अधिकरणसारावली
॥ अथ चतुर्थाध्याये द्वितीय: पाद: ॥
वागधिकरणम्
4.2.1 नित्यत्वज्ञत्वपूर्वैर्निपुणमभिहितं जीवतत्त्वं द्वितीये जागर्यादौ च खेदो जगदटविमहाजाङ्घिकस्याथ गीतः। विद्यारम्भावसानावधि यदपि परं ध्यातुरर्थ्यं तदुक्तं प्रारब्धस्यावसाने वपुरिह जहतो गत्युपक्रान्तिमाह।।
4.2.2 वर्ण्यो वैराग्यपादे तनुकरणगणक्षोभ ईदृक् तथापि ब्रह्मज्ञस्यापि काले भवति मृतिरिति ज्ञप्तयेऽत्रानुबन्धः। तस्योत्क्रान्तौ विशेषं कथयितुमुचिता चात्र साधारणोक्तिः मध्ये विद्याफलानां मरणमपि वदंस्तत्प्रियं चिन्त्यमाह।।
4.2.3 वृत्तिर्वागादिकं वा क्वचन भजतु सम्पत्तिमन्यक्रमां वा श्रुत्यैवोक्तक्रमां वा नहि फलमिह तच्चिन्तनस्येति चेन्न। सम्पत्त्याम्नानमीदृक्क्रमनियतियुतं युज्यते न ह्यपार्थँ तस्मात्तच्चिन्तनं क्वाप्युपकुरुत इति स्थाप्यमेतद्यथार्हम्।।
4.2.4 जीवं ये नित्यमुक्तं निजगदुरथवा जीवतो मुक्तिमाहुः तत्तज्जल्पोपजापप्रचलितनिगमग्रामसंक्षोभशान्त्यै। उक्त्वा प्रारब्धकार्यं विदुषि च फलवत्प्रायणञ्चात्र तुल्यं नाडीभेदप्रवेशप्रभृति समधिकं वक्ष्यति ब्रह्मगत्यै।।
4.2.5 आयुस्सीमामनिष्टैरिह बहुभिरसावात्मनः प्रेक्ष्य योगी यत्कुर्याद्यच्च पुत्रप्रभृतिषु नहि तत्तर्क्यमत्रेत्यनुक्तिः। गीतादिष्वन्त्यकाले यदगणि तदपि प्राच्ययोगप्रकारं तत्तत्प्राप्यानुरूपे नियतमिति यथापूर्वधीरत्र भाव्या।।
4.2.6 कर्मज्ञानाक्षवर्गो मनसि न विलयं यात्यतत्संभवत्वात् तद्वृत्तेस्तादधीन्यात्तदुपरतिमिह प्राह सम्पत्तिशब्दः। इत्येतन्नोपपन्नं तदुभयविलये चोद्यनिस्तारसाम्यात् सम्पत्तिश्श्लेषमात्रं करणविषयवाक्शब्दमुख्यत्वसिद्ध्यै।।