अधिकरणसारावली
दक्षिणायनाधिकरणम्
4.2.23 देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छ्रुतेस्तत्स्मृतेश्च। मैवं पूर्वोक्तनीतिस्त्विह नहि विहताथास्य सायुज्यमिन्दौ विश्रान्त्यै सूर्यनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा।।
4.2.24 किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्नवीसम्भवस्य स्वेच्छा येनैवमासीत् स च वसुरभवन्नै साक्षाद्विमुक्तः। तस्माद्विन्देत मुक्तिं नरपितृदिविषद्रात्रिकालेऽपि योगी स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गौ।।
4.2.25 सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवायौ सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु सूक्ष्मे। उत्क्रान्तिस्स्यात् समाना युतिरथ च परे सा च संश्लेषमात्रं निर्गच्छेद् ब्रह्मनाड्या घृणिभिरथ निशादेवरात्र्योश़्च मोक्षी।।