॥श्रीः॥
नयमयूखमालिका
।।प्रथमाध्यायस्य द्वितीय पादः।।
प्रथम पादे समस्तचिदचिद्वलक्षणश्रीपुरुषोत्तमाख्यवेदान्तवेद्यजगत्कारणास्तित्वं प्रसाधितं, तथाऽपि कानिचिद्वेदान्तवाक्यानि चिदचिदन्तर्भूतवस्तुविशेषप्रतिपादकानि दृश्यंत इत्याशङ्कानिरासः क्रियते। किञ्च जन्मादिसूत्रै ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भावातिव्याप्तिपरिहाराय विवक्षितौ, तत्र अयोगव्यवच्छेदः प्रथमपादेन सिद्धः अन्ययोगव्यवच्छेदार्थस्रिपाद्यारम्भइति च विभागः। तत्र स्पष्टतरजीवलिङ्गकानि वाक्यानि प्रथमे पादे विचारितानि, अस्पष्टजीवलिंगकानि द्वितीये विचार्यन्ते, स्पष्टजीवलिङ्गकानि तृतीये, प्रधानादिप्रतिपादनच्छायानुसारीणि चतुर्थ इति प्रायिकोऽयं पादार्थविभागः।।
सर्वत्र प्रसिद्धोपदेशात्।।1।।
विवक्षितगुणोपपत्तेश्च।।2।।
अनुपपत्तेस्तु न शारीरः।।3।।
कर्मकर्तृव्यपदेशाच्च।।4।।
शब्दविशेषात्।।5।।
स्मृतेश्च।।6।।
अर्श्रकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च।।7।।
संश्रोगप्राप्तिरिति चेन्न वैशेष्यात्।।8।।
छन्दोगास्समामनंति– “सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प ” इत्यादि। अत्र “सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीते”त्यनेन सर्वात्मकं ब्रह्म शांतस्सन्नुपासीतेति विधीयते, “सक्रतुं कुर्वीते”ति तस्यैवोपासनस्य मनोमयत्वाद्यग्रिमगुणविधानार्थोऽनुवादः। ननु उत्पत्तिशिष्टसार्वात्म्यगुणावरुद्धे कथं मनोमयत्वादिगुणांतरविधानं घटते। अथोच्यते– “सर्वं खल्विदं ब्रह्म तज्जलानि”त्यंतं भिन्नं वाक्यं, सर्वशब्दयोगेन “सर्वं खल्वि”त्यस्य “शान्तउपासीते”त्येतदेकवाक्यत्वनिवारणादिति। नैतद्युक्तं। तथाऽपि “शान्तउपासीते”त्यत्र अन्यार्थसन्निहितस्य ब्रह्मण उपास्यत्वेनेव तथा भूतस्य सार्वात्म्यस्यापि उपास्यगुणत्वेन अन्वयानिवारणात्, शतपथे अग्निरहस्यब्राह्मणे “सत्यं ब्रह्मेत्युपासीते”ति शाण्डिल्यविद्याविधौ उपास्यब्रह्मणः सत्यत्वविशेषणश्रवणेन अत्रापि तदैकार्थ्येन तादात्म्यगुणविधानौचित्याच्च।।
उभयोरैकार्थ्यञ्च “सच्चत्यच्चाभव”दिति श्रुत्यनुसारेण सत्यशब्दस्य परोक्षापरोक्षात्मकसकलवस्त्वात्मकत्वपरतया सूपपादं। एवञ्च कथं सार्वात्म्यगुणावरुद्धे मनोमयत्वादिगुणान्तरविधानमिति चेत् उच्यते– उत्पत्तिशिष्टे गुणः स्वविरोधिनमेवोत्पन्नशिष्टं न सहते, न तु गुणांतरमात्रं। न हि सोमद्रव्यमुत्पत्तिशिष्टमिति द्रव्यांतरमिव देवतादिगुणांतरमपि प्रतिक्षिपति। ननु तथाऽपि उपास्यब्रह्मगुणतया मनोमयत्वादिविधानमित्येतन्न युज्यते, “सक्रतुं कुर्वीत मनोमयः प्राणशरीर ” इत्यादिसामानाधिकरण्येन मनोमयत्वादीनामुपासकविशेषणत्वप्रतीतेरितिचेत्, उच्यते– अग्निरहस्ये समानप्रकरणे मनोमयत्वादिकमुपास्यविशेषणमाम्नायते। तत्रहि– “सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीते” तिस्थाने सत्यत्वविशिष्टब्रह्मोपासनां विधाय “अथ खलु क्रतुमयोऽयं पुरुषः सयावक्रतुरयं अस्माल्लोकात्प्रैति एवंक्रतुरिहामुं लोकं प्रेत्यभिसंभवती”ति तत्क्रतुन्यायप्रदर्शनपूर्वकं “सआत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमाकाशात्मनं कामरूपिणं मनोजवसं सत्यसङ्कल्पं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वाअनुदिशः प्रभूतं सर्वमिदमभ्यात्तमवाकमन्तदर” मिति मनोमयत्वादीनामुपास्यविशेषणत्वं स्पष्टमाम्नातं। ननु तदनुसारेणाप्यत्र प्रथमांतानां मनोमयादिपदानां “क्रतुं कुर्वीते “त्यत्र कथमुपास्यगुणसमर्पकतया अन्वय उपपादनीयः, प्रथमांतानां षष्ठ्यन्ततया विपरिणामेनोपपादनीयः। यद्वा “क्रतुं कुर्वीते”त्यनूदितसर्वात्मब्रह्मोपासनां प्रति प्रकारसमर्पको “मनोमयः प्राणशरीर” इत्यादिः एतमितः प्रेत्यभिसंभविताऽस्मी”त्यन्तः, तदनंतरमितिकरणबलात्। अनेन प्रकारेण क्रतुं कुर्वीतेत्यन्वयप्रतीतेः, तथाऽन्वये सत्येव “एषमआत्माऽन्तर्हृदय” इति वाक्यसामञ्चस्याच्च। तस्योपासनाप्रकाराभिनयपरत्वं विनास्वतंत्रश्रुतिवाक्यत्वे “म” इत्यस्यान्वयसामञ्जस्याभावात्, तथासत्येवच “एषमआत्माऽन्तहृदय” इति वाक्यानां त्रिः पाठस्य “सर्वकर्मा सर्वकाम” इत्यादीनां द्विः पाठस्यचोपपत्तेः। तथासति हि “प्रायणीयं प्रथममहः चतुर्विंशं द्वितीयं चत्वारोऽभिप्लवाष्षडहाः एकः पृष्ठ्यष्षडहः समासः सद्वितीयः सतृतीयः सचतुर्थः सपंचमः त्रयोऽभिप्लवाष्षडहाएकः पृष्ठ्यष्षडह” इत्यादौ गवामयनसत्रगताहः कलृप्तिवाक्ये अभिप्लवषडहादिशब्दानां असकृत्पाठस्य तत्रतत्रस्थाने षडहाद्यनुष्ठानाभ्यासार्थत्वेनेव तत्रतत्रस्थाने हृदयांतर्वर्तित्वानुसन्धानाभ्यासार्थत्वेन असकृत्पाठः साफल्यमश्नुते, तेषां वाक्यानामुपास्ये तत्तद्धर्मसद्भावमात्रबोधकश्रुतिवाक्यत्वे तद्वैफल्यं स्यात्। एवंच विहितोपासनानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेद इत्यपि शङ्का निरस्ता भवति। तेषामितिकरणोक्तेन प्रकारभावेनैकेन रूपेण विधेयत्वात्, वेधेयताऽवच्छेदकरूपैक्ये विधेयपदार्थभूतरूपांतरभेदेन वाक्यभेदाप्रसङ्गात्। अतएव “गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयवश्च व्रीहियवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं, दक्षिणेः “ति ज्योतिष्टोमदक्षिणाविधिवाक्ये गवादीनां रूपभेदे सत्यपि तेषां दक्षिणात्वेनैकेन रूपेण विधेयत्वान्नवाक्यभेदइति गवात्मकैकदक्षिणाविधानाङ्गीकारेण वाक्यभेदः परिहृतः। यद्वा श्रुतावितिशब्दः क्रमरूपं मनोमयत्वादीनां प्रकारमाचष्टेमनोमयत्वाद्यनुसन्धानक्रमेण क्रतुं कुर्वीतेति। तथा च विततिरूप एकः क्रम एवात्र विधेय इति न वाक्यभेदः, मनोमयत्वादीनामुपास्यगुणानां विधानं तु तत्क्रमविधानादाक्षेपतो लभ्यते, यथा “विश्वजित्सर्वपृष्टोऽतिरात्र” इत्यत्र पृष्ठगतसर्वताविधानात् पृष्ठसाम्नां रथन्तरादीनामित्यलं प्रपञ्चेन। एवं “उपासीते”त्यन्ते वाक्ये सर्वात्मकब्रह्मोपासनाविधिः, क्रतुवाक्ये मनोमयत्वाद्युपास्यगुणविधिरिति स्थिते संशयः। किमिह ब्रह्मशब्देन उपास्यतया निर्दिष्टो जीवः, उत परंब्रह्मेति, तत्र जीव इति पूर्वपक्षः। तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः, सर्वपदनिर्दिष्टंहि ब्रह्मादिस्तंबपर्यतं जगत्, ब्रह्मादिभावश्च जीवस्यैव अनादिकर्मप्रवाहविपाकानुसारिणा