[highlight_content]

नयमयूखमालिका – Adhyaya 1 Pada 3

॥श्रीः॥

नयमयूखमालिका

।।प्रथमाध्यायस्य तृतीय पादः।।

द्युभ्वाद्यायतनं स्वशब्दात्।।1।।

मुक्तोपसृप्यव्यपदेशाच्च।।2।।

नानुमानमतच्छब्दात्प्राणभृच्च।।3।।

भेदव्यपदेशाच्च।।4।।

प्रकरणात्।।5।।

स्थित्यदनाभ्याञ्च।।6।।

आथर्वणिकाः समामनंति– “यस्मिन् द्यौः पृथीवी चांतरिक्षमोतंमनस्सप्राणैश्च सर्वैः तमेवैकंजानथात्मानमन्यावाचो विमुंचथ अमृतस्यैषसेतुरिति। अत्र द्युभ्वाद्यायतनं जीवः परोवेति संशये जीवइति तावत्प्राप्तं, “अराइव रथनाभौ संहतायत्र नाड्यः सएषोऽन्तश्चरते बहुधा जायमन इति उत्तरमत्रे नाड्याधारत्तवशरीरांतस्संचारजन्मवत्त्वानां जीवलिंगानामाम्नानात्, तत्र आदिमन्त्रे “ओतं मनस्सह प्राणैश्च सर्वै”रिति मनः प्राणाश्रयत्वरूपजीवलिंगाम्नानात्, “एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेष। प्राणैश्चित्तं सर्वभोतं प्रजानां यस्मिन् विशुद्धे विभवत्येव आत्मे”त्यन्यत्र जीवे मनः प्राणयोरोतत्वश्रवणात्। द्युपृथिव्याद्यायतनत्वन्तु जीवस्य अदृष्टद्वारा सङ्गमयितव्यमित्येवं प्राप्तेऽभिधीयते– द्युभ्वाद्यायतनं परमात्मा, तदसाधारणामृतसेतुत्वश्रवणात्, अमृतसेतुत्वं ह्यमृतत्वप्रापकत्वं, सेतुर्हि नद्यादिषु कूलस्य प्रतिलम्भकः। एवं संसारार्णवपारभूतस्यामृतस्य प्रतिलम्भक इत्यर्थः। आत्मशब्दश्चात्र स्वशब्दः, सह्याप्नोतेर्मन्प्रत्यये बाहुलके दकारे च सति निष्पन्नः। नियंतृत्वेन सर्वत्र व्याप्तिमति परमात्मन्येव मुख्यवृत्तिः। नाड्याधारत्वं परस्यापि सम्भवति “सन्ततं सिभिस्तु लम्बत्याकोशसन्निभ”मित्युपक्रम्य “तस्याश्शिखायामध्ये परमात्मा व्यवस्थित” इत्याम्नानात्। बहुधा जायमान्तवमपि तस्यास्ति, “अजायमानो बहुधा विजायते, अजोऽपि सन्नव्ययात्मा भूतानामूश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायये” त्यादिश्रुतिस्मृतिदर्शनात्। किंच “यदा पश्यः पश्यते सुक्मवर्णं कर्तारमूशं पुरुषं ब्रह्ययोनिं। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति, यथा नद्यस्स्यन्दमापास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्मारूपाद्विमुक्तः परात्परं पुरुषमुपैतिदिव्य”मिति मुक्तप्राप्यत्वश्रवणादपि द्युपृथिव्याद्यायतनं परमात्मा। अपि च यथाऽस्मिन् प्रकरणे प्रधानप्रतिपादकशब्दाभावात् न प्रधानं द्युपृथिव्याद्यायतनं, एवंजीवोऽपि, तत्प्रतिपादकशब्दस्याप्यभावात्, ननु इदं दृष्टांतदार्ष्टान्तिकद्वयमप्युक्तं। तथाहि– प्रधानस्य तावत् “यस्मिन् द्यौ”रित्यादिरेव तच्छब्दः, अक्षरब्राह्मणे “यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या ” इत्यादिना प्रधानस्य द्युपृथिव्यादिसकललोकाधारत्वप्रतिपादनात् “यस्मिन् द्यौ” रित्यस्य गच्छब्दयोगेन तदनुवादत्वप्रतीतेः। नच तस्मिन् “अमृतस्यैषसेतु” रिति व्यपदेशानुपपत्तिः। अमृतश्दोह्यत्र ब्रह्मपरः, नत्वमृतत्वरूपमोक्षपरः। “यस्मिन् द्यौ” रिति मन्त्रात्पूर्व “तदेतत्सत्यममृत”मिति “आनन्दरूपममृतं यद्विभाती”ति च ब्रह्मणि अमृतशब्दाम्नानेन तस्यैव अत्रामृतशब्देन प्रत्यभिज्ञानात्। अतः प्रधानं “अमृतस्यैषसेतु”रिति व्यपदेष्टुं शक्यम्। ब्रह्माधीनत्वेन ब्रह्मसंबन्धित्वात्। “सेतु” रित्यपि व्यपदेष्टुं शक्यम्। सेतु शब्दोहि “षिञ्बन्धन् ” इति धातोः व्युत्पन्नोबन्धहेतुमाचष्टे। नच बन्धहेतुमात्रं जलबन्धहेतुमात्रं वा तदर्थः, घटोदरनिस्सरज्जलबन्धहेतुमधूच्छिष्टादौ तदप्रयोगात्, किंतु पारावारमध्यवर्तित्वविशेषितं जलबन्धनहेतुत्वं तदर्थः, तस्मादिह लक्षकेण सेतुशब्देन पारवत्त्वं लक्षयितुं युक्तं, सहजत्वात् शब्दार्थैकदेशत्वाच्च। पारवत्त्वन्तु प्रधानस्यैव अस्ति, न ब्रह्मणः, “महद्भूतमनंतमपार”मिति श्रुतेः। आत्मशब्दोऽपि देहपरतया तस्मिन्नुपपद्यते, “आत्मा जीवे धृतौ देह ” इत्यादिस्मरणात्। “अन्यवाचो विमुंचथे”त्येतदपि प्रधानमेव देहं जानीध्वं स्थूलदेहविषयास्तु देहत्ववाचो विमुंचथ देहविविक्तात्मज्ञानार्थं हि देहोमुमुक्षुभिर्ज्ञातव्यः, सतु न स्थूलदेहः, आगमापायिनः ततो विवेकस्य मुज्ञानत्वात्। किंतु अन्तःकरणादिरूपापन्नाव्याकृतात्मा सूक्ष्मदेह इति, तस्मात् प्रधानं द्युभ्वाद्याधार इति घटते। जीवइति पक्षोऽपि घटते, जीवोपकरणानां तेषां जीवादृष्टायत्तोत्पत्तिस्थितिकत्वेन तदाश्रितत्वव्यपदेशोपपत्तेः। यथावा असनाभौ समर्षिताएवमस्मिन् प्राणे सर्वं समर्पितमिति भृमविद्यायां, “एवमेताभूतमात्राः प्रज्ञामात्रस्वर्पिता ” इति प्रतर्दनविद्यायांच, अचिद्वर्गस्य जीवाश्रितत्वप्रतिपादनाच्च। “एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेशे”ति “प्राणैश्चित्तं सर्वमोत प्रजानां यस्मिन्विशुद्धे विभवत्येषआत्मे”ति मुण्डकएव अग्रे मनसः प्राणानांच जीवाश्रितत्वप्रतिपादनात्। आत्मशब्दश्च तस्मिन्नुपपद्यते “प्रणवोधनुश्शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवे”दिति प्राचीनमन्त्रे तत्रैव आत्मशब्दस्य प्रयुक्तत्वात्। तमेवैकं जानथात्मन”मित्येतदपि तस्मिन्नुपपद्यते।

“मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाती”ति जीवविज्ञानस्य ब्रह्मदर्शनहेतुत्वोक्त्या तस्याप्राधान्येन अपेक्षितत्वात्। “अन्या वाचो विमुञ्चथे”त्येतदपि तस्मिन्नुपपद्यते। “धनुर्गृहीतत्वौपनिषदं महास्रं शरंह्युपासानिशितं सन्दधीत। आयम्य तद्भावगतेन चेतसा लक्ष्यन्तदेवाक्षरं सोम्य विद्धी”ति व्यवहितपूर्वमंत्रे देहस्थौल्यादिविशिष्टतया भासमानस्य जीवस्य उपासनया देहादिविवेकदार्ढ्यापादनेन तनूकरणोक्तेः, जीवोपासनायाञ्च तदन्यविषयवाग्विमोकावश्यम्भावात्। “अमृतस्यैष सेतु”रिति व्यपदेशस्तु प्रधाने वर्णितयैव रीत्या जिवेप्युपपद्यते। तस्मात् प्रधानजीवपक्षयोः न काचिदनुपपत्तिरिति चेत् उच्यते– “यस्मिन् द्यौ”रित्यादेरक्षरब्राह्मणोक्ताक्षररूपाधारान्तरसापेक्षद्युपृथिव्याद्याधारप्रधानानुवादकत्वन्तावदयुक्तम्। सन्मूलास्सोम्येमास्सर्वाः प्रजा” इत्यादि छान्दोग्य श्रुत्याम्नातनिरपेक्षसर्वाधारब्रह्मानुवादकत्वे सम्भवति सापेक्षाधारानुवादकत्वकल्पनायोगात्। एवं च द्युभ्वादिसर्वाधारत्वोक्तिनिर्वाहार्थं अपेक्षितत्वेन आत्मशब्दस्य व्यापकत्वरूपार्थएव ग्राह्यः, समभिव्याहृतपदान्तरैकवाक्यत्वयोग्यएव लाक्षणिकार्थोग्राह्यइति अत्रधिकरणे व्यवस्थापितत्वात्। एवं ब्रह्मैकान्तिकद्युपृथिव्याद्याधारत्वात्मश्रुत्यनुसारेण “निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। अमृतस्य परं सेतुं दग्धेन्धमिवानल”मिति श्वेताश्वतरे ब्रह्मणि अमृतसेतुत्वव्यपदेशदर्शनात्, तदनुसारेण “अमृतस्यैषसेतु” रित्यस्य अमृतस्यस्वस्य स्वयमेव प्रापक इत्येवार्थौ ग्राह्यः, तथाऽपि उत्तरमन्त्रगता शरीरान्तस्सञ्चारोक्तिर्व्यापके ब्रह्मणि न युज्यत इति चेत् न। सुबालोपनिषदि– “यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चर”न्नित्यादिवाक्यसन्दर्भे सर्वनियन्तृतया सर्वत्र व्याप्तेस्संचारत्वेन व्यपदेशदर्शनात्, इहापि तस्यास्तथात्वेन व्यपदेशोपपत्तेः। अपि च अस्मिन् प्रकरणे “समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक” इति मंत्रः श्रूयते। अस्यार्थः– समाने एकस्मिन् वृक्षे वृक्षवदूश्चनार्हस्वभावे शरीरे निमग्नः पांसुपुञ्जनिमग्नजलकण इव तदैक्यमापन्नः पुरुषो जीवः अनीशया प्रकृत्या मुह्यमानश्शोचति। अयं यदा स्वस्वमादन्यं जुष्टं प्रीयमाणं प्रसीदन्तं सर्वस्येषं अस्यचेश्वरस्य निखिलजगन्नियमनरूपं महिमानं च पश्यति तदा वितशोको भवतीति। अस्मिन् मंत्रे यद्यपि ब्रह्मवज्जीवोऽप्युपात्तः, तथाऽपि द्रष्टृत्वसमानाधिकरणं मुह्यमानत्वं दृश्यत्व समानाधिकरणमीशत्वं च व्यपदिशन्तीयं श्रुतिः “तमेवैकं जानथे”ति ज्ञयतया निर्दिष्टं द्युभ्वाद्याधारमीशमेव प्रत्यभिज्ञापयति। किं च प्रकरणमिदं परमात्मन इति प्रागक्षराधिकरणे दर्शितम्। अतोऽप्ययं परमात्मा। न च अक्षरप्रकरणादेव अक्षराधिकरणसिद्धात् द्युपृथिव्याद्याधारस्य परमात्मत्वसिद्धौ किमनेनाधिकरणेनेति शङ्कनीयम्। प्रकरणस्य नाडीसम्बन्धबहुधाजायमानत्वमनःप्राणाधारत्वादिभिः जीवैकातिभिः विच्छेदशङ्कायां तत्परिहारार्थत्वात्। अपि च अस्मिन्प्रकरणे “द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अनस्नन्नन्यो दीप्यमानः परमात्मा च प्रतिपाद्यते, तथाऽपि द्युभ्वाद्याधारः परमात्मैवेति युक्तं, दीप्यमानत्वोक्त्या तत्रैव प्राकरणिकसर्वज्ञत्वाद्यन्वयस्वारस्यात्। अनेन सूत्रेण सर्वविज्ञानप्रतिज्ञोपक्रमात् ” ब्रह्म वेद ब्रह्मैव भवती” त्युपसंहाराच्च जीवब्रह्माभेदे प्रकरणस्य तात्पर्यमिति शङ्कानिराकरणमपि कृतम्। “अभि , अनश्न” न्नित्युपपत्तिसहितभेदव्यपदेशेन तयोर्भेद एव सिद्ध्योदिति।।

सङ्ग्रहकारिके।।

द्युभ्वाद्यायतनं जीवो मनः प्राणान्वयश्रुतेः।

समनन्तरमन्त्रे च नाडीयोगजनिश्रुतेः।।

परमेश्वर एव स्यात् सर्ववस्तुविधारकः।

अमृतप्रापयितृताप्रमुखप्रतिपादनात्।।

इति द्युभ्वाद्यधिकरणम्।।

———————————————-

भूमा सम्प्रसादादध्युपदेशात्।।7।।

धर्मोपपत्तेश्च।।8।।

मुण्ड केपरमात्मप्रकरणाविच्छेदेनं परमात्मत्वं साधितम्, तर्हि भूमविद्यायाः जीवप्रकरणाविच्छेदेन जीवपरत्वमिति उत्थामात्सङ्गतिः। छन्दोगास्समानंति। “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति सभूमा

यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्प” मिति। भूमशब्दः “पृथ्वादिभ्य इमनिज्वे “ति पृथ्वादिगणपठितात् बहुशब्दात् भावार्थे इमनिच्प्रत्यये “बहोर्लोपो भूच बहोरि”ति बहोः परस्य इमनिचः इकारलोपे बहुशब्दस्य भूइत्यादेशे च सति निष्पन्नो बहुत्ववाची। यद्यपि बहुत्वं वैपुल्यं संख्याविशेषश्च। तथाऽप्यत्र वैपुल्यमर्थः, “यत्रान्यत्पश्यति तदल्प”मित्यल्पप्रतियोगित्वश्रवणात्, पूर्वत्र “आकाशोवाव तेजसो भूया” नित्यादौ बहुत्वसंख्याहीनेऽप्यकाशादिके वैपुल्यवति बहुशब्दनिष्पन्नभूयश्शब्ददर्शनाच्च। भूमशब्दोऽयमप्लशब्दनिर्दिष्टधर्मिप्रतियोगिविषयत्वादेव धर्मिपरः, न धर्ममात्रपरः। ततश्च भूमेति विपुल इत्यर्थः। वैपुल्यविशेष्यश्चात्मा। “तरति शोकमात्मवि” दिति प्रकृत्य भूमानमुपदिश्य “आत्मैवेदं सर्व “मित्युपसंहारात्। तत्र किमयं भूमविशिष्टः प्रत्यगात्मा परमात्मा वेति संशये प्रत्यगात्मेति तावत्प्राप्तम्। आत्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषु उपास्यतयोपदिष्टेषु “अस्ति भगवो नाम्नो भूयः, अस्ति भगवो वाचो भूय “इत्यादिप्रश्नतत्प्रतिवचनवच्च “अस्ति भगवः प्राणाद्भूय ” इति प्रश्नस्य “अदोवाव प्राणाद्भूय” इति प्रतिवचनस्यचाभावेन आत्मोपदेशस्य प्राणपर्यन्तताप्रतीतेः प्राणशब्दस्य प्राणसहचरिते प्रत्यगात्मनि वृत्त्युपपत्तेः, “प्राणोह पिता प्राणो माता प्राणो भ्राता प्राणस्स्वसे” त्यादिचतनवाचिपित्रादिशब्दसामानाधिकरण्याच्च पित्रादिरूपजीववाचित्वावगमात्, नत्वयमात्मोपदेशः परमात्मविषय इति युक्तम्। “स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्ये वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहावै त्वमसि मातृहावै त्वमसी” त्यादिना सप्राणेषु पित्रादिषु अधिक्षिप्यमाणेषु हिंसोपक्रोशवचनात्। “अथ यद्यप्येनानुत्क्रान्तप्राणान् शूलेन समासं व्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासी” त्यादिना तेषु उत्क्रान्तप्राणेषु शूलेन सम्यक्प्रक्षेपपूर्वकं व्यत्यस्य समन्तादृह्यमानेष्वपि हिंसाव्यवहाराभाववर्णनाच्च। नहि परस्य हिंस्यत्वमस्ति, न वा तस्योत्क्रान्तिरस्ति। न च प्राणशब्दोक्तजीवप्रतिपादनानन्तरं “एष तु वा अतिवदति यस्सत्येनातिवदति” ति तुशब्देन तत्प्रकरणविच्छेदद्योतनात् ततःप्रभृति सत्यशब्दोक्तपरमात्मप्रकरणमिति तस्मिन् प्रकरणे प्रतिपाद्यमानो भूमा परमात्मैव स्यादिति शङ्कनीयम्। “सवा एष एवं पश्यन्नेवं मन्वान एं विजानन्नतिवादी भवती”ति प्राणवादिनो यदतिवादित्वं स्वोपास्यस्यान्यतउत्कर्षवादित्वरूपमुक्तं तस्य “एषतुवा” इति वाक्ये प्रत्यभिज्ञानेन प्रकरणविच्छेदाभावात्। “एष तु वा अग्निहोत्री यस्सत्यं वदती”त्युक्तौ प्रसिद्धाग्निहोत्रिण इव प्रकृतप्राणातिवादिनस्सत्यवदनमङ्गं विधीयते, सत्येव तु सत्यवचने अग्निहोत्रित्ववत् प्राणातिवादित्वं प्रतिष्ठितं भवतीत्येततदर्थतया तुशब्दसामञ्जस्यात्। तस्मात् प्रत्यगात्मैवात्र प्रतिपाद्यः। अत एव “अहमेवाधस्तादहमुपरिष्टा” दित्यारभ्य “अहमेवेदं सर्व ” मित्युपसंहारे प्रत्यगात्मन एव वैभवमुपदिश्यते, तस्य च भूमशब्देन “अहमेवाधस्ता ” दित्यादिनाचोक्तं वैपुल्यं मुक्तौ धर्मज्ञानविकासादुपपद्यत” इति। एवं प्राप्ते सिद्धांतः–

“एषतु वा अतिवदति यस्सत्येनातिवदती” त्यत्र तुशब्दसत्यशब्दाभ्यां प्राणातिवादिनोऽन्यः सत्यादिवादी प्रतीयते। “अपशवोवा अन्य गोअश्वेभ्यः पशवो गोअश्वा”नित्यत्र पश्वन्तरेभ्योगो अश्ववत् प्रकृतप्राणातिवादिनः सत्यादिवादी प्रशस्त इत्यपि प्रतीयते। ततश्च तस्मादेतस्य प्राशस्त्यं तदतिवदननिमित्तात् प्राणात् एतदतिवदननिमित्तस्य सत्यस्याधिक्येनैवेति पर्यवस्यतीत्यनेन वाक्येन प्रकृताज्जीवात् अधिकत्वेन भूमोपादिश्यते। नचात्र “एषतु वा अग्निहोत्री”ति वाक्यान्यायावतारः, तत्रहि द्रव्यदेवताऽन्तराभावेन अग्निहोत्रांतरप्रतीतेः तुशब्दस्वारस्यभङ्गः, इह प्रकृतातिवदननिमित्तप्राणव्यतिरिक्तसत्यशब्दोक्त परमात्मरूपातिवदननिमित्तान्तरप्रतीतेः किमिति तत्स्वारस्यभङ्गः कार्यः। सत्यशब्दोहि परमात्मवाचकः, छांदोग्यएव “तस्य ब्रह्मणोनाम सत्यमिती” ति श्रवणात्। “सत्यने” ति तृतीयाविभक्तिः करणत्ववाचिनी तस्यातिवदननिमित्तत्वमाह। अतस्तुशब्दस्यनामाकरणविभक्तिस्वरस्यभङ्गेन प्रकृतप्राणादिवादिविषयत्वककल्पनाया नावकाशः। अतश्च प्रकृतात् प्राणशब्दोक्तात् जीवादधिकत्वेनोपदेशात् सत्यशब्दोक्तोभूमा परमात्मा। नच “महतः परमव्यक्त”मिति श्रुतौ जीवादधिकत्वेनोपदिष्टे शरीरे व्यभिचारान्नायं हेतुरिति वाच्यम्। जीवाधिकात्मत्वेनोपदेशे तात्पर्यात्। एवं निरतिशयानन्दत्वश्रवणादपि भूमा परमात्मा। ननु सत्यशब्दोक्तोभूमैव प्रकरणी परमात्मा, प्राणशब्दोक्तोजीवस्तु तदधस्तनपर्वभूत इति सिद्धान्ते “अस्ति भगवोनाम्नोभूयः वाग्वावनाम्नोभूयसी” त्यादि प्रश्र्नप्रतिवचनाभ्यां। न हि यदर्थमन्यत्प्रक्रांतं तदनुक्तिर्युक्तितिचेत्, उच्यते- पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य प्राणपर्याये प्रतिपादनात् उपक्रांतात्मोपदेशः प्राणएव समाप्त इति मत्वा नारदे भूय- पृच्छति सनत्कुमारः प्राणविज्ञानमप्युक्रांतात्मविषयं नभवतीति न तेन सम्यगतिवादित्वं किंतु सत्येन परमात्मनेति सत्यविज्ञानं स्वयमेव उपचिक्षेप, ततः “सोहं भगवस्सत्येनातिवदानी”ति पृष्टवते तस्मै विज्ञानमतिश्रद्धादिसाधनरपरंपरया तमेव सत्यशब्दोक्तं परमात्मानं भूमानमुपदिदेश इत्येवमन्यथोपपन्नौ प्रश्र्नप्रतिवचनाभावौ। ननु “यत्रनान्य” दित्यादिविषयवाक्यस्य यस्मिन् अधिकरणे अन्यन्नपश्यतीत्याद्यर्थप्रतीतेः ब्रह्मणि दर्शनश्रवणादिगोचरस्य सर्वस्य मिथ्यात्वेन निर्विशेषविषयन्तद्भूमवाक्यं प्रतिभाति, कथन्तदनन्तकल्याणु- गुणाकरस्य भगवत- प्रतिपादकं वर्ण्यते, कथञ्च “नपश्योमृत्युं पश्यति नरोगं नोत दुःखताम्। सर्वं हि पश्यः पश्यति सर्वमाप्नोति सर्वश” इति मन्त्रेण भूमदर्शिनः सर्वदर्शित्वं वर्णयताऽपि दुःखादर्शनं प्रतिपाद्यते। उच्यते– तत्र “यस्मि” न्नित्यत्र अनुभूयमानइत्यध्याहारः कार्यः। न हि ब्रह्मसद्भावमात्रात्तस्मिन्नन्यस्यादर्शनादिकं भवति, अस्मदादीनामपि द्दश्यदर्शनाद्यभावापत्तेः। “यत्रे” त्यस्य च निजसकलगुणविभूतिविशिष्टइत्यर्थः। भूमशब्दस्य ब्रह्मशब्दवत् त्रिविधपरिच्छेदराहित्यार्थकत्वात् तद्वैशिष्ट्येन च दर्शनं च सत्येव च सर्वस्य तदन्तर्गतत्वात् निजसकलगुणविभूतिविशिष्टात् तस्मादन्यस्य ततः पृथग्भूतस्यादर्शनादिवचनमुपपद्यते। यदितु विभूतिरैश्वर्यं नियमनरूपं, तदा तन्नियाम्यस्य प्रतीतिसापेक्षमिति नियाम्यरूपप्रतियोगितया सर्वस्यापि दर्शनादिकमोपेक्षितं। अस्त्वेवं, तथापि कथं दुःखादर्शनमुपपादानीयं, भूमविभूत्यन्तर्गततया सकल संसारिगतदुःखानामपि दर्शनस्यानिवारणात्। ततश्च समन्वयाधिकरणोक्तरीत्या सुखसाक्षात्कारमात्रस्य पुरुषार्थत्ववत् दुःखसाक्षात्कारमात्रस्य हेयत्वं वाच्यमिति भूमानं पश्यतो मुक्तस्य संसारदशापेक्षयाऽप्यधिकदुःखानुभवत्वं स्यात्। न च ब्रह्मविभूतितया अनुभूयमानं सर्वं सुखरूपमेव स्यादितिवाच्यं। ब्रह्मणोऽन्यतया संसारिभिरनुभूयमानं दुःखरूपं परिमितसुखरूपञ्च भवत् ब्रह्मविभूतित्वेनानुभूयमानं सुखरूपं भवतीत्यस्य विरुद्धत्वात्, एकस्यसुखदुःखोभयरूपतानुपपत्तेरितिचेत्, उच्यते– कर्मवश्यैर्ब्रह्मान्यत्वेनानुभूयमानं जगत् तेषां तत्तत्कर्मानुरूपं दुःखरूपं परिमितसुखरूपञ्च भवति, कर्मरूपाविद्याविमुक्तस्य तदेव जगत् विभूतिगुणविशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति, यथा पित्तोपहतेन पीयमानं पयः पित्ततारतम्येन दुःखरूपमल्पसुखञ्च भवति, तदेव पयः पित्तानुपहतेन पीयमानं सुखात्मकमेव भवति, यदा हि यदनुभूयमानं पुरुषानुकूलं भवति तदा तत्सुखं, यदातदननुकूलं तदा तदेव दुःखं। अतएव हिमातपादीनां निदाघहेमताद्यवस्थाभेदेन सुखदुःखोभयरूपत्वमिति न काचिदनुपपत्तिः। यत्तु “अहमेवाधस्ता”दित्यादि “सएवेदं सर्व ” मित्यन्तस्य स्वरूपेणोपासनार्थ, “आत्मैवाधस्तादित्यादि “आत्मैवेदं सर्व ” मित्यन्तं विद्वदन्तर्यामित्वेनोपासनार्थं, “तस्यह वा एतस्यैवंपश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राणआत्मतआशा आत्मतस्समर ” इत्यादिना प्रकृतादात्मनः प्राणाद्युत्पत्तिप्रतिपादने प्रकृतस्यात्मनो विद्वांसं प्रत्यात्मत्वं विशिष्योक्तं। एवं त्रेधा तस्य सर्वात्म्योपदेशः त्रिविधोपासनासिद्ध्यर्थं इति न कस्यापि वैयर्थ्यमिति विवेक्तव्यम्।।

