॥श्रीः॥
नयमयूखमालिका
।।प्रथमाध्यायस्य प्रथमः पादः।।
हेषारवैर्यश्श्रुतिब्रह्मनिर्भरैः स्त्रीयां व्यनक्ति स्वरसो दितां पुरा।
निश्वासपङ्क्तिं निखिलामपि त्रयीमश्वाननः पातुस वश्चिरं हरिः।।
श्रेयसान्निधिमिव श्रियःपतिं प्रेप्सतां प्रियहिताध्वदर्शिनी।
लक्ष्मणार्यहृदयानुसारिणी लिख्यते नयमयूखमालिका।।
“अथातोधर्मजिज्ञासे”त्यारभ्य “अनावृत्तिश्शब्दादनावृत्तिश्शब्दा” दितिपर्यंतं विंशतिलक्षणमेकं शास्त्रं, तत्र कर्मविचारार्था द्वादशलक्षणी देवताविचारार्था चतुर्लक्षणी च वृत्ता।ब्रह्मविचारार्था चतुर्लक्षण्यास्भ्यते।तत्रादौ ब्रह्मविषयव्युत्पत्त्यभावप्रतिपत्तिदौस्थ्यमानान्तरसिद्धत्वफलराहित्यरूपतदनारम्भहेतुचतुष्टयनिरीसेन तदारम्भसमर्थनार्थतया शास्रोपोद्धातरूपाणि समन्वयाधिकरणपर्यन्तानि चत्वार्यधिकरणानि।तेषु व्युत्पत्त्यभावशंकानिरीकरणार्थमिदमाद्यमधिकरणम्।।
अथातो ब्रह्मजिज्ञासा।।1।।
ब्रह्मविचारात्म्कमिदं शास्रमारम्भणीयं नवेति संशयः।तदर्थ ब्रह्मणि वेदान्ताः प्रमाणं नवेति संशयः। तदर्थञ्च सिद्धरूपे ब्रह्मणि व्युत्पत्तिस्संभवति नवेति संशयः।सिद्धे शब्दव्युत्पत्त्यसम्भवे ब्रह्मणि वेदान्ता नप्रमाणमिति, वेदान्तरूपप्रमाणमुखेन कर्तव्यतयाऽभिमतो ब्रह्मविचारो नकर्तव्य इति, तदर्थमिदं शास्रं नारम्भणीयमिति, पूर्वपक्षे फफलिभावः।शब्दानां सिद्धे व्युत्पत्तिसम्भवे वेदान्तानां ब्रह्मणि प्रामाण्यमुपपद्यत इति, तन्मखेन ब्रह्मविचारात्मकमिदं शास्रमारम्भणीयमिति, सिद्धन्ते फलफलिभावः।तत्रोत्तममध्यमवृद्धव्यवहाराभ्यां बालस्य कार्य एव व्युत्पत्तिग्रहात् उपजीव्यकार्यव्युत्पत्ति8ग्रहानुसारेण तदुपजीविषु “पुत्रस्तेजात” इत्यादिपाश्चात्यव्यवहारेषु कार्यपदाध्याहारावश्यंभावात् सर्वे शब्दाः कार्य एव व्युत्पत्तिमन्त इति पूर्वपक्षः। सिद्धान्तस्तु-आद्यव्युत्पत्तिग्रहस्य कार्यविषयत्वनियमेऽपि पाश्चात्येषु सिद्धार्थव्यवहारेषु न कार्यपादाध्याहारः कार्यः।तथाहि-किमाद्यव्युत्पत्तिग्रहकाले गामानयेत्यादिवाक्यगतानां सर्वेषां पदानां कार्यवाचित्वमवगतमिति तदनुसारेण द्वितीयादिप्रयोगेषु श्रुतैरपि सर्वैः पदैः कार्यसामान्ये बोधिते तद्विशेषजिज्ञासया कार्यविशेषवाचिक्रिया- पादाध्याहार इष्यते, उत आद्यव्यवहारस्य क्रियापदघटितत्वदर्शनमात्रेण।नाद्यः।गोपदसमभिव्याहारात् कर्मकारकस्येव क्रियापदसमभिव्याहारात् कार्यस्य प्रतीत्युपपत्त्या कर्मकारक इव कार्येऽपि तेषां शक्तेरकल्पनीयत्वात्।नापिद्वितीयः।”दण्डेनकामानये” त्याद्यव्युत्पत्तिग्रहे करणश्रवणेऽपि “अग्रे घटं पश्ये” त्यादौ करणानध्याहारवत् कार्यानध्याहारस्याप्युपपत्तेः।अन्यथा आद्यव्युत्पत्तिग्राहकवाक्यस्य आनयनकार्यघटिततत्वे द्वितीयादिप्रयोगेष्वपि तस्यैवाध्याहारापत्तेः। अग्रे कार्यान्तरघटितवाक्यश्रवणात् आनयननियमस्थ्यज्यते चेत्, कार्यवाचिपदरहितसिद्धार्थवर्णनपरकार्याद्युपलम्भबाहुळ्यात् कार्यनियमोऽपि त्यक्तव्यः।अपिच सिद्धार्थविषयोऽप्या- द्यपलयुत्पत्तिग्रहो द्दश्यते।यथा मातपित्रदयो बालान् शब्दार्थं ग्राहयन्तः शशिपशुप्रबृतीनंगुल्यानिर्दिश्य तत्तद्वाचकशब्दान् प्रयुञ्जते, बालाः तथाभूतांगुळिनिर्देशसहितैः तत्प्रयोगैः शब्दार्थसम्बन्धं निश्चिन्वन्तीत्यनुभव- सिद्धमेवैतत्।ननु अगुळिनिर्देशसाहितशब्दप्रयोगतर्शनमात्रेण कथं बालः अस्य शब्दस्य अयमर्थं इति निश्चिनुयात्। नह्यर्थविशेषाभिमुखांगुळिशसहितशब्दविशेषप्रयोगस्तयोर्वाच्यवाचक भावप्रत्यायनार्थ इति बालस्य व्युत्पत्तिग्रहोऽस्ति, नवा तथा नियमोऽस्ति, बहुजनसमाजे चैत्रमपश्यन्तं तमन्विच्छिन्तं प्रति तदभिमखांगुळिनिर्दे- शसहितचैत्रशब्दप्रयोगस्य वाच्यवाचकभावप्रत्यायनार्थत्वाभावात्।यत्तु तत्तदर्थानंगुळ्या निर्दिश्य तत्तद्वाचकशब्देषु बहुशः प्रयुक्तेषु बालानां तत्तदार्थाभिमुखांगुळिनिर्देशशब्दाविशेषप्रयोग साहचर्यदर्शनजनितवासनाबाहुळ्यात् तत्तच्छब्दश्रवणानन्तरंतत्तदर्थविशयस्वबुद्ध्युदयेन तत्रतत्रार्त्थेन तत्तच्छब्दस्य वाचकत्वरूपसंबन्धनिश्चयो भवेत्, संबन्धं विना शब्दादर्थबोधसम्भवात् संबन्धान्तराभावाच्चेति। नैतद्युक्तं-यदि तत्तदर्थविशयांगुळिनिर्देशशब्दप्रयोगसाहचर्यरूपसंबन्धान्तराधीनो बालस्य शब्दादर्थप्रत्ययः, किमर्थं वाचकत्वरूपसंबन्धान्तरस्यापि कल्पना, साहचर्यसंबन्धेनैव अर्थप्रत्ययसिद्धेः।नहि संबन्धान्तरेण सिद्धे अर्थप्रत्यये तदुपपादकत्वेनानयोपि संबन्धः कल्प्यः, कल्प्यमानोऽपि न प्राङ्निष्पन्नार्थप्रत्ययस्योपपादकः, ज्ञातोहि संबन्धोऽर्थप्रत्ययहेतुर्भवति नच पश्चात्संबन्धकल्पनया अर्थप्रत्ययात्पूर्वं संबन्धज्ञानमुपपादितं भवतिति चेत्, उच्यते-द्दश्यते तावन्मातृकृतांगुळिनिर्देशादिसहितशब्दविशेषप्रयोगभूयोदर्शनवन्तो बालाः तयोर्वाच्यवाचकभावं प्रतिपाद्य शब्दश्रवणे तदर्थं स्मृत्वा तदनुसारेणे चेष्टन्ते, अर्थदर्शने तद्वाचकशब्दं स्मृत्वा प्रयुञ्जते चेति, तेन तद्दर्शिनामित्थमबधारणं जायते, शब्दार्थसंबंधानभिज्ञान् प्रति अंगुळिनिर्देशचेष्टानविशेषसहितशब्दप्रयोगो वाच्यवाचकभावसंबन्धप्रत्यायनार्थः, अत एव तेन बालाः प्रतिलब्धवाच्यवाचकभावज्ञानास्तदनुकूलं व्यवहन्तीति, एवमवधारणवन्त एव जन्मान्तरे शैशवं प्रतिपद्य मात्रादिभिर्व्युत्पाद्यन्त इति तेषां पूर्वजन्मसंस्कारानुवृत्त्या मात्रादिकर्तृकार्थविशेषाभिमुखशब्दविशेषप्रयोगस्य शब्दार्थसंबन्धप्रत्यायनार्थत्वस्मरणं भवतीति ततो वाच्यवाचकभावरूपसंबन्धनिशचयः। यद्वा पूर्वपूर्वजन्मसु मात्रादिकृतांगुळिनिर्देशसहितशब्दप्रयोगाधनिव्युत्पत्तिग्रह- जनितसंस्कारबलादेव बालानामुत्तरोत्तरजन्मसु तेन व्युत्पत्तिग्रहः, अवश्यञ्च “पुत्रस्तेजात” इत्यादिव्यवहारेषु व्युत्पत्तिग्रहेऽपि जन्मान्तरसंस्कारोपजीवनमपेक्षितम्।नखलु तत्र आद्यव्युत्पत्तिग्रहं वदतां शिशचननं।”चैत्र पुत्रस्ते जात” इति वाक्यश्रवणानन्तरं चैत्रस्य स्नानदानादिकञ्च दृष्टवतोऽपि बालस्य जातश्शिशुश्चैत्रस्य पुत्र इति वा, स्वतएव ज्ञानमस्ति।अतः पुत्रजनमश्रवणे हृष्टाः स्नानदानादिकं कुर्वन्तीत्येतद्विषयजन्मान्तरसंस्कारोद्बोधेन स्मृत्वैवस, जातश्शिशुश्चैत्रस्य पुत्रः “चैत्र पुत्रस्ते जात” इति शब्दस्यापि चैत्रपुत्रजननमर्थः, अतएव मददृष्टपुत्र- जन्मश्रवणानन्तरकर्तव्यं स्नानदानादिकमयं करोतीति निश्चिनांतीत्येवोपपादनीयं।पुत्रपादांकितपटप्रदर्शनपुर्वकेऽपि “पुत्रस्ते जात” इति वाक्ये श्रुते लाटदेशे पुत्रपादांकितपटप्रदर्शनपूर्वकं पुत्रजननवार्तां वदन्तीतयेतद्विषयजन्मान्तरसंस्कारोद्बोधापेक्षाऽस्त्येव।तस्मात्सिद्धि प9दानां व्युत्पत्तिसत्त्वात् वेदान्तानां ब्रह्मणि प्रामाण्यमुपपद्यतएवेति सिद्धं।सुत्रस्यत्वयमर्थः।अथ-वेदपूर्वभागार्थकर्मविचारानन्तरं।अतः-कर्मविचारस्य पूर्वविचारस्य पूर्ववृत्तत्वादेव हेतोः।वेदोत्तरभागार्थब्रह्मविचारः कर्तव्य इति।यद्यपि जिज्ञासापदं ज्ञानेच्छाप्रतिपादकं, तथाऽपि अध्याहृतस्य कर्तव्यत्वस्य स्वतः प्राप्तायमिच्छायामनन्वयात् तद्विशेषणे विचाररूपे ज्ञानेऽन्वयः, यथा “दध्ना जुहोति” त्यत्र उत्पत्तिविधिप्राप्तं होमं विहाय तद्विशेषणे दध्नि विधेरन्वयः।यद्यपि विचारेऽपि रागतः प्राप्नुयात्, तथाऽपि सिद्धव्युत्पत्त्यभावशकया प्रतिबन्धपरिहारेण तदुत्तंभनार्थं तत्र कर्तव्यतान्वयो युक्त एव।ननु वृत्तस्य कर्मविचारस्य कथं वर्तिष्यमाणे ब्रह्मविचारे हेतुत्वं।कर्मणामावृत्तिविधानाद्यवगम्य अल्पास्थिरपलत्वावगमनेन ब्रह्मप्राप्त्यर्थोपासनापेक्षितकर्मस्वरूपपाधिगमनेन च हेतुत्वमितिचेत्।तथाऽपि बादरायणकर्तव्यब्रह्मविचारशास्रप्रति- पाद्यविरूद्धार्थाभिधानेन जैमिनिना प्रवर्तितस्य कर्मविचारस्य हेतुत्वं नयुज्यते, जैमिनेः ब्रह्मसन्यासाद्यपलापेन तद्विरुद्धार्थभिधायित्यवञ्च भगवता बादरायणेनैव “शेषत्वात्पुरुषार्थवादोयथाऽन्योष्विति जैमिनिः, परामर्शे जैमिनिरचोदनाच्चापवदती” त्यादिभिस्सूत्रैर्दर्शितमिति चेत्।मैवं।जैमिनिरन्वारुह्यवादस्तेषुसूत्रेषु अनूदितः, अत एव तस्य ब्रह्मसन्यासाभ्युपगमः “साक्षादप्यविरोधं जैमिनिः” “तद्भूतस्यतुनातद्भावोजैमिनेरपी” इत्यादिसूत्रैर्दर्शितः अथापि स्यात् ब्रह्मसन्यासापलापाभ्युपगमादिना जैमिनेः “विप्रतिषेधाच्चासमञ्जस”मिति सांख्यादिपक्षोक्तदोषभाक्तवमेव सूचितम्, एवमपि जैमिनिकृतकर्मविचारोपजीवने दोषो नापतति, नहि तत्कृते कर्मविचारशास्रे ब्रह्मसन्यासादिनिराकरणं सूत्रितमस्ति, ततोबहिर्विरूद्धार्थवादित्वमस्ति चेदसौ नदोषः। वेदप्रमाण्यप्रतिक्षेप्तृभिरपि कृतस्य काशिकावृत्त्यादेः “युक्तियुक्तं वचो ग्राह्य नतुपूरुषगौरवमि” दित्यादिसूत्रेण वेदस्य क्रियार्थत्वेनैव प्रामाण्यं वक्तव्यमिति अविशेषेण अकार्यार्थनामप्रामाण्यमाशंक्य तेशषां विध्येकवाक्यतया तदर्थत्वोपपादनेन प्रामाण्यसमर्थवनं जैमिनिना कृतं, तदपि बादरायणेन समन्वयसूत्रे ब्रह्मविषयाणा वाक्यानामक्रियार्थानां स्वातत्र्येण प्रामाण्यसमर्थनेन प्रत्यख्यातम्।एवं विरुद्धयोः कथमैकशास्र्यमिति चेत्।उच्यते- जैमिनिना स्वकीये देवताधिकरणे देवताधिकरणे देवतास्वरूपनिराकरणं कण्ठतो न कृतं।नच आभिप्रायिकतत्कल्पनं युक्तम्. तीर्यगधिकरणे तेन देवताभ्युपगमरयस्फुजीकृतत्वेन तद्विरोधापत्तेः।तत्राहि “नदेवता देवतांतराभावादिति सूत्रेण देवताः कर्मसु नाधिक्रियन्ते, इन्द्रादिदेवतानां हविस्त्यागोदृश्येद्रादिदेवतांतराभावात्, स्वातमने संकल्प्यमानस्य द्रव्यस्य स्वत्वत्यागासंभवेन यागाद्यनिवृत्तेरित्यक्तम्।ननु च तथापि जैमिनिबादरायणयोः देवतानां कर्मसु गुणत्वप्राधान्याभ्युपगमाभ्यामपरिहार्यो विरोधः।तथाहि-जैमिनिना विप्रतिमा” वित्यष्टामाध्यायधिकरणे “विप्रतिपत्तौ हविषा नियम्येतकर्मणस्तदुपाख्यत्वा”दिति सूत्रेण ऐन्द्रपुरोडाशंषु पुरोडाशरूपहविस्सामान्यादाग्नेययागविध्यन्तः, नत्विन्द्ररूपदेवतासामान्यात् सान्नाय्ययागविध्यन्तः।हविस्त्यागरूपस्य यागकर्मणो हविष्युपलभ्यामानत्वात् द्दश्यमानत्वात्स हविषा हि त्यज्यमानेन यागः क्रियमाणो द्दश्यते नत्वप्रत्यक्षया उद्देश्यमात्ररूपयेति प्रतिपाद्य यागस्य देवताराघनरूपत्वात् देवतैव प्रसन्ना फलदात्री प्रथानभूतेति तत्सामान्य हवस्सामान्यद्बलीय इति शङ्कानिराकरणार्थं सूत्रितम्, “गुणत्वेन देवताश्रुति”रिति।