जन्मभेदेनोपपद्यते, परस्य तु ब्रह्मणः समस्तमङ्गलगुणाकरस्य निरस्तसमस्तहेयसम्बन्धस्य अतिहेयसर्वभावो नोपपद्यते। नच परिच्छिन्ने जीवे ब्रह्मशब्दायोगः, इदं ब्रह्मागच्छतीति श्रुत्यन्तरे तत्रापि तत्प्रयोगात्, तद्व्यावर्तनार्थ परमात्मनि परब्रह्मेति तत्र तत्र सविशेषनिर्देशदर्शनाच्च। जीवस्य च निर्मुक्तसंसारोपाधेः मुक्तिदशायां धर्मज्ञानविकासेन बृहत्त्वञ्चास्तीति तदीयकर्मनिमित्तत्वाज्जगज्जन्मस्थितिलयानां “तज्जलानि”ति हेतुनिर्देशोऽप्युपपद्यते। तस्माज्जीव एव अत्र उपास्यतया निर्दिष्टं ब्रह्मेति। एवं प्राप्ते सिद्धान्तः– “सर्वे खल्विद”मिति निर्दिष्टे सर्वस्मिन् जगति तदत्मतया विधीयमानं ब्रह्म परमेव ब्रह्म। न जीवः। जगज्जन्मादिहेतुकतादाम्यस्य प्रसिद्धत्वेनोपदेशात्। ब्रह्मणो जातत्वात् ब्रह्मणि लयवत्त्वात् ब्रह्माधीनजीवनत्वाच्च हेतोः ब्रह्मात्मकं खलु सर्वमिदं जगदित्युक्ते हि यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धा तदत्र ब्रह्मेति प्रतीयते। तच्चा परमेव ब्रह्मा, “यतोवा इमानि भूतानि जायन्त” इत्यादिश्रुतेः। ततश्च ब्रह्माधीनजन्मजीवनलयस्य स्थूलचिदचिद्वस्तुरूपस्य सर्वस्य जगतः तदपृथक्सिध्या तच्छरीरत्वेन तदात्मभूतत्वलक्षणं तत्तादात्म्यं तस्य सकलहेयप्रत्यनीककल्याणगुणाकरत्वेन न विरुध्यते, प्रकारभूतशरीरगतदोषाणां प्रकारिण्यात्मन्यप्रसङ्गात्। जीवस्य तु सर्वतादात्म्यनिर्देशो नोपपद्यते। तस्य प्रतिशरीरं भिन्नस्य अन्योन्यतादात्म्यासम्भवात्। तस्मादिह ब्रह्मशब्देन निर्दिष्टं परमेव ब्रह्मा। नन्वेवं सति कथं “मनोमयः प्राणशरीरं”इत्यनयोरूपास्यगुणतया ब्रहामण्यन्वयः, मनःप्राणयोरुपकरणोपकरणिभावेन जीवसम्बन्धस्यैव सुप्रसिद्धत्वादितिचेत् उच्यतेसांसारिकमनःप्राणसम्बन्धोऽत्र नार्थत्वेन ग्रहीतुं योग्य-, तस्य हेयस्य मुक्तिदशायां त्यक्तव्यस्य अनुपदोक्ततत्क्रतुन्यायविरोधेन उपास्यगुण्तवायोगात्। तस्मान्मुक्तदशाविकसितधर्मज्ञानरूपविशुद्धमनोग्राह्यत्वं मनोमयत्वं, सर्वप्राणिप्राणधारकत्वं प्राणशरीरत्वं, निरतिशयदीप्तियुक्तदिव्यमङ्गलविग्रहवत्त्वं भारूपत्वमित्यादिर्भाष्योक्तएव तेषामर्थो ग्राह्यः। एवं च एवंरूपा मनोमयत्वादयो जीव एव नोपपद्यते। तथा “एतमितः प्रेत्य अभिसम्भविताऽस्मी”ति प्रकृतस्य ब्रह्मणः उपासकप्राप्यतया निर्देशः, “एषम आत्माऽन्तर्हृदय” इति षष्ठीनिर्दिष्टादुपासकात् प्रथमान्तेन तस्य व्यतिरेकनिर्देशश्च, “ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती”त्यादिस्मृतिश्च, हृदयदेशास्थितमुपास्यं ब्रह्मजीव इति पक्षे नोपपद्यते। ननु ब्रह्मेति पक्षेऽपि “एषम आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वे”ति अल्पौकस्त्वाणीयस्त्वव्यपदेषो नोपपद्यते। मैवं, ध्यानार्थमणीयस्त्वमुपदिश्यते, न पुनरणीयस्त्वमेवास्य स्वरूपमिति। व्योमवच्चैष व्यपदेशो द्रष्टव्यः। अतएव “ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्य” इति तस्य स्वाभाविकं महत्त्वमपि श्रूयते। एवं च यस्योपाध्यनुक्त्या स्वाभाविकं महत्त्वमवगम्, तस्योपाध्युक्तिपूर्वकमुच्यमानं परिच्छिन्नत्वमैवोपाधिकमिति एवमौचित्यात्। इह अल्पत्वोपाधेः हृदयायतनत्वस्यैव ज्यायस्त्वोपाधेरश्रवणात् उपासनार्थमौपाधिकमणीयस्त्वं स्वाभाविकं ज्यायस्त्वञ्च विवक्षितमिति न कश्चिद्विरोधः। एवं तर्हि जीवस्येव परस्यापि शरीरान्तर्वर्तिचेतनत्वाविशेषात् तत्प्रयुक्तसुखदुःखभोगः प्राप्नुयादिति चेन्न। हेतुविशेषात्, नहि शरीरान्तर्वर्तिचेतनत्वमात्रं सुखदुःखभोगहेतुः अपि तु कर्मपारवश्यमपि, तत्त्वपहतपाप्मनः परमात्मनो न शक्यशङ्कं, तस्मादिहोपास्यं ब्रह्म परमेव ब्रह्मेति सिद्धम्।।
सङ्ग्रहकारिकाः।।
सर्वं खल्वित्यत्र सार्वात्म्यमुक्तं हेयं यस्य ब्रह्म तज्जीव एव।
पर्यायेणानादिंसारभाजस्तस्यह्येतद्युज्यते नो परस्य।।
मैवं खलुप्रयोगाद्धि प्रसिद्धवदनूद्यते।
सार्वात्म्यं कारणत्वोत्थं तच्च ब्रह्मणि विश्रुतम्।।
येऽन्ये मनोमयत्वाद्या वपाक्यशेषश्रुता गुणाः।
ब्रह्मण्येव च ते सर्वे युज्यन्ते न तु भोक्तरि।।
इति सर्वत्रप्रसिद्ध्यधिकरणम्।।1।।
————–
अत्ता चराचरग्रहणात्।।9।।
प्रकरणाच्च।।10।।
गुहांप्रविष्टावात्मनौ हि तद्दर्शनात्।।11।।
विशेषणाच्च।।12।।
कठवल्लीषु श्रूयते– “यस्य ब्रह्म च क्षत्रञ्चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्थावेद यत्र स ” इति। अस्य यस्मिन् प्रकारे स्थितः यत्प्रकारविशिष्टः। तं प्रकारं को वेदेत्यर्थः। अत्र ओदनोपसेचनसम्बन्धात् यस्येति षष्ठीनिर्दिष्टः तयोरत्ता प्रतीयते, स किं जीवः, उत परमात्मेति अत्तृत्वस्य कर्मफलभोक्तृत्वजगदुपसंहर्तृत्वान्यतररूपत्वानिर्द्धारणात् संशये पूर्वपक्षः– ओदनोपसेचनसम्बन्धात् अत्ता भोक्तैव। नच मृत्योरूपसंहारकारिणः उपसेचनत्वरूपणात् अत्ता संहर्ता प्रतीयत इति वाच्यम्। जीवस्य नित्यत्वेन मृत्युवश्यत्वाभावात् मृत्युर्जीवस्य विधेयप्राय इत्याशयेन मृत्यूपसेचनवादोपपत्तेरिति। सिद्धान्तस्तु– मृत्यूपसेचनवादोपपत्तेरिति। सिद्धान्तस्तु– मृत्यूपसेचनवादो मृत्योरबाधकत्वाभिप्रायो न वक्तुं युक्तः, उपसेचनशब्दस्य गौणत्वेऽपि स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वेन विशेषाकारेण गौणत्वे सम्भवति अबाधत्वरूपेण गौणत्वायोगात्। नहि “सिंहो देवदत्त ” इत्यत्र शौर्यादिविशेषाकारेणेव द्रव्यत्वादिसामान्याकारेण संहशब्दस्य गौणत्वमिष्यते। अत एव पूर्वतंत्रेऽपि “उद्गातृचमसमेकस्य श्रुतिसंयोगा”दित्यधिकरणे “प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रोद्गातॄणां प्रयजमानस्ये”ति अध्वर्युप्रैषगतस्य उद्गातृपदस्य बहुवचनानुसारेण अजहल्लक्षणया बहुषु वृत्तौ वक्तव्यायां उद्गातृगणमात्रवृत्तिर्विशेषाकारस्तन्निमित्तं, नतु षोडशाÐत्वक्साधारणः सामान्याकार इति निरूपितम्। एवं च यथौदनो येन दधिपयःप्रभृतिना तद्भोजनायोपसिच्यते तस्याप्यदनीयता, एवमोदनस्थानीयं ब्रह्मक्षत्रशब्दितं येन मृत्युनोपसिच्यमानमदनीयं प्रतीयते, तस्यापि मृत्योस्तेन महादनीयताप्रतीतेः, मृत्युना सह जगददनस्य प्रलय एव भावात् , प्रलये च सर्वस्य चराचरस्य संहारात्, समस्तं चराचरबृन्दं ब्रह्मक्षत्रशब्दलक्षितमवसीयते। नच