संग्रहकारिकाः।।

भूमा प्राणस्तस्मात् ऊर्ध्वन्नाम्न इव वागादेः।

प्रश्नप्रतिवचनाभ्यां विनैव भूम्नोऽवतारणतः।।

प्राणश्च जीवएव स्फुटमात्मोपक्रमोपसंहारात्।

मातृत्वादिश्रवणात् हिंस्यत्वोक्तेरहंत्ववचनाच्च।।

सत्यं प्राणो जीवः स न भूमा किं तु पुरुष एव परः।

एष तु वा अतिवदतीत्यत्र तुशब्देन पूर्वविनिवृत्तेः।।

निरतिशयानन्दत्वश्रवणादपि यत्र नान्यदित्यादौ।

अहमेवाधस्तादित्यहं ग्रहो दर्शितस्तस्मिन्।।

इति भूमाधिकरणम्।।2।।

————–

अक्षरमम्बरान्तधृतेः।।9।।

सा प्रशासनात्।।10।।

अन्यभावव्यावृत्तेश्च।।11।।

यथा जीवादूर्ध्वपदेशात् भूमा न जीवः, एवं प्रधानादूर्ध्वमुपदेशात् अक्षरं न प्रधानमिति समर्थ्यतइति सङ्गतिः। वाजसनेयिनस्समामनंति– “एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छाय ” मित्यादि। अत्राक्षरं प्रधानं परमात्मावेति संशये प्रधानमिति तावत्प्राप्तम्। “अक्षरात्परतः पर ” इत्यादिषु अक्षरशब्दस्य प्रधाने प्रयोगात्। तथा “तदक्षरमधिगम्यत ” इत्यादिषु परमात्मनि तस्य प्रयोगसत्त्वेऽपि प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोः प्रधानपरमात्मनोर्मध्ये प्रमाणांतरप्रसिद्धस्य प्रथानस्य झटिति बुद्ध्यारोहेण प्रथमप्रतीतत्वात् अनुमानस्य प्रत्यक्षमात्रापेक्षापेक्षा श्रुतेर्व्युत्पत्तिग्रहादावुभयापेक्षेति आनुमानिस्याक्षरस्य श्रुतिप्रतिपन्नात् परमात्मनश्शीघ्रप्रतीतिकस्य श्रुतिलिंगादिषु पूर्वपूर्वस्य उत्तरोत्तरस्मादिव ततः प्रबलत्वात् अस्थूत्वादीनां प्रधानेऽपि संभवेन भूतयोन्यक्षरइव परमात्मैकांतिकलिङ्गाभावात्। एवंप्राप्तेसिद्धांतः– अक्षरंपरमात्मा, नाव्याकृतं प्रधानम्। “एतस्मिन् खल्वक्षरे गार्ग्याकाशओतश्च प्रोतश्च”त्यव्याकृताधारतयाऽक्षरस्यो- पदेशात्। स्यादेतत्, आकाशशाब्दोयं भूताकाशपरोऽस्तु, प्रसिव्द्यतिलङ्घनायोगात्। यद्युच्येत अक्षरब्राह्मणात्पूर्वं गार्गिब्राह्मणे गार्गियाज्ञवल्क्ययोः प्रश्नोत्तरपरंपरायां “यदिदं सर्वमप्स्वोतञ्च प्रोतञ्च कस्मिन्नु खल्वापओताश्च प्रोताश्चेति वायौगार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति अन्तरिक्षलोकेषु गार्गि”त्यारभ्य, “ब्रह्मलोकेषु गार्गि” त्यन्तेन सन्दर्भेण पृथिवीसलिलवाय्वन्तरिक्षलोकगन्धर्वलोकादित्यलोकचन्द्रलोकनक्षत्रलोकदेवलोकेंद्रलोकप्रजाप- तिलोगब्रह्मलोकानां पूर्वपूर्वस्य उत्तरोत्तस्मिन् ओतत्वप्रोतत्ववर्णनानन्तरं “कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्च”ति पुनः पृष्टे याज्ञवल्क्येन “गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रशन्यो वै दैवतामतिपृच्छसि मातिप्राक्षी” रिति सक्रोधमुक्ता भीता गार्ग्युपरराम। अनेन ब्रह्मलोकांतसकललोकाधारतया वक्त्व्या महती काचिद्देवतेति सूचितं। ततश्च बहुषुब्राह्मणेषु याज्ञवल्क्यविजिगीषया तेन सह जल्पकथायां पर्यायेण प्रवर्तमानेष्वनुप्रविष्टा गार्गी तदानीं भीत्योपरताऽपि स्वोपरमानन्तरमुद्दालके प्रसिद्धब्रह्मविदि सूत्रमन्तर्यामिणञ्च पृष्टवति याज्ञवल्क्येन जिते सर्वेषां ब्राह्मणानामेव परीजयोजायते, समाभूदिति मन्यमाना याज्ञवल्क्यं प्रक्ष्यामीति ब्राह्मणाननुज्ञाप्य “अहं वै याज्ञवल्क्य यथा काश्योवा वैदेहोवा उग्रपुत्रउज्जयं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सपत्नातिव्यायिनौ” हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यां उपोदस्थां तौ मे ब्रूही”ति द्वितीयप्रश्ननिवारणपरिजिहीर्षया प्रश्नद्वयानुज्ञां युगपदेश याज्ञवल्क्यं प्रतिपृष्ट्वा पृच्छति तदनुज्ञाता “यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याच्चत्याचक्षते कस्मिन् तदोतञ्च प्रोतञ्च”ति पृष्ट्वा “यदूर्ध्वं गार्गि दिव” इत्यादिना “आकाशएवतदोतञ्च प्रोतंचे”त्यन्तेनोत्तरिते “कस्मिन्नु खल्वाकाशओतश्च प्रोतश्चे”ति द्वितीयप्रश्नस्य उत्तरतया “एतद्वैतदक्षर”मित्यादि “एतस्मिन् खल्वक्षरे गार्ग्याकाशओतश्च प्रोदश्चे”त्यन्तं कृत्स्नमक्षरब्राह्मणं प्रवृत्तं। तत्र गार्गिब्राह्मणांते याज्ञवल्क्येन यः प्रश्नस्सक्रोधं निवारितः, सएव खलु गार्ग्या सर्वेषां ब्राह्मणानां पराजयोभविष्यतीति भीतया तस्य प्राग्वक्त्व्यतया उपक्षिप्ता देवता सेह आकाशशब्देनोदितेति सूचितं। एवञ्च कथमयमाकाशशब्दो भूताकाशपरस्स्यादिति तर्हि प्रधानपरोपि नस्यात्, तस्यापि देवतात्वाभावात्। तस्मात् प्रथानपरत्ववादिना इत्थं समाधेयं। पूर्वं ब्रह्मलोकांतसललोकाधारप्रश्ने यदव्यवहितोत्तरं तत्परदेवातविषयमित्याशयेन न तन्निवारणं, किंतु धृष्टैषा तस्याप्याधारं प्रक्ष्यति, सप्रश्नः परदेवताविषयोभविष्यतीति दूरद्दष्ट्या तन्निवारणं कृतमिति, तस्याकाशशब्दस्य भूताकाशविषयत्वेप्येवमेव समाधातुं शक्यमिति चेत्, उच्यते- “यदूर्ध्वं गार्गिदिव” इत्यादिना “आकाशशब्दस्य भूताकाशपरत्वे घटते, तस्यापि विकारांतर्गतत्वात्, तस्मादिहाकाशपदमव्याकृतपरमिति तस्याप्याधारतयोपदिश्यमानमक्षरं परमात्मैव। नाव्यक्तम्। यत्तु श्रुतिप्रसिद्धात् प्रमाणातरप्रसिद्धं प्रथमं प्रतीयत इति तन्न। अक्षरशब्दस्य अश्नोति व्याप्नोतीति अवयवशक्त्या स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात् व्युत्पत्तिदशायामर्थस्वरूपं येन प्रमाणेनावगतं तस्य प्रतिपादनदशायामनुपयोगात्। उक्तं हि वार्तिके– “अर्थबोधेनपेक्षत्वान्मानांतरमनाद्दतं। व्युत्पत्त्युपायभूतं यत् तच्च तन्मात्रएव त्वि” ति। किंच गोशाब्दादिसम्बन्धग्रहविषयसास्नावव्द्यक्त्यादिष्विव प्रधाने प्रत्यक्षे न प्रवर्तते, अनुमानमपि सांख्याद्यभिमतं तत्र न प्रवर्तत इति सांख्याधिकरणे वक्ष्यते, ततश्च ब्रह्मवत् प्रधानमपि श्रुत्येकगम्यमिति न प्रसिध्यप्रसिद्धिकृतोऽपि तयोर्विशेषः, तस्मात् सर्वविकाराधारत्वलिंगेन आकाशशब्दोदितमव्याकृतमित्यवगमात्, अक्षरशब्दोदित मव्याकृतमित्यत्र हेत्वसिद्धेश्च, आकाशशब्दोदितस्य अव्याकृतस्याधारतयोच्यमानमक्षरं परमात्मैव। “तदा एतदक्षरं गार्ग्यद्दष्टं द्रष्ट्रश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ” इति द्रष्ट्टच्वाद्युपदेशादप्यक्षरं परमात्मा, नत्वव्याकृतं। ननु तर्ह्यक्षरं जीवास्तु, तत्र दर्शनाद्यविषयत्वस्य दर्शनादिमत्त्वस्य चोपपत्तेः। “यथा वा अरानाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पित”मिति श्रवणेन तस्यसकलचिद्वर्गाधारत्वोपपत्तेश्चेतिचेत् मैव- “एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत” इत्यादिना प्रशासनाधीनधारकत्वश्रवणात्। यद्यपि पर्यायेण देवमनुष्यादिजन्मवति जीवेपि द्यावापृथिव्यादिशासितृत्वं तत्तददिकारोपयुक्तजन्मप्राप्त्याकथंचित्समर्थयितुं शक्यं, तथापि निरपेक्षशासितृत्वरूपं प्रकृष्टशासितृत्वं तत्पूर्वकजचन्द्रसूर्यादिधारकत्वञ्चास्मिन्नसम्भवत्येव। किंच सर्वैरद्दष्टस्य सतस्सर्वद्रष्ट्टत्वादिकं “नान्यदतोऽस्ति द्रष्ट्ट नान्यदतोऽस्ति श्रोतृ” इत्यादिनाक्रियमाणं द्रष्ट्रन्तरनिषेधादिकञ्च जीवे नोपपद्यते, किंतु अन्तर्याम्यधिकरणोक्तरीत्या परमात्मन्येवोपपद्यते। तस्मादक्षरं परमात्मैव।।

संग्रहाकारिका।।

अक्षरमनुमितिगम्या प्रकृतिर्नागमनिरूपितं ब्रह्म।

अनुमानमक्षरमात्रापेक्षं सहि तद्द्वयापेक्षः।।

मैवमव्याकृतधृतेः श्रौतं ब्रह्म तदक्षरं।

श्रुतेरपेक्षा व्युत्पत्तौ न त्यर्थप्रतिपादने।।

द्रष्ट्टत्वश्रोतृत्वप्रमुखा नाव्याकृतं हि पश्यंति।

न च जीवोऽक्षरमेतत् प्रशासितृत्वादिवैघट्यात्।।

इति अक्षराधिकरणम्।।3।।

———————————-

ईक्षतिकर्मव्यपदेशात्सः।।12।।

प्रश्नोपनिषदि- “सयोह वै तद्भगवन्मनुष्येषु प्रायणांतर्मोकामभिध्यायीत कतमं वाव स तेन लोक्रं जयती” ति पिप्पलादं प्रति सत्यकामप्रश्ने “एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेन एकतरमन्वेती”ति तत्प्रतिवचनमुपक्रम्य “स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसमभिसम्पद्यते तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवत्यथ यो द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तत ” इत्येकमात्रमोङ्कारमुपासीनस्य तत्प्रथममात्रात्मकऋक्प्रापणीयमनुष्यलोकप्राप्तिफलं द्विमात्रं तमुपासीनस्य तद्द्वितीयमात्रात्मकयजुः प्रापणीयांतरिक्षलोकप्राप्तिफलञ्चाभिधाय इदमाम्नायते– ” यः पुनरेतं त्रिमात्रेण ओमित्यनेनैवाक्षरेण परंपुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत” इति। अत्र ध्यातव्यः परमपुरुषएवेक्षणीयः। फलफलिनोरीक्षणध्यानयोरेकविषयत्वनियमात्, “परं पुरुष “मित्यत्र परत्वावधित्वेन विवक्षितस्यापि केभ्यश्चित् परत्वसम्भवेन “परात्परं पुरिशयं पुरुष “मिति निर्देशस्य ततो भेदावहत्वाभावादित स्थिते ध्यातव्य ईक्षणीयश्च पुरुषः किं जीवसमष्टिरूपश्चतुर्मुखः, उत सर्वेश्वर इति संशये चतुर्मुख इति तावत्प्राप्तम्। ब्रह्मलोकशब्दोदितचतुर्मुखलोकगतेनेक्ष्यमाणत्वात्। न च ब्रह्मलोकशब्दो भगवल्लोकपर इति वाच्यम्। मनुष्यलोकान्तरिक्षलोकप्रायपाठेन तस्यापि प्राकृतचतुर्मुखलोकपरत्वात्। न च जीवघशब्दो जीवसमष्टिरूपचतुर्मुखवाचीति तस्मात्परः पुरुषस्सर्वेश्वर एव स्यादिति वाच्यम्। तस्य व्यष्टिजीवसंघातवाचित्वोपपत्तेः। “घनाः कठिनसंघातमेघकाठिन्यमुद्गरा” इति संघातेऽपि घनशब्दस्मरणात्। न च तथाऽपि व्यष्टिजीवसंघातात् परस्समष्टिजीव इति तस्मात्परः पुरुषस्सर्वेश्वर एव स्यादिति वाच्यम्। देहेन्द्रियादिभ्यः पराद्व्यष्टिजीवसंघातात् चतुर्मुखस्य परत्वोपपत्तेः। परजीवघनशब्दयोस्सामानाधिकरण्यसम्भवे वैयधिकरण्यकल्पनायोगात्। न च “ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते तमोङ्कारेणान्वेति विद्वान् यत्तच्छांतमजरममृतमभयं परञ्चे” ति तदनन्तरश्लोकोक्तममृतत्वादिकं सर्वेश्वर एवान्वेतीति तदनुसारेण परः पुरुषस्सर्वेश्वरस्स्यात् ध्यातव्यास्यैव प्राप्यत्वादिति वाच्यम्। उपक्रमानुसारेण औपसंहीरिकामृतत्वादेश्चतुर्मुखएवापेक्षिकामृतत्वादिरूपतया अन्वयोपपत्तेरिति। एवं प्राप्ते सिद्धान्तः–