तया नावमिकेदेवताऽधिकरणे “देवतावा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वा”दिति सूत्रेण यथाऽतिथिपूजनात्मकं यजनमपि देवताप्रीत्यर्थं सद्देवताप्रधानमिति पूर्वपक्षमुक्तवा “अपिवा शब्दपूर्वत्वाद्यज्ञकर्मप्रधानं स्यात् गुणत्वे देवताश्रुति”रिति सूत्रेण न देवताप्रधानं यजनं, तदेव अपूर्वद्वारा फलजनकं, नतु हविषा प्रीता देवता, तस्यास्तु द्रव्योद्देश्यतया यागोपसर्जनत्वेनैव श्रुतिरिति सिद्धान्तमभिधाय “अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात् तस्य प्रीतिविधानत्वा”- दिति सूत्रेण अतिथिवैषम्यन्दर्शितम्, आतिथ्यं-अतिथिप्रीतिविधानं, यथाऽतिथिः प्रीयते तथा कर्तव्यतया विहितमिति तदतितथिप्रधानं युज्यते, कर्मणि तु नास्ति प्रीतिविधानं, #्तो न देवताप्रधानं यजनमिति।बादरायणेन तु “फलमत उपपत्ते” रिति सुत्रेण पस्मेश्वराराधनरूपतया सर्वं कर्म परमेश्वरप्रधानं तत्तत्कर्माराधितात्परमेश्वरादेव फलं नापूर्वव्यापारात्कर्मण इति स्वमतमुक्तवा “धर्म जैमिनिरतएवे”ति सूत्रेण कर्मैव अपूर्वद्वारा फलदायकमिति जैमिनिमतं पूर्वपक्षं निर्दिश्य “पुर्वन्तु बादरायणो हेतुव्यपदेशा”दिति सूत्रेण परमेश्वर एव सर्वकर्मफलदाता, “स एवैनं भूतिं गमयती”त्यादिकर्मविधिवाक्यशेषेषु वाय्वादिरूपस्य परमेश्वरस्यैव फलहेतुत्वव्यपदेशात्, क्षणविनाशिनः कर्मणः फलजनने द्वाराकांक्षायां वाक्यशेषार्पितां देवताप्रीतिमपबाय द्वारांतरकल्पनायोगादिति जैमिनिमतप्रतिक्षेपकयुक्तिप्रदर्शनेन स्वमतं निर्द्धारितम्।एवं परस्परविरुद्धार्थयोः कथमेकशास्त्र्यमुपपद्यते।उच्यते- नायं विरोधः एकशास्त्र्यविरोधी, अनुष्ठानविरोधाभावात्, तदविशेषे च वाक्यार्थवर्णनद्वैधीभावमात्रस्य पूर्वतंत्रेऽप्यध्यायभेदनदर्शनात्।तत्राहिदर्शपूर्णमासयोः “उपस्तृणात्यभिधारयति द्विर्हविषोवद्यति चतुरवत्तं जुहोति”ति श्रुतिवाक्यचतुष्टयमध्ये चतुरवत्तवाक्ये अवत्तहोमविधिः, ततोऽर्थप्राप्तमवदानमनूद्य व्द्यवदानवाक्ये हविषो द्विरवदातव्यमिति विधिः।चतुरवत्तवाक्य तु चतुश्शब्द उपस्तरणाभिधारणद्यवदानवाक्यगतप्रचयशिष्टसंख्यानुवाद इति “संयुक्ते तु प्रक्रमात्तदङ्गं स्या”दिति पाञ्चमिकाधिकरणे निरूपितम्।व्द्यवदानवाक्ये द्वित्वविशिष्टहविरव- दानविधिः, उपस्तरणाभिधारणव्द्यवदानविधिप्राप्तं चतुरवत्तमनुद्य होममात्रविधिरिति प्रकारान्तरं “उत्पत्तितादर्थ्यात् चतुरवत्तं प्रधानस्ये”ति दाशमिकाधिकरणे निरूपितम्।तत्राधिकरणयोः परस्परविरोधमाशंक्य उभयथाऽप्यनुष्ठाने विशेषाभावन्नायां विरोधो दोष इति प्रसाधितं तन्त्ररत्ने।न च वाच्यं “यां देवतां वषट्करिष्यन् स्यात्तां मनसा ध्यायेदिति” विहितं देवताध्यानं यागदेशं बादरायणमते कर्तव्यम्, जैमिनिना तु उदाहृतं देवताध्यानविधानं तत्तद्देवतावाचिशब्दध्यानविषयमिति, यतो वृत्तिकारेण “संहितमेतज्जैमिनीयेन षोडशलक्षणेनेति” कर्मविचारार्थया द्वादशलक्षण्या देवताविचारार्थया चतुर्लक्षण्या चैकतन्त्र्यं प्रतिपादितमित्युदाहृतं भाष्ये, तत्र कर्मविचारभागे द्वादशानां लक्षणानां धर्मप्रमाणतद्भेदतच्छेषशेषिभावाद्यर्थभेदस्सुलभसिद्धिः।देवताविचारभागे चतुर्णां लक्षणानामर्थभेदमित्थमाहुः, “स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकं।फलञ्च देवताकाण्डे देवतानांतु कथ्यत” इति। कर्मदेवतोपासनयोश्च विद्यसहकारित्वेन निश्रेयसार्थतया ब्रह्मविचारेण सहैकलत्वात्, व्याख्येयवेदरूपविषयैक्याच्च, सीमांसापूर्वोत्तभागयोरैकशास्त्र्यं सिद्धं।अतएव “पुराणन्यायमीमांसाधर्मशास्राङ्गमिश्रिताः।वेदाः स्थानानि विद्यानां धर्मस्यच चतुर्दश।।अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।पुराणं धर्मशास्रञ्च विद्याह्येताश्चतुर्दशेत्यादि- स्मृतिषु विद्यास्थानपरिगणने मीमांसैकविद्यास्थानत्वेन परिगणिता पूर्वोत्तरमीमांसा, भेदेषु संख्याऽतिरेकस्स्या- दित्यलं प्रपञ्चेन।
सङ्ग्रहकारिकाः।।
सिद्धं ब्रह्म न वेदान्ताः प्रतिपादयितुं क्षमाः।
कार्य एव हि शब्दानां लोके व्युत्पत्तिरादिमा।।
तस्माद्वेदाक्षरप्रायान् वेदानतानवलंब्य वा।
ब्रह्ममीमांसनं व्यर्थमिति प्राप्तेऽभिधीयते।।
अंगुळ्या निर्दिशन्तोऽर्थान् वृद्धाश्शब्दान् प्रयुंजते।
व्युत्पद्यन्ते ततोबालास्ते शब्दास्तत्परा इति।।
इत्थं सिद्धेऽपि बालानां लोकानुभवसम्मते।
व्युत्पत्तिग्रहणे कस्मात् कार्ये शक्तिर्नियम्यते।।
उक्तरूपांगुळेश्चेष्टा शकिं्त ग्राहयितुं कृता।
इति बोधे तु बालानां गतिः प्राग्जन्मवासना।।
तिर्यञ्चोऽपि हि लोके पुंध्वनिचेष्टाविशेषाणां।
तत्ततकार्यार्थत्वं विजानते पूर्वजन्मवासनया।।
अथवाऽङ्गुळिनिर्देशतत्तच्छब्दप्रयोगयोः।
साहचर्यात्तु तद्वीक्षाजातसंस्कारदार्ढ्यतः।।
तत्तच्छब्दश्रुतौ तत्तदर्थबुद्ध्युदये सति।
तत्तच्छब्दार्थयोगात्मा शक्तिर्लोकैः प्रतीयते।
इति जिज्ञासाऽधिकरणम्।।1।।
———————————————————
एवं व्युत्पत्त्यभावमूलानारम्भशङ्कानिराकरणे सिद्ध प्रतिपत्तिदौस्थ्य-
मूलानारम्भशङ्कां तत्प्रतिपत्त्यर्थलक्षणसमर्थनेन निराचिकीर्षुः किं पुनस्त-द्विचार्य ब्रह्मेत्याकांक्षायां तल्लक्षणमाह –
जन्माद्यस्य यतः।।2।।
भृगुर्वैवारुणिः वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेत्यारभ्य “यतोवा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति” श्रूयते।किमेतद्वाक्यं ब्रह्म लक्षणतः प्रतिपादयितुं शक्नोति उत नेति सृष्ट्यादीनां त्रयानां विशेषणत्वेन उपलक्षणत्वेन च लक्षणत्वासम्भवसम्भवाभ्यां संशये पूर्वपक्षः।विशेषणत्वपक्षे ब्रह्मैक्यं न सिध्द्यति, विशेषणभेदेन विशेष्यभेदापत्तेः, भेदकं हि विशेषणं, भेद्यं विशेष्यम्, अतो “खण्डो मुण्डः पूर्णश्रृङ्गो गौरश्वो महिष” इत्यादिष्विव अनिवार्यो विशेष्यभेदः।”श्यामो युवा लोहिताक्षो देवदत्त” इत्यत्र तु देवदत्तैक्यस्य प्रमाणान्तरसिद्धत्वात् न तत्र विशेष्यानेकत्वं, प्रमाणान्तरसिध्द्यभावे तु तत्रापि विशेषणभेदेन तद्भेतस्स्यादेव।अतोऽत्रानेनैव लक्षणेन लिलक्षयिषितस्य ब्रह्मणः प्रमाणान्तरेण ऐक्यानवगतेः विशेषणभेदाद्बहुत्वमवर्जनीयम्।तत्राप्येकत्वादिविशेषणभेदेन विशेष्यबहुत्वप्रतीतेः तदनुसारेण एकमित्यादिना एको व्रीहिरितिवत् साजात्यविषयतोपपत्तः।नवात्रैव “तद्ब्रह्म”त्येकवचनात्तदैक्यसिद्धिः, मोस्स्वरूपं जिज्ञासमानं प्रति “खणडो मुण्डः पूर्णश्रृङ्गो गौ”रित्यत्र वाक्ये गोशब्दगतैकवचनस्येव जातिविषयत्वोपपत्तेः।नह्येकएव गौः खण्डो मुण्डः पूर्णश्रृङ्गश्च भवति, खण्डत्वादीनां परस्परविरुद्धत्वात्, तत्रैकवचनं जातिविषयञ्चेत्, इहापि स्रष्ट्टत्वादीनां भेदकस्वभावानां भेदकस्वभावानां विरुद्धत्वादेकवचनं जात्येकविषयं वाच्यमिति तुल्यम्।अपि च स्रष्ट्टत्वसंरक्षकत्वयोस्संहर्तृत्वेन अनयथाऽस्ति विरोधः, न हि पुत्रमुत्पाद्य यतेन तत्संरक्षकः पिता तस्य सहर्ताऽपि भवति।एतेन उपलक्षणत्वपक्षोऽपि निरस्तःस, विरुद्धधर्माणामेकोपलक्षणत्वासम्भवात्।किञ्च आकारान्तराप्रतिप्रत्तेरपि उपलक्षणत्वं न सम्भवति।उपलक्षणेन लक्ष्यप्रतिपत्तौ हि उपलक्षणं उपलक्ष्याकारः उपलक्ष्यस्य प्रतिपन्नाकारश्चेति आकारत्रयमपेक्षितं , यथा “यत्रायं शरारिः पक्षिविशेषस्समित्रकेदार” इत्यत्र हि शरारिसम्बन्ध उपलक्षणं, मित्रस्वामिकत्वं उपलक्षयं, केदारत्वं पूर्वप्रतिपन्नाकारः।”शाखाग्रञ्चन्द्र” इत्यत्र शाखाग्रमुपलक्षणं, कालाविशेषे शाखाग्रोर्ध्वदेशसंबन्ध उपलक्ष्याकारः, चन्द्रस्वरूपं पूर्वप्रतिपन्नाकारः।अस्मिन् ज्योतिर्मणडले कश्चन्द्र इति पूर्वप्रतिपत्तिसाध्यायां बुभुत्सायामेव शाखाग्रञ्चन्द्र इति उत्तरावतरणात् प्रत्यक्षप्रतीतः प्रकृष्टप्रकाशदिर्वा पूर्वप्रतिपन्नाकारः।ननु च अत्रापि सत्यज्ञानादिकावाक्यतः प्रतिपन्नं पूर्वप्रतिपन्नोपलक्ष्याकारोऽ- स्तीति चेन्न।तत्रापि सत्यज्ञानादीनां विशेषणानां भेदेन विशेष्यभेतापत्त्या विशेषणत्वासंभवात्, आकारान्तराप्रतिपत्त्या उपलक्षणपक्षस्याप्यसम्भवात्, “यतोवा इमानी” त्यादिवाक्यप्रतिपन्नाकारान्तरसमाश्रयणे परस्पराश्रयापत्तेः, अतो
विशेषणोपलक्षणपक्षद्वयस्याप्यसम्भवात् न ब्रह्म प्रतिपत्तुं शक्यमिति।एवं प्राप्ते सिद्धान्तः-लक्षणमुखेन ब्रह्म प्रतिपत्तुं शक्यमेव।न च अभेदेऽपि विशेषणभेदायत्तविशिष्यभेदप्रतीतिस्तत्प्रतिपत्तिबाधिका, “श्यामो दीर्घ” इत्यादाविव विशेष्यभेदेऽपि विशेष्याभेदोपपत्तेः।ननु विशेषणभेदे विशेष्यभेद औत्सर्गिकः, “खण्डो मुण्ड” इत्यादौ दर्शनात्, “श्यामो दीर्घ” इत्यादौ मानान्तरसिद्धविशेष्यैक्यप्रतीतिस्तद्बाधिकेत्युक्तमिति चेत् सत्यमुक्तम्।दुरुक्तन्तु तत्, विशेषणभेदेऽपि विशेष्यैक्यमौत्सर्गिकं, “खण्डो मुण्ड” इत्यादौ विशेषणानां विरोधस्तद्बाधकइत्येव उत्सर्गापवादव्यवस्थाकल्पनौचित्यात्।किमत्र विनिगमकमिति चेत्, ऐक्यस्य औत्सर्गिकत्वकल्पने लाघवं, भेदस्य औत्सर्गिकत्वकल्पने गौरवमित्येतद्विनिगमकं, “श्यामो दीर्घ” इत्यादौ श्यामत्वादीनां गौरादिभेदकत्वेन विशेषणत्वमुपपद्यते, एवं “तद्ब्रह्मे”त्येकवचनावगतविशेश्यैक्यमपि विशेषणभेदायत्तविशेष्यभेदबाधकं, एकवचनस्य हि व्यक्त्वैक्यविषयत्वमौत्सर्गिकम्।”खण्डो मुण्ड” इत्यादौ तु विशेषणानां विरोधात्तत्त्यागः, तत्रापि विशेषणानां विशेष्यभेदकत्वं “खण्डो मुण्ड” इत्यादावौत्सर्गिकं “श्यामो युवाऽय”मित्यादौ मानान्तरतो-विशेष्यैक्यावगत्या तत्त्यागः इति, विपरीतोत्सर्गापवादव्यवस्थाकल्पनप्रतिक्षेपे व्यक्त्यैक्यविषयतौत्सर्गिकत्वकल्पने लाघवं इन्याथा गौरवमित्येन विनिगमकमनुसन्धेयम्।एवं लोकसाधारणमिदं विनिगमकं, विशिष्यमात्र, “यतोवे”त्यादिवाक्यस्य यच्छब्दयोगेन “सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतानास्सत्प्रतिष्ठा” इति श्रुत्यन्तरसिद्धसृष्ट्यादिकारणानुवाद- कत्वप्रतिपत्तेः श्रुत्यनत्रसिद्धसर्वविज्ञानप्रतिज्ञानुरोधात् एककारणविषयत्वावश्यम्भावेन पुरोवादप्रतिपन्नौककारणविष- यत्व वाच्यमिति अन्यद्विनिगमकं।