समस्तस्य चराचरस्य मुख्यमदनं सम्भवतीति ओदनशब्दस्य विनाश्यत्वे लक्षणाऽवसीयते, यद्यपि विनाश्यत्वं भोज्यत्वभोग्यत्वापेक्षया सामान्याकारः. तथाऽपि सर्वस्य चराचरस्य ब्रह्मक्षत्रमात्रस्य वा कञ्चित्प्रत्योदनवत् भोज्यत्वाभावात् स्रीभृत्यादिवत् भोग्यत्वाभावाच्च समभिव्याहृदपदान्तरसामर्थ्यप्राप्तं विनाश्यत्वरूपसाधारणाकारनिमित्तत्वं न्यायप्राप्तत्वादुररीकरणीयम्। अतएव “इमां स्पृष्ट्वोद्गायेत् इमां हि विश्वभूतान्युपजीवन्ती”त्यत्र विश्वभूतोपजीव्यत्वसम्भिव्याहारप्राप्तं भूमिपरत्वं इमामित्यस्येष्यते, नतु सन्निहितौदुंबरीपरत्वं, एवं सिद्धे सकलचराचरसंहर्तृत्वे परमात्मलिंगे तेनात्ता परमात्मैव। “महान्तं विभुमात्मानं मत्वा धीरो न शोचती “त्यादिना प्रकृतस्य परमात्मनो “यत्रस” इति तत्पदेन परमर्शादप्येवमवसीयते। अथ स्यात् “ऋतुं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थ्ये। छायाऽऽतपौ ब्रह्मविदो वदंति पञ्चाग्नयो ये च त्रिणाचिकेता” इत्यनन्तरमन्त्रे ऋतुपानशब्दितकर्मफलभोक्तृत्वाभिधानात्, तस्य च जीवलिङ्गतया पूर्वाधिकरणे समर्थितत्वात्, तयोरेकस्तावत् ऋतुपानकर्ता जीवः, तस्य द्वितीयोऽपि बुद्धिप्राणयोरन्यतरः, कर्मफलभोगोपकरणत्वेन ऋतपानसम्बन्धित्वात्, अतः पूर्वप्रस्तुतोऽत्तापि तदेकप्रकरणक्वाज्जीवएवावसीयत इति चेत् उच्यते—
न प्राणजीवौ बुद्विजीवौ वा “गुहां प्रविष्टौ” “ऋतंपिबन्तावि”ति चोच्यन्ते, अपितु जीवपरमात्मानौ हि तथोच्येते; तस्मिन् प्रकरणे जीवपरयोरेव गहाप्रवेशव्यपदेशदर्शनात्, “तं दुर्दर्श गूढमनुप्रविश्टं गूहाहितं गह्वरेष्टं पूराणं। अद्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाती”ति परस्य गुहाप्रवेशव्यपदेशो दृश्यते, “या प्राणेन संभवत्यदितिर्देवतामयी। गुहां प्रविश्य तिष्टंती या भूतेभिर्व्यजायते”ति जीवस्य। अत्र कर्मफलान्यत्तीति यौगिकेनादितिशब्देन जीव उच्यते, नतु देवमाता पृथिवी वा, तयोरस्मदादिहृदयगुहाप्रवेशाभावात्। “प्राणेनसंभवति” सह वर्तते। देवतामयी। देवताशब्दादिंद्रियवाचिनः स्वार्थे मयट्प्रत्यय इति इन्द्रियाधीनभोगा। हृदयगुहांप्रविश्यतिष्ठंतीति-पृतीव्यादिभूतैःसहिता देवादिरूपेण विविधा जायत इति। एवञ्च “ऋतंपिबंता” विति व्यपदेशः छत्रिन्यायेन अजहल्लक्षणया योज्यः।यद्वा- स्वतंत्रप्रयोजकोभयसाधारणकर्तृत्वसामान्यपरः शतृप्रत्यय इति जीवपरयोरुभयोरपि मुख्यतयैव योज्यः, बुद्विप्राणयोरूपकरणायोः कर्त्रर्थे प्रत्ययो हि “चक्षूरूपग्राहक” मितिवत् कर्तृत्वोपचारादिति समर्थनीयं स्यात्। न च “सुकृतस्य लोक ” इत्यस्य कर्मफलभोगार्थमुपात्तस्य परमात्मद्वितीयपक्षेऽनुपपत्तिः, भोक्तिरिव भोजयितुरपि भोगस्थाने सन्निधानस्य वक्तव्यत्वात्। न च जीवपरयोः प्रकाशरूपत्वात् छायातपत्वनिर्देशानुपपत्तिः, अज्ञत्वसर्वज्ञत्ववैलक्षण्येन तदुपपत्तेः, “ज्ञाज्ञौ द्वावजावीशनीशा”वित्यादुश्रुतेः, हृदयगुहां प्रविष्टौ बुद्धिजीवाविति युक्तम्, “आत्मानं रथिनं विद्धि शरीरं रथमेवच। बुदिं्ध तु सारथिं विद्धि मनः प्रग्रहमेव चे “त्यत्रैवप्रकरणे जीवस्य रथित्वेन बुद्धेः सारथित्वेन च शरीराकाररथारूढत्ववर्णनात्। जीवपराविति तु न युक्तं, “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद “मिति तयोः प्राप्तृप्राप्यभावनिर्देशात् प्राप्यस्य रथ एव प्राप्तत्वे कस्य प्राप्तये रथारोहः कल्प्यत इति चेत्। उच्यते– गुहां प्रविष्टौ जीवपराविति युक्तं, “तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पूराणं। अध्यात्मयोगाधइगमेन देवं मत्वा धीरो हर्षशोकौ जहाति” त्यादिपूर्वापरमंत्रेषु तयोरेव उपास्योपासकभावेन प्राप्यप्राप्तृभावेनच तयोरेव विशेष्यमाणत्वात्। रथिरथसारथ्यादिरूपणन्तु उपासनोपयोगिशरीरादिवशीकरणसिव्द्यर्थ, “यस्तु विज्ञानवान्भवति युक्तेन मनसा सह। तस्येन्द्रियाणि वश्यानि सदश्वाइव सारथे” रित्यादिमंत्रातराम्नानात्। न तु परमपदप्राप्त्यर्थे, तावत्पर्यन्तं प्राकृतशरीरोंद्रियविषयादिगमनाभावात्। सर्वमेतदानुमानिधिकरणे स्पष्टीकरिष्यते। तस्मात् गुहां प्रविष्टौ जीवपरौनतु बुद्विजीवौ, अत्ताच परमात्मैवेति सिद्वम्।।
संग्रहकारिके।।
औदनसम्बन्धित्वादत्ता भोक्तेति जीवएव स्यात्।
नास्ति ब्रह्मप्रकरणमृतमन्त्रोऽग्रे हि बुद्विजीवपरः।।
मृत्युपसेचननिरूपणसन्निधानात् कृत्स्त्रञ्चरामिहाद्यतया प्रतीतम्।
तेनादनं हरणमित्युचितस्तदत्ता नाथस्सएव ऋतमंत्रगतस्स जीवः।।
इति अत्रधिकरणम्।।1।।
———————————
अन्तर उपपत्तेः ।।13।।
स्थानादिव्यपदेशाच्च।।14।।
सुखविशिष्टाभिधानदेव च ।।15।।
अतएव च सब्रह्म।।16।।
श्रुतोपनिषत्कगत्यभिधानाच्च।।17।।
अनवस्थितेरसंभवाच्च नेतरः।।18।।
छन्दोगाः समामनन्ति –“य एषोऽक्षिण पुरुषो दृश्यत एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनीह्येव गच्छति एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्याभिसंयंति सर्वाण्येनं वामान्याभिसंयंति यएवंवेद एष उएवं वामनीरेष हि सर्वाणि वामानि नयति एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाती”ति। अत्र अक्ष्यन्तरः पुरुषः प्रतिबिंबः स्यात्, “य एष “इति प्रसिद्धवन्निर्देशात् “दृश्यत” इत्यापरोक्ष्याभिधानाच्च। जीवात्मावा, तस्यापि चक्षुषि विशेषसन्निधानात् उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवस्य शरीरे स्थितिन्निश्चिन्वन्ति। “नेत्रस्थं जाग्रत”मिति च माण्डूक्यश्रुतेः। चक्षुः प्रतिष्ठो देवताविशेषो वा स्यात्, “रश्मिभिरेषोऽस्मिन्प्रतिष्ठित” श्रौतप्रसिद्धेः। न तु परमात्मा। “तन्दुर्दर्श”मिति दुर्दर्शत्वेनोक्तस्य तस्य “य एष दृश्यत” इति निर्देशायोगात्। इति पूर्वपक्षः। ननु कथमयं पूर्वपक्षो घटते, विषयवाक्य एव अमृतत्वाभयत्वयोरात्मब्रह्मश्रुत्योः संयद्वामत्ववामनीत्वभामनीत्वानाञ्चा तल्लिङ्गानामाम्नात्, “तद्यद्यप्यस्मि”न्निति स्थानिनिर्लेपत्वप्रयुक्तस्थाननिर्लेपत्वाम्नानात्, “तद्यथा पुष्करपलाशआपो न श्लिष्यन्ते एवमेवंविदं पापं कर्म न श्लिष्यत” इति वाक्येन “अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदुचन अर्चिषमेवाभिसम्भवन्ती”ति वाक्येन च ब्रह्मविद्याफलत्वेन प्रसिद्धयोः सकलपापश्लेषब्रह्मप्राप्तिफलयोः