचवधः तथा त्वित्यादिना । त्सरुः खड्गमुष्टिः । “त्सरुः खङ्गादिमुष्टिः स्यात्” इत्यमरः ।। 3.44.1 ।। ततस्त्र्यवनतं चापमादायात्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ।। 3.44.2 […]

43 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिचत्वारिंशः सर्गः सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती । हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ।। 3.43.1 ।। प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी । भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ।। 3.43.2 ।। तया ऽ ऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ।। 3.43.3 ।। शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.