तथा च यथा “यदि रथन्तरसामा सोमस्स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयात् यदि बृहत्सामा शुक्राग्रा” निति ज्योतिष्टोमप्रकरणाम्नातरथन्तरसामत्वबृहत्सामत्वविशेषणयोः तत्प्रकरणाम्नातगा- यत्राऽमहीयवादिसामान्तरव्यावर्तकत्वं नास्ति, एवमिहापि सृष्टिकारणत्वस्य पुरोवादप्रतिपन्नस्थितिलयकारणत्वव्या- वर्तकत्वं नास्तीति युक्तमुत्पश्यामः।नच उत्पाद्य संरक्षितवतस्संहर्तृत्वं विरुद्धमिति शङ्कनीयं, उत्पादनसंरक्षणयो- रिव संहारस्यापि कालभेदेनाविरोधात्।स्वयमुत्पाद्य संरक्षितानाम सस्यानां कालान्तर लवनदर्शनात्, तत्तत्सृज्य- कर्मानुसारिण ईश्वरस्य तत्तत्संहारे वैषम्यनैर्घृण्यदोषानापत्तेर्वक्ष्यमाणत्वाच्च।एवञ्च उपलक्षणपक्षेऽपि न दोषः।यथा द्दष्टान्ते शरारिरलक्षणं, मित्रकेदारत्वं मुपलक्ष्याकाररः, केदारत्वसामान्यं पूर्वप्रतिपन्नाकारः, एवमिहापि जगज्जन्मस्थितिलयकारणत्वमुपलक्षणं, तदुपलक्ष्याकारो लक्ष्मीपतित्वं, उपलक्षणस्य जन्मादिकारणत्वस्य अनूद्यमानस्य पुरुषसूक्तरूपपुरोवादानुसारेण “ह्रीश्चते लक्ष्मीश्च पत्न्या”विति तत्रत्यमन्त्रप्रतिपन्ने लक्ष्मीपतौ पर्यवसानात्।न हि “सन्मूला” इति छन्दोगश्रुतिरेव पुरोवादः, विनिगमनाविरहेण कारणवस्तुसमर्पकाणां पुरुषसूक्ता- दीनामपि पुरोवादत्वानिवारणात्।ब्रह्मत्वं पूर्वप्रतिपन्नाकारः।तद्धि केदारत्वं प्रत्यक्षतोऽनेककेदारसाधारण्येनेव बृहतेर्धातोरर्थानुगमेन “यस्माद्बृहति ब्रह्मयति तस्मादुच्यते परंब्रह्मे”ति श्रुत्या “बृहत्त्वाद्ब्रह्मणत्वाच्च तद्ब्रह्मेत्यभिधीयत” इति स्मृत्या च भगवति पुरुषोत्तमेऽवगम्यमानं मंत्रार्थवादावगतनानाविधमहिमशालिब्रह्माद्यनेक- देवतासकाधारण्येन प्रतिपन्नं, एवं लक्षणमुखेन पुरुषोत्तम एव ब्रह्मत्वपर्यवसानात् “नारायणपरंब्रह्म”त्यादिश्रुतिः।ननु बृहतिधातोर्मनिन्प्रत्ययान्तस्य बृहत्त्वमात्रमर्थः, कथं ब्रह्मणत्वमपि तदर्थइति वर्ण्यते।उच्यते—ब्रह्मणत्वं हि स्वसङ्कल्पेन चेतनाचेतनस्थूलपरिणामहेतुत्वं, तदपि स्वरूपतो गुणतो विभूतितश्च बृहत्त्ववाचिना ब्रह्मशब्देन क्रोडीकृतमेव।ननु लक्षणस्य विशेषणोपलक्षणत्वपक्षद्वयं परस्परविरुद्धं क्थं परगृहीतं, ज्ञाप्यान्वयिव्यावर्तकं विशेषणं, तदनन्वयिव्यावर्तकमुपलक्षणमिति भेदमाहुः।सत्यं।इहापि उपासनाभेदेन जन्मादिकारणत्वस्य अन्यानन्व- याभ्यां पक्षद्वयोपपत्तिः, यथा शांडिल्यविद्यायां-“सर्वं खल्विदं ब्रह्म तज्जला”नित्युपास्यकोटावन्वितं तद्विशेषणं, व्याहृतिशरीरकाङ्यादित्यमण्डलस्थपुरुषोपासनायां उपास्यब्रह्मस्वरूपप्रदर्शकतयोपलक्षणम्।यदि “कारणन्तु ध्येय” इत्यर्थवशिखावचनं सर्वेषु उपासनेषु कारणत्वस्य उपास्सर्वोपासनानुगता गुणा विशेषणानि, केषुचिदेवोपासनेषु व्यस्थिता गुणाः ते तदन्योपासनेषु उपलक्षणानीति शिष्यशिक्षार्थं जन्मादिकारणत्वे स्थित्वा पक्षद्वयं भाष्यकारैर्दर्शितं।यद्यपि जन्मकारणत्वादिकमेकैकमप्यनतिव्याप्तं लक्षणं भवितुमर्हति, तथाऽपि ब्रह्मविष्णुरुद्राः कारणपुरुषाः परस्परभिन्नाः प्रत्येकं जन्मादिषु कारणानीत्यनादि प्रवादप्राप्तशङ्काव्यावृत्त्यर्थं समुदितलक्षणाश्रयण- मिति सर्वमनवद्यं।सत्यज्ञानादिवाक्योक्तब्रह्मलक्षणान्तरस्योपयोगः तदर्थश्च “आनन्दादयः प्रधानस्ये” त्यधिकरणे दर्शयिष्यते।।
सङ्ग्रहकारिकाः।।
जन्माद्यस्येति यतस्तद्ब्रह्मेति न लक्षणं युक्तं।
तच्चोद्विशेषणतया लक्ष्म ब्रह्मापि भिद्येत।।
औत्सर्गिकं विशेषणमखिलान्यविशेषधर्मजातस्य।
व्यावर्तकमिति हेतोस्तद्भेदे तद्विशेष्यभिदा।।
उपलक्षणता नभवत्युपलक्ष्याकारवैधुर्यात्।
अवगतकिञ्चिद्रूपे रूपान्तरबोधकं खलु तत्।।
केदारतया द्दष्टे धर्मिणि तद्बोद्धृवाक्येन।
पक्षी यथा शरारिः स्वमित्रकेदारतागमकः।।
तस्माल्लक्ष्ममुखेन ज्ञातुं न ब्रह्म शक्यमुद्दिष्टम्।
इति संकाऽपाक्रियते पक्षद्वयमप्युरीकृत्य।।
श्यामो युवा लोहिताक्षो देवदत्त इतीरिते।
विशेषणानां भेदेऽपि विशेष्ये नहि भेदधीः।।
खण्डो मुण्डः पूर्णश्रृङ्गो गौरित्यत्रतु भेदधीः।
खण्डत्वादिविरोधेन नत्वत्रास्ति विरोधिता।।
उपलक्षणता वाऽस्तु प्रतिपन्ने बृहत्तया।
मन्त्रार्थवादादिवशात्प्रतिपन्नाहि तत्र सा।।
बहुषु प्रतिपन्ने तैर्बृहत्वे द्रुहिणादिषु।
तेषु ब्रह्म विनिश्चेतुं लक्षणोक्तिरियं श्रुतौ।।
यथा साधारणेनैव केदारत्वेन निश्चिते।
मित्रकेदारताबुद्धिर्व्यक्तिभेदे शरारिणा।।
एवं ब्रह्मादिसामान्यबृहत्त्वेन विनिश्चिते।
श्रीपतौ कारणत्वेन निराघाटा बृरत्त्वधीः।।
सर्वकारणवाक्यानां वैशेषिकवचोबलात्।
पशुच्छागनयस्थित्या तस्मिन्नेव हि विश्रमः।।
इति जन्माद्यधिकरणम्।।2।।
—————————————
अथ ब्रह्मणो मानान्तरसिद्धिमूलशास्त्र।नारम्भशङ्कानिराकरणाथै तृतीयमधिकरणं –
शास्रयोनित्वात्।।3।।
यतोवेत्यादिवाक्यं तत्पुरोवादसहितं जगत्कारणं ब्रह्म प्रतिपादयतीत्युक्तमनुपपन्नम्।ब्रह्मणोऽनुमानगम्यत्वेन तत्र शास्रस्य प्रामाण्यासंभवात् इत्याक्षेपिकी अवान्तरसङ्गतिः।ब्रह्मणि शास्रस्य प्रामाण्यं सम्भवति न वेति, तस्यानुमानगम्यत्वतदगम्यत्वादाभ्यां संशये पूर्वपक्षः।न सम्भवति तत्र प्रामाण्यं, महीमहीधरादिकं सकर्तृकतं कार्यत्वात् घटवदिति सावयवत्वानुमितकार्यत्वलिङ्कस्य नैयायिकोक्तस्य तदनुमानस्य जागरूकत्वात्। कार्यत्वलिङ्गं सावयवत्वं न सांशत्वमात्रं, येन कालवियदादिसांशत्ववादीनां तेषु व्यभिचारस्स्यात्।यदवयवाः ततः परस्माच्च पुरुषयत्नेन वियोजनार्हाः तत्सावयवमिति विवक्षितं, अतोनक्वापि व्यभिचारशङ्का।एवं मानान्तरप्राप्ते- ऽर्थे शास्रस्य प्रामाण्यं न सम्भवति।ननु निमित्तमात्रेश्वरसाधकेनानुमानेन अभिन्ननिमित्तोपादानत्वरूपस्य शास्रार्थस्य प्राप्तिर्नास्तीतिचेत्-न।अनुमानविरोधेन तस्मिन्नर्थे शास्रस्याप्रामाण्यात्।ननु बलवत्प्रमाणेन शास्रेण विरोधात् अनुमानमेवाप्रमाणमिति चेन्न।ईश्वरानुमानमनपेक्ष्य शास्रप्रामाण्यस्यैव निर्वोढुमशक्यत्वात् “मन्त्रायुर्वैदवत्तत्प्रामाण्यमाप्तप्रामाण्या”दिति न्यायसूत्रकृता शास्रस्य प्रामाण्यमीश्वरनिर्मितत्वेनैव प्रसाधितं, तत्प्रसाधनं शास्रप्रामाण्यसिद्धिः प्रागेव अनुमानेनेश्वरसिद्धिमपेक्ष्त इति उपजीव्यविरोधात्, उपादानत्वांशे उपजीव्यतः प्राप्तर्थत्वात् निमित्तत्वांशेच शास्रमप्रमाणम्।न च ईश्वरनिर्मितत्वमनपेक्ष्य महाजनपरिग्रहादेव शास्रस्य प्रामाण्यमुपपद्यत इति वाच्यं।अन्यपरम्पराशङ्कानिराकरणाय महाजनपरिग्रहे गुणवद्वक्तकत्वरूपमुपदार्ढ्या- पेक्षणात्।एवं शास्रस्य अनुमानापेक्षप्रवृत्तिकत्वादेव “तत्तेजोसृजते”त्यादिवाक्यैः यदीक्षापूर्वकस्रष्ट्टत्वरूपं कर्तृत्वमुक्तं, तदनुमानमूलमिति व्यञ्जयितुमेव “अनेन शुङ्गेनापोमूलमन्विच्छ अद्भिस्सोम्यशुङ्गेन तेजोमूलमन्विच्छ तेजसासोम्यशुङ्गेन सन्मूलमन्विच्छे”ति कारणानुमानं प्रदर्श्य “सन्मूलास्सोम्येमाः प्रजाः” इत्याद्युक्तं।ननु ईश्वरस्य कर्तृत्ववदुपादानत्वस्यापि प्रतीतेः, नहि कर्तृमात्रविषयमिति चेन्न।घटादिषु कुलालादेः याद्दशं कर्तृत्वं द्दष्टं, ताद्दशकर्तृत्वाधिकरणत्वेनैव हि ईश्वरोऽनुमानेन साधनीयः।कुलालादिषु मृत्पिण्डादिसकलोचेतनद्दष्टकारणाधिष्ठातृत्वरूपमेव कर्तृत्वन्द्दष्टमिति, द्दष्टानुरोधात् तथाभूतकर्तृत्वेनेश्वरानुमानं निमित्तोपादानभेदगर्भं कथमुपादानत्वांशे शास्रप्रामाण्यप्रतिक्षेपकं नस्यात्।तस्माल्लक्षणोक्तिमात्रेण चारितार्थ्याभावात् लक्ष्ये तस्य लक्षणवेशिष्ट्ये च प्रामाण्यस्य वक्तव्यत्वात्।इह च अभिन्ननिमित्तोपादानत्वरूपे लक्षणे वेदान्तानां प्रामाण्यासम्भवात् वेदान्तमुखेन कर्तव्यतयाऽभिमतो ब्रह्मविचारो न कर्तव्य इति तदर्थमिदं शास्रन्नारम्भणीयमिति। एवं प्राप्ते सिद्धान्तः-महीमहीधरमहार्णवादीनामेकेन कर्त्रा युगपतकृतत्वेनैव सकर्तृकत्वं निर्वाह्यमित्यत्र प्रमाणन्नास्ति।महतो देवालयस्य प्रासादमण्डपगोपुरप्राकारदीनामिव तेषां क्रमेण बहुभिः कृतत्वेनापि सकर्तृकत्वोपपत्तेः।प्रत्युत महीमहीधरादिकमनेककर्तृकं, यावत्संप्रतिपन्नैककर्तृकघटादिभ्यो महाकार्यत्वात्, गोपुरप्राकारवदिति बहुकर्तृकत्वस्यैव अनुमातुं शक्यत्वाच्च।न च लाघवात्कर्त्रैक्यसिद्धिः, नहि प्रसिद्धसंसारिविलक्षणा बहवः कर्तारः कल्प्यन्ते, किन्तु तेष्वेव केचित्कर्मोपासनाविशेषैरुपचितपुण्यविशेषाः क्षित्यादिषु कस्यचित्कस्यचित्कालविशेषेषु कर्तारः कल्प्यन्ते।प्रसिद्धं हि अगस्त्यविश्वामित्रादीनां विन्ध्यस्तंभनमहार्णवचुळकीकरणस्वर्गान्तरसृष्ट्यादिकं सामर्थ्यं, अद्यतनेष्वंकुरादिष्वपि सूक्ष्मव्यवहितविप्रकृष्टार्थ- ज्ञानादिमनतस्तत्र सन्तो योगिनः कर्तारस्सम्भवन्ति।अतओः क्षित्यादिसकलोपादानगोचरापरोक्षज्ञानचिकीर्षादिमतः संसारिविलक्षणस्य कस्यचित्कर्तुः कल्पन एव धर्मिकल्पनागौरवम्।एवं च घटादिद्दष्टान्तेन क्षित्यङ्कुरादीनां शरीरजन्यत्वसिद्धिरप्यनिवारिता भवति।किं च लाघवादेकः कर्ता सिध्यन् प्रसिद्धसंसारिविलक्षणः सिध्द्यतीति कोऽर्थः।किं वस्तुतः एकः कर्ता सिध्द्यतीतिस उत एकत्वविशिष्टस्सिध्द्यतीति।नाद्यः।एकत्वाविषयत्वे वस्तुतः एकः कर्ता सिध्द्यतीति, उत एकत्वविशिष्टस्सिध्द्यतीति।नाद्यः।एकत्वाविषयत्वे वस्तुत एकः कर्ता विषय इति निर्णेतुमशक्यत्वात्।न द्वितीयः।एकत्वस्य संख्यारूपत्वे प्रत्येकन्तद्वैशिष्ट्यसत्वेन तत्सिद्धेः बहुकर्तृत्वाविरोधित्वात् अनेककर्तृकत्वाभावविशिष्टं सकर्तृकत्वं साध्यमिति चेन्न।गोपुरादिषु व्यभिचारात्, लघुविषयोपनायकतया त्वदभिमतस्य लाघवस्य बहुविषयोपनायकत्वापत्तेश्च।नह्येवं संप्रतिपन्नं प्रमाणानुग्राहकमस्ति, यदग्रे वस्तुलाघवसिध्द्यर्थं स्वानुग्राह्यप्रमाणस्य विषयगौरवमापादयेत्, तथासति इष्टपुरोवर्तिज्ञानस्य प्रवत्तिकारणतां गृह्णतः प्रमाणस्य अनुग्राहको लाघवतर्कः, भ्रमस्थले व्यधिकरणाप्रकारकज्ञानस्य अकल्पनया अग्रे वस्तुलाघवसिध्द्यर्थं भेदाग्रहमेव कारणतावच्छेदकत्वेनोपनयेत्, न तु ज्ञानवित्ति वेद्यतयोपस्थितं वैशिष्ट्यम्, अतो लाघवात्कर्त्रैक्यसिद्धिरित्ययुक्तमेव।एतेन साध्यमानस्य कर्तुः कर्तृतोपयुक्तानां अपरोक्षज्ञानचिकीर्षाकृतीनां लाघवात्प्रत्येकमेकत्वासिद्धौ तदाश्रयकर्त्रैक्यसिद्धिरत्यपि निरस्तम्।कर्त्रैक्यसिद्धिपक्षोक्तविकल्पमुखदूषणानामत्रापि सत्वात्, कस्यचिज्ज्ञानं कस्यचिच्चिकीर्षा कस्यचित्कृतिरित्येवमाश्रयभेदसिद्धिनिवारणाय पुनस्तदाश्रयैक्यस्यापि साधनीयत्वापत्तेः।न हि ईश्वरज्ञानादीनां त्वन्मते नित्यानां जन्मजनकभावोऽस्ति, येन समानाधिकरणानामेव तेषां जन्मजनकभावदर्शनात् तदाश्रयैक्यं सिध्येत्, एवं च तेषामेकैकत्वहेतुकनित्यत्वासिद्धेः, एवं च योगिनामपरोक्षज्ञानादिभिरपि सिद्धसाधनमनिवार्यम्।न च क्षित्यंकुरादिजननपूर्वक्षणे तत्र तत्र तेषां सन्निधानमक्लृप्तमिति वाच्यम्।”धर्मिकल्पतो वरं धर्मकल्पने”ति न्यायेन योगशास्रादिप्रमाणकानां तेषां सन्निधानमत्रस्य कल्पनौचित्यात्।ननु अनुमानेन कर्तृमात्रसिद्धौ “द्यावाभूमी जनयन् देव एक” इत्यादिश्रुतितस्तदैक्यसिद्धिरस्त्वतिचेत्, तर्हि अनुमानेन अप्रत्याख्यातानां भगवतो निरतिशयानन्दाद्यनन्तकल्याणगुणानां नित्यविग्रहस्य “तदैक्षते”त्यादिश्रुतिसिद्धतत्तत्सृट्यादिसङ्कल्पाद्यनित्यत्वस्य च ततस्सिद्धिर्ननिवार्येति, न नित्यानुवर्तमानशरीररहितनित्यापरोक्षज्ञानादिविशेषगुणत्रययुक्तनैयायिकाभिमतेश्वर- सिद्धिरिति, न तदनुमानसिद्धेश्वरानुवादकत्वादिना शास्कस्याप्रामाण्यप्रसक्तिरिति, प्रमाणभूतेन शास्रेण जगत्कारणत्वसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाधारपुरूषोत्तमाभिधपरब्रह्मसिद्धिरप्रतयूहेति सिद्धम्।।