प्रतिपादनात्, “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे”त्युपक्रान्तब्रह्मप्रकरणानुवृत्तेश्च। एवं परमात्मपक्ष इवं प्रतिबिंबादिपक्षेषु श्रुतिलिङ्गादीनामन्यतमस्याप्यभावात्। अक्षिस्थत्वन्तु “यच्चक्षुषि तिष्ठन्, य एषोऽक्ष्णि पुरुषो दृश्यत” इत्यादिश्रुत्यन्तरेषु परमात्मन्यपि श्रुतं तत्साधारणमिति चेत् उच्यते– अक्ष्याधारत्वं परमात्मव्यावृत्तं प्रतिबिंबादिपक्षोत्थापकं भवत्येव। तस्य हि स्वमहिमप्रतिष्ठस्य मुख्यं तावदक्ष्याधारत्वं न सम्भवति, रूपविशेषावच्छेदोपाधिकं औपचारिकं सम्भवदपि तदाऽङ्गीकार्यम्, यद्यक्षिस्थस्य परमात्मत्वगमकं श्रुतिलिंगादिषु किञ्चिदिह जागृयात्। नत्वेतदस्ति। आत्मब्रह्मश्रुत्योः संयद्वामत्वादिगुणश्रवणस्य च इति शब्दाशिरस्कत्वेन “मनोब्रह्मेती” त्यादिवत् अतस्मित् तद्रूपप्रत्ययपत्वावगमात् तत्समभिव्याहृतामृतत्वादिश्रवणस्य च तन्मात्रपरत्वात् उदाहृतफलानां अब्रह्मोपासनयाऽपि वैवाहिकवरवधूदर्शनेन अभ्युदयवत् वचनबलादुपपत्तेः। ब्रह्मप्रकरणानुवृत्तिस्त्वसिद्धा, “प्राणो ब्रह्मे”त्यादेः “मनो ब्रह्मे”त्यादिसारूप्येण ब्रह्मदृष्टिविधिपरत्वात्, तस्य ब्रह्मोपासनाविधिपत्वेऽपि तदग्नीनां वाक्यं इदमाचार्यवाक्यमिति वक्तृभेदात्, अग्निविद्याभिर्व्यवधानाच्च। एवं ह्युपाख्यायते– उपकोसलः सत्यकाममाचार्यमुपसन्नः तस्य द्वादशवर्षाम्यग्नीन् परिचरन्नास्त, तस्मै ब्रह्मोपदेशमकृत्वैव आचार्यें प्रोषिते तदाऽपि आचार्याग्निपरिचर्यायमवहितं तमवेक्ष्यगार्हपत्यादयस्रयोऽग्नयः सम्भूय करुणया तस्मै “प्राणोब्रह्मे”त्यादिना ब्रह्मविद्यां “यएषआदित्ये पुरुषोदृश्यते सोहमस्मी”त्यादिना प्रत्येकं स्वस्वविषयविद्यांच उपदिश्य “एषा सोम्य तेऽस्मद्विद्या चात्मविद्याचे”त्यभिधाय “आचार्याद्धैव विद्या विदिता साधिष्ठं प्राप” दिति श्रुत्यनुसारेण स्वोपदिष्टा ब्रह्मविद्या तदाचार्यकर्तृगत्युपदेशेन साधिष्ठत्वं प्राप्नोत्विति आलोच्य “आचार्यस्तु ते गतिं वक्ते “त्यवोचन्निति। अतोगतिमात्रस्य वक्तव्यत्वेन परिशेषितत्वात्, तस्य ब्रह्मविद्याशेषत्वेऽपि “यएषोऽक्ष्णी” त्यादेस्तच्छेषत्वाभावात् तस्य प्रतिबिंबादिविषयतायां न काचिदनुपपत्तिः। यत्तु स्थानिमाहात्म्यप्रयुक्तसर्पिरूदकाद्यश्लेषवर्णनं स्थानिनः परमात्मत्वे लिंगमितितन्नः, वस्तुतः सलेपेऽक्ष्णिस्थानिमाहात्म्यायत्तसर्पिरुदकाश्लेषवर्णनस्य स्तुतिमात्रत्वात्। तस्मात्प्रतिबिंबादीनामन्यतमएवाक्षिपुरुष इति। एवं प्राप्ते सिद्धान्तः– यत्रोच्यमानस्यार्थस्याप्तवचनसंबन्धः प्रतिपाद्यः तत्र इतिशब्दोनार्थविवक्षां वारयति। यथा “इति हस्मोपाध्यायः कथयती”ति तस्मादिहामृतत्वादीनामाचार्यवचनसंबंधस्य प्रतिपाद्यत्वात् इतिशब्दो नार्थविवक्षावारकः । स्वाभाविकंचाम-तत्वादिकं जीवस्य न संभवति प्रतिबिंबस्य तु कथमपि नसंभवतीति आत्मब्रह्मश्रुत्यमृतत्वाभयत्वसंयद्वामत्ववामनीत्वाभमनीत्वलंगैर्बहुभिरक्षितपुरुषस्य परमात्मत्वनिश्चये सति अक्ष्याधारत्वमेकमौपचारिकं नेतव्यं, उपक्रमस्थैकप्रमाणापेक्षया उपरितनानेकप्रमाणानां बलवत्त्वात्। किंच “य एष ऽक्ष्णी पुरुषो दृश्यत” इति व्यपदेशात् उपासनाकोलेऽक्ष्णि वर्तमानत्वं विवक्षितमिति गम्यते, तत्तावत्प्रतिबिंबे न संभवति, उपासनाकालेऽक्ष्यभिमुखबिंबसन्निधापनकल्पने गौरवं, नासाग्रन्यस्तदृष्टिके तस्मिन् काले बिंबसन्निधापनकल्पनेऽपि न प्रतिबिंबोदयः संभवति, जीवस्यापि जागरे नियमेन अक्षिणस्थितिर्नसंभवति, अणुपरिमाणस्य तस्य सर्वस्मिन्नपि जागरे नेत्रमात्रवर्तित्वे शब्दादिज्ञानानुपपत्तेः। अतस्सर्वोद्रियकदभूतेः हृदिस्थितस्य तस्य धर्मभूतज्ञानप्रसरेण नेत्रपदोपलक्षितसर्वेन्द्रियाधिष्ठातृत्वं “नेत्रस्थ”मिति श्रुत्योच्यत इत्येवाभ्युपगन्तव्यं। चक्षुरधिष्ठात-देवताविशेषस्यापि “रश्मिभिरेषाऽस्मिन् प्रतिष्ठित” इति श्रुतेः तत्परिग्रहेऽपि अक्ष्याधारत्वस्यऔपचारिकत्वानपायात्, तं परिगृह्य ब्रह्मश्रुत्याद्युपेक्षणमयुक्तं। किंच “कं ब्रह्म खं ब्रह्मे”ति प्रकृतस्य सुखविशिष्टस्य परमात्मन उपासनास्थानस्य गुणांतराणांच विधानार्थं “य एषोऽक्ष्णि पुरुषः” इत्यभिधानादष्यक्षिपुरुषः परमात्मा। ननु अग्निविद्याव्यवधानात् “कंब्रह्मे”ति प्रकृतः परमात्मा नेह सन्निधत्ते। उच्यते– प्रवासात्पुनरागत आचार्यः प्रसन्नमुखमुपकोसलं वीक्ष्य “ब्रह्मविदइव वै सोम्यते मुखं भाति कोनु त्वानुशशासे” ति पृष्ट्वा सहाग्निभिर्भीते तस्मिन् अग्नयोऽस्मा उपदिदिशुरिति निश्चित्य “किन्तु सोम्य किल तेऽवोचन्नि”ति पृष्ट्वा एतावदवोचन्निति तेनोक्ते तत्र वक्तव्यविशेषोऽस्तीत्यवधार्य “अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश” इत्यादिना स्ववक्तव्यं प्रतिज्ञाय “ब्रवीतु मे भगवा”निति तेन प्रार्थितः ततः संयद्वामत्वादिगुणकमक्षिपुरुषं यदुपदिदेश तस्य प्रकृतस्य सुखविशिष्टब्रह्मान्यविषयत्वं कथं कल्पयितुमीश्महे। ननु “एषा सोम्यते अस्मद्विद्याचात्मविद्याचे”ति निचशेषमुपदिष्टतया उपसंतायां परमात्मविद्यायां वक्तव्यशेषसद्भावमालोच्य आचार्यः स्वयमुपदिदेशेति कल्पनेऽपि अग्नीनामनृतवादित्वं अनभिज्ञत्वं वा प्रसज्यत इति चेन्न। “आचार्यस्तु ते गतिं वक्ते”त्यग्निनां वचने गतिग्रहणस्य यदाचार्येण अग्रे वक्तव्यं तस्य सर्वस्यापय्पलक्षणार्थत्वात्, अन्यथा अग्रिमार्यवचनानामान्वययोगात्। ननु “कं ब्रह्म खं ब्रह्म” त्यत्र न ब्रह्मविद्याविदानं किं तु प्रसिद्वाकाशलौकिकसुखयोः ब्रह्मदृश्टिविधानमात्रं “कं ब्रह्म खं ब्रह्म”ति प्रत्येकं ब्रह्मपदयोगितिचेत्। उच्यते – भवभयभीतस्तावदुपकोसलः सत्यकाममुपसम्पन्नः। “व्याधिभिः प्रतिपूर्णोऽस्मि” त्याचार्यजायां प्रत्युकोसलस्यसांसारिकेषु विषयेषु व्याधित्वमारेप्य निंदावचनात्, अध्ययनार्थमुपसन्नेषु सर्वष्वन्येषु ब्रह्मचारिषु अध्याप्य समावर्तितेष्वपि अमुमसमावर्त्य अग्निपरिचर्यायां नियुज्य स्वयं सत्यकामः प्रोवासेत्यस्माच्च लिंगात्। एवं मुमुक्षया उपम्पन्नंप्रति कथं तदनुपयोगिनं दृष्टिविधिमग्नय उपदिशेषुः, तस्मात् यथा “प्राणोब्रह्मे”त्यत्र प्राणशरीरतया ब्रह्मणि सुखाकाशशब्दौ, उत तयोरन्योन्यव्यवच्छेदकतया निरतिशयानन्दब्रह्मस्वरूपसमर्पकत्वाभिप्रायेण वेत्यन्तरनिर्दिधारयिषया प्रश्नः। अमुमभिप्रायं