ईक्षतिकर्म परमात्मा। उत्तरमन्त्रगतात् अमृतत्वादिव्यपदेशात्,एतस्माज्जीवघनात्परापर”मिति व्यपदेशाच्च जीवत्वाविशेषेण हिरण्यगर्भस्यापि जीवघनकोटिनिविष्टत्वात्। ब्रह्मलोकशब्दश्च भगवल्लोकपरः। सर्वपापविनिर्मुक्तप्राप्यत्वात्। “यत्तत्कवयो वेदयन्त”इत्यत्र “तद्विष्णोः परमं पदं सदा पश्यंति सूरय”इत्यादिश्रुत्यन्तरसिद्धकविशब्दोक्तसूरिद्दश्यत्वलिङ्गात् “एतद्वै सत्यकामे”त्यादिना उपक्रान्तपरोपासनाप्रकरणाच्च लिंगप्रकरणैः प्रायपाठस्य बाधेन तस्य अकिञ्चित्करत्वात्। ननु उपक्रमे परोपासनावत् अपरोपासनस्यापि श्रवणात् तदपि निरुपणायमितिचेत् सत्यम्। पूर्वमेव तन्निरूपितम्। पूर्वं हि तदुपासनं ऐहिकामुष्मिकत्वेन द्विधा विभज्य एकमात्रप्रणवेन तदुपासनस्य मनुष्यलोकावाप्तिं, द्विमात्रप्रणवेन तदुपासनस्य स्वर्गावाप्तिञ्च उपन्यस्य हि त्रिमात्रप्रणवेन परमपुरुषोपासनं प्रक्रान्तम्। तस्मात् ध्यानेक्षणविषयभूतः परः पुरुषः सर्वेश्वर इति सिद्धम्।।

संग्रहकारिके।।

आदिष्टस्सत्यकामं प्रतिहि पुरिशयः पूरुषोह्येष वेधाः

पुंसा लोकं तदीयं समधिगतवता वीक्ष्यमाणत्वलिङ्गात्।

उक्तोऽत्र ब्रह्मलोको न भवति हि परब्रह्मलोकस्तदा हि

स्यादुक्तैकद्विमात्रप्रणवविदि फलप्रायपाठस्य बाधः।।

विष्णुरेष विजरामृततोक्तेः सर्वजीवपरताव्यपदेशात्।

ब्रह्मलोकमिति तत्पदमुक्तं लिंगतो भवतु सन्निधिबाधः।।

इति ईक्षतिकर्माधिकरणम्।।4।।

————–

दहरुत्तरेभ्यः।।13।।

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च।।14।।

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः।।15।।

प्रसिद्धेश्च।।16।।

इरपरामर्शात्स इति चेन्नासम्भवात्।।17।।

उत्तराच्चेदाविर्भूतस्वरूपस्तु।।18।।

अन्यार्थश्च परामर्शः।।19।।

अल्पश्रुतेरितिचेत्तदुक्तम्।।20।।

अनुकृतेस्तस्य च।।21।।

अपि स्मर्यते।।22।।

पूर्वाधिकरणे “परात्परं पुरुशयं पुरुषमीक्षत” इत्युक्तस्य पुरिशयस्य परमात्मत्वं समर्थितम्। इहापि तथैव पुरिशयस्य परमात्मत्वं समर्थ्यत इति सङ्गतिः। छान्दोग्ये- “अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुंडरीकं वेश्मदहरोस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यः” मिति ब्रह्मपुरशब्दोक्तशरीरान्तर्वर्तिहृदयपुण्डरीकमध्यवर्तित्वेन श्रुतौ दहराकाशो भूताकाशः।”तस्मिन्यदन्त”रिति दहराकाशेऽन्तरन्वेष्टव्यतया श्रुतः परमात्मा। अथवा दहराकाशः परमात्मा। “तस्मिन् यदन्त”रिति श्रुतः तदीयोऽपहतामत्वादिगुणनिवह इति संशये भूताकाश इति तावत्प्राप्तं, अत्र रूढेः। “तस्मिन् यदन्त” रिति श्रुतस्तु परमात्मा, न तु तदीयगुणनिवहः। “तदन्वेष्टव्य”मित्यस्य “तस्मिन्यदन्त” रित्येतन्मात्रान्वयित्वेन गुणमात्रस्योपास्यत्वापत्त्या गुणिनोऽनुपास्यत्वप्रसङ्गात् । एवञ्च वाक्यशेषे श्रूयमाणाः सर्वे परमात्मधर्माः “तस्मिन् यदन्त”रिति निर्दिष्टे परमात्मन्यन्वयं लभन्त इति न तेषामप्यनुपपत्तिरित। एवं प्राप्ते सिद्धान्तः- दहराकाशः परमात्मा। न भूताकाशः। वाक्यशेषगतेभ्यो हेतुभ्यः। वाक्यशेषे हि “यावन्वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाश” इति दहराकाशस्य भूताकाशात् भेदापेक्षः। तेनोपमानोपमेयभावो निबध्यते। तदनन्तरं “अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणी”ति प्रकृतं दहराकाशं अस्मिन्निति निर्दिश्य तस्य सर्वजगदाधारत्वमुच्यते। ततो “यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहित” मित्यस्योपासकस्य लोके यद्भोग्यजातं वर्तते यच्च मनोरथमात्रस्पदमिह नास्ति सर्वं तद्भोग्यजातमस्मिन् दहराकाशे समाहितमिति तस्य निरतिशयभोग्यत्वेन तस्य निरतिशयानन्दत्वं प्रदर्श्यते। “तदेतत्सत्यं ब्रह्मपुर” मिति तमेव दहराकाशमेतच्छब्देन परामृश्य तस्य सत्यभूतब्रह्माख्यपुररूपत्वमुच्यते। “ब्रह्मपुर” मित्यत्र निषादस्थपतिन्यायेन सामानाधिकरण्यौचित्यात्। ततः “अस्मिन्कामास्समाहिता” इति तमेव दहराकाशं “अस्मिन्निति” निर्दिश्य काम्यभूतांश्च गुणान् “कामा” इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्त्वा तदेव दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्यात्मत्वञ्च “एष आत्माऽपहपाप्मा विजरो विमृत्युर्विशोको वलिजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प” इति वर्ण्यते। ततः “अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकषु कामचारो भवती”त्यात्मशब्देन परामृष्टं तदन्तर्वर्तिनश्च काम्यानपहतपाप्मत्वादिगुणांश्च अनुसन्दधतां फलं प्रदर्श्यते। तथा “तद्यथाऽपि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो नविन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा” इति “एत”मिति प्रकृतं दहराकाशं निर्दिश्य तत्र अहरहस्सर्वेषां गमनं गन्तव्यस्य तस्य ब्रह्मलोकशब्देन निर्देशश्च दृश्यते। परमात्मनि खलु सर्वेषामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम्, “एवमेव खलु सोम्येमास्सर्वाः प्रजास्सतिसम्पद्य नविदुः सतिसम्पत्स्यामह” इति। ब्रह्मलोकशब्दश्च तस्मिन्दृष्ट “एष ब्रह्मलोकस्सम्राडिति होवाचे” ति । तथा “अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाये”ति, प्रकृतदहराकाशं “य आत्मे” ति निर्दिश्य तस्य जगद्विधारकत्वं प्रतिपाद्यते। सच परमात्मनो महिमा। “एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाये”ति श्रुत्यन्तरात्। एतेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यो दहराकाशः परमात्मा। आकाशशब्दस्य हिपरमात्मन्यपि वैदिकी प्रसिद्धिरप्यस्ति “आकाश इति होवाचे”त्यादिश्रुत्यन्तरे। ननु यदि “तस्मियदन्त”रित्येतत् परमात्मवर्तिगुणनिवहपरं स्यात्, न तु प्राधान्येन दहराकाशस्यापि। तस्यापि प्राधान्येन उपास्यत्वमुपपादनीयम्। “अथ य इहात्मानमनुविद्य व्रजत्येतांश्च सत्या कामा”निति वाक्यशेषानुसारादिति चेत्। सत्यं इत्थं तदुपपादनं। “तदन्वेशष्टव्य”मित्यत्र तत्पदेन प्रथमानिर्दिष्टमन्तर्वर्तिमात्रं न परामृश्यतेस, किं तु सप्तमीनिर्दिष्टो दहराकाशोऽपि। “त्यदादीनि सर्वैर्नित्यं, नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या”मिति सूत्रैर्नपुंसकैकशेषस्य एकवचनस्यचोपपत्तेरित्युक्तं भाष्यादिषु। अत्रेदं विचार्यते- तदिति नपुंसक शेषत्वं “त्यदादीनि सर्वैर्नित्य” मिति परसूत्रेणैव हि वक्तव्यम्। तत्र नैकवद्भावानुवृत्तिरस्ति। “एकवच्चास्यान्यतरस्या”मित्यत्र अस्येतद्यस्य नपुंसकसूत्रकृतैकशेषस्यैवायमेकवद्भाव इत्येतदर्थत्वात्। न च वाच्यं त्यदादिषु नपुंसकानपुंसकयोर्नपुंसकशेषसिध्यर्थं “नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या”मिति सूत्रस्याप्यनुवृत्त्या भाव्यमिति त्यदादिषु स च सा च ताविति स्रीपुंसकयोः पुंशेषसिध्यर्थं स च तच्च ते सा च तच्च ते इति नपुंसकानपुंसकयोर्नपुंसकशेषसिध्यर्थं च “त्यदादितश्शेषे पुंनपुंसकतो लिंगवचना”नीति वार्तिककृतायत्नान्तरस्य कृतत्वात् तथैकवद्भावसिध्यर्थं भाष्यवार्तिकादिषु यत्नान्तरदर्शनात्। कथं तर्हि तंत्ररूपे “दधि मधु घृतं पयो धाना उदकं तंडुलास्तत्संसृष्टं प्राजापत्य”मिति चित्रेष्टिविधिवाक्ये दध्यादिप्रत्येकद्रव्यको यागगणः न तु संसृष्टैकद्रव्यको याग इति सिद्धान्तसिद्धये तत्पदं संसृष्टशब्दोक्तैकद्रव्यपरं न भवति, किं तु दध्याद्यनेकद्रव्यपरमित्युक्त्वा दध्यादिषु तदिति नपुंसकैकशेषाभ्यां निर्व्यूढुं अभ्युच्चायार्थं तथा निर्वाहान्तरं कृतम्। सर्वनाम्नां प्रक्रान्तपरत्व एव स्वारस्येन प्रक्रंस्यमानपरत्वस्यानन्यगतिकत्वात् द्रव्यविशेषस्यैवाकांक्षापूरकत्वेन संसृष्टमात्रस्य प्रजापतिसम्बन्धानर्हत्वाच्च न्यायतस्तत्पदस्य दध्याद्यनेकद्रव्यपरत्वावश्यं भावेसति  तदित्येकवचनोपात्तमेकत्वं “गुणेत्वन्याय्यकल्पने”ति न्यायेन पाशबहुत्ववदनिवक्षितमिति मुख्यहेतुक्तयनन्तरं अथवा “नपुंसकनमनपुंसकेनैकवच्चास्यान्यतरस्या”मिति स्मरणात् नपुंसकानपुंसकानेकाभिप्रायमुपि युक्तमेव तदिति नपुंसकैकवचनं एवं प्राजापत्यमपि द्रष्टव्यमित्युक्तत्वादिति। अत्रेदं समाधानं “अन्वेष्टव्य”मित्यत्र नपुंसकानपुंसकैकशेषे कृते सति तत्रैकस्मिन्नर्थ इवैकवचनरुपं कार्यं भवत् तद्विशेषणे तदर्थानुपपत्तिनि सर्वनाम्न्यापि भवति, यथा “अस्मदोद्वयोश्चे”ति सूत्रेणास्मदर्थस्य एकत्वे द्वित्वे च बहुवचनं भवत् अस्मदर्थवर्तिनि क्रियापदेऽपि भवति वयं ब्रूमइति इहापि “शुक्लश्च शुक्ला च शुक्लञ्च शुक्लं वर्तत” इति क्रियापदेऽपि एकवचनं दृश्यते तद्वत् सर्वनाम्न्यपि भवितुमर्हति। अत एव महाभाष्ये– “शुक्लश्च कम्वलः शुक्ला च बृहतिका शुक्लञ्च वस्रं तदितं शुक्लं तानीमानि शुक्नाली”ति द्विविधे नपुंसकसूत्रोदाहरणे कृतैकवद्भावमेव तदिति पदं प्रथमोदाहरणविशेषणं कृतम्। एं चित्रेष्टिवाक्येऽपि प्राजापत्यशब्दे नपुंसकसूत्रप्रवृत्तौ, तदन्तर्वर्तिनि तदिति पदेऽपि नपुंसकैकवचनं भवतीति तन्त्ररत्नाभिप्रायः। एवमिहापि “अन्वेष्टव्य” मित्यत्र नपुंसकसूत्रेणैकवद्भावे कृते तदन्तवर्तिनि तदिति पदेऽपि नपुंकलिंगमेकवचनं च युक्तमेव। तस्माद्दहराकाशः स्वान्तर्वर्त्यपहतपाप्मत्वादिगुणनिवहेन सहोपास्यः परमात्मैव। न भूताकाश इति सिद्धम्। ननु माभूदयं भूताकाशः, जीवस्तु स्यात्, दहरविद्याप्रकरणे– “अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत” इति तस्य परामर्शादिति चेन्न। तत्र अपहतपाप्मत्वाद्यसम्भवात्। ननु दहरवाक्यादुत्तरस्मिन् प्राजापतिवाक्ये जीवस्याप्यपहतपाप्मत्वादिकमाम्नातम्। तत्र हि “य आत्माऽपहतपाप्त्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्सविजिज्ञासितव्यस्ससर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाती” ति प्राजापतिवचनमैतिह्यरूपेणोपश्रुत्य अन्वेष्टव्यात्मजिज्ञासया प्राजापतिमुपसेदुषे मघवते प्रजापतिना “य एषोऽक्ष्णि पुरुषो दृश्यते एष आत्मे”ति “य एष स्वप्ने महीयमानश्च रत्येष आत्मे”ति च #ाजागराद्यवस्थात्रयवान् जीव एव जिज्ञासितापहतपाप्मत्वादि गुणकात्मेत्युपदिष्टः। सत्यम्। संसारदशायामविद्यातिरोहितापहतपाप्मत्वादिगुणको जीवः पश्चाद्विमुक्तकर्मरूपाविद्याबन्धः शरीरात् समुत्थितः परंज्#ोतिरुपसम्पन्नस्सन्नपहतपाप्मत्वादिगुणविशिष्टः प्रजापतिवाक्येऽभिधीयते। “एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत” इति जीवस्य परंज्योतिः प्राप्त्या तस्यापहतपाप्मत्वादिगुणकस्वरूपाभिनिष्पत्तिमुक्त्वा प्राप्यस्य परंज्योतिषः “स उत्तमः पुरुष” इति पुरुषोत्तमत्वं विधाय “स तत्र पर्येति जक्षत्क्रीजन् रममाणस्स्रीभिर्वा यानैर्वा ज्ञातिभिर्वे”त्यादिना तं प्राप्नुवतो जीवस्य तल्लोकानुभाव्यमहाफलकीर्तनात्। दहरवाक्ये तु नित्याविर्भूतापहतपाप्मत्वादिगुण एव दहराकाशः प्रतीयते। तथाभूतापहतपाप्मत्वादिग्रहणसम्भवे कारणाधीनाविर्भावस्य तस्य ग्रहणायोगात्। तस्माद्दहराकाशे जीवत्वाशङ्का न कार्या। यद्येवं दहरविद्याप्रकरणे- “अस्माच्छरीरात्समुत्थाये”त्यादिना जीवपरामर्शः किमर्थः, दहराकाशस्य जगत्विधरणादिवत् जीवस्स्वरूपाविर्भावापादानरूपमहिमविशेषप्रतिपादनार्थः प्रजापतिवाक्यसिद्धस्यार्थस्यायमनुवादः। ननु यदि दहरो न जीवः, कथं तर्ह्यल्पपरिमाणश्रवणमिति चेत्, अत्र वक्तव्यमुत्तरम् “सर्वत्र प्रसिद्धोपदेशा” दित्यधिकरणे “निचाय्यत्वादेवं व्योमवच्चे” ति पूर्वमेवोक्तम्। ननु संसारदशातिरोहितजैवापहतपाप्मत्वादिव्यतिरेकेण नित्याविभूतमन्यदपहतपाप्मत्वादिकमस्तीत्यत्रैव न प्रमाणम्। दहरविद्याप्रकरणे अपहतपाप्मत्वादिश्रवणस्य प्रजापतिवाक्यसिद्धसंप्रतिपन्नजैवापहतपाप्मत्वादिविषयत्वोपपत्तेः। अतो नित्याविर्भूतैरपहतपाप्मत्वादिभिः दहरो न जीव इत्येतन्नयुक्तम्। किंतु सूक्ष्मत्वलिंगात् दहरो जीव इत्येव यक्तमितिचेदुच्यते– परमात्मानुकाररूपा तत्साम्यापत्तिर्हि मुक्तिः। “यदा पश्यः पश्यते रूक्मवर्ण”मित्यादि श्रुतेः, “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यधंतिचे”ति स्मृतेश्च। एवं च जीवस्य मुक्तावपहतपाप्मत्वादिगुणाविर्भावः परमात्मनो नित्याविर्भूतापहतपाप्मत्वादिगुणकत्वमन्तरेण न सम्भवति। अन्यथा जीवस्य मुक्तौ तत्साम्यापत्तययोगात्। अतो जीवस्य मुक्तिदशाविर्भाववत् जैवापहतपाप्मत्वादप्रतिपादकप्रजापतिवाक्यसामर्थ्यादेव परस्य नित्याविर्भूतमपहतपाप्मत्वादिकमस्तीति सिद्धेः तद्विषयत्वं दहरविद्याप्रकरणश्रुतस्य “य आत्माऽपहतपाप्मे”त्यादेर्युक्तमिति ततः परमात्मैव दहराकाशः न जीव इति सिद्धम्।।