सङ्ग्रहकारिके।।
जगतः कारणं ब्रह्म सिध्द्यत्येवानुमानतः।
अतो विचार्या वेदान्ता न तत्सिद्धानुवादिनः।।
नैतत्साध्वनुमानाद्धि कर्त्रैक्यादि न सिध्यति।
अतस्तत्कारणं ब्रह्म वेदान्तैकप्रमाणकम्।।
इति शास्रयोनित्वाधिकरणम्।।
—————————————-
एवं मानान्तरसिद्धिमूलाप्रामाण्यशङ्कानिमित्तकशास्रानारभशङ्कानिवारिता –अथ अफलत्वनिबंधनतदनारंभशङ्करणार्थं चतुर्थमधिकारणम् —
तत्तुसमन्वयात्।।4।।
वेदान्तानां सिद्धरूपे ब्रह्मणि मानान्तराप्रवृत्तावपि प्रामाण्यं न सम्भवति, सिद्धरूपब्रह्मपरवाक्यस्य प्रवृत्तिनिवृत्तिपरवाक्यस्येव पुरूषार्थ- पर्यवसायित्वासम्भवेन श्रोतृणां तत्र बुभुत्सा नोदेतीत्यबुभुत्सिते श्रोतृणां प्रमित्यनुदयेन तेषां प्रामाण्योक्तेर्निरालम्बनत्वात्। न च यथा केनापि हे- तुना रथ्यायां पतितस्य किरातैस्संनर्धितस्य
किरातपुत्रोऽहमित्यभिमन्यमा नस्य राजकुमारस्य “न त्वं किरातपुत्रः, किं तु राजकुमारः, तव पिता महाराजस्तरूणो निरतिशयभोगशालि राजयं परिपालयन्नास्त, इति सिद्धार्थ वाक्यश्रवणेन हर्षो जायते, एवमिहापि तव अन्येषां च पितृस्थानीयो निखिलहेयप्रत्यनीकसर्वज्ञत्वसत्यसङ्कल्पदयादाक्षिण्यमहोदारत्वाधनन्त कल्याणगुणशालि भगवानास्त” इति वाक्यश्रोतुर्महान् हर्षोजायते, स च तत्पाप्युपायमन्विण्य तं प्राप्नोति” त्येवं सिद्धार्थवाक्यस्यापि हर्षतुत्वेन पुरूषार्थपर्यवसानमुपपधत इति वाच्यं। तस्य हर्षस्य रा जकुमारहर्षस्येव तात्कालिकत्वेन मुक्तेः स्थिरषुरूषार्थत्वाभावापत्तेः। न च तं प्राप्तस्य तदीयनिरतिशयानन्दानुभवस्सदा वर्तमाननोभवति, सस्स्थिर पुरूषार्थस्स्यादिति वाच्यम्। परकीयानन्दज्ञानस्य परं प्रत्यपुरूषार्थत्वादिति पुर्वपक्षः। सिद्धान्तस्तु- तात्कालिकहर्षस्तावदस्त्येव। ब्राह्मनिरतिशयानंद साक्षात्कारक्ष्च ब्रह्मणा सह भोगसाम्यसहितः स्थायी पुरूषार्थः, नतु तत्र स्वकीयत्वमपेक्षितं, साक्षात्कारत्वविशेषणे अतीतस्वकीयसुखादिस्मरणस्यापि सुखसाक्षात्कारवत्पुरूषार्थत्वप्रसङ्गात्, तद्धिशेषणे ततएवातिप्रसङ्ग निवारणेन स्वकीयत्वविशेषणानपेक्षणादिति–
संग्रहकारिके।
तथाऽपि सिद्धरूपेऽस्मिन् वेदान्तानां नमानता।
प्रवृत्त्यादिपरत्वस्याभावादफलशालिनां।।
मैवं स्वमन्दिरान्तस्थनिधिबोधकवाक्यवत्।
ताद्दग्ब्रह्मावबोघित्वात्ते स्वतः फलशालिनः।।
इति समन्वयाधिकरणम्।।4।।
———————————-
एवं शास्त्रानारम्भहेतुशंकाचतुष्टयनिराकरणक्मेऽध्यायकमोहेतुः, तत्र सिद्धरूपे ब्रह्मणि व्युत्पत्तिसमर्थनं समन्वयाध्यायोपयोगि, विशेषणा नामविरोधसमर्थनमविरोधाध्यायोपयोगि, अनुमानतस्सिद्धिनिराकरणं साधनाध्यायोपयोगि,अनुमनातस्सिद्धौ हि अनुमानसिद्धज्ञानादित्रयवत्तया संरव्यादिपञ्चकवत्तया च ब्रह्मोपासना सिद्धेत्, नत्वानन्दादिगुणवत्तया। पुरूषार्थपर्यवसानवर्णनन्तु फलाध्यायोपयोगीति स्पष्टमेव। एवं उपोद्धाताधिकरणचतुष्टयेन शास्रारम्भे समार्थिते सति ईक्षत्यधिकरणमारभ्य शास्रं प्रतायते।।
ईक्षतेर्नाशब्दं।।5।।
गौणश्चेन्नात्मशब्दात् ।।6।।
तन्निष्टस् मोक्षोपदेशात् ।।7।।
हेयत्वावचनाच्च ।।8।।
प्रतिज्ञाविरोधात् ।।9।।
स्वाप्ययात् ।।10।।
गतिसामान्यात्।।11।।
श्रुतत्वाच्च।।12।।
शास्त्र काण्डद्विकाध्यायपादसंगतयस्स्फुटाः। पेटिकासंगतिर्वाच्या तथाऽवान्तरसङ्गतिः।। वेदार्थविचारत्वाद्ब्रह्मकाण्डसङ्गतिः, कारणविषयत्वात् द्विकसंगतिः, कारणवाक्यसमन्वय विषयत्वादध्यायसंगतिः, स्पष्टतरप्रधानजीवलिंगवाक्यविषयत्वापादसंगतिरिति पञ्चसङ्गतयस्स्फुटाः। पेटिकासङ्गतिरवान्तरसङ्गतिश्च वक्तव्योच्यते– ब्रह्म जगतः कारणमेव नभवति, किन्तु प्रधानजीवाकाशादिकमिति शङ्कानिरासेन ब्रह्मकारणत्वायोगव्यवच्छेदः, उपोद्घाताधिकरणचतुष्टयानन्तरप्रथमपादशेषरूपपेटिकार्थ इति पेटिकासङ्गतिः। कारणत्वाक्षिप्ताः ब्रह्मणस्सर्वज्ञत्वसत्यसङ्कल्पत्वादिगुणास्तत्क्रतुन्यायेन मुक्तप्राप्या गुणाः, तस्य महाभोगशालित्वगुणः निरञ्चनः परमं साम्यमुपैति। “भोगमात्र साम्यलिंगाच्चे”ति श्रुतिस्मृत्यनुसारेणापि मुक्तप्राप्योगुणः, ब्रह्मणोनिरतिशयानन्दस्तु मुक्तस्य स्वयमप्राप्योऽपि सदाऽस्वाद्य इत्यनन्तकल्याणगुणाकरस्य निरतिशयमहानन्दशालिनः परब्रह्मणः प्रतिपादनं पुरुषार्थपर्यवसायि भवत्येवेति हि समन्वयाधिकरणे विवक्षितं, तदयुक्तं, सर्वेषां कारण वाक्यानां प्रधानविषयत्वादित्याक्षेपिकी अवान्तरसङ्गतिः। छान्दोग्ये श्रूयमाणा “सदेवसोम्येदमग्र आसी”दित्यादिरूपा सद्विद्या खलु कारणवाक्येषु सारभूता, सा तावन्न ब्रह्मप्रतिपादिनी। किंतु सांख्यानुमानसिद्धप्रधानानुवादिनी, “सदेवसोम्येदमग्रआसी”दिति प्रतिज्ञानिर्देशेन यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादिति दृष्टांतोपादानेन अनुमानसिद्धार्थानवादकत्वस्य स्वयमेव श्रुत्या स्फुटीकरणात्। नच अचेतनस्य प्रधानस्य ईक्षणं नसम्भवतीति तदैक्षते ति श्रवणमनुपपन्नं स्यादिति वाच्यम्। “वृष्टिप्रतीक्षाश्शालयः”। वृष्ट्या मोदमानाश्शालयः कन्दलन्ती त्यादिव्यवहारेषु अचेतनानामपि चेतनवदुपचारदर्शनात्, कूलंपिपतिषती त्यत्र कूलस्य पतनकार्यौन्मुख्ये गौणेव्यवहारवत् सतः तेजस्सृष्टिकार्यौन्मुख्ये गौणेक्षणव्यवहारोपपत्तेः, “तत्तेजऐक्षत”। ता आप ऐक्षन्ते ति गौणेक्षणप्रायपाठेन सदीक्षणस्यापि गौणत्वनिर्णयाच्चेति पूर्वपक्षः। सिद्धान्तस्तु– प्रतिज्ञातावत् प्रत्यक्षाद्यवगतार्थबोधनसाधारणी, दृष्टान्तनिर्देशोऽपि प्रतिज्ञातार्थस्य बुद्यव्यारोहार्थतया अन्यथासिद्धः, तत्साधारण एव। अन्यथा “येनाश्रुतं श्रुतं भवती”ति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा बुध्द्यारूढा नस्यात्, हेतुवचनमात्रमनुमानासाधारणन्तदिह न श्रूयते। ननु अन्नेन शुङ्गेनापोमूलमन्विच्छ अद्भिस्सोम्यशुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्चे ति वाक्येषु अन्नादिकार्यरूपलिङ्गेन कारणानुमानमुपन्यस्तं दृश्यते– सत्यं– उपक्रमोपसंहारावभ्यासोऽपूर्वताफलं। अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णय इति श्रुतितात्पर्यनिर्णायकलिङ्गेषु परिगणितमुपपत्तिरूपमिदं लिंगं नत्वत्र प्रधानसाधकत्वेन सांख्याभिमतस्य कस्यचिल्लिंगस्य निर्देशोऽस्ति, सर्वे कार्ये सुख दुःखमोहात्मकद्रव्यप्रकृतेकं, तत्समन्वितत्वात्, सामान्यव्याप्तौ घटादिवदित्यादिकं हि सांख्यानां प्रधानसाधकमनुमानमभिमतं, नतदिहश्रुत्याकटाक्षेणापि वीक्षितमस्ति। गौणेक्षणप्रायपाठस्तु नसदीक्षणस्य गौणत्वापादकः, सन्#िध्याम्नानलक्षणप्रायपाठरूपपञ्चमप्रमाणस्य ईक्षणश्रुतितद्वाच्येक्षणलिंगबाधकत्वायोगात्। किञ्च “ऐतदात्म्यमिदं सर्व तत्सत्यं सआत्मे”ति सर्वस्य प्रपञ्चस्य सदात्मकत्वोक्तिः तदुद्देशेन सतआत्मत्वोक्तिश्च अचेतने प्रधाने नघटते। एवञ्च सर्वस्य प्रपञ्चस्य आत्मभूतं तेजःप्रभृतिशरीरकं सदेव तत्तेज ऐक्षते त्यादिषु ईक्षितृत्वेन विवक्षितमिति नगौणेक्षणप्रापयपाठशङ्कापि। अपि च मुमुक्षोः स्वेतकेतोः तत्वमसी ति सदात्मकत्वानुसन्धानमुपदिश्य “तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथसंपत्स्य” इति तत्फलतया शरीरपातानन्तरं मोक्षउपदिश्यते। नच प्रधाननिष्ठस्य मोक्ष इति सांख्यानामप्यभिमतं मोक्षउपदिश्यते। नच प्रधाननिष्ठस्य मोक्ष इति सांख्यानामप्यभिमतं, तेषामपि मुमुक्षूणां हेयमेव हि तदभिमतं, अतोहेयत्वावचनादपि न सत्प्रधानं। सर्वविज्ञानप्रिज्ञाविरधादपि नसत्प्रधानं, नहि प्रधानज्ञानेन तत्कार्यतया तदभिन्नस्य महदादिकार्यवर्गस्य ज्ञातत्वसम्भवेऽपि चेतनवर्गस्य ज्ञातत्वमुपपद्यते। अपिच सुप्तपुरुषस्य सता सोम्य तदा सम्पन्नोभवतीति सत्सम्पत्तिमुपदिश्य स्वमपीतोभवती ति तस्याः स्वाप्ययरूपत्वं सङ्कीर्तितमिदं सद्ब्रह्मेति पक्षे घटते, पुरुषः सुषुप्तेः प्राक् ज्ञानविकासादिरूपस्थूलाकारविशिष्टजीवशरीरकः कार्यरूपः परमात्मा सुषुप्तौ तमाकारं परित्यज्य ज्ञानसङ्कोचरूपसूक्ष्माकारविशिष्टजीवशरीरके स्वस्मिन् कारणरूपे लीनो भवतीति। अपिपूर्वकस्य इण्धातोर्लयार्थत्वात् “सर्वस्य प्रभवाप्ययौ हि भूतना”मित्यादिश्रुत्यंतरेषु भवाप्ययौ हि भूताना मि#्यादिगीतावचनेषु च तस्य तादर्थ्यदर्शनात्, सच्छब्दस्य च अत्र कारणवस्तुपरस्य सूक्ष्मचितचिद्वस्तुशरीरक परमात्मपरतायालक्षणसूत्रे दर्शितत्वात्। सत्प्रधानमिति पक्षेतु स्वाप्यसङ्गीर्तनं नघटते, प्रधाने स्वशब्दस्य स्वीयपरतयोपपत्तावपि जीवं तच्छरीरकपरमात्मनाञ्च प्रति अकारणे तस्मिन् तयोर्लयासम्भवात्। किञ्च ” आत्मावा इदमेकएवाग्रआसीति ” । आत्मन आकाशस्संभूत ” इत्यादिश्रुत्यन्तरणां परमात्मनएव सर्गाद्यकाले अवस्थानं आकाशादिस्रष्टुत्वञ्च प्रतिपादयन्तीनां या गतिः प्रवृत्तिः तत्सामान्यं सद्विद्यायामप्स्ति सदेवसोम्येदमग्रआसी दिति। ततोऽपि नसत्प्रधानं, श्वेताश्वतरोपनिषदि सहस्रशीर्षा पुरुषः पुरुषएवेदं सर्वमिति पुरुषसूक्तमन्त्राभ्यां तत्प्रतिपाद्यं भगवंतं प्रस्तुत्य सकारणं करणाधिपाधिपोनचास्य कश्चिज्जनिचा नचाधिप इति तस्य साक्षादेव जगत्कारणत्वप्रतिपादनेन सद्विद्यायास्तदैकार्थ्यावश्यम्भावादिति सत् भगवान् पुरुषोत्तमः परंब्रह्मैवेति।।