जानन्तोऽग्नयः “यद्वाव कं तदेव खं यदेव खं तदेव कं” मित्युचुरिति तेषां द्वितीयपक्षएवाभिमत इत्याशयः। अत एवं “कं ब्रह्म खं ब्रह्मे” ति ब्रह्मपदद्वयमप्युपपद्यते, आकाशवत् ब्रह्मानवच्छिन्नं च भवति, तदेव ब्रह्म सुखरूपंच भवतीति प्रत्यायितुं। एवं च “यद्वाव कं तदेव खं यदेव तदेव क”मित्युभयथा विशेषणविशेष्यभावोक्तिः, अनवच्छिन्नसुखरूपं ब्रह्म सुखात्मकानवच्छिन्नवस्तुस्वरूपं च ब्रह्मेति उभयथा उपासनासिद्यर्थमिति सर्वमनवद्यम्। श्रुतोपनिषत्कस्य अधिगतपरमपुरुषयाथात्म्यस्य श्रुत्यन्त रप्र सिद्वा या अर्चिरादिगतिः तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीं उपकोसलायाक्षिपुरुषं श्रुतवते “अर्चिषमभिसम्भवन्ती”त्यादिना “एष देवपथो ब्रह्मपथः एतेन प्रतिपद्यमाना इमं मानवमावर्तन्नावर्तन्त” इत्यन्तेन यदाचार्य उपदिदेश, ततोऽप्यक्षिपुरुषः परमात्मा, न तु प्रतिबिंबादिः। नहि तस्य नियमेनोपासनाकालेषु वाऽक्षिण्यवस्थानमस्ति, न वा तस्मिन्निरुपाधिकममुतत्वादिकं संभवतीति।।
संग्रहकारिका।
यएषपुरुषोऽक्ष्णिदृश्यत इति प्रसिद्विगकादुपक्रमगतात्।
शरीरभृदिनोऽथवा प्रतिकृतिः सइत्यनुचितं बहुप्रतिहते।।
इति अन्तराधिकरणम्।।3।।
—————————————-
अन्तर्याम्यधिदैवाधिलोकादिषु तद्वर्मव्यपदेशात्।18।
नचस्मार्तमतद्धर्माभिलापाच्छारीरश्च।।19।।
उभयेऽपि हि भेदेनैनमधीयते।।20।।
“स्थनादिव्यपदेशाच्चे”ति सूत्रे “यश्चक्षुषितिष्ठ” न्नित्यादिनोक्तं चक्षुषि स्थितिनियमनादिकं परमात्मधर्मइति सिद्धं कृत्वा अक्षिपुरुषस्य परमात्मत्वं साधितं, तदेवेदानीं समर्थ्यत इति सङ्गतिः। वाजसनेयिनः समामनंति– “यः पृथिव्यांतिष्ठन् पृथिव्याअन्तरोयं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमंतरो यमयति एषतआत्मांतर्याम्यमृत ” इति। एवं अब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकादिष्वपि तिष्ठन्त तदंतरभूतं तदवेद्यं तच्छरीरकन्तत्तद्यमयन्तमामनंति। माद्ध्यन्दिनास्तु “यस्सर्वेषु लोकेषु सर्वेषु वेदषु सर्वेषु यज्ञेष्वि”ति पर्यायांतराण्यप्यामनंति। तत्र किमयमंतर्यामी जीवः परोवेति संशये जीवइति तावत्प्राप्तं, वाक्यशेषे “द्रष्टा श्रोतामन्ता विज्ञाते”ति चक्षुरादिकरणायत्तज्ञानताश्रुतेः। नच दर्शनश्रवणमननविज्ञानशब्दाः रूपादिसाक्षात्कारवाचिनः, न चाक्षुषादिज्ञानवाचिनः, न चाक्षुषादिज्ञानवाचिनः, रूपादिसाक्षात्कारास्तु परस्यापि सन्ति, “पश्यत्यचक्षुस्स श्रृणोत्यकर्ण ” इत्यादिश्रुतोरिति वाच्यम्। तथासति “नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाते”ति वाक्यश्रुतद्रष्टन्तरादिनिषेधायोगात्, दर्शनादिशब्दानां चाक्षुषादिज्ञानपरत्वे हि जीवादनयस्तद्वान् नास्तीति निषेधो युज्यते। रूपादिसाक्षात्कारवाचित्वे तस्य परस्मिन्नपि सत्त्वादन्यत्र तन्निषेधो न युज्यते। न च जीव इति पूर्वपक्षेऽपि “य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरोयमयती”त्येकवचनं, “यः पृथिव्यां तिष्ठ”न्नित्यादिपृथिव्यादिस्थितत्ववचनं, “यं पृथिवी न वेदे”ति पृथिव्याद्यवेद्यत्ववचनं, “यः पृथिवीमन्तरोयमयती”त्यादिपृथिव्यादि नियन्तृत्ववचनञ्च, न युज्यतइति वाच्यम्।
एकवचनस्य जीवसमुदायाभिप्रायेण, स्थितिवचनस्य स्वमहिमप्रतिष्ठितत्वोक्तरीत्या, तदन्तरत्वतन्नियन्तृत्ववचनयोरात्मेश्वरत्वोक्तरीत्या, तदवेद्यत्वोक्तेः निष्कृष्टस्वरूपज्ञानाभावाभिप्रायेण च, योजयितुं शक्यत्वात्। तस्माज्जीवएवायमन्तर्यामीति। एवं प्राप्ते सिद्धान्तः– “य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरोयमयति तमन्तर्यामिणं ब्रूही”ति सर्वान्तर्यामी कश्चिदेकोऽन्तर्याम्यस्ति तमन्तर्यामिं ब्रूहित्युद्दालकप्रश्नस्य हि “यः पृथिव्यान्तिष्ठ”न्नित्यादि याज्ञवल्क्यस्योत्तरं, अत्रैकवचनं जात्यभिप्रायादिना योजयितुं न युक्तं, प्रथमप्रवृत्तैकविषयप्रश्नानुसारेण उत्तरवचनानां सर्वदेलोकादिनियंत्रेकविषयत्वस्य वक्तव्यत्वात्। तस्मात् सुबालोपनिषदि “यस्य पृथिवीशरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीर” मित्यादिवाक्यसन्दर्भप्रतिनिर्देशे “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देवएको नारायण ” इति वाक्ये श्रुतः परब्रह्मरूपः पुरुषोत्तमएवात्रान्तर्यामि विवक्षितइति युक्तम्। तस्यैव च “एषत आत्माऽन्तर्याम्यमृत” इति निर्दिश्यमानं जीवाद्व्यतिरिक्तत्वं स्वाभाविकामृतत्वञ्च सङ्गच्छते। यत्तु “नान्यतोऽतोऽस्ति द्रष्टे”त्यदिकरणायत्तज्ञानवतोऽन्यस्य निषेधएव सङ्गच्छते, नतु रूपादिज्ञानवतोऽन्यस्य निशेध इति जीवपूर्वपक्षोपाद्बपकमुक्तं, तत्रेदमुत्तरं, “नान्योऽतोऽस्ति द्रष्टे”त्यादि न द्रष्ट्रान्तरादिनिषेधमात्रपरं, किंतु तत्सदृशसर्वभूतनियन्तृरूपद्रष्ट्रन्तरादिनिषेधपरं, “नञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगति”रिति शाब्दिकन्यायात्, तमेव हि न्यायमवलम्ब्य इषुनामके क्रतौ कतिपयवैशेषिकधर्माम्नानानन्तरमाम्नाते “समानमितिरच्छ्येनेने”ति वाक्ये इतरशब्दः स्येननामकक्रतुवैशेषिकधर्मानामतिदेशार्थः, न तु श्येनसाधारणानाञ्चोदकप्राप्तानां प्राकृतधर्माणामनुवादक इति निर्णीतं पूर्वतन्त्रे सप्तमाध्याये। एतेन “न दृष्टेर्द्रष्टारं पश्येः न श्रुतः श्रोतारं श्रृणुयाः न मतेर्मन्तारं मन्वीथाः न विज्ञातेर्विज्ञातारं विजानीयाः आत्मा वाऽरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य” इति मैत्रीयब्राह्मणे श्रोतेत्यादिपदानां श्रवणमनननिदिध्यासनसाक्षात्कारकर्तृपरताया दृष्टत्वात् इहापि तत्परत्वं वक्तिमुचितमिति श्रवणमननादिकर्त्रन्तरनिषेधो जीवपक्षएव घटते न परमात्मपक्ष इति शङ्काऽपि निरस्ता। नञिवयुक्तन्यायावलम्बनेन तत्सदृशनियन्त्रन्तरनिषेधस्य “पश्यत्यचक्षु”रित्यादिश्रुत्यन्तरप्रसिद्धार्थग्रहमानुकूलस्यैव तदर्थतया ग्राह्यत्वसमर्थनात्। यद्यपि चाक्षुषादिज्ञानवत्त्वेन सदृषस्यान्यस्यापि निषेधो जीवपक्षेऽपि घटते, तथाऽपि प्रधानवज्जीवोऽपि नान्तर्यामी भवितुमर्हति, सर्वनियन्तृत्वनिरूपाधिकामृत्वाद्यसम्भवात्। अपिचैतं जीवं काण्वामाध्यन्दिनाश्च उभयेऽपि अन्तर्यामिणो भेदेनाधीयते। “यो विज्ञाने तिष्ठन् विज्ञानादन्तर” इत्यादि हि काण्वा अधीयते। तत्रैव स्थाने “य आत्मनि तिष्ठ”न्नित्यादि माध्यन्दिनाः। तस्मादन्तर्यामी परमात्मैव न जीवः।।