संग्रहकारिकाः।।

युक्तो दहराकाशोः भूताकाशः प्रसिद्धत्वात्।

अपहतपाप्मत्वाद्या गुणास्तदन्तरगतान्वयिनः।।

जीवोवाऽसो श्रवणादमुं प्रकृत्यैष संप्रदाय इति।

संति च तत्रोक्तगुणाः प्राजापत्येन वाक्येन।।

मैवं परमात्माऽसौ स्वामिन्यभिहितगुणेभ्य इत्युचितम्।

तस्माद्यदिति गुणोक्तर्गुणविषय इति तद्वृत्तम्।।

नित्याविर्भूतास्ते गुणा न सन्त्येव जीवस्य।

संति तु परस्य लिंगान्मुक्तेस्तत्परमसाम्यरूपत्वात्।।

इति दहराधिकरणम्।।5।।

———————

शब्दादेव प्रमितः।।23।।

त्द्दद्यपेक्षया तु मनुष्याधिकारत्वात्।।24।।

पूर्वत्राणीयस्त्वरूपं अल्पपरिमाणं परस्मिन्नुपपादितम्। इदानीमंगुष्ठमात्ररूपमप्यल्पपरिमाणं तस्मिन्नुपपाद्यत संगतिः। कठवल्लीषु श्रूयते–“अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सत” इत्यादिः। किमयमंगुष्ठप्रमितो जीवः परोवेति संशये जीव इति प्राप्तम्। “स विष्वरूपस्रिगुणस्रिवर्त्मा प्राणाधिपस्सञ्चरति स्वकर्मभिः। अंगुष्ठमात्रो रवितुवल्यरूप- सङ्कल्पाहङ्कारसमन्वितो य” इति तस्यांगुष्ठमात्रत्वश्रयणात्। न तु परः, तस्य क्वचिदपि तथात्वश्रवणाभावात्। एवञ्चोपक्रमभूतांगुष्ठमात्रत्वानुसारेण भूतभव्येशानत्वश्रवणं जीव एव देहेन्द्रियादिनियन्तृत्वादिविषयतया योजनीयमिति। ननु श्वेताश्वतरे- “अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ती”ति, तैत्तिरीयके- “अंगुष्ठमात्रः पुरुषोऽगुष्ठञ्च समाश्रितः। ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभु”गिति परस्याप्गुष्ठमात्रत्वं श्रूयते। सत्यम्। परस्यांगुष्ठमात्रत्वश्रवणं क्वचिदपि नास्तीति कृत्वाचिंतयेदमधिकरणम्। यद्वा तदपि मंत्रद्वयं “अंगुष्ठमात्रो रवितुल्यरूप” इति मन्त्रान्तरानुसारेण जीवपरमिति पूर्वपक्षी मन्यते। एवं प्राप्ते सिद्धान्तः–

अंगुष्ठप्रमितः परमात्मा। भूतभविष्यदात्मकसर्वजगदीशितृत्वश्रवणात्। तस्य देहेन्द्रियादिनियन्तृत्वविषयतया सङ्कोचायोगात्। नन्वगुष्ठमात्रत्वं प्रथमश्रुतमिति तदनुसारेण देहेन्द्रियादिनियन्तृत्वविषयतया चरमश्रुतं तत् योजनीयम्। तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण। तं विद्याच्छुक्रममृत” मिति मंत्रे हृदयनिविष्टत्वश्रवणात् तदुपाधिकमंगुष्ठमात्रत्वं परमात्मनस्सम्भवतीति वाच्यम्। शाण्डिल्यविद्यायां- “एषम आत्माऽन्तर्हृदयेऽणीय”निति हृदयोपाधिकं परस्याणीयस्त्वमेव श्रुतम्। दहरविद्यायामपि तैत्तिरीयके- “तस्य मधये वह्निशिखा अणीयोर्ध्वा व्यस्थितः। तस्याश्शिखायमध्ये परमात्मा व्यवस्थित” इत्यणीयोवह्निशिखामध्यवर्तित्वोक्त्या परमात्नोऽप्यणीयस्त्वे तात्पर्यमवगतम्। तस्मादुंगुष्ठमात्रत्वं हृदयोपाधिकमित्येतत् न सम्भवतीतिचेत् सम्भवत्येव। दहरशाण्डिल्यविद्ययोहृदयकमलोर्ध्ववर्तिसुषिरवर्तितयोपास्यः परमात्मेति तत्र तदवच्छेदोपाधिकमणीयस्त्वं, इह कृत्स्नहृदयवर्त्युपास्यो विवक्षित इति तदवच्छेदोपाधिकमंगुष्ठमात्रत्वमिति व्यवस्थोपपत्तेः। न च खरतुरगभुजगादीनां अंगुष्ठाभावात् अंगुष्ठमात्रत्वं हृदयोपाधिकमित्येतन्नव्यापकमिति वाच्यम्। मनुष्याणामुपासनाधिकारात् तेषाञ्च हृदयस्य तत्तदंगुष्ठप्रमितत्वात्। आराग्रमात्रस्य जीवस्य हृदयोपाधिनाऽप्यंगुष्ठमात्रत्वं न सम्भवतीति। अत्रेदं वक्तव्यम्। अंगुष्ठमात्रत्वं जीवलिंगमेव। अंगुष्ठमात्रशब्देन हि अंगुष्ठाधिकपरिमाणव्यवच्छेदः क्रियते। न त्वंगुष्ठपरिमाणमपि विधीयते। एकस्य शब्दस्य उभयत्र तात्पर्यायोगात्। अत एव अग्नीषोमीयपशौ अध्रिगुप्रैषे छागस्य पार्श्वद्वयगतानामस्थ्नां वंक्तिशब्दवाच्यानामियत्ताप्रकाशकस्य “षड्विंशतिरस्य वंक्रय” इति मंत्रस्य अश्वमेधपशौ अश्वे चोदकप्राप्तस्य तत्प्रकरणाम्नातेन “चतुसिं्रशद्वाजिनो देवबंधोर्वक्रीरश्वस्य स्वधितिसमेती”ति वैशेषिकमंत्रेण अपवादप्रसक्तौ तदपवादार्थेन “षड्विंशतिरेषां वंक्रय”इति षड्विंशतिपदयुक्त एव सः प्राकृतोमंत्रः प्रयोक्तव्यः। न तु “अश्वस्तूपरो गोमृगस्ते प्राजापत्या” इति विहिताश्वतूपरगोमृगवंक्रीणां समस्यवचन ऊहः कर्तव्य इति पूर्वपक्षे प्राप्ते।।

