अधिकरणसारावली
परसंपत्त्यधिकरणम्
4.2.15 जीवोत्क्रान्त्युक्तिकाले विदुषि तु घटते तत्प्रतिक्षेपभङ्गो भूतोत्क्रान्तेस्तु पश्चात्तदुपनिपतने सङ्गतिस्स्यात्कथंचित्। तस्मात्साधारणोऽपि ह्ययमुपरि ततस्स्थाप्यते हार्दयोगः तुल्येऽप्यस्मिन्नतुल्यास्सरणिमुखतया प्राप्यभेदेन नाड्यः।।
4.2.16 प्राप्तुं भोगापवर्गौ प्रयति तनुभृति प्राप्तसूक्ष्मस्वदेहे सम्पत्त्या किं परस्यां श्रितहृदयसुषौ लभ्यते देवतायाम्। आतस्तेजः परस्यामिति चिरघटितेऽप्यस्तु सिद्धानुवादो मैवं मानानुसारात्फलमिति परमे संक्रमश्श्रान्तिशान्त्यै।।