संग्रहकारिका।।
द्रष्टृश्रोत्रादिशब्दाभिहितकरणजज्ञानभेदाश्रयत्वा
दन्तर्यामी शरीरी स्वनियमनवचोभाक्तमत्रेत्यसाधु।
एकस्यैव ह्यधीताखिलयमयितृता ब्रह्मणोऽन्यत्र कस्मिन्
संभाव्या तत्र रूपाद्यवगतिविषयादर्शनाद्या घटन्ते।।
इति अन्तर्याम्यधिकरणम्।।4।।
——————-
अदृश्यत्वादिगुणको धर्मोक्तेः।।22।।
विशेषणभेदव्यपदेशाभ्याञ्च नेतरो।।23।।
रूपोपन्यासाच्च।।24।।
आथर्वणिकास्समामनन्ति। “अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुरश्श्रोत्रन्तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यंति धीरा ” इति तदनन्तरञ्चामनंति। “दिव्योह्यमूर्तः पुरुषस्सबाद्याभ्यंतरोह्यजः। अप्राणोह्यमनाश्शुभ्रोह्यक्षरात्परतः पर ” इति । तत्र किमदृश्यत्वादिगुणकमक्षरं अक्षरात्परतः परश्च प्रकृतिपुरुषौ, उतोभयमपि परमात्मेति। प्रकृतिपुरुषाविति तावत्प्रातं, नह्यस्मिन्नक्षरेऽन्तर्यामिणि “अदृष्टोद्रष्टे”त्यादौ द्रष्टृत्वादिरिव चेतनधर्मः कश्चित्समाम्नायते। “अक्षरात्परतः पर” इत्यत्र च सर्वस्माद्विकारजातात् परं यत्प्रकृतं भूतयोन्यक्षरं तस्मात्परः क्षेत्रज्ञस्समष्टिपुरुषउच्यते। ननु इह चेतनधर्माश्रवणेऽप्यदृश्यत्वादिकं साधारणमिति कुतोऽक्षरस्य प्रधानत्वनिर्णयः। उच्यते– यथाखलु “अबालोऽयमतरुणोऽय”मित्यादिशब्दाः पुरुषविशेषे प्रयुज्यमानाः प्रत्यासन्नावस्थांतराश्रये तस्मिन्नेव वर्तते, एवं दृश्यत्वग्राह्यत्वरूपज्ञानंद्रियकर्मेंद्रियविषयत्वनिषेधाः धर्मिविशेषाकांक्षायां दृश्यत्वग्राह्यत्ववदचेतनजातएव सूक्ष्मावस्थे वर्तते इति युक्तं, तस्यैवावस्थांतरापन्नस्य धर्मित्वे संभवति धर्म्येतरकल्पनायोगात्। ननु तर्हि “अगोत्रमवर्णमचक्षुरश्रोत्रमपाणिपाद”मिति जीवे प्रसिद्धानां गोत्रादीनां निषेधजातस्य धर्म्याकांक्षायां तस्यैव शरीरान्निष्कृष्टस्य सूक्ष्मावस्थस्य धर्मित्वोपपत्या भूतयोन्यक्षरं जीवएव स्यात्, “अद्रेश्यमग्राह्य”मिति प्रकृतिलिंगनिषेधयोरूपक्रमगतत्वेपि गोत्रनिषेधादीनां जीवलिंगानां बहुत्वेन ततः प्राबल्यात् “क्षरं प्रधानममृताक्षरं हर ” इति जीवेप्यक्षरशब्ददर्शनात्, न क्षरति स्वरूपेण न विक्रियतइति तस्मिन्नप्यक्षरशब्दोपपत्तेः, अदृष्टद्वारा जगत्कारणे तस्मिन् भूतयोनित्वव्पदेशोपपत्तेश्चेतिचेत्। उच्यते– भूतयोन्यक्षरसमाम्नानन्तरं तस्य भूतयोनित्वविवरणार्थं प्रवृत्ते “यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्संभवन्ति। यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्व ” मिति मन्त्रे परिणाभ्युपादानभूतोर्णनाभ्यादिदृष्टांतोपादानेन अक्षरस्य भूतयोनित्वं परिणाभ्युपादानत्वरूपमवगमितं, तदनन्तरञ्च “यथा सुदीप्तात्पावकाद्विस्फुलिंगास्सहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधास्सोम्यभावाः प्रजायंते तत्रचैवापियंती “ति भूतयोन्यक्षरस्य सरूपकार्यप्रभवत्वोक्यापि तस्य भूतयोन्तवं परिणाभ्युपादानत्वरूपमवगमित्तं, तस्मादुपक्रमोपसंहाराभ्यामवगमिते भूतयोन्यक्षरस्य प्रकृतित्वे “यदगोत्र” मित्यादिजीवलिंगन्तत् तत्रैव कथञ्चिन्नेतव्यं। ननु उक्तरीत्या भूतयोन्यक्षरं प्रथानमित्यस्तु, “अक्षरात्परतः परस्समष्टिपुरुषइतित्वयुक्तं। उपक्रमादिविरोधात्। तथाहि परमोपक्रमे “सब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहे ” ति ब्रह्मविद्यासमाख्या आम्नायते। ततः “कस्मिन्नुभगोविज्ञाते सर्वमिदं विज्ञातं भवती” ति एकविज्ञानेन सर्वविज्ञानमुच्यते अक्षरवाक्येऽपि परविद्यासमाख्या दृश्यते। अपि च सद्विद्यावाक्यानां प्रधानपरत्वनिरासाऽर्थं ईक्षत्यधिकरणदर्शितायुक्तयोऽत्रापि प्रवर्ततएव, अस्तिखल्वीक्षापूर्वकस्रष्टृत्वश्रवणं अत्रापि “तपसा चीयते ब्र्मे”ति, यतस्तपश्शब्दोऽत्र “तपआलोचन”इति धातोर्निष्पन्नः स्रष्टव्यालोचनरूपज्ञानवाची, “यस्य ज्ञानमयं तप” इत्यग्रे विवरणात्, आत्मशब्दश्चास्ति “दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठित” इति तन्निष्ठस्य मोक्षोपदेशोऽप्यस्ति “यदापश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती”ति। हेयत्वञ्च तस्य नोच्यते, प्रतिज्ञाविरोधोऽप्यस्तीत्युक्तं, साक्षाच्च ब्रह्मणः कर्तृत्वमुपादानत्वं च श्रूयते– “कर्तारमीशं पुरुषं ब्रह्मयोनि”मिति। एतानि प्रमाणानि अक्षरात्परः पुरुषो ब्रह्मेति पूर्वपक्षश्चेत् तत्तद्विषयतया उपपद्यन्ते। सोऽपि समष्टिपुरुषइति पूर्वपक्षे केषांचिदुपपत्तावपि का भवेदन्येषां गतिरिति चेत्, उच्यते– “यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायत” इति यस्सामान्यतो विशेषतश्च समस्तवेत्ता सर्ववेदान्तेषु प्रसिद्धः परमात्माऽसि “तस्मादेतद्ब्रह्म, स ब्रह्मविद्या”मित्युपक्रमे ब्रह्मशब्देनोक्तं सकलक्षेत्रज्ञसमष्टरूपं हिरण्यगर्भाख्यं ब्रह्म तज्ज्ञायत इत्युच्यते, तद्विद्यायाः परविद्यात्वं मोक्षफलकत्वादुपपद्यते, अपरब्रह्मविद्यायाः मोक्षफलकत्वञ्च वचनबलाद्युज्यते, समष्टिपुरुषज्ञानेन तद्व्यष्टयोऽन्येपि क्षेत्रज्ञाः विज्ञाताभवंतीति सर्वविज्ञानवचनमपि घटत इति पूर्वपक्षी मन्यते। एवं प्राप्ते सिद्धान्तः–
भूतयोन्यक्षरं तावद्ब्रह्मैव, भूतयोनित्विवरणार्थे ” यथोर्णनाभि”रिति मन्त्रे “तथाऽक्षरात्सम्भवतीह विश्व” मिति विश्वशब्दस्य चेतनाचेतनात्मकसकलप्रपञ्चपरत्वात्, चेतनवर्गे च ब्रह्मकार्यत्ववत् प्रकृतिकार्यत्वस्याभावात्। न च ऊर्णनाभ्याद्युपादानोपन्यासानुसारेण विश्वशब्दः तत्परिणामत्वयोग्याचेतनमात्रपरः ख्यादिति वाच्यम्। प्रतिज्ञावाक्यानुसारेण तदपेक्षितोपादानत्वांशमात्रे दृष्टान्तोपन्यास इत्युपपत्तेः. प्रतिज्ञातार्थानपेक्षितदृष्टान्तगतसाम्यान्तरस्य अनुपयुक्तत्वात्। तथा “तपसा चीयते ब्रह्मे”ति तदनन्तरमन्त्रोऽपि तत इति पञ्चम्या प्रकृताक्षरगतस्य भूतयोनित्वस्य अन्नादिशब्दोक्तशब्दतन्मात्रादिकारणत्वप्रतिपादनद्वारा विवरणपर इति। तत्रत्यब्रह्मश्रुत्याऽपि अक्षरं ब्रह्मेत्यवसीयते। तथा “यस्सर्वज्ञ” इति तदनन्तरमन्त्रे सर्वज्ञत्वादिब्रह्मलिंगप्रतिपादके यच्छब्दस्य प्रकृतपरत्वादपि तथाऽवसीयते। न च अक्षरे पुल्लिंगानुपपत्तिः, भूतयोन्यभिप्रायेण तदुपपत्तेः, योनिशब्दस्य