“षड्विंशतिरित्येव ब्रूया”दिति वाक्यस्यैवकारेण षड्विंशतिमात्रव्यतिरिक्तं यदन्यत् चतुसिं्रशदिति मत्रान्तरं प्राप्तम्, तन्नकर्तव्यमित्यत्र तात्पर्यावगमात् षड्विंशतिपदयोगेऽपि तात्पर्यकल्पने वाक्यभेदापत्तेः न्यायप्राप्तस्य अश्वतूपरगमृगवंक्रीणां समस्वचनरूपस्य ऊहस्य न बाध इति व्यवस्थापितं पूर्वतंत्रे नवमाध्याये। अत एव च भाष्यकारैरिहाधिकरणे “यावन्वा अयमाकाश” इति दहराकाशस्य परमात्मनो भूताकाशसमपरिमाणत्वोक्तिरयुक्ता, “ज्यायान् दिव” इत्यादिवाक्यान्तरे तस्य तदधिकरपरिमाणश्रवणादित्याशंक्य “यावन्वा” इत्यादिवाक्यं हृदयावच्छेदप्रयुक्ताल्पपरिमाणत्वनिवृत्तिमात्रपरम् न तु भूताकाशसमपरिमाणत्वपरमपीत्युक्तम्। एवमंगुष्ठमात्रत्वस्य अंगुष्ठाधिकपरिमाणव्यवच्छेदरूपतायामाराग्रमात्रत्वस्याप्याराग्राधिकपरिमाणव्यवच्छेदरूपत्वप्राप्तेराराग्रपरिमाणत्वमपि जीवस्य न स्यादिति चेत्। नास्त्येववस्तुततस्तस्याराग्रपरिमाणत्वमपि। अत एव “आराग्रमात्रोऽप्यवरोऽपि दृष्ट” इत्येतदनन्तरं” वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्स विज्ञेयस्सचानन्त्याय कल्पत” इति मंत्रेण आराग्रपरिमाणत्वादत्यल्पमतिसूक्ष्मं परिमाणान्तरं प्रतिपादितम्। तस्मादंगुष्ठाधिकपरिमाणव्यवच्छेदस्य परमात्मन्यनुपपत्तेः जीवे तदुपपत्तेश्च जीव एवांगुष्ठमात्र इति निश्चिते तदनुसारेण चरमश्रुतं भूतभव्येशितृत्वं तस्मिन्नेव सङ्कोचनीयमिति पूर्वपक्षो वर्णनीयः। “अंगुष्ठमात्र ” इत्येतन्मात्रशब्दस्य अवधारणार्थं परिगृह्य अंगुष्ठपरिमाणाधिकपरिमाणव्यवच्छेदपरत्वं न कल्पनीयम्, किं तु शब्दस्य “प्रमाणे द्वयसच्दघ्नच्मात्र च” इति प्रमाणार्थविहितमात्रच् प्रत्ययरूपत्वं परिगृह्य अंगुष्ठसमपरिमाणत्वपरत्वकल्पनं युक्तम्। भावरूपलध्वर्थपरिगृह्ये सम्भवति अभावद्वयघटितगुर्वर्थकल्पनायोगात्। एवं च अंगुष्ठमात्रत्वं परमात्मन्येव सम्भवति। अधिकपरिमाणस्य अल्पपरिमाणावच्छेदोपाधिकाल्पत्वस्य व्योमादिषु दृष्टत्वात्। वालाग्रायुतांशपरिमाणस्य जीवस्य तु हृदयावच्छेदप्रयुक्तमप्यंगुष्ठमात्रत्वं न सम्भवति। अल्पपरिमाणस्य अधिकपरिमाणवकवस्तुमध्यवर्तित्वप्रयुक्ताधिकपरिमाणत्वव्यपदेशस्य क्वचिदप्यदर्शनात्। जीववाक्येषु अंगुष्ठमात्रत्वश्रवणन्तु अंगुष्ठाधिकपरिमाणव्यवच्छेदविषयत्वेनोपपादनीयम्। एकस्यापि शब्दस्य तत्र तत्र उचितार्थभेदसम्भवात्। यद्वा- तेषु हृदयशततमनाड्यवच्छेदोपाधिकयोर्धर्मज्ञानगतयोरंगुष्ठमात्रत्वाराग्रमात्रत्वयोस्तस्मिन् सद्वारकान्वयः। नचेहांगुष्ठवाक्ये सद्वारकान्वयः कल्प्यः। परमात्मनि साक्षात्तदन्वयसम्भवादिति सिद्धांतो वर्णनीयः। यद्येवं प्रथमश्रुतेन अंगुष्ठमात्रत्वलिंगेनैव परमात्मेति निर्णयसम्भवे किमिति तन्निर्णयार्थं ईशानश्रुतिस्सूत्रकारेणाश्रिता। तस्यास्सर्वेश्वरे रूढतया ततो झटिति निर्णयमभिप्रेत्य। अत एव सूत्रे “शब्दादेवे”त्येवकारः। आस्तां यौगिकार्थविचारावगम्याल्लिंगान्निर्णयः रूढतयाऽभिधानश्रुतिरूपादीशानशब्दादेव तावन्निर्णयस्संभवतीतिहि तदाभिप्रायः। तस्मादंगुष्ठप्रमितः परमात्मेति सिद्धं।।

संग्रहकारिकाः।।

अंगुष्ठमात्रः पुरुश्शरीरी श्रुत्यन्तरे तस्य तथा प्रसिद्धेः।

ईसानतात्वस्तु जघन्यपाठात् तद्भोग्यभोगस्थितिहेत्वपेक्षा।।

ईशानशब्दस्वरसोपनीतस्सर्वस्य नेता पुरुषोत्तमोऽसौ।

अंगुष्ठमात्रत्वमणौ विभौ च स्वारस्यहीनं हृदयपेक्षयाऽस्तु।।

अस्माद्भयेन जगतः प्रवृत्तिरुक्ता स्वकार्येषु।

अस्य च निरवधि दृष्टं सर्वानुग्राहकं ज्योतिः।।

यदिदं किंचेति मनौ न तत्र सूर्यइति मंत्रे च।

आभ्यामपि लिंगाभ्यां परमात्मांऽगुष्ठमात्रोऽसौ।। इति।।

“हृद्यपेक्षयात्वि” त्येतावतीह स्थितमधिकरणं कम्पनात् ज्योतिर्दर्शनादिति सूत्राभ्यामुत्तरत्र समापयिष्यते। मध्ये प्रासंगिकमधिकरणत्रयं पूर्वतंत्रगर्तेद्रपीताद्यधिकरणवत् गर्भाधिकरणतया प्रासंगिकं प्रवृत्तम्। संग्रहश्लोकेषु तु बुद्धिसौकर्यार्थं उपरितनसूत्रद्वयार्थोऽपि अत्रैव संगृहीतः।।

तदुपर्यपि बादरायणस्सम्भवात्।।25।।

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्।।26।।

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्यां।।27।।

अत एव नित्यत्वं।।28।।

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च।।

मनुष्याधिकारप्रसङ्गात् देवादीनां ब्रह्मविद्यायामधिकारोस्ति न वेति विचार्यते। तत्र पूर्वपक्षः- नास्त्यधिकारश्शरीररहितानां तेषां ब्रह्मविद्यानुष्ठाने सामर्थ्याभावात्। न च तेषां शरीरवत्त्वे प्रमाणमस्ति। नच “वज्रहस्तः पुरन्दरः, इन्द्रोवृत्राय वज्रमुदयच्छ” दित्यादिमन्त्रार्थवादः तत्र प्रमाणं। अनुष्ठेयार्थस्मृतिस्तुत्यर्थानां तेषान्तत्र तात्पर्याभावात्। नच स्मृतिद्वारतया तत्सिद्धिः। सताचासताचस्तुतिदर्शनेन स्तुत्यर्थं द्वारभूतार्थसत्तानपेक्षणात्। न च स्तुत्यर्थं प्रतीयमानतामात्रेण तत्सिद्धिः। तात्पर्याभावे तदसिद्धेः, तात्पर्याधी#िनत्वाच्छब्दप्रामाण्यस्य । नच तत्रापि तात्पर्यं, कल्पकाभावात्। प्रामाण्यनिर्वाहप्रयोजनपर्यवसानाय हि तत्कल्पनं। कर्मकाण्डवचसां विधिनिषेधाधीनप्रवृत्तिनिवृत्तिभ्यां ब्रह्मकाण्डवचसां स्वतः पुरुषार्थब्रह्मप्रतिपादनेन च प्रयोजनपर्यवसानं लब्धमेव। न च देवतोद्देस्यकद्रव्यत्यागात्मकयागविधिवाक्यान्येव देवतापेक्षणीति वाच्यं। शरीररहितस्यापि उद्देशसम्भवेन ततस्तासां शरीरापेक्षाऽसिद्धेः। न च क्षणध्वंसिनां कर्मणां कालांतरभाविफलसाधनत्वनिर्वाहाय द्वारापेक्षायां “तृप्त एवैवमिंद्रप्रजया पशुभिस्तर्पयती” त्याद्यर्थवादतः प्रतीतस्य देवताप्रसादस्य द्वारत्वेन परिग्राह्यतया तासां विग्रहादिपञ्चकसिद्धिः। अपूर्वस्य द्वारस्य सद्भावेन द्वारान्तरानपेक्षणात् ।नच

अर्थवादप्रतीते देवताप्रसादे स्थिते नापूर्वं कल्प्यमिति वाच्यम्। देवतारहितेषु दानादिषु अपूर्वकल्पनाऽवश्यंभावात् यागहोमेष्वपि सम्प्रतिपन्नाचेतनदेवताकेषु चेतनदेवताकेष्वपि केषुचित् तत्कल्पनाऽवश्यम्भावाच्च। न ह्यश्वमेधे मेध्यस्याश्वस्य गुणक्रियांगान्युद्दिश्य “कृष्णाय स्वाहा श्वेताय स्वाहा यन्मेहसि तस्मै स्वाहा यच्छकृत्करोषि तस्मै स्वाहा दद्भ्यस्स्वाहा हनूभ्यां स्वाहे” त्यादिमन्त्रैः किर्यमाणेषु होमेषु चेतनादेवतास्ति। न च तिर्यग्जन्मगतान् पितॄनुद्दिश्य क्रियमाणेषु श्राद्धेषु तिर्यग्भूताः पितरः फलप्रदानसमर्थाः। न च इन्द्रादयोपि कल्पावसानेषु निवृत्ताधिकारः कल्पावसानानुष्ठितभाविकल्पभोग्यफलयागादिफलप्रदानसमर्थाः। एतेन “यजदेवपूजाया”मिति स्मरणेन यागस्य देवताराधनरूपत्वात् तदाराधनानां राजाराधनवत् आराधनप्रसन्नाराधनीयदेयफलार्थत्वावश्यम्भावात् यागविधिसामर्थ्येन देवताविग्रहसिद्धिरित्यपि शङ्का निरस्ता। राज्ञश्शिशवः तत्पादुकादयश्च राजभृत्यैरुचितोपचारेण पूज्यन्ते। ज्योतिष्टोमे सोमलता पयोन्ननिवेदनेन पूज्यते। पितृमातृगुरुभर्त्रतिथिविद्यावृद्धादयश्च शुश्रूषादिभिः पूज्यन्ते। न च तेषां फलप्रदातृत्वमस्ति। राजकुमारादीनामुपंचारो राजादीनामेव पूजा, तेषाञ्च फलदातृत्वमस्तीति यद्युच्येत, तदा देवतानामिज्या वर्णाश्रमादिरूपाचारप्रवर्तकस्य सर्वेश्वरस्यैव पूजा, तस्य फलदातृत्वमस्तीति ततएव यागस्य देवपूजात्वसिद्धेः न तत इन्द्रादिदेवानां विग्रहसिद्धिः। एतेन “इन्द्रो ह वै देवानामभिप्रवब्राजविरोचनोऽसुराणा”मित्यादि ब्रह्मकाण्डगतोपाख्यानैः इन्द्रादीनां विग्रहसिद्धिशङ्काऽपि निरस्ता। कर्मकाण्डगतोपाख्यानानामपि पारिप्लवाधिकरणन्यायत् तत्तद्विद्याविधिशेषत्वेन कर्मकाण्डगतैरिव ब्रह्मकाण्डगतैरपि अर्थवादैः स्तुतिद्वाराभूतार्थासिद्धेः। तस्माद्देवादीनां विग्रहरहितानां सामर्थ्याभावेन नास्ति ब्रह्मविद्यास्वधिकार इत्येवं प्राप्ते सिद्धांतः।।