संङ्ग्रहकारिकाः।।
सद्विद्यायां कारणं सत्पदोक्तम्
सांख्यैरुक्तं लिङ्गगम्यं प्रधानं।
हेत्वाक्षेपाद्वर्णिताभ्यां प्रतिज्ञा
दृष्टान्ताभ्यां न्यायवाक्यांशकाभ्यां।।
मैवं सर्वेषु मानेषु प्रतिज्ञा न निवार्यते।
बुध्द्यारोहे ऽपि दृष्टान्तस्तद्धेत्वाक्षेपकौ न तौ।।
तस्मादीक्षतिलिङ्गादात्मश्रुतितो मुमुश्रुवेद्यत्वात्।
गतिसामान्यादिभिरपि सच्छब्दं कारणं ब्रह्म।।
इति ईक्षत्यधिकरणम्।।
—————————————–
आनन्दमयोऽभ्यासात्।।13।।
विकारशब्दान्नेति चेन्न प्राचुर्यात्।14।
तद्धेतुव्यपदेशाच्ञ।15।
मान्त्रवर्णिकमेव च गीयते।16।
नेतरोऽनुपपत्तेः।17।
भेदव्यपदेशाच्ञ।18।
कामाच्ञ नानुमानापेक्षा।19।
अस्मिन्नस्य च तघोगं शास्ति।।10।।
यदिसतो मुरव्यमीक्षणं वाच्यं, तर्हि चेतनत्वान्मुरव्येक्षणार्हो जीवएव जगत्कारणमास्त्विति पूर्वपक्षोत्थानादनन्तरसङ्गतिः, तैत्तिरीयाः आनन्दवल्लयां”ब्रह्मविदाप्नोतिपर, मित्युपक्म्य किन्तब्ह्म कीद्दशन्तद्धेदनं कीद्दशंतद्धेदनफलमित्याकांक्षायां सत्यं ज्ञानमनन्तं ब्रह्म। योवेद विहितं गुहायां परमेव्योमन्। सोऽक्ष्नुते सर्वान्कामान् सह ब्रह्मणा विपक्ष्चिता। इति मन्त्रेण ब्रह्मणस्स्वरूपं तद्धेदनप्रकारं तत्प्राप्य फलस्वरूपञ्चोपवणर्य।तस्माद्वा एत स्मादात्मन आकाशस्सम्भूत” इत्यादिना तस्मादेव ब्रह्मणआकाशादिसकल जगदुत्पत्तिमुक्तवा तस्य सुखप्रतिपत्त्यर्थं स्थूलारुन्धतीन्यायेन अन्नप्राणमनो बुद्धिषु क्रमेण तहुद्धिमवतार्य तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्माऽऽनन्दमय।इति आनन्दमयमुपक्रभ्य तस्मिन्नेव प्रस्तुतजगत्कारणब्रह्म बुद्धिस्समापिता, तदनन्तरं तस्माद्धा एतस्मादानंदमयादन्योऽन्तर आत्मो, ति आत्मान्तरोपदेशाभावात्।स किमानन्दमयो जीवः, उत परमात्मे”ति संशये पूर्वपक्षः –जीव एवायं, एष एव शारीर आत्मे, ति शारीरस्वश्रवणात्, तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रभोद उत्तरः पक्षः आनन्द आत्मा। ब्रह्मपुच्छं प्रतिष्ठ”ति प्रियमोदप्रमोदानन्दशाब्दितेष्टवस्तु दर्शनतल्लाभतदुपयोगजन्यसुखतदनन्तरानु — वर्तमानतृप्तिसुखसम्बन्धलिंगात्, यन्तसम्पादनीयभोग्यस्य जीवस्येव नित्यावाप्तसमस्तकांमस्य ईक्ष्वरस्य इष्टवस्तुलाभजन्यसुखविशेषाणामाशङ्काऽनास्पदत्वात्, तस्माद्धा एतस्मादात्मनआकाशस्संभूत” इत्यत्र तस्मादित्यनेन परामृष्टस्य प्रकृतस्य ब्रह्मणो जीवरूपत्वप्रतिपत्त्यर्थं “एतस्मा, दिति निर्देशेन इदानीमनुभूयमानतायाः “आत्मान” इति निर्देशेन लेकवेदप्रसिद्धात्मशब्दवाच्यतायाक्ष्च स्फुटीकरणात्, तदनन्तरं लौकिकाज्ञामगहंबुद्धिषु स्थुलारुन्धतीन्यायेन तटुघ्घवतारणाञ्च, अन्नप्राणादिषुं लैकिकानां ब्रह्मबुघ्घभावेन तेषु ब्रह्माविषयस्थुलारून्धतीन्यायानवतारणात्। न च जीवस्य सर्गाघकाले स्वशरीरसृष्टेः प्राक् शरीराभावेन तत्साध्यसृष्टि सङ्कल्पानुपपत्तेः स्वशरीरसृष्टच्योगात् तन्मूलसृज्यान्तरसृष्टचसम्भवश्शङ्कनीयः, तदानीमप्यनादीलिङ्गशरीरसत्त्वेन ततएव सृष्टिसङ्कल्पस्य तन्मूलसृज्यवनर्गस्य चोपपत्तेः, अभावं वादरिराह ह्येव, मित्यधिकरणे मुक्तानां शरीराभावदशायां सङ्कल्पजपित्रादिस्त्रष्टत्वस्य ततएव उपपादयिण्यमाणत्वात्। ननु आनन्दमयोक्तयनन्तरं ब्रह्मपुच्छं प्रतिष्ठे” ति ततोऽन्यदेव ब्रह्म श्रूयत इति चन्ने।प्रियमेव शिर” इत्यादिना जीवानन्दावयवानां मुक्तयनन्तरं तदीयाखण्डानन्दस्य संसारदशायामावृतस्य तत्र ब्रह्मशब्देनाभिधानात्, तस्यैव च अखण्डानन्दस्य मुक्तिदशायामाभिव्यक्तिः तद्वेदनफलत्वेन ब्रह्मणा विपक्ष्चिते, ति ब्रह्मशब्देन प्रदर्शिता, तत्र हि भोग्य साहित्ये तृतीया, न भोक्तृकर्तृकभोगस्य आनन्दमयोपासना फलकोटौ निर्देशायोगात्। न च पुच्छब्रह्यणोजीवान्यत्वाभावे असन्नेव सभवति अस्ति ब्रह्मेति चेद्धेद सन्तमेनन्ततो विदु रिति ब्रह्मसत्त्वासात्ववेदनोक्तिर्नयुज्यते, जीवसत्त्वस्य सुप्रसिद्धत्वेन तस्यासत्त्वशह्कानर्हत्वादिति वाच्यम्। अन्नमयादिक्ष्लोकानां पुच्छलद्विषयत्वेन आनन्दमयपर्यायक्षलोकस्यापि पुच्छवदानन्दमयविषयताया एव युक्तत्वात्, आनन्दमयस्य प्रियमोदादिमत्तया प्रसिद्धावपि ब्रह्मशब्दोक्ताखण्डानन्दवत्तया प्रसिध्द्यभावेन सत्त्वासत्त्ववेदनयोस्तद्विषयतोपपत्तेः। तस्मादानन्दवल्ल्यां जीवएव जगत्कारणत्वेन प्रतिपाद्यते, नतु तदतिरिक्तं ब्रह्म, एवंच तदनुसारेण कारणवाक्यान्तराण्यपि जीव एव पर्यवस्यन्ति। अतएव सद्विद्यायां सच्छब्देन उपक्रान्तं जगत्कारणं वस्तु तत्त्वमसी ति जीवरूपतयोपसंहृतमिति। एवं प्राप्ते सिद्धांतः- “यतोवाचोनिवर्तन्ते अप्राप्य मनसा सह। आनन्दं ब्रह्मणोविद्वान्नबिभेतिकुतश्चने ” ति निरतिशयदशाशिरस्कत्वेन अभ्यस्यमानो महानन्दो जीवेऽल्पसुखभागिनि असम्भाव्यमानः तदितरमीश्वरमाश्रयमासाद्यैव निर्वृणोति। एवं भूतमहानन्दभागानन्दमय ईश्वर एव, न जीवः, जीवस्याप्येवंभूत आनन्दोभ्युपेयत इत्युक्तमितिचेत्, सत्यमुक्तं दुरुक्तं तु तत्। “युवास्यात्साधु युवाध्यायकः आशिष्ठो द्रढिष्ठोबलः ” तस्येयं पृथिवि सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुषआनन्द “इत्युक्तलक्षणमानुषानन्दप्रभृतिप्राजापत्यानन्दान्तसकलप्राणिवर्गानन्दजातादधिकतमतया ” ते ये शतं प्रजापतेरानन्दाः। एकोब्रह्मणआनन्द ” इति कीर्तितस्य आनंदमयानन्दस्य पूर्ववाक्येषु तदपेक्षया अतिक्षुद्रानन्दभाक्त्वेन कीर्तिते जीववर्गे संभावनानर्हत्वात्। किञ्च ” तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तरआत्मानंदमय ” इति विज्ञानमयशब्दिताज्जीवादन्यत्वेनोपक्रांतस्य आनंदमयस्य कथं जीवत्वाशङ्का। नच विज्ञानमयशब्दबुद्धिपरश्शङ्कनीयः, ” योयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योति “रित्यादिश्रुत्यन्तरेषु जीव एव प्रयोगात् विज्ञानमयपर्याये ” विज्ञानं देवास्सर्वे ब्रह्मज्येष्ठमुपासत ” इति केवलविज्ञानशब्दोऽपि श्रूयत इति चेत्– तस्यापि “यो विज्ञाने तिष्ठ “न्नित्यादिश्रुत्यन्तरेष्विव जीवपरत्वात्, विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिचे ति तस्य यज्ञादिषु कर्तृत्वश्रवणात्, बुद्धेस्तेषु करणत्वेन कर्तृत्वाभावात्। अपि च जीवमानंदमयं वदता तत्र मयडर्थः कइति वक्तव्यं, न विकारः, “मयड्वैतयोर्भाशायामभक्ष्याच्छादनयो” रिति सूत्रेण भाषायामेव विकारावयवार्थयोर्मयड्विधानात्, कथन्तर्हि ” यस्य पर्णमयीजुहूर्भवती “त्यादिवैदिकप्रयोगः, “व्द्यचश्छन्दसी”ति विधानांतरात्। इदं हि छन्दसिमयटोऽप्राप्तस्य च प्राप्त्यर्थं विधानं, कथं तर्हि वैदिको विज्ञानमयशब्दः, तस्माद्विकारार्थत्वासंभवात् आनंदमयोऽपि मयड्प्राचुर्यार्थएव वाच्यः। प्राचुर्यार्थत्वञ्च प्रागुदाहृतानंदमीमांसावाक्यशेषोपदर्शितप्रकारेण मानुशादिप्राजापत्यांतसकलजीववर्गसुखापेक्षया आधिक्यरूपमिति न कस्यापि जीवस्य आनन्दमयत्वशङ्कावकाशः। एतेन आनंदप्राचुर्यार्थक आनंदमयशब्दो जीवेऽप्युपपद्यते, सांसारिकदुःखलवभाजि मुक्त्यभिव्यंग्यमहानन्दवति जीवे समानाधिकरणदुःखाल्पत्वापेक्षा ऽऽनन्दाधिक्यरूपप्राचुर्यार्थसंभवात्। प्राचुर्यार्थशब्दस्य उत्तरत्वे समानाधिकरणविजातीयाल्पत्वापेक्षमेव हि प्राचुर्यमर्थः, नतु “प्रचुरब्राह्मणोग्राम ” इत्यत्रेव व्यधिकरणसजातीयाल्पत्वापेक्षं एव प्राचुर्ये कीर्त्यमाने विधान्तरेण प्राचुर्यग्रहणायोगत्। अव्यवस्थितपौर्वापर्यस्य प्रचुरशब्दरूपस्य नामपदस्य उत्तरत्वे तथा व्युत्पत्तावपि “तत्प्रकृतवचने मयडि”ति सूत्रविहितस्य नियतोत्तरभावस्य मयट्प्रत्ययस्य उत्तरत्वे तथा व्युत्पत्तिकल्पकाभावाच्च। तस्मादानन्दमयोब्रह्मैव। अत एव तस्योपक्रमे जीवोपास्यत्वनिर्देशः, योवेद निहितं गुहाया” मिति जीवासंभावितविविधद्रष्टृत्वरूपसार्वज्ञ्यनिर्देशः, ” सह ब्रह्मणा विपश्चिते ” ति वाक्यशेषे च ” कोह्येवान्यात् कः प्राण्यात्- यदेषआकाशआनंदोनस्यात् — ए– षह्येवान्दयाती” ति जीवानंन्दयितृभाव्यपदेशः, सोकामयत बहुस्यां प्रजायेये ति हिरण्यगर्भादिजीवासंभावितप्रधानानपेक्षस्वतन्त्रसृष्टिकामनाव्यपदेशः, रसोवैसः रसं ह्येवायं लब्ध्वाऽऽनन्दी भवतीति जीवास्वादनी यत्वव्यपदेशश्च।एतैरप्युपक्रमोपसंहारगतहेतुभिरानन्दमय न जीवः, किन्तु ब्रह्मैवेति प्रधानस्येव जीवस्यापि न सद्विद्यानंदवल्ल्यादिकारणवाक्यप्रतिपाद्यत्वमिति सिद्धम्।।
संग्रहकारिकाः।।
आनन्दमयस्तावज्जीवश्शारीरताश्रवणात्।
स्रष्टाऽऽकाशादीनामात्मा यः प्रागुपक्रांतः।।
आतस्सदपि सएव स्यादीक्षत्यादिसंभवात्तत्र।
अतएव हि तत्वमसीत्युक्ता जीवात्मता तस्य।।
मैवमभ्यस्यमानोहि जीवे शतगुणोत्तरः।
आनन्दो नैव घटते परमात्मैव तेन सः।।
विज्ञानमयपदोक्ताजीवादन्यत्ववचनाच्च।
तद्भेदकधर्माणामाम्नानाद्वाक्यशेषेच।।
शारीरव्यपदेशस्तत्वमसीति च विनिर्देशः।।
लभते सर्वशरीरे परमात्मन्यपि समञ्जसताम्।।
इत्यानन्दमयाधिकरणम्।।6।।
———————————–
अन्तस्तद्धर्मोपदेशात्।। 21।।
भेदव्यपदेशाच्चन्यः।। 22।।