द्विलिंगत्वात्। न च “यथा सुदीप्ता” दिति मंत्रोक्तं कार्यकारणसारूप्यं अक्षरस्य प्रकृतित्वं गमयतीति वाच्यम्। तत्र “भावा” इत्यनेन चेतनवर्गस्यैव ग्रहणेन तत्कारणत्वस्य ब्रह्मण्येव सत्त्वात्। अत्र हि “सुदीप्ता”दिति विशेषणेन प्रकाशमानत्वं सारूप्यं विवक्षितं गम्यते, तत्तु चेतनवर्गस्यैवास्ति। किञ्च इदं प्रकरणं प्रधानात्पुरुषाच्च भूतयोन्यक्षरं व्यावर्तयति सर्वविज्ञानोक्त्यादिभिः। न च “सर्वमिदं विज्ञात” मिति चेतनाचेतनात्मकसकलप्रपञ्चविज्ञानत्वोक्तिः समष्टिपुरुषज्ञानेन व्यष्टिपुरुषज्ञानेन विज्ञातत्वविषयतया क्लेशेन योजनामर्हति। प्रकृतस्याक्षरस्य प्रधानात्समष्टिपुरुषाच्च भेदो व्यपदिश्यते– “दिव्योह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजः। अप्राणोह्यमनाश्शुभ्रः अक्षरात्परतः पर” इति। अक्षरादव्याकृतात् परो यः समष्टिपुरुषः तस्मादपि परोऽयं भूतयोन्यक्षररूपः पुरुषइत्यर्थः। ननु स्वाकार्येभ्यः परं यत्प्रकृतमक्षरं तस्मात्पर इत्यर्थः किं न स्यात्, स एव च युक्तः, “अक्षरात् परत” इति पञ्चम्योः सामानाधिकरण्यलाभादिचेत्, उच्यते– “सबाह्याभ्यान्तर” इत्यत्र स इति भिन्नं पदं पुरुषविशेषणं, यथा सुदीप्तादिति मन्त्रप्रकृतभूतयोन्यक्षरपरामर्शि सत् अक्षरात्परस्य पुरुषस्य तदभेदबोधनार्थं, नतु “सबाह्यान्तराभ्यन्तर” इति एकं पदं, वैयर्थ्यात्। “सबाह्यान्तराभ्यन्तर” इति सर्वगत्वोक्यैव सकलवस्तुसंसर्गसिद्धेः। एवंभूतयोन्यक्षरस्य अक्षरात्परस्य पुरुषस्य च अभेदेन ब्रह्मरूपत्वसिद्धौ पंचम्यन्ताक्षरपदवाच्यमव्याकृतमेव पर्यवस्यति। “अक्षरात्परतः पर” इत्यतः प्राचीने मंत्रे “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्या”मित्यक्षरपुरुषपदसामानाधिकरण्यादप्ययमर्थो निश्चीयते। अपि च “अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौदिशश्श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवीह्येष सर्वभूतान्तरात्मे”ति मंत्रे प्रकृतं भूतयोन्यक्षररूपं पुरुषं “अस्ये”ति सर्वनाम्ना परामृश्य त्रैलोक्यशरीरत्वोपन्यासादपि न प्रधानमक्षरं, नापि समष्टिपुरुषोऽक्षरात्परतः परः, यद्यपि पुराणादिषु हिरण्यगर्भस्यापि त्रैलोक्यात्मकं वैराजं शरीरं प्रसिद्धमस्ति, तथापि यस्मिन् चारचरात्मकं समस्तं जगत् हृगयवत्प्रतिष्ठितं तथाभूतं तत्तस्य न सम्भवति। यत्सम्भवति तदपि परमात्मात्मकमेव, “सृष्ट्यन्तरं करिष्यामि त्वामाविस्य प्रजापत ” इति वचनात्। न च “अग्निर्मूर्द्धे”कति मंत्रोक्तं सर्वभूतान्तरात्मत्वं हिरण्यगर्भे सम्भवति। तस्मादक्षरं अक्षरात्परतः परश्च परमात्मैव।।
संग्रहकारिके।।
भजति खविषयाणां लाघवात्सूक्ष्मरूपं
जडजगदनुवृत्तं दृष्यतादेर्निषेधः।
तदभिहितमथर्वण्यक्षरं स्यात्प्रधानं
तदुपरि च निरुक्तस्तत्परः पंचविंशः।।
सर्वज्ञत्वादिधर्मोक्तेः परएवाद्यमक्षरम्।
अन्यदव्याकृतन्तस्माद्यत्परस्तत्परोपि सः।।
इति अदृश्यत्वादिगुणकाधिकरणम्।।5।।
—————
वैश्वानरस्साधारणशब्दविशेषात्।।25।।
स्मर्यमाणमनुमानं स्यादिति।।26।।
शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदे-शादसंश्रवात्पुरुषमपि चैनमधीयते।।27।।
अत एव न देवता भूतञ्च।।28।।
साक्षादप्यविरोधं जैमिनिः।।29।।
अभिव्यक्तेरित्याश्मरध्यः।।30।।
अनुस्मृतेर्बादरिः।।31।।
संपत्तेरिति जैमिनिस्तथाहि दर्शयति।।32।।
आमनंति चैनमस्मिन्।।33।।
त्रैलोक्यात्मकरूपोपन्यासादक्षरवद्वैश्वानरोपि परमात्मेति निर्णीयत इति सङ्गतिः। छन्दोगाः “आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि”ति ऋषिभिः पृष्टस्य केकयराजस्योत्तरेष्वामनन्ति– “यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त” इति । तत्र किमयं वैश्वानरः परमात्मेति शक्यनिर्णयः उताशक्यनिर्णयइति वैश्वानरशब्दस्य साधारण्यात्। संशये पूर्वपक्षः। वैश्वानरशब्दश्चतुर्ष्वर्थेषु दृश्यते। जाठराग्नौ तावत् “अयमग्निवैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैषघोषो भवति यदेतत्कर्मावपिधाय श्रृणोती”ति, महाभूततृतीये च “विश्वस्माअग्निं भुवनाय देवाः वैश्वानरं केतुमह्नामकृण्व”न्निति, देवतायांच “वैश्वानरस्य सुमतौ स्याम राजा हि कं भवनानामभिश्री”रिति, परमात्मनिच “सएषवैश्वानरो विश्वरूपः प्राणोग्निरुदयत” इति। ननु अयमादित्यविषयोवैश्वानरशब्दः, न तु परमात्मविषयः, तदनन्तरं “तदेतदृचाभ्युक्त”मित्युपक्रम्य हि “सहस्ररश्मिश्शतधावर्तमानः प्राणः प्रजानामुदयत्येषसूर्य” इति सौरमन्त्रस्य वैश्वानरविषयत्वेनोदाहरणात्, तत्र “सएष” इति सर्वनाम्नोः “आदित्योहप्राण” इति प्रकृतादित्यपरत्वाच्चेतिचेत् उच्यते—
न केवलमादित्यपरस्तत्र वैश्वानरशब्दः, किंतु आदित्यान्तर्वर्तिपरमात्मपर्यन्तः, “अथोत्तरेण तपसा श्रद्धया विद्ययाऽऽत्मान्नमन्विष्यादित्यमभिजायन्ते एतद्धै प्राणानामायतनममृतमभयं परायणमेतस्मान्न पुनरावर्तन्त ” इत्यग्रे श्रवणात्। ननु “को न आत्मा किं ब्रह्मे”त्युपक्रमगतब्रह्मश्रुत्या वैश्वानरः परमात्मेति शक्यनिर्णयः। नच वाजसनेयिशाखायां “वैश्वानरं ह वै भगवान् सम्प्रति वेद तन्नो ब्रूहि”ति वैश्वानर शब्देन उपक्रमात् उपक्रमो न विनिगमक इति वाच्यम्। तस्य साधारणस्य वैश्वानरशब्दस्य छान्दोग्योपक्रमगतब्रह्मश्रुत्यनुसारेण परमात्मनि पर्यवसानोपपत्तेरितिचेत् मैवम्। “को न आत्मा किं ब्रह्मे”ति विमृष्टवतां प्राचीनशालादिनामग्रे द्युप्रभृतिषु वैश्वानरात्मदृष्टिर्वर्णितेति तदनुसारेण तदीयवचनगतयोरात्मब्रह्मश्रुत्योरात्मब्रह्मदृष्टिविषयत्वाकारेण अन्यत्र गौणतयैव प्रयोगात्। एवं ह्युपाख्यायते– औपमन्यवादयः पंच महर्षयः “को न आत्मा किं ब्रह्मे” ति मीमांसित्वा निश्चयमलभमानः वैश्वानरोपासनापरमुद्दालकं गत्वा तेनापि तस्यामकृत्स्नवेदिना अश्वपतिः केकयो वैश्वानरमुपास्ते तमभ्यागच्छामेत्युक्ताः उद्दालकषष्ठास्तमभिजग्मुः, स च तेषां ज्ञानं परीक्ष्य ततो वक्तव्यशेषं वक्ष्यामीत्यभिसन्धाय औपमन्यव कं त्वमात्मानमुपास्त” इत्यादिना तान् षडपि ऋषीन् क्रमेण पृष्टौ तैः “दिवमेव भगवोराज”न्नित्यादिभिर्यथाक्रमं द्युसूर्यानिलाकाशजलावनिषु वैश्वानरबुद्द्या स्वैरूपास्यमानतयोक्तेषु दिवादयो वैश्वानरं प्रति मूर्द्धचक्षुः प्राणमध्यस्थानपादावयवत्वेनोपास्याः, न