ब्रह्मोपासनं मनुष्याणामुपरि ये देवादयः तेष्वपि संभवत्येव। न च विग्रहाभावेन तेषां सामर्थ्याभावः, सर्वास्वप्युपनिषत्सु सृष्टिप्रकरणेषु “नारायणद्ब्रह्मा जायते, नारायणाद्रुद्रोजायते, इन्द्रो वरुणस्सोमे रुद्र” इत्यादिवाक्यैः देवादीनां सृष्टिप्रतिपादनात्, सर्वासु श्रुतिषु इन्द्रादिपदानां कर्मविशेषफलत्वप्रतिपादनाच्च। तथा हि सामगानां सामविधिब्राह्मणे “मयिवर्च” इत्यनेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानः त्रयाणां लोकानामाधिपत्यं गच्छती”ति श्रूयते। त्रैलोक्याधिपत्यमिंद्रत्वमेव। तथा छन्दोगानामुपनिषदि- “वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं द्दष्ट्वा तृप्यती”त्यादिवाक्यैः वसुरुद्रादित्यमरुत्साध्द्याख्यगणदेवतापदप्राप्तिः मधुविद्याफलत्वेन प्रतिपाद्यते। तथा देवतावशीकरणस्य कर्मविशेषफलत्वश्रवणादपि तासां विग्रहसिद्धिः। तथा हि सामविधिब्राह्मणे श्रूयते- “यः कामयेतावर्तयेयामित्येकरात्रं क्षुरसंयुक्तस्तिष्ठेत् सुतासांमधुमत्तमा” इति वर्गः। “एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः एकरात्रेण कुटुंबिनमावर्तयति, द्विरात्रेण राजोपजीविनं, त्रिरात्रेण राजानं, चतूरात्रेण ग्रामं, पञ्चरात्रेण नगरं, षड्रात्रेण जनपदं, सप्तरात्रेणासुररक्षांसि, अष्टरात्रेण पितृपिशाचान्, नवरात्रेण यक्षान्, दशरात्रेण गन्धर्वाप्सरसः, अर्धमासेन वैश्रवणं, मासेनेंद्रं, चतुर्भिः प्रजापतिं, संवत्सरेण यत्किञ्चिज्जगत् सर्वं हास्थ गुणीभवती”ति। एवं देवतानां विग्रहसामान्यसिद्धौ “सहस्राक्षो गोत्रभिद्वज्रवाहुरस्मासुदेवो द्रविणं दधातु, चत्वारि शृङागा त्रयो अस्य पादा द्वेशीर्षे सप्तहस्तासो अस्ये”त्यादिमन्त्रैः इन्द्राग्न्यादीनां सहस्राक्षसप्तहस्तत्वादिविशिष्ट- विग्रहविशेषसिद्धिः। न च तेषु विग्रहविशेषप्रतिपादनानपेक्षा शङ्कनीया। “यां देवतां वषट्करिष्यन् स्यात्तांमनसाध्यानासम्भवात्, तथा अर्थवादैरपि वज्रहस्तत्वादिविशिष्टविग्रहसिद्धिः। अत एव शाबरभाष्ये प्रजापतिचपोत्खननादिवाक्यानामपि लाक्षणिकार्थपरिग्रहेण द्वारभूतस्याप्यर्थस्य सद्रूपता दर्शिता। किंच “इन्द्रो वृत्राये”त्यादिवादानां इन्द्रवृत्रादिशब्देभ्योपि विभक्त्युत्पत्त्यर्थमर्थवत्त्वन्तावदपेक्षितम्। तदभावे प्रातिपदिकत्वाभावेन विभक्त्यनुत्पत्तेः। अपेक्षितोर्थस्तदर्थवादैस्समर्पितो वज्रहस्तत्वादिरूप एव पर्यवस्यति। अपेक्षितार्थविशेषसमर्पणे विद्यमाने तं परित्यज्य अपेक्षापूरणार्थं अर्थांतरग्रहणायोगात्। ननु “नकिरिन्द्र त्वदुत्तरः न ज्यायो अस्ति वृत्रहन् नक्येवं यथात्वं, आत्वा विशंत्विन्दवःसमुद्रमिव सिन्धवः, नत्वामिन्द्रातिरिच्यते, इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसङ्गिरः” इत्यादयो मन्त्राः न केवलमिन्द्रं प्रकाशयन्ति। किन्तु सर्वोत्तरत्वसर्वसोमग्रहपात्रत्वसर्वाग्जाल- प्रतिपाद्यत्वादिभिरसदर्थैस्स्तुवन्त्यपि। अतो न स्तुतिद्वारा अर्थसत्तानियम इति चेत्, यत्र विरोधः तत्र “श्रृणोतग्रावाण” इत्यादिष्विव असदर्थावलम्बनत्वस्यापि दर्शनात्। यत्र न विरोधः तत्र औत्सर्गिकस्वतः प्रामाण्यवशादपि अर्थसत्ताऽभ्युपगन्तव्या। किमुत तदपेक्षायां। तस्माद्विधिमन्त्रार्थवादैर्देवादीनां विग्रहसिद्धेः सामर्थ्यसद्भावात् मोक्षफलायां ब्रह्मविद्यायामस्त्यधिकारः। ननु मन्त्रार्थवादादिवशात् देवानां विग्रहवत्त्वाभ्युपगमे “अग्निमग्न आवह, इन्द्रागच्छ हरिव आगच्छ, अध्वर्यो द्रावयत्वं सोममिन्द्र पिपासति, उपोनूनं युयुजे बृषणा हरी, आ च जगाम वृत्रहा, कस्यवाऽहदेवा यज्ञमागच्छति कस्य वा न बहूनां यजमानाना”मित्यादिबहुतरमंत्रार्थवाददर्शनात् देवानां यज्ञदेशागमनमपि अङ्गीकर्तव्यम्। कथमेकस्येन्द्रस्य युगपदनेकयज्ञदेशागमनं घटते। भूतवशिनान्तेषां योगिनामिव युगपत् बहुशरीरपरिग्रहसम्भवादिति ब्रूमः। “अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त, अवाढ्ढव्यानि सुरभीणि कृत्वे”त्यादि श्रुतिषु लोकान्तरस्थदेवसमीपप्रापणार्थं हव्यवदृनश्रवणं तु येषु दर्वीहोमादिषु देवताह्वानं तदागमनं वा न श्रुतं तद्विषयं। यद्वा यज्ञदेशमागता देवाः हविर्गृहीत्वा “यद्वै देवा हविजुषन्ते अल्पमप्येकमाहुतिमपि तद्गिरिमात्रं वर्धत” इति यज्ञदेशागमनहव्यवहनश्रुत्योर्न विरोधः। माभूदिन्द्रादीनां विग्रहवत्वे कर्मणि विरोधः। शब्दे तु स्यात्, विग्रहाणामनित्वावश्यंभावेन तद्विशिष्टवाचिनामिन्द्रादिशब्दानां तदुत्पत्तेः पूर्वं पश्चाच्च अर्थशून्यत्वस्य अनिवार्यत्वात्। यद्युच्येत डित्थादिसाङ्केतिकशब्दानामिव कादाचित्केनाप्यर्थेन अर्थवत्त्वमुपपद्यत इति तदाऽपि इन्द्रादिपूर्वापरकालयोः- “इन्द्रागच्छे”त्यादीनामर्थशून्यत्वमनिवार्यमिति चेन्न। इन्द्रादीनामिंद्रादिशब्दप्रभवतयेन्द्रादि- शब्दानां घटादिशब्दवत् प्रवाहनादिव्यक्तिपरम्परागजातिवाचित्वात्। यथा हि शिल्पी शिल्पशास्रावगतमिंद्राद्याकारं स्मृत्वा तदाकारां प्रतिमां निर्माति, तथा प्रजापतिर्वेदावगतं पूर्वपूर्वेन्द्राद्याकारं स्मृत्वा तत्तदाकारविशिष्टानिंद्रादीन् सृजतीति हि “वेदेन रूपे व्याकरोत् सतासती प्रजापतिस्सभूरिति व्याहरत् स भूमिमसृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजते”त्यादिश्रुतिषु श्रूयते। तथा स्मर्यते च “नामरूपं च भूतानां कृत्यादीनां प्रपञ्चनम्। वेदशब्देभ्य एवादौ देवादीनां चकार स” इति। ननु माभूदर्थद्वारको वैदिकशब्दे विरोधः। शब्दद्वारकस्तु स्यात्। मंत्रार्थवादादीनां हि प्रतीयमानार्थे प्रामाण्यमुपपादितम्। तथा च “मंत्रकृतो वृणीते” विश्वामित्रस्य सूक्तं भवति, संहिताकारपदकारसूत्रकारब्राह्मणकाराणा” मित्यादिप्रामाण्याद्वेदस्य पौरुषेयत्वनिवार्यमितिचेत् नायमपि दोषः। “विश्वामित्रस्य सूक्तं भवती”त्यादिवेदशब्देभ्यो विश्वामित्रादीनां तत्तत्सूक्तविशेषदर्शनादिरूपकृत्यविशेषान् नामरूपाणिचानुसन्धाय पूर्वकल्पानुष्ठितपुण्यवशात् विश्वामित्रादीन् सूक्तादीननधीत्यैव द्रष्टुं समर्थान् प्रजापतिः सृष्ट्वा विश्वामित्रादिपदेषु निवेशयति। अनधीत्य तत्तत्सुक्तादिदर्शनसामर्थ्यमेव च मन्त्रकृत्त्वादिकं। ततो न वेदानित्यत्वापत्तिः। अथ स्यात चतुर्मुखस्य स्वमानेन परार्धद्वयजीविनः चतुर्युगसहस्ररूपैकैकदिवसात्मकस्य अवान्तरकल्पस्यावसाने तावत्कालप्रमाणरात्रिरूपे नैमित्तिकप्रलये भूर्भुवस्स्वरिति त्रैलोक्यमात्रस्य नाश इति वेदसत्त्वात् भवतुवेदशब्दपूर्विका तदनंतरसृष्टिः। तदीयवर्षशतावसाने तावत्प्रमाणोः यः प्राकृतप्रयकालः तदा व्याकृतप्रयन्तसर्वनाशे वेदस्यापि नाशावश्यम्भावात् कथन्तदनन्तरमहाकल्पादौ वेदशब्दपूर्विका सृष्टिः, कथञ्च प्राकृतप्रलये नश्यतो वेदस्य नित्यत्वमितिचेत् उच्यते- तदा वेदानां नाशो न दोषः, “छन्दांसि जज्ञिरेतस्मादि”ति श्रुतिषु महाकल्पादौ तेषामपि सृष्टिश्रवणात्। समानानुपूर्विकत्वरूपे तु नित्यत्वे नास्ति विरोधः। महाकल्पावृत्तावपि सृज्ज्यानां समाननामरूपत्वात्। नच तदसिद्धिः। ” यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा” इति मन्त्रे महाकल्पादौ ब्रह्मसृष्ट्यनन्तरं तस्मै वेदप्रदानश्रवणस्य ब्रह्मा शिल्पिन्यायेन पूर्वकल्पेन्द्रादिनामरूपाणि मन्त्रार्थवादेभ्योऽवगत्य तत्समाननामरूपानिन्द्रादीन् सृजत्वित्येतदर्थत्वात्, “तस्य सुप्तस्य देवस्य नाभौ पद्ममजायत। तस्मिन् पद्मे महाभावग वेदवेदाङ्गपारगः। ब्रह्मोत्पन्नस्सतेनोक्तः प्रजास्सृजमहामत” इत्यादिस्मरणाच्च। तस्माद्देवादीनां विग्रहवतामर्थित्वसामर्थ्ययोगादस्तिब्रह्मविद्यायामधिकार इति सिद्धं।।

संग्रहकारिकाः।।

देवादीनामधिकृतिर्विद्यायां नैव विद्यते।

तेषां विग्रहशून्यानां नखल्पवस्ति समर्थता।।

न च मन्त्रार्थवादेभ्यस्तत्सिद्धिप्रार्थनोचिता।

आन्यपर्याद्विरोधाच्च दुर्वारात्कगर्मशब्दयोः।।

मैवम्मन्त्रार्थवादानां द्वारार्थेऽप्यस्ति मानता।

न कर्मणि विरोधोऽस्ति नैकविग्रहसम्भवात्।।

न शब्दे जातिशब्दत्वात् सम्त्वान्नामरूपयोः।।

इति देवताधिकरणम्।।7।।

—————————————-

मध्वादिष्वसम्भवादनधिकारं जैमिनिः।।30।।

ज्योतिषि भावाच्च।।31।।

भावं तु बादरायणोऽस्ति हि।।32।।

पूर्वाधिकरणे सामान्येन देवानां तदभीप्सितपरोपासनाधिकारोऽस्तीत्युक्तम्। अथ उपासनाविशेषेषु देवताविशेषाणामधिकारोऽस्ति न वेति चिन्त्यत इति सङ्गतिः। अस्ति छान्दोग्ये मधुविद्याः। तस्यां वस्वादय उपास्याः प्राप्याश्च श्रूयन्ते। तत्रह्यादित्यव्यपाश्रयाणि लोहितादिपञ्चरूपात्मकानि पञ्चामृतानि वसुरुद्रादित्यमरुत्साध्यगणभोग्यत्वेनोपास्यानि, तदुपासनानाञ्च वस्वादिपदप्राप्तिः फलमिति वर्णितं, “तद्यत्प्रथमममृतं तद्वसव तृप्यन्ति सयएतदेवममृतं वेद वसूनामेवैको भूत्वा अग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यन्ती”त्यादिना। तस्यांवस्वादीनां नास्त्यधिकारः। स्वस्य स्वोपास्यत्वासम्भवात्, स्वपदप्राप्तेः फलत्वसम्वाच्चेति पूर्वःपक्षः। ननु नायं पूर्वपक्षो युक् इह कल्पे वस्वादीनां सतां कल्पान्तरेऽपि वसुत्वादिकम्विति, इहि जन्मनि ब्राह्मणस्य सतो जन्मान्तरेऽपि ब्राह्मण्यमस्त्वितीच्छावदिच्छोपपत्तेः, भूमविद्यामद्ध्यगतायां प्राणविद्यायां स्वस्य स्वोपास्यत्वसम्प्रतिपत्तेश्चेति चेत्, एवं पूर्वपक्षी मन्यते। मधुविद्याया न वस्वादिभावः फलम्। किन्तु वस्वादिस्थानप्राप्तिपूर्वकं तत्तद्भोगसाम्यं। यथा “अस्मद्भ्रातॄणाम्मध्ये त्वमेक” इत्युक्तौ भ्रातृभिर्भोगसाम्यं। अन्यथा मधुविद्यानिष्ठानां प्रायणानन्तरं वस्वादिभावप्राप्तौ “अष्टौवसव” इत्यादिश्रुतिसिद्धसंख्यातिरेकप्रसङ्गात्। दृष्टञ्च “वैष्णवं वामनमालभेत स्पर्धमान” इति विधिशेषस्य “विष्णुरेव भूत्वेमान् लोकानभिजयती”त्यर्थवादस्य विष्णुवज्जेतृत्वमात्रपरत्वं। तस्माद्वस्वादीनामप्राप्तफलत्वोक्तिर्युक्तैव। तथा स्वोपासनासम्भवोक्तिरपि युक्ता। तदुपासनया तद्भोगसाम्यप्राप्तेश्तत्प्रीतिद्वारत्वस्यौत्सर्गिकत्वेन वस्वादिषु प्रीणयितृत्वप्रीणनीयत्वरूपकर्तृकर्मभाव-

विरोधात्। न हि स्वयमेव स्वात्मानं प्रीणयित्वा प्रीतात्स्वस्मात् फलंलभत इत्यस्ति सम्भवः। प्राणविद्यायांतु भगवत्प्रीत्यैव फललाभः। न हि तत्र स्वोपासनस्य स्वसमभोगप्राप्तिफलश्रवणमस्तीति। किंच “तन्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत” मिति श्रुतिः न देवादीनां ब्रह्मविद्याधकारप्राप्त्यर्था। मनुष्याणामिव तेषामप्यर्थित्वादिसत्त्वे- नाधिकारस्य स्वतः प्राप्तत्वात्। किन्तु मधुविद्यायामधिकार इति पूर्वपक्षः। सिद्धान्तस्तु-