जगत्कारणं वस्तु ईक्षणश्रवणात् “तत्वमसी” त्युपसंहाराच्च माभूत्प्रधानं माभूच्चजीवसामान्यं ततोभेदकनिर्देशात्, तथाप्युपचितपुण्यविशेषाणां ब्रह्मेन्द्रचन्द्रसूर्यादीनां विश्वामित्रादीनामृषीणाञ्च मध्द्ये यः कश्चिज्जीवविशेषः कल्पभेदेन स्यात्, तत्रानन्दवल्ल्युक्तजीवसामान्यव्यावर्तकसकलमहिमोपपत्तेरिति प्रत्यवस्थानात्सङ्गतिः। तत्र स्थालीपुलाकन्यायेन किञ्चिद्देवताविषयं वाक्यमुदाह्रियते– छान्दोग्ये– ” अथ यएषोऽन्तरादित्ये हिरण्मयः पुरुषोदृश्यते हिरण्यश्मश्रुर्हिरण्यकेशआप्रणखत्सर्वएव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदितिनाम सएषसर्वेभ्यः पाप्मभ्यउदितः उदेति ह वै स सर्वेभ्यः पाप्मभ्योयएवं वेद तस्य ऋक्च सामच गोष्णा। वित्यादिना आदित्यमण्डलस्यांतरुपास्यः पुरुषोऽभिहितः, “अथ य एषोऽन्तरक्षिणि पुरुषोदृश्यते सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्यरूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामेत्यादिना अक्ष्यन्तरुपास्यः पुरुषोऽभिहितः। अस्मिन् विद्याद्वये उपास्यः पुरुषः षुण्यविशेषेण आदित्यमणडलाधिष्टातृदेवतापदं प्राप्रतोजीवविशेषइति सएव आनन्दवल्ल्युक्तसकलमहिमशाली समस्तकारणवाक्यविषयस्स्यात्, उत ततोऽन्यः परमात्मेति सएव कारणवाक्यानां विषयइति संशयः। आनंदवल्ल्यां “भीषास्माद्वातः पवंतेभीषोदेति सूर्यः ” इति सूर्यभयहेतुत्वेन ततोभिन्नआनन्दमयः प्रदर्शितः, इह कथं सएवानन्दमयइति पूर्वपक्षस्यावकाशः।उच्यते– स्थालीपुलाकन्यायेन इह आदित्यजीवउदाहरणमित्युक्तं। ब्रह्मेन्द्रादयोऽपि वस्तुतइहोदाहरणानीति कल्पभेदेन यत्तेषां जगत्कारणत्वं पूर्वपक्ष्याभिमतं, तदासाद्यसूर्यभयहेतुत्वसमाम्नानञ्चरितार्थं स्यात्। इन्द्रादिभयहेतुत्वसमाम्नानस्यापि उपपत्तिरेवमेवानुसंधेया। अधिकरणध्युत्पाद्यन्यायस्य ब्रह्मेन्द्रादिसाधारण्येऽपि सिद्धांते मण्डलाभिमानिजीवातिरिक्तं ब्रह्म जगत्कारणं सिध्द्येत्, पुण्डरीकाक्षत्वलिङ्गेन भगवान् पुरुषोत्तम एवेत्यपि, एकयत्नेन सिध्द्यत्वित्यभिसन्धाय सूत्रकृता अन्तश्शब्देन अन्तरादित्यविद्याऽन्तरक्षिविद्याद्वयमिहोदाहरणमिति सूत्रितं।पूर्वपक्षस्तु– मण्डलाभिमानी जीव एकायं, नतु ततोऽन्यत्सिद्धान्त्यभिमतं ब्रह्म, शरीरश्रवणात्, कर्मनिमित्तंहिशरीरं, कथं कर्मरहितत्वेन सिद्धांताभ्युपगतस्य ब्रह्मणस्तदुपपद्यते। नच सएषसर्वेभ्यः पाप्मभ्यउदित इति सर्वपापरहितत्वेन श्रुतस्य कथं कर्मनिमित्तं शरीरं स्यादिति शंकनीयं, त्रिविधं हि शरीरं, केवलपुण्यारब्धं सुखैकायतनं देवानां, केवलपापारब्धं दुःखैकायतनं स्थावरादीनां, पुण्यपापोभयारब्धं सुकदुःखोभयायतनं मनुष्यादीनां, एवं च न हवै देवात् पापं गच्छतीति श्रुतेः देवानां अपापत्वेऽपि पुण्यमात्रारब्धशरीरे न काचितनुपपत्तिः। ननु सिद्धांत्यभिमतस्य ब्रह्मणो.प्यन्तर्यामिभावेन जीवकर्मनिमित्तशरीरेषु हृदयदेशे अवस्थानलक्षणं शारीरत्वमुपपद्यत इति चेत्, उपपद्यतानानाम, तद्यथाकथञ्चित्, इह न तथाभूतं शारीरत्वमुच्यते किंतु अतिरमणीयतया शरीरिणः स्पृहणीयं तस्य दिव्यभोगायतनं तेनाऽऽकेशमानखाग्रमनुप्रविष्टं यच्छरीरं तेन शरीरेण शरीरवत्वमुच्यते। अत्र “हिरण्मयः पुरुष “इत्यादि एवमक्षिणी इत्यन्तं तस्यातिरामणीयकं वर्णयदुदाहृतश्रुतिवचनमेव साश्रि, तस्मादत्यन्तोपाचितपुण्यविशेषलभ्यमिदं शरीरं जीवस्यैव संभवतीत्येवंरूपशरीरश्रवणादयं जीवएव, न तदतिरिक्ते ब्रह्मणी प्रमाणमस्तीति सएवानंदमयः। अतएव आनन्दवल्ल्यां श्रूयते “सयश्चायं पुरुषे यश्चासावादित्ये सएक ” इति । सिद्धांतस्तुनेह श्रूयमाणं शरीरं कर्मनिमित्तं, शरीरिणस्सर्वपापोदयश्रवणात् सर्वेभ्यः पाप्मभ्य उदितत्वं। उदितत्वं हि नीडादुद्गतस्य शकुन्तस्य सर्वधा नीडसंबन्धराहित्यवत् सर्वपाप्मसंबंधराहित्यरूपं गौणं, मुख्यस्य पाप्मापादानकोद्गमनस्यासंभवात्। नच सर्वपापात्यन्ताभाववतः कर्मनिमित्तं शरीरं संभवति, नच पापाभावे.पि पुण्यपापोभयसाधारणत्वात्। “नैनं सेतुमहोरात्रे तरतः न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानो अतो निवर्तत ” इति ब्रह्मप्रकरणे पाप्मशब्दस्य सुकृतसाधारण्यश्रवणात्, मुमुक्षुं प्रति दुष्कृतवत् सुकृतस्यापि एते वै निरयास्तात स्थानस्य परमात्मन इति भगवत्पराशरोक्तरीत्या अनिष्टफलत्वेन तस्यापि पाप्मशब्देन ग्रहणौचित्यात्, अलौकिकानिष्टफलसाधनत्वस्यैव पाप्मशब्दुप्रवृत्तिनिमित्तत्वेन मुमुक्षुं प्रति तस्यापि पाप्मशब्दार्थत्वानिवारणाच्च। अथापि स्यात्– वेदांतेषु न पाप्मशब्दस्य जरामृत्युशोकसुकृतदुष्कृतसाधारण्यनियमोऽस्ति, न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतोनिवर्तत ” इत्येवं सङ्कीर्तमवत्येव दहरविद्याप्रकरणे ” य एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोक” इति पाप्माभावमुक्त्वापि पृथक् जरामृत्युशोकाभाव प्रतिपादनादिति, तथाऽपि “स एष सर्वेभ्यः पाप्मभ्य उदित” इत्यत्र पाप्मशब्दस्सुकृतसाधारण एव वाच्यः, ” उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदे ” ति सर्वपापोदयस्य तत्क्रतुन्यायानुसारिविद्याफलत्वश्रवणात्, सकृतनिवृत्तेरपि विद्याफलत्वस्य चतुर्थाध्याये वक्ष्यमाणत्वात्. तस्मादिह श्रूयमाणं शरीरं न कर्मनिमित्तमिति, अकर्मनिमित्तातिरमणीयदिव्यमङ्गलविग्रहवत्त्वेन जीवे क्वचिदपि असम्भावितेन अयं मण्डले श्रूयमाणः पुरुषो जीवादन्यद्ब्रह्मैव, तच्च ब्रह्म पुण्डरीकाक्षत्वलिङ्गेन भगवान् पुरुषोत्तम एव। यद्यपि यास्केन वाक्यकारेण च ” तस्य यथा कप्यास पुण्डरीकमेव मक्षिणी ” इत्यस्य यथा कप्यासं सूर्यमण्डलं हृदयपुण्डरीकं च तस्योपासनास्थानं, एवमक्षिणी अपि तस्योपापसनास्थानमिति पुण्डरीकाक्षत्वलिङ्गास्पर्श्यपि अर्थान्तरमुक्तम, तथापि वैभवार्थं तत्क्लिष्टार्थान्तरवर्णनं। ” अएषएतस्मिन्मण्डले पुरुषः यश्चायन्दक्षिणेक्ष “न्निति बृहदारण्यके दक्षिणस्यैवाक्ष्णस्तदुपासनास्थानत्वप्रसिद्धेः पुण्डरीकाक्षत्वालिंगस्पर्श्येवार्थस्तस्याप्यभिमतः, तत्र तस्मिन्नर्थे च कप्यासमित्यस्य तेन त्रेधार्थो वर्णितः। कं उदकं। स्वरंध्रैः पिबतीति कपिः– नालः। तत्रास्त इति कप्यासम्। अभग्रक्रमिकीटाद्यष्टनालमित्येकोर्थः। कपाइति सोमपाशब्दवत् प्रक्रियायां कपीति सप्तम्यन्तं भिन्नं वा पदम्। के जले प्यास्त इति जलादनुद्धृतमित्यन्योर्थः। आसधातोः अपिपूर्वत्वे ” वष्टिवागुरुरल्लोपमवाप्योरूपसर्गयो ” रित्यकारलोपे च सति प्यास्तइति रूपम्। कं उदकं रश्मिभिः पिबतीति कपिस्सूर्यः, तस्यासं विकास्यं, रविकरविकसितमित्यपरोर्थइति। अमुं त्रिविधमप्यर्थं गृहीत्वा वेदार्थसंग्रहे भाष्यकारैरस्यवाक्यस्यार्थोवर्णितः, “गंभीरांभस्समूद्भूतसुमृष्टनालरविकसितपुण्डरीकदलामलायतेक्षण ” इति। ननु एवंभूतोविग्रहः कथं अकर्मनिमित्तइत्युपगन्तव्यं, शरीराणां कर्मजन्यत्वनियमस्य लोके दृष्टत्वादिति चेत्, उच्यतेइहैव पापात्यन्ताभाववत्त्वेनोक्तस्य पुण्यपापोभयारब्धं शरीरन्तावद्वक्तुमशक्यं, पुण्यमात्रारब्धमुच्यते चेदपि लोकदृष्टस्य पुण्यपापोभयारब्धनियमस्य ” नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति। अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत ” इति श्रुत्युपबृंहितस्य उल्लङ्घनमनिवार्यं। तथासति ” न भूतसङ्गसंस्थानो देहोऽस्य परमात्मनः।” न तस्य प्राकृता मूर्तिः जगतामुपकाराय न सा कर्म निमित्तजे त्याद्युपब्रह्मणानुसारेण भगवतो दिव्यमङ्गलविग्रहो ऽप्राकृतः अकर्मनिमित्त इत्येव न्यायविद्भिरभ्युपगन्तुं युक्तम्। लोकदृष्टनियमादुपब्रह्मणस्य बलवत्वात्। ननु उक्तन्यायः अन्तरादित्यवाक्यमात्रे वक्तुं शक्यः, नतु ब्रह्मेन्द्रादिमहामहिमप्रतिपादक वाक्येप्वपि, नहि हिरण्यगर्भपुरन्दरादिलोकेष्वपि आदित्यमण्डल इव भगवद्दिव्यमङ्गलविग्रहसन्निधानं प्रसिद्धश्रुतिष्वस्ति। उच्यते– ब्रह्मादिष्वन्यतम एव एकस्मिन् कल्पे पुण्यविशेषेण एवंभूतमैश्वर्यं प्राप्तो जगत्सृष्ट्याद्यपि करोतीति भाष्यवाक्यं ब्रह्मेन्द्रादिमहिमप्रतिपादकविषयवाक्यान्तरेष्वपि जीवपूर्वपक्षतदतिरिक्तब्रह्मगोचरसिद्धान्तौ प्रवर्तनीयावित्याशयेन प्रवृत्तं न भवति, किंतु यथाऽस्मिन्विषयवाक्ये आदित्यदेवतापदं प्राप्तो जीवः प्रतिपाद्य इति पूर्वपक्षः, एवमस्मिन्नेव विषयवाक्ये शक्रः प्रतिपाद्यः, हिरण्यगर्भः प्रतिपाद्य इत्येवं रूपेण पूर्वपक्षान्तरमपि प्रवर्तनीयमित्याशयेन, तद्वा कथं सङ्गच्छते, इत्थं– ” यदद्य कच्चवृत्रहन्नुदगा अभिसूर्य। सर्वं तदिन्द्र ते वश ” इति मन्त्रवर्णात् आदित्यमण्डलाधिष्ठाता सक इति प्रतीयते। ” असदेवेदमग्र आसीत्तत्पदासीत्तत्समभवत्तदाण्डं निवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवतां। तद्यद्रजतं सेयं पृथिवि यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वताः यदुल्बं स मेघो नीहारो याधमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः। अथ यत्तदजायत सोऽसावादियस्तं जायमानं घोषा उल्लूवोऽनूदतिष्ठन् सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयनं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनुत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामा ” इति छान्दोग्यवाक्यसन्दर्भादादित्य जीवो हिरण्यगर्भ इत्यपि प्रतीयत इति। अपि च येचामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च यैचैतदस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानाञ्चे ति सकललोकेश्वरत्वसकलदेवमुष्याभीव्सितत्वफलप्रदानशक्तत्वश्रवणादपि नायमक्ष्यादित्यान्तर्वर्तिपुरुशोजीवः, यद्यपि देवलोककामेश्वरत्वमनुष्यलोककामेश्वरत्वञ्च अक्ष्यादित्यस्थानभेदेन विभज्य श्रुतं तथापि स्थानद्वयमेक एव पुरुषोऽधितिष्ठति तत्प्राप्नुवत् द्विविधलोककामेश्वरत्वं सर्वलोककामेश्वरत्वरूपतया पर्यवस्यति एवं ऋक्सामगेष्णत्वश्रवणादपि नायं जीवः, गेष्णशब्दोगानवाची, गानं द्विविधं, शब्दकर्मकमेकं यथा पद्यं गायतीति अर्थकर्मकमेकं यथा राजानं गायतीति, इहार्थकर्मकगानरूपत्वमृक्सामयोर्विवक्षितं, तच्चात्र सामरूपगीतिक्रियाभिव्यंग्यं ऋक्साध्यगुणिनिष्ठगुणाभिधामनरूपस्तुत्युपायत्वुमृक्सामसाधारणं, एवञ्च आदित्यपुरुषस्य स्तुतौ ऋक्साक्षात्साधनं, साम ऋगभिव्यक्तिद्वारा, साम्नास्तुवीतेति साम्नोपि स्तुतसाधनत्वश्रवणात् इत्युभयोरपि क्रमिकस्तुतुसाधनतया गानत्वमित्यादित्यपुरुषस्य ऋक्सामसाध्यस्तुतु विषयाग्नीन्द्रसोमादिरूपतया सर्वात्म्यसिद्धिः। यद्यपि प्रस्तावादिसामभक्त्यवयवरूपे सागानां पर्वेत्येव प्रसिद्धे साम्नामपच्छेदे गेष्णाक्या तेषां प्रसिद्धा, औÐत्थक्याखाये सामपर्वलक्षणग्रथेपि तथैव व्यवहारः, तथापि क्रमिकस्तोत्रसाधनत्वसादृश्यात् ऋक्सामयोर्गेष्णद्वयतोपचारः, तस्मादृक्सामगेष्णत्वप्रतीतसर्वात्म्यासंभवात्, य आदित्ये तिष्ठन्नित्याद्यन्तर्यामिब्राह्मणे भदव्यपदेशाच्च, नादित्यपुरुषोजीवः, किंतु तदतिरिक्तं ब्रह्मेत्यभ्युपगन्तव्यमिति।।