तु वैश्वानरत्वेनेति व्यस्तोपासनाः प्रतिषिध्य समस्तोपासनाविषयस्य वैश्वानरस्य प्रागुपक्षिप्तं द्युमूर्द्धत्वादिविशिष्टं रूपमेकीकृत्योपदिदेश “मूर्द्धैव सुतेजा” इत्यादिनेति। तस्माद्वैश्वानरः परमात्मेति न शक्यनिर्णय इति । एवं प्राप्ते सिद्धांतः– परमात्मेति शक्यनिर्णयएव, “को न आत्मा किं ब्रह्मे “ति जीवात्मनामात्मभूतं परमात्मानं जिज्ञासमानैस्तदभिज्ञइति राजानमुपसन्नैः प्राचीनशालादिभिः पृष्टेन राज्ञोपदिष्टत्वात्। न च तेषामात्मब्रह्मशब्दयोर्गौणत्वाभिमानश्शङ्कनीयः, यतः “को न आत्मा किं ब्रह्मे ” ति विमर्शः अस्माभिरन्योन्यविरोधेन आत्मब्रह्मबुद्धद्योपास्यमानेषु द्युप्रभृतिषु वस्तुतः किन्तथाभूतं ब्रह्म किमेतेषामन्यतममन्यद्वेति वस्तुतत्वविषयः, न तु तेषु किंतथाभूतब्रह्मदृष्टिमारोप्योपास्यमित्यारोपितरूपविशिष्टविषयः, “अन्नब्रह्मे मनोब्रह्मे “त्यादिवत् अनेकत्र प्रतीके ब्रह्मदृष्ट्यापोरसंभवात् विरोधाभावेनास्मदुपास्यानां द्युप्रभृतीनां मध्ये किंतथाभूतब्रह्मदृष्ट्योपास्यमिति निर्द्धारणानपेक्षनात्। अतएव “दिवमेव भगवोराज” न्नित्यादिवाक्यैः स्वस्वभ्रमएवोद्धाटितः, सम्भवति ह्यद्यापि चन्द्रसूर्यादिषु केषांचित् ब्रह्मत्वभ्रमवत् द्युप्रभृतिषु तेषां तद्भ्रमः, अतस्तत्र गौणत्वशङ्काऽनास्पदाभ्यामात्मब्रह्मश्रुतिभ्यां वैश्वानरः परमात्मेति शक्यएव निर्णेतुं। किं च “सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ती”त्यनेन सर्वत्र वर्तमानमनवधिकातिशयानन्दरूपतया भोग्यं परंब्रह्मानुभवतीत्युच्यते, न तु कर्मवश्यैरात्मभिर्यदन्नं भुज्यते तदत्तीति, तस्य मुमुक्षून् प्रति हेयत्वात्। परमानन्दानुभवफलञ्च परमात्मपक्षएव घटते। “तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयत” इत्युच्यमानं सर्वपापप्रदाहफलञ्च तत्पक्षएव घटते। द्युप्रभृतिपृथिव्यन्तत्रैलोक्यात्मकं शरीरमिहोपदिस्यमानं “अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्या ” विति श्रुतौ “द्यां मूर्द्धानां यस्य विप्रा वदंति खं वै नाभिश्चन्द्रसूर्यौ च नेत्रे। दिशश्श्रोत्रे विद्धि पादौ क्षितिञ्च सोऽचिन्त्यात्मा सर्वभूतप्रेणेत”त्यादिस्मृतिषु च परमात्मनः प्रसिद्धं रूपं प्रत्यभिज्ञापयद्वैश्वानरं परमात्मानमवगमयति। स्यादेतत्, उक्तहेतुभिः वैश्वानरः परमात्मेति नशक्यनिर्णयः, शब्दादिभ्योन्तःप्रतिष्ठानाच्च जाठरइत्यपि प्रतीतेः। अग्निशब्दस्तावत् वाजसनेयके “सएषोग्निवैश्वानर” इति वैश्वानरसमानाधिकरणश्श्रूयते। छांदोग्ये च “हृदयं गार्हपत्योमनोऽन्वाहार्यपचनआस्यमाहवनीय” इति वैश्वानरस्याग्नित्रयस्थानकल्पनं क्रियते। “तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं सयां प्रथमामाहुतिं जुहुयात्तां जुहुयात् प्राणाय स्वाहे ” त्यादिना वैश्वानरस्य प्राणाहुत्याधारत्वमाम्नायते। तस्य च पुरुषेऽन्तः प्रतिष्ठितत्वं वाजसनेयिभिराम्नायते– “सयोहैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठित्वं वेदे”ति। एवमुक्तहेतुभिः वैश्वानरोजाठरइत्यपि प्रतीयत इति चेत्, नैषदोषः। त्रैलोक्यशरीरस्य वैश्वानरस्य परमात्मनोजाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात्। अग्निशब्दादिभिः न केवलो जाठरः प्रतिपाद्यते, किन्तु तद्विशिष्टः परमात्मा, केवलस्य जाठरस्य त्रैलोक्यशरीरत्वासंभवात्, “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विध “मिति गीतासु भगवतो जाठराग्निशरीरतया अशितपीतान्नादिपक्तृत्वप्रतिपादनाच्च। एतेभ्यएव हेतुभ्यः अग्न्देवतायाः तृतीयमहाभूतस्य च वैश्वानरत्वशङ्काऽपि प्रत्युक्ता। जैमिनिस्त्वाचार्योमन्यते– यथा वैश्वानरशब्दस्साधारणोपि परमात्मासाधारणधर्मदर्शनात् विश्वेषां नराणां नेता वैश्वानरः स एव स्वार्थिकाण्प्रत्ययेन वैश्वानर इत्येवं परमात्माभिधायको निश्चीयते, एवंमग्न्शब्दोऽग्रनयनादियोगेन परमात्माभिधायक इति निश्चीयते, तस्य योगस्य ज्वलनादपि सर्वान्तरात्मनि परमात्मन्येव सुप्रतिष्ठितत्वादिति। ननु अपरिच्छिन्नस्य परमात्मनः “यस्त्वेतमेवं प्रादेशमात्र”मिति श्रूयमाणं द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कथमुपपद्यते, उपासकबुद्ध्यारोहार्थतया तथा प्रादेशमात्रत्वप्रतिपादनं, न तु परिच्छिन्नत्वाभिप्रायेण। तत्रैव “अभिविमान”मिति अभितो विगतमानत्वोक्तेः। तथाऽपि प्राकृतद्युमूर्द्धादिमत्त्वं अप्राकृतरूपस्य परमात्मनो न सम्भवतीति चेन्न। उपासनार्थं तथा पुरुषविधत्वकल्पनोपपत्तेः। परमात्मा वैश्वानरश्चेत् उरःप्रभृतीनां “उरएव वेदिर्लोमानि बर्हिर्हदयं गार्हपत्य” इत्यादिना कथं वेद्यादित्वोपदेशः, जाठरपरिग्रहे हि स उपपद्यत इति चेत्, उच्यते– तस्य वैश्वानरस्य समाराधनभूताया उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनार्थो ऽयमुरःप्रभृतीनां वेद्यादित्वोपदेशः। अत एव प्राणाहुतेरग्निहोत्रत्वसम्पतिं्त परमात्मोपासनोचितफलञ्च दर्शयति श्रुतिः– “स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वत्मसु हुतं भवति तद्यथैषिकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्त” इति। ननु परमात्मनो द्युप्रभृतीशरीरत्वमयुक्तं, उपासकस्य मूर्द्धाद्यवयवानामेव द्युप्रभृतित्वेनोपासनाविधानात्, “तस्य हेवा एतस्ये” त्यादि ह्युपासकस्य द्युमूर्द्धत्वादिप्रतिपादकं, “उर एव वेदि”रित्यादिसमभिव्याहारादिति चेत् सत्यं, उपासकद्युमूर्द्धत्वाद्यनुसन्धानं न परमात्मद्युमूर्द्धत्वादिकमुक्तं, तदीयमेव द्युमूर्द्धत्वादिकमुपासकस्याप्युक्तं, “तस्य हवा एतस्यात्मनो वैश्वानरस्ये “ति तदीयत्वेन परामृष्टमेव हि द्युमूर्द्धत्वादिकमुपासके वर्णितम्। अतः परस्य मूर्द्धादिना अहं द्युमूर्द्धा परस्य चक्षुषा सूर्येण अहं सूर्यचक्षुक इत्यादिरूपेणानुसन्धानपरस्य प्राणाग्निहोत्रेणाराधंनं कार्यम्। तस्मादिहोपक्रान्तो वैश्वानरः परमात्मेति सिद्धम्।।
संग्रहकारिके।।
वैश्वानरो न परमात्मतया नियन्तुं शक्यश्चतुर्विषयसंशयहेतुसत्त्वात्।
साधारणं हि जठराग्नितृतीयभूततद्दैवतस्य च पदं परमात्मनश्च।।
मैवं मुमुक्षुप्रश्नाच्च ब्रह्मशब्दश्रुतेश्च सः।
तादृक्फलोपदेशाच्च परं ब्रह्मावधार्यते।।
इति वैश्वानराधिकरणम्।।
—————
।।इति द्वितीय पादः।।