संग्रहकारिकाः।।
अन्तर्मार्त्ताण्डवर्त्ती तनुमधिवसति श्मश्रुकेशादियुक्तां
तादृक्कर्मानुबन्धात्खलुं भवति तनुस्तेन तावत्स जीवः।
एवं चानन्दवल्ली परिपठितजगत्कारणं जीव एव
स्यात्तस्यामेव तेन स्फुटतरमभिदा तस्य यत्प्रत्यपादि।।
न खलु सुकृतपापान्युत्तरेत्कोऽपि जीवो
विधुतसकलपापो यद्यपि स्यादमर्त्यः।।
उपनिषदुपगीतः पाप्मशब्दोऽभिधत्ते
सुकृतमपि निमित्ता भेदतः पापतुल्यम्।।
तत्सर्वपाप्मोदयलिङ्गदर्शनाद्देवोन्तरादित्यगतः परः पुमान्।
अप्राकृतं रूपममुष्य विश्रुतं व्यूहावतार प्रमुखाश्च तादृशाः।।
इति अन्तराधिकरणम्।।
————————————-
एवं सद्विद्यानन्दवल्लीप्रतिपाद्यं जगत्कारणं वस्तु जीव इति तल्लिङ्गवलम्बन पूर्वपक्षावान्तरपेटिका वृत्ता, अथ तज्जगत्कारणं वस्तु आकाशादिकमेव, न ततोऽन्यज्जगत्कारणं ब्रह्मनामास्तीति श्रुत्यवलम्बनपूर्वपक्षमवान्तरपेटिकान्तरं प्रस्तूयते।।
आकाशस्तल्लिङ्गात्।।23।।
पूर्वमादित्यपुरुषस्य वैशेषिकलिङ्गात् वेदान्तवेद्यजगत्कारणत्वमुक्तम्। तदयुक्तम्। लिङ्गतः प्रबलया श्रुत्या भूताकाशस्यैव जगत्कारणत्वादित्याक्षेपेणोत्थानदवान्तरसङ्गतिः। छांदोग्ये– ” अस्य लोकस्य कागति” रिति पृष्टवन्तं दालम्यं प्रति आकाश इति होवाचे ति जैवलेरुत्तरमुपक्रम्य श्रूयते “सर्वाणि ह वा इमानि भूतान्याकाशादेवसमुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायण”मिति। किमयमाकाशोभूताकाशः, उत तदरिक्तः परमात्मेति भूताकाशस्य श्रूयमाणसर्वभूतोत्पत्तिस्थितिलयकारणत्वयोग्यत्यवायोग्यत्वाभ्यां संशयः। तत्र पूर्वः पक्षः। भूताकाशएवायं, आकाशश्रुतेस्तत्ररूढत्वात्, अतो ” यतोवा इमानि भूतानि जायन्त ” इत्यादिलक्षणलक्षितजगत्कारणं ब्रह्म भूताकाशएव, सर्वभूतोत्पत्तिस्थितिलयकारणत्वस्य तत्रोक्तलक्षणस्यैव अत्रं ” सर्वाणि ह वा इमानी भूतानी “त्यादिना भूताकाशपर्यवसानवर्णनात्, तस्य क्वचिद्विशेषे पर्यवसानसाकांक्षत्वाच्च। ननु भृगुवल्यामेव ” आनन्दाध्द्येव खल्विमानि भूतानि जायन्त” इत्यादिनाऽऽनन्दरूपे विशेषे पर्यवसानमुक्तम्। मैवं — तत्रहि “को ह्येवान्यात्कः प्राण्यात्। यदेष आकाशआनन्दोनस्या ” दित्यानन्दशब्द आकाशशब्दसमानाधिकरणश्श्रुतः, ततश्च विरुद्धार्रथयोस्तयोरुभयोरपि मुख्यतया सामानाधिकरण्यायोगात्। कि मानन्दशब्दो गौणः उत आकाशशब्दइत्यत्र विनिगमनाश्रवणात्। तत्र जगत्कारणत्वस्य लक्षणस्य क्वविशेषे पर्यवसानमिति नास्ति निर्णयइत्याशङ्क्य आकाशश्रुत्या भूताकाशएव जगत्कारणमिति निश्चिते तत्र आनन्दशब्दो गौणइतीहैव निर्णयः। ननु अचेतनस्य भूताकाशस्य जगत्कारणत्वं कथमिहाशङ्क्यते, सद्विद्यानन्दवल्लीश्रुतचेतनलिङ्गबलादानन्दमयशब्दोक्तं जगत्कारणं वस्तु चेतनविशेषएवेति हि प्राक् स्थितं, सत्यम्। सदानन्दशब्दौ चेतनेऽपि योजयितुं शक्यौ, लिङ्गानुसारेण तथा योजितौ, इह तु भूताकाशे रूढाकाशश्रुति लिङ्गानुसारेण योजयितुं न युक्ता। ईक्षितृत्वादिलिङ्गमेव “कूलं पिपतिषती”त्यादिन्यायेन भूताकाशे योज्यमित्याक्षेपः। ननु ” आत्मन आकाशस्सम्भूत” इत्युत्पत्तिमत्वेन श्रुतस्य भूताकाशस्य कथं सर्वभूतस्थितिलयकारणत्वरूपलक्षणसम्बन्धोपपत्तिः, इत्थं– तत्र ” आत्मन” इति स्वस्मादेव शब्दतन्मात्ररूप सूक्ष्मावस्थात् स्थूलावस्थोभूताकाशस्सम्भूतइति तदर्थः। आत्मशब्दस्य शरीरप्रतिसंबंधिनि चेतनइव “मृदात्मकोघटइत्यादिषु स्वरूपेऽपि प्रयोगात्, आत्मा जीवे धृतौ देहे स्वभावे परमात्मनी “त्यादि कोशेषु तस्य नानार्थत्वानुशासनात्। तस्मात् भूताकाशस्यैव जगत्कारणत्वरूप ब्रह्मलक्षणपर्यवसाननिर्णये यत् सद्विद्यानन्दवल्ली भृगुवल्लीषु जगत्कारणवस्तुपरं ब्रह्मपदं श्रुतम्, तत्सर्वभूतकाशपरमेव। अतएव “आकाशोहवै नाम नामरूपयोर्निर्बहिता ते यदन्तरा तद्रब्रह्मे ” ति वाक्यान्तरे तस्मिन् ब्रह्मपदंश्रूयतइति। एवं प्राप्ते सिद्धान्तः– अयमाकाशोभूताकाशादन्यः परमात्मैव, भूताकाशासंभावितसर्वभूतकारणत्वश्रवणात्, तद्धिसर्वप्रणिवर्गकारणत्वं, “यतोवा इमानि भूतानि जायते येन जातानि जीवंती”ति लक्षणवाक्यार्थैकरूप्यात्। न च भूताकाशस्य अचेतनवर्गकारणत्वसंभवेऽपि चेतनकारणत्वमुपपद्यते।। न च पारायणत्वं चेतनानां परमप्राप्यत्वमचेतनस्य अपुरुषार्थस्य हेयस्य भूताकाशस्य घटते। न वा सर्वतोज्यायस्त्वं, तद्धिकल्याणगुणैस्सर्वेभ्योनिरतिशयोत्कृष्टत्वं, न च जगत्कारणविशेषाकांक्षायामाकाशशब्देन विशेषसमर्पणात् इदं सर्व मूताकाशएव यथाकथञ्चित्वक्तव्यमिति वाच्यं। “सर्वाणि ह वे “ति वाक्येन ह्यत्र कारणत्वं न विधीयते, हवैशब्देन प्रसिद्यर्थकेन वाक्यांतरप्रसिद्धार्थानुवादत्वद्योतनात्, अतः पुरोवादाकांक्षायां “सन्मूलास्सोम्येमास्सर्वाः प्रजा” इत्यादिवाक्यमेव पुरोवादत्त्वेनावतिष्ठइति तत्रेक्षितृच्वादिभिश्चेतनत्वेन सिद्धं सच्छब्दाभिधेयं कारणं वस्विह आकाशशब्देन परामृश्यतइति वक्तव्यत्वात्, “आत्मन आकाशस्संभूत ” इत्यत्र आत्मशब्दस्य शरीरप्रतिसंबंधिनि चेतने प्रसिद्धिप्राचुर्येण “तस्यैषएव शरीरआत्मे”ति शारीरत्वश्रवणेन च चेतनपरत्वावश्यंभावात्, स्वस्मादेव आकाशउत्पन्नइत्यर्थानुपपत्त्या भूताकाशस्य सर्वभूतकारणत्वान्वयायोग्यत्वाच्च, भूताकाशोयं, किंतु तदतिरिक्तं ब्रह्मैवेति तस्मिन्नेव आकाशशब्दस्य आसमन्तात्काशत इत्यादिरूपेण योगवृत्तिरास्थेया, पुरोवादानुसारेण अनुवादे रूढिभङ्गस्य अदोषत्वात्, योग्यार्थश्रुतिमूललिङ्गात् अयोग्यार्थपदरूढिभङ्गस्य गङ्गाघोषादौ दृष्टत्वाच्चेति।।
सङ्ग्रहकारिकाः।।
अव्यक्तं जीवो वा माभूज्जगतोऽस्य कारणमथापि।
आकाशस्स्यादेव ङान्दोग्ये स हि तथाऽऽम्नातः।।
आत्मन आकाश इति स्वात्मन एवेत्यनन्यजनितोक्ता।
प्रथमश्रुत्यनुसारातत्रानन्दश्रुतिर्गौणी।
मैवं छान्दोग्युतिरनुवादः खलु ह वै शब्दात्।
सतु सत्कारणमेव प्रतिपन्नं सेवते पुरोवदात्।।
इति आकाशाधिकरणम्।।8।।
————-
अत एव प्राणः।।24।।
छान्दोग्ये कस्यचिद्राजः कृतौ समागतस्य उषस्तेः प्रस्तावभक्तिदेवताप्रश्ने तामजानानेन प्रस्तोत्रा “कतमा सा देवते” ति पृष्टस्य उषस्तेः “प्राण इति होवाचे”ति उत्तरमुपक्रम्य श्रूयते “सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशंति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ते ” ति अतिदेशाधिकरणस्यास्य पूर्वाधिकरणवत् पूर्वोत्तरपक्षौ। प्राणश्रुतेः प्राणवायुरेव सर्वभूतलयोत्पत्तिकारणमिति प्राप्ते। ह वै शब्देन तदनुवाद्यत्वद्योतनात् पुरोवादानुसारेण योग्यतानुसारेण च प्राणवाय्वतिरिक्तः परमात्मैव सर्वभूतलयोत्पत्तिकारणभूतः प्राणइति। अतिदेशस्य तु सर्वस्य भूतजातस्य प्राणाधीन स्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्धएव वायुः सर्वभूतलयोत्पत्तिकारणतामर्हति, साक्षाच्च बृहदारण्यके “यदा वै पुरुषस्स्वपिति प्राणन्तर्हि वागप्येति प्राणञ्चक्षुः प्राणं श्रोत्रं प्राणं मनः सयदा प्रबुद्ध्यते प्राणादेवाऽथ पुनर्जायत” इति स्वापप्रबोधयोः प्राणवायुस्सर्वभूतलयोत्पत्तिस्थानमिति श्रवणाच्चेत्यधिकाऽऽशङ्कानिरासः प्रयोजनम्। तन्निरासस्तु चेतनवर्गं प्रति प्राणवायोः कारणत्वाऽयोगात्, आनंदवल्ल्यां चेतनविशेषोत्पन्नादाकाशादुत्पन्नत्वेन श्रुतस्य तस्य सर्वाचेतनकारणत्वायोगाच्च, न तस्य सर्वभूतलयोत्पत्तिस्थानत्वनिर्देशार्हता। अत एव बृहदारण्यकोक्ताप्राणोऽपि परमात्मैवेति।।
सङ्ग्रहकारिका।।
एवं तस्यां प्राणवाक्यादनूक्तेः प्राणेपितस्यान्नैवतत्कारणत्वं।
प्राणाधीनं दृश्यतां देहमात्रं नैवं भूतं जीवर्गादिदृष्टम्।।
इति प्राणाधिकरणम्।।
——————————–
एवं केवलश्रुत्यवलम्बनपूर्वपक्षावान्तरपेटिकावृत्ता– अथ कारणत्वाक्षेपकलिङ्गानुगृहीताश्रुत्यवलम्बनमवान्तरपेटिकान्तरं प्रस्तूयते।।
ज्योतिश्चरणाश्रिधानात्।। 25।।
छन्दोश्रिधानान्नेति चेन्न तथा चेतोर्पणनिगमात्तथा हि दर्शनम्।।26।।
भूतादिपादव्यपदेशोपपत्तेश्चैवम्।।27।।
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ।।28।।
छन्दोगास्समामनन्ति। “अथ यदतः परो दिवो ज्योतिर्दीप्यते। विश्वतः पृष्ठेषु सर्वतः पृष्ठवनुत्तमेषूत्तमेषु लोकेष्विदं वावतद्यदिदमस्मिन्नन्तःपुरुषे ज्योति”रिति। अत्र आकाशप्राणवाक्ययोः स वाय्वाकाससर्वभूतकारणत्वश्रवणवत् इह सज्योतिष्कसर्वकार्यकारणत्वाश्रवणेन विरोधाभावात्, विरोधभावे श्रुत्यवलंबनायोगात्, प्रसिद्धमादित्याद्येव ज्योतिरस्त्विति आक्षेपेणोत्थानादवान्तरसङ्गतिः। ननु यदीहप्रसिद्धमादित्याद्येव ज्योतिरिति पूर्वपक्षः क्रियते, कस्तेन सिद्धान्तस्योपमर्दश्शङ्कितो भवति। न हि ज्योतिरिह जगत्कारणं श्रूयते, येनादित्याद्येव जगत्कारणं न ततोऽन्यज्जगत्कारणं ब्रह्मास्तीति सिद्धान्तोपमर्दश्शङ्कितस्स्यात्। अथोच्येत– निरतिशयदीप्तियोग इह श्रूयमाणः कारणत्वाक्षेपकं लिङ्गं, “न तत्र सूर्यो भाति” “तस्य भासा सर्वमिदं विभाती”ति प्रकरणे “तथाक्षरात्संभवतीहविश्व”मिति निरतिशयदीप्तियुक्तवस्तुनः कारणत्वश्रवणादिति। यदि सूर्यचन्द्राद्यभिभावकं प्राकृततेजोरूपं मुण्डके श्रुतं, जगत्कारणं वस्त्विह निरतिशयदीप्तियुक्तज्योतिः ज्योतिश्शब्दार्त्थः पूर्वपक्षिणा गृह्यते, कथन्तर्हि आदित्यादिकमिह ज्योतिरिति पूर्वपक्षः क्रियते, नह्यादित्यादिरेव आदित्याद्यभिभावकज्योतिरित्येतद्धटते। उच्यते– ” न तत्र सूर्यो भाती “ति मन्त्रेण सूर्याद्यभिभावकत्ववन्नोच्यते, किंतु सूर्याद्यभास्यत्वं, ” न तद्भासयते सूर्यो न शशांको न पावक ” इति गीतावचनेनैव सूर्याद्यभास्यत्वञ्च सूर्यादेरपि संभवतीति पूर्वपक्ष्याशयः। इह ज्योतिः किमादित्यादि उत तदतिरिक्तं ब्रह्मेति प्रसिद्धिभूतचरणत्वाभ्यां संशये पूर्वपक्षः। आदित्याद्येव ज्योतिः, प्रसिद्ध्यिलङ्घनायोगात्, “इदं वा व तद्यदितमस्मिन्नन्तः पुरुषे ज्योति “रिति जाढरैक्योपदेशाच्च। प्राकृतज्योयिष्वेवहि तत्साजात्याभिप्रायेण तदैक्योपदेशोघटते। नच “विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषु लोकेष्वि”ति श्रुतसर्वोत्तरात्युत्तमलोकप्रसृमरदीप्तिमत्वमादित्यादेर्न घटत इति वाच्यं। विश्वतः पृथिवीलोकात् सर्वतोन्तरिक्षलोकाच्च उपरितनेष्वत्युत्तमेषु द्युलोकेष्वादित्यस्यापि रश्मिप्रसृतिसद्भावात्, तस्मान्निरतिशयदीप्तिरूपलिङ्गाक्षिप्तं जगत्कारणत्वमादित्यादिज्योतिष एवेति न ततोन्यज्जगत्कारणं ब्रह्म नामास्तीत्येवं प्राप्तेसिद्धान्तः– ज्योतिरिह प्रसिद्धज्योतिरतिरिक्तं ब्रह्मैव, पूर्वत्र ” पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतंदिवी” ति सर्वभूतपादत्वाभिधानात् तस्य च प्रसिद्धज्योतिष्यसंभवात्, पूर्वत्र यस्य सर्वभूतपादत्वमभिहितं तदेवेह ज्योतिश्शब्देन परामृश्यतइति द्युसंबन्धप्रत्यभिज्ञानेनावगमात्। जाठरैक्योपदेशस्तु फलाय तदात्मकत्वानुसन्धाविधानार्थः। “तदेतदृष्टञ्च श्रुतञ्चेत्युपासीत चक्षुष्यश्श्रुतो भवती “त्यग्रे तथा विधानदर्शनादिति न तेन तस्य प्राकृतज्योतिष्ट्वसिद्धिः। ननु पूर्वत्र “गायत्री वा इदं सर्व” मित्युपक्रम्य “सैषा चतुष्पदे “ति तस्याश्चतुष्पदत्वमभिधाय ” तदेतद्दचाभ्यनूक्तं तावानस्य महिमा ततोज्यायांश्च पूरुषः पादोऽस्य सर्वाभूतानि त्रिपादस्यामतन्दिवी”त्युक्तार्थे प्रमाणत्वेन अस्य मन्त्रस्योदाहृतत्वात् गायत्रीविषयोऽयं मन्त्रः, अतो नैतदतेन सर्वभूतपादत्वाभिधानेन तथाभूतपरमात्मसिद्धिरिति चेत्। मैवं–न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते, छन्दसस्सर्वभूतपादत्वासंभवात्, अपितु ब्रह्मणि गायत्रीसादृश्यानुसन्धीनमिहफलायोपदिश्यते, अस्तिच ” पादोस्य सर्वाभूतानि त्रिपादस्यामृतंदिवी”ति चतुष्पादत्वेनाम्नातस्य ब्रह्मणश्चतुष्पदया गायत्र्या सादृश्शं, अस्ति हि चतुष्पदापि गायत्री। “इन्द्रश्शचीपतिः। वलेन पीडितः। दुश्च्यवनो वृषा। समित्सु सा सहि” रिति तथा ह्यन्यत्रापि गायत्रीसादृश्यात् छन्दोऽभिधायि शब्दः अर्थान्तरे प्रयुज्यमानो दृश्यते। यथा संवर्गविद्यायां “ते वा एते पञ्चान्ये पञ्चान्ये दश सन्त ” इत्यारभ्य “सैषा विराडि” त्युक्तं, अत्र हि वायूस्सूर्यश्चन्द्रोऽग्निराप इत्येते पञ्च, प्राणो वाक्चक्षुश्श्रोत्रं मन इत्येते पञ्च, इत्येतेषु दशसु संख्यासाम्यात् विराड् छन्दोरूपत्वमुक्तं, दशाक्षरं हि विराड्छन्दः। किञ्च भूतपृथिवीशरीरहृदयानि निर्दिश्य “सैषा चतुष्पदे ” ति भूतादिचतुष्टयपादत्वव्यपदेशादपि गायत्रिशब्दोक्तः परमात्मैव। छंदस्तथात्वानुपपत्तेः। ननु अस्तु यत्किञ्चित्सर्वभूतपादं वस्तुपूर्वत्राभिहितं, तथापि न तस्येह प्रत्यभिज्ञानं, “दिवि” “दिव” इति निर्देशभेदादिति चेन्न। निर्देशभेदेऽपि अर्थविरोधाभावात्, वृक्षाग्रस्थिते श्येने वृक्षात्परश्श्येनइत्यपि व्यपदेशदर्शनात्, तस्मात् “तावानस्य महिमे” ति मंत्रप्रत्यभिज्ञापितपुरुषसूक्तप्रतिपाद्यं “आदित्यवर्णे तमसस्तु पार” इति निरतिशयदीप्तियुक्तदिव्यमङ्गळविग्रहवत्वेन तत्र प्रतिपन्नं यत्परमपुरुषाख्यं परं ब्रह्म तदेवात्र निरतिशयदीप्तियुक्तं ज्योतिरिति निर्दिश्यते। ननु, पुरषसूक्तेनैव सकलचेतनाचेतनप्रपञ्चविलक्षणः तस्य सर्वस्यापि कारणभूतः परमपुरुषः परंब्रह्मेति सिद्ध्यतीति किमर्थोयमयोगव्यवच्छदार्थः पादः। उच्यते बहुषु श्रुत्यन्तरेषु प्राणकाशज्योतिरिन्द्रादिशब्दैः कारणवस्तुनिर्देशे जाग्रात पुरुषसूक्तमात्रेण तत्प्रतिपाद्यं परमपुरुषो जगत्कारणं ब्रह्मेत्येतत् न दृढीकरणार्थ एवायमयोगव्यवच्छेदार्थो विचारः।।
संग्रहकारिका।।
परं ज्योतिस्साम्निश्रुतमुदरवह्न्यात्मकतया
परं ज्योतिष्ट्वं च प्रथितमिह न कारणगतम्।
अतो भानुर्लिङ्गाद्भवतु जगतां कारणमिति
प्रवास्या शङ्केयं पुरुषचरणोक्त्या विशदया।।
इति ज्योतिरधिकरणम्।।10।।
————-
प्राणस्तथानुगमात् ।।29।।
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमाह्यस्मिन्।।30।।
शास्त्रद्दष्ट्यातूपदेशो वामदेववत्।।31।।
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रित
त्वादिह तद्योगात्।।32।।
कौषीतकिनामुपनिषदि “प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामे ” त्युपक्रम्य “वरं वृणीष्वे “त्युक्तवति इन्द्रे “त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस” इति मनुष्याय मह्यं हिततमं वरं त्वमेव जानासि, अतस्तादृशं वरं त्वमेव विचित्य मह्यन्देहीति प्रतर्दनेन प्रार्थितस्येन्द्रस्य वचनं श्रूयते– “सहोवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्वे “ति। तत्र संशयः– किमिह हिततमोपासनकर्मभूतइन्द्रप्राणशब्दनिर्दिष्टः प्रसिद्धेन्द्रजीवः, उत तदतिरिक्तः परमात्मेति। तत्र पूर्वः पक्षः– “प्राणाकाशवाक्ययोस्तत्तद्वाक्यएव प्राणाकाशश्रुतिविरोधिसर्वभूतकारणत्वश्रवणवत् ज्योतिर्वाक्ये प्राक् ज्योतिःश्रुतिविरोधिसर्वभूतपादत्वश्रवणवच्च नेह स्ववाक्ये ततः पूर्वं वा इन्द्रश्रुतिविरोधिश्रवणमस्ति, प्रत्युत इन्द्रवाक्योपक्रमएव इंद्रस्य हिततमशब्दोक्तामृतत्वप्राप्त्युपायोपासनाकर्मत्वश्रवणमस्ति, तथाभूतोपासनाकर्मत्वञ्च जगत्कारणत्वव्याप्तं लिंगमिति ” तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ संपत्स्य ” इति सद्विद्यावाक्यावगतं, तस्मादिन्द्राख्यो जीवविशेषएव जगत्कारणं, न तदतिरिक्तः, परमात्माऽस्ती”ति। एवं प्राप्ते सिद्धान्तः– अयमिन्द्रप्राणशब्दनिर्दिष्टो न जीवमात्रं, अपितु जीवादर्थान्तरभूतं ब्रह्म “स एष प्राणएव प्रज्ञाऽऽत्माऽऽनंदोऽजरोऽमृत ” इति इन्द्रप्राणशब्दाभ्यां प्रस्तुतस्य सकलजीवासंभावितधर्मनिर्देशात्। ननु उपक्रमे “मामेव विजानीही”ति इन्द्रस्सावधारणं स्वात्मानमेव उपास्यमुपदिदेश, तदुपपत्त्यर्थे “त्वाष्ट्रमहनं अरुन्मुखान्यतीन् सालावृकेभ्यः प्रायच्छं बह्वीस्सन्धाअतिक्रम्य दिवि प्राहादीनतृणहं अन्तरिक्षे पौलोमान् पृथिव्यां कालकञ्जान् तस्य मे न लोमच मीयत” इति त्वाष्ट्रवधादिभिकृत्यैः स्वस्य लोमाऽपि नहिस्यत इति महामहिमयत्त्वेन स्वात्मानं तुष्टाव। तस्मादुपक्रमे जीवविशेष उपास्य इति निर्णये सति तदनुसारेण औपसंहीरिकं आनन्दाजरामृतत्वश्रवणं स्तावकतया नेतव्यमितिचेत् मैवं। सकलजीवासंभाविताध्यात्मसंबन्धभूयस्त्वं हि अस्मिन् प्रकरणे दृश्यते। तथाहि– प्रथमं ” त्वमेव चरणं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस ” इति पृष्टवन्तं प्रति “मामेव विजानीहि एतदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजीनीया ” दिति परमात्मासाधारणमोक्षसाधनोपसानकर्मत्वं इन्द्रप्राणशब्दनिर्दिष्टस्योच्यते, तदुपपादकञ्च पुष्करपलाशवाक्यप्रतिपन्नं सर्वपापाश्लेषफलमुपवर्ण्यते “सयोमां विजानीयात् नास्य केन कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणह्त्यये “ति। अथापि स्यात् इन्द्रस्यैव एवंभूतफलप्रदानसामर्थ्यमस्त्विति हि पूर्वपक्षः क्रियते– “इन्द्रोराजा जगतोय ईशे इन्द्रोराजा जगतश्चर्षणीनां। इन्द्रोयातोवसितस्य राजा न त्वावामन्यो दिव्यो नपार्थिवो नजातोनजनिष्यत ” इत्यादिषु महामहिमत्वञ्च तस्य श्रूयते, का तस्यामृतत्वसाधनोपासनाकर्मत्वानुपपत्तिरिति। तथाऽपि “तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरावर्पिताएवमेवैताभूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिता ” इति भूतमात्राशब्दोदितानामचेतनानां प्रज्ञामात्राशब्दोदितेषु चेतनेषु प्रतिष्ठितत्वमभिधाय यत्तेषामपि प्राणे प्रतिष्ठितत्वमभिधीयते तत् ” प्राणोऽस्मी” त्यादेः प्रसिद्धेन्द्रातिरिक्तपरमात्मविषयतामन्तरेण नोपपद्यते। नहि देवताऽधिकरणन्यायेन मुक्त्यर्थीन्द्रः कञ्चिदुपासनेन अप्रसाद्य स्वयं मुकिं्त लभेत, अतः प्रसिद्धेन्द्रातिरिक्तपरमात्मोपासनमेव इन्द्रेण “मामुपास्वे”त्युपदिष्टं, तेन स्वक्रियमाणमुक्त्यर्थोपासनावान्तरफलभूतः सर्वपापाश्लेषः “त्रिशीर्षाण “मित्यादिनोपन्यस्य इत्येव श्लिष्टतरं। एवञ्च “सन साधुना कर्मणा भूयान्नोएवासाधुना कनीयान् एषह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्यो उन्निनीषति एव उएवासाधु कर्म कारयति तं यमधो निनीषते एषलोकाधिपतिरेष लोकपाल एष लोकेश” इति मद्ध्यगतन्यपि सकलजीवासंभावितसाध्वसाधुकर्मप्रयुक्त भूयस्त्वकनीयस्त्वरीहित्यादिवचनानि सङ्गच्छते। तस्मान्मामुपास्वेति उपासनकर्मतया उपदिष्टः इन्द्रजीवातिरिक्तः परमात्मैव। कथन्तर्हीद्रेण मामुपास्वेत्युपदिष्टं “एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण” इत्यादिशास्त्रदृष्ट्या स्वान्तर्यामिण उपास्यत्वाभिप्रायेण, यथाऽहमादिपदानां तत्तच्छरीरकपरमात्मपर्यतत्वं जानता वामदेवेन स्वांतर्यामिणः स्वात्म्याभिप्रायेण अहं मनुसूर्यादिसर्वात्मभाव उपदिष्टः। तथाहि श्रूयते– “तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चे”त्यादि। ननु कथमिह अध्यात्मसंबन्धभूयस्त्वं, “नवाचं विजिज्ञासीत वक्तारं विद्यात्, त्रिशीर्षाणं त्वाष्ट्रमहनं, यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायु” रित्यादिजीवमुख्यप्राणलिङ्गानामत्र सत्त्वादिति चेत् उच्यते– परमात्मन एव त्रिविधमिहोपासनं विवक्षितं। तत्र “आनन्दोऽजरोऽमृत” इति स्वरूपेणोपासनं, जीवलिंगवाक्यैः चिद्विशिष्टयोपासनं, मुख्यप्राणलिंगैरचिद्विशिष्टतयोपासनञ्चेति। अन्यत्रापि त्रिविधामुपासनं दृश्यते, यथा आनन्दवल्ल्यां– “सत्यं ज्ञानमनंतं ब्रह्मे”त्यादौ स्वरूपेणोपासनं “तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् निरुक्तञ्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च विज्ञानञ्चाविज्ञानञ्चे” त्यादिषु चेतनं विशिष्टत्वेन अचेतनविशिष्टत्वेन चोपासनं, एवमिहापि परमात्मनस्रिविधोपासनसमाश्रयणमुपपद्यत इति सर्वमनवद्यम्।
संग्रहकारिका।
स्यादिंद्रस्त्विहकारणं हिततमोपासैककर्मत्वतो
नैतत्साध्वजरामृताद्यनुगमादग्रे तदुक्त्यात्मकात्।
इन्द्रस्य स्वशरीरकेश्वरदृशा मामित्युपासास्पदे
निर्देशो घटते ततोऽस्य चिदचिद्भिन्नं परं कारणम्।।
इति इन्द्रप्राणाधिकरणम्।।
इतिः श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमद द्वैत विद्या चार्यश्रीविश्वजि द्याजिश्रीरङ्गराजाध्वरिवर सूनोरप्पयर्दाक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे प्रथमस्याध्यायम्य प्रथमः पादः ॥