वस्वादीनामपि तस्यामस्त्येवाधिकारः। तेषामपि स्वान्तर्यामितया ब्रह्मोपासनसम्भवात् “य एतामेवं ब्रह्मोपनिषदं वेदे” त्युपसंहारे ब्रह्मविद्यात्वश्रवणात् तेषामपि भाविवस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासम्भवाच्च। एतेन पूर्वपक्ष्यापादितः प्रीणयितृप्रीणनीयैक्यापत्तिमूलस्सर्वोऽपि दोषो निरस्तः। वस्वादिभिस्स्वान्तर्यामितयोपास्यस्य सर्वेश्वस्यैव प्रीणनीयत्वात्। तस्माद्वस्वादीनागपि स्वप्रीणनीयोपास्यतत्फलप्रेप्सयोस्सम्भवात् अस्ति मधुविद्याधिकारः। एवं वाय्वादीनां संवर्गविद्याद्यधिकारोऽपि द्रष्टव्यः। नन्वग्न्यादिभ्य उपरि स्थितानामिन्द्रादीनामर्चिरादिगतिस्मरणं न सम्भवति। तच्च विद्याङ्गमिति “तदोकोग्रज्वलन” मिति सूत्रे सूत्रकार एव “तच्छेषगत्यनुस्मृतियोगा” दिति सूत्रांशेन स्फुटिकरिष्यति। अप्तोऽङ्गानुष्ठानाशक्तानां देवानां कथं विद्याधिकारः। यदि गतिस्मरणमदृष्टार्थं तदाऽर्चिरादिदेवता अपि मनुस्याणां मुच्यमानानां अर्चिरादिका गतिरिति स्मरिष्यति। यदि त्वेवंभूतेन मार्गेण मया विद्यया परमपदं प्राप्यमिति स्मरणमहरहः कर्तव्या। यामुपासनायां ऋत्विक्कर्तृकहविश्शेषभक्षणनियमस्तेषांकरिष्यमाणकर्मसन्तताविवोत्साहजननार्थं, तदाग्न्यादयः स्वस्वानपेक्षितांश विहायापेक्षितं स्वपदान्मुपरित्थितं गत्यंशं स्मरिष्यन्ति। यथा ऋत्विजोऽश्वमेधादिषु अतिबहुपशुप्रभवहविश्शेषमध्ये अपेक्षितांशमात्रं भक्षयन्तीति न सङ्कटं किंचित्। ननु देवानां ब्रह्मविद्याधिकारचिन्तेयं क्कोपयुज्यते। न तावदस्मदादीनां प्रवृत्तौ। नापि देवानां। तेषां स्वकीये विग्रहवत्त्वे तत्प्रयुक्तसामर्थ्यादिमत्त्वे च स्वयमेवावगतिसद्भावात्। उच्यते- देवता न संति चेत् मधुविद्यादीनां वस्वादिपदप्राप्तिः फलं न भवेत्। वरुणग्रहनिर्मोकादिवत् बाधितस्य फलत्वेन श्रुतस्यापि विधेयक्रियाफलत्वायोगात् अन्यदेव तत्फलं कल्प्यं स्यात्। अन्तरादित्यविद्यादिष्वादित्यदेवतान्तर्यामित्वेन ब्रह्मोपासनं न सिध्यत्। गत्यनुस्मृतावचेतनान्यर्चिरादीन्येव मार्गपर्वत्वेन चिन्तनीयानि स्युः। ” भाक्तं वानात्मवित्त्वा”दित्यादिसूत्रोक्तन्यायेन यागादिफलं भुञ्जानानान्निरन्तरमाजानदेवकर्मकरतावगत्या वैराग्यं न सिध्यत्। मनुष्याणामेतादृशाभिमतासिद्धिः फलं देवतासद्भावप्रसाधनस्य। मंत्रार्थवादाः प्राप्तिविरोधयोरसतोः प्रतीयमानार्थे प्रामाण्यं न जहातीति देवताविग्रहप्रसाधनोपयोगिन्यायसमर्थनस्यापि “प्लवाह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति ,मूढा जरामृत्यू ते पुनरेवापियंति।। जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं, तेनासौ लोको न संपूर्यते तस्माज्जुगुष्सेते”त्यादिमन्त्रार्थवादप्रामाण्यावधारणेन विवेकवैराग्यादिसिद्धिः फलमित्याद्यूह्यम्।।

संग्रहकारिके।।

तथाऽपि मधुविद्यायां वस्वादीनान्नविद्यते।

अधिकारो विरोधाच्च प्राप्तत्वात्तत्फलस्य च।।

मैवं सा ब्रह्मविद्यातदधिगतिफला वर्णिता वाक्यशेषे

तस्माद्वस्वादिशब्दे प्रविकसितपरब्रह्मपर्यन्तशक्तिः।

स्वावस्थब्रह्मचिन्ताविधिषु न वलते कर्मकत्रैक्यशङ्का

मुक्तेः प्राक् द्वारभूतं फलमपि घटते भावि वस्वादिप्राप्तिः।।

इति मध्वधिकरणम्।।8।।

————————————

शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि।।33।।

क्षत्रियत्वगतेश्च।।34।।

उत्तरत्र चैत्ररथेन लिंगात्।।35।।

संस्कारपरामर्शात्तदभावाष्तिलापाच्च।।36।।

तदष्तावनिर्धारणे प्रवृत्तेः।।37।।

श्रवणाध्ययनार्थप्रतिषेधात्।।38।।

स्मृतेष्च।।39।।

वस्वादीनामर्थित्वसामर्थ्यसद्भावात् ब्रह्माविध्यायामधिकारोऽस्तीत्युक्तं।तर्हि शूद्राणामपि तत्सत्भावात् अधिकार स्स्या दिति शङ्कया सङ्गतिः।शूद्राणामधिकरोऽस्ति न वेति तदुपसंहारसामर्थ्यसत्वासत्त्वाभ्यां,संशये पूर्वपक्षः।अस्त्यधिकारस्तेषामपि।अग्निविध्याभावाध्दि कर्मानधिकारः पूर्वतन्त्रापशूद्राधिकरणे साधितः।न चोपासनेषु मनोवृत्तिमात्ररूपेषु तदापेक्षाऽस्ति।अतः स्रीणामिव तेषामप्यधिकारोऽस्त्येव।न च तेषां विध्यासहकारिकर्मासम्भवः। स्ववर्णाश्रमधर्मसम्भवात् ।न च तेषां ब्रह्मस्वरूपतदुरासानप्रकारज्ञानासम्भवः,इति हासपुराणसत्त्वात् ।अत एव हि विदुरादयो ब्रह्मनिष्ठाः।अस्तिच छन्दोग्योपनिषदि तेषां विध्याधिकारलिङ्गम्।तत्राहि संवर्गविध्यायां विध्याधिकारिणः शूद्रेत्यामन्त्राणं द्दश्यते ।”आजहारेमाश्शूद्रानेनैव मुखेन मामालापयिष्यता” इत्येवन्तत्रोपाख्यायते। जानश्रुतिर्नाम राज्यपरिपालकः श्रध्दयाबहुप्रदः सर्वासु दिक्षु ग्रामनगरमार्मारष्यतीर्थादिषु पान्थानामन्नोदकशयनाचछादनादिभोग्यजातसंपूर्णानावसथान् मापयांचक्रे ।तस्य धार्मिकप्रवरस्य कर्माभिः क्षीणदुरितस्य ब्रह्म्मविविदिषामुत्पादायितुं केचन महर्षयो हंसरूपमास्थाय निशायां हम्र्ये शयावस्य तस्योपरि पङ्क्तिमाबध्याजम्मुः। तेषामग्रेसरं हंसं “भोगो भल्लाक्ष भल्लाक्षे”ति विपरीतलक्षणया मन्दलोचनेति सम्भ्रमेण द्विवारं सम्बोध कश्चिद्धंस उवाच। जानश्रतेरन्नदानादिप्रभावजनितं ज्योतिः द्युलोकपर्यन्तं व्याप्तं वर्तते। तत्र त्वं सग्नः प्रदग्धो माभूरिति, एकमुक्तवन्तन्तग्रगामी हंसः प्रत्युवाच। एतं वराकं जानश्रुतिं शकटसहितं रैक्वमिव कीद्दशमाहात्म्यशालिनमात्थेति। एतदाकर्ण्य तेन पृष्ठगामिना हंसेन कोऽसौ रैक्व इति पुनः पृष्टस्सएव प्रत्युवाच। सर्वेषामपि सर्वं सत्कर्मविज्ञानजातं यदजीयसत्कर्मविज्ञानन्तर्भूतं सरैक्व इति। तदेतद्धंसवाक्यं जानश्रुतिः स्वनिंदारैक्वप्रशंसागर्भमाकर्ण्य कथमपि निशामतिवाह्य तल्पं त्यचन्नेव क्षत्तारमाहूय शकटचिह्नसहितं रैक्वमुक्त्वा तदन्वेषणाय प्रेषयित्वा क्वचिद्देशे शकटस्याधस्तात् पामानं कण्डूयमानं रैक्वं द्दष्ट्वा प्रत्यागत्य तस्मिन्निवेदितवति स्वयं रैक्वमुपसंपद्य गवां षट्शतानि निष्कमश्वतरीयुक्तं रथञ्चोपहृत्य त्वदुपास्यां देवतामुपदिशेति प्रार्थयामास। ततस्तमुवाच रैक्वः “अहहारेत्वा शूद्र तवैव सह गोभिरस्त्वि”ति। अहेति निपातः। हारसहितः इत्वा रथः गोभिस्सह तवैवास्त्विति तदर्थः। पुनर्जानश्रुतौ रैक्वस्यैतावता न सन्तोष इति मत्वा गवां सहस्रं पूर्वानीतं हारादिकं रैक्वस्य विवाहार्थं स्वकन्याञ्चोपहृत्य विद्योपदेशार्थं प्रार्थयमाने रैक्वस्येदं वाक्यं “आजहारेमाश्शूद्रे”त्यादि। इमाः दक्षिणाः आहृतवानसि। अनेनैव मुखेन विद्याग्रहणोपायेन मामालापयिष्यसि। विद्योपदेष्टारं करिष्यसीत्यर्थः। यद्यपि “अहहारेतवाशूद्रे”ति पूर्ववाक्येऽपि “शूद्रे” त्यामन्त्रणमस्ति। तथाऽपि शूद्रवत् ब्रह्मविद्यागौरवमजानानस्स्वल्पांदक्षिणामाहरसीति कोपेन क्षत्रिय एव “शूद्रे”त्यामन्त्रित इत्यन्यथासिद्धिर्वक्तुं शक्या। न तु द्वितीयवाक्य इत्यभिप्रेत्य इदं सन्तोषवाक्यमुदाहृतं भाष्ये। एवं शूद्रस्यापि विद्याधिकारोऽस्तीति प्राप्ते राद्धान्तः–

शूद्राणान्तात् न ब्रह्मस्वरूपतदुपासनप्रकारपरिज्ञानोपायोऽस्ति। न च पुराणादिकं तदुपायः, “इतिहासपुराणाभ्यां वेदं समुपबृह्मये”दिति वेदतात्पर्यनिर्णयार्थत्वेन तस्य विनियुक्तम्। न च “श्रावयेच्चतुरोवर्णान् कृत्वा ब्राह्मणमग्रत” इति शूद्राणां पुराणादिश्रवणानुमतेर्वैफल्यं, पापक्षयार्थत्वोपपत्तेः। विदुरधर्मव्याधादीनान्तु ब्रह्मनिष्ठा न पुराणादिना, किंतु जन्मान्तरवासनानुवृत्त्या। “शूद्रे”त्यामन्त्रणमपि न शूद्राणां विद्याधिकारे लिङ्गं। इह शूद्रशब्दस्य रूढ्या जदातिवाचित्वाभावात् “शूचेर्द्दश्चे”त्युणादिसूत्रेण “शुच शोक” इति धातोः “स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपी”त्यादिसूत्रानुवृत्तरप्रत्ययस्य “अमितम्योर्दीर्घश्चे”ति तदनन्तरसूत्रानुवृत्तदीर्घस्य धातुचकारस्थाने दकारादेशस्य च विद्यायकेन निष्पन्नस्य तस्य योगेन शोचितृत्वार्थकत्वात्। नचेह रूढिप्राबल्यं शङ्कनीयं।हंसवाक्यानादरश्रवणेन तदैव रैक्कोपसर्पणेन कार्येण च सूचितस्य शोकस्य वुद्धिस्थतया बुद्धिस्थयोगस्य रूढितः प्रबसत्वात् ।किंच जानश्रुतेःक्षत्रियत्वावगमादपि तद्धिषयशूद्र शब्दो यौगिकः।उपाक्यानोपक्रमेहि “जानश्रतिर्ह पौत्रायणः श्रद्धा देयो बहुदायि बहुवाक्य आससहसर्त आवसथान्मापयांचक्रे सर्वत एव मेन्नमत्स्यन्ती”ति जानश्रुतेः दानपतित्वं सर्वेभ्यःपक्कान्नदयित्वञ्चोक्तम्।मध्ये च “सह सञ्जिहान एव क्षत्तरामुवाचे”ति क्षत्तृप्रेषणं।”इयं जाया अयं ग्रामो यस्मिन्नास्स”इति रैक्काय कनायाप्रदानं रैक्कस्तदा यत्र ग्रामेस्थितः तस्य ग्रामस्य दानंचोक्तम्।अन्ते च “ते हैते रैक्कपर्णानाममहावृषेषु यत्रास्म उवासे” ति तस्मै महावृषाख्यदेशगतबहुग्रामप्रदत्वमुक्तम्।एतैर्लिगैःजानश्रुतेः क्षत्रियत्वमवगतम्।यद्यपि अन्यायवृत्ताश्शूद्रा अपि राज्यं परिपालयन्तः “वैश्यात् ब्राह्मणकन्यायां क्षत्ता नाम प्रजायते”।”जीविकावृत्तिरेतस्य राजांतःपुररक्षण”मित्युक्तलक्षणत्रसंग्रहादिकं कुर्वति। तथाऽपि वेदनिबद्धं तत् न तादृशं वक्तुं शक्यम्। बाधकाभावे वैदिकलिंगावगम्यस्य धर्म्यस्यैव ग्राह्यत्वात्। अन्यथा शूद्रेत्यामन्त्रणेनावगतशूद्रस्य विद्याग्रहणं अधर्म्यं वेदेन निबद्धमिति वक्तुं शक्यतया शूद्रस्य विद्याधिकारे उक्तवैदिकलिंगासिध्या तद्बाधकानामनुपन्यसनीयतापत्तेः। तस्माज्जानश्रुतिः क्षत्रियोऽवगम्यत इति युक्तमेव। किंच अस्यामेव संवर्गविद्यायामुत्तरत्र चैत्ररथस्य क्षत्रियत्वात् तस्यापि क्षत्रियत्वमवगम्यते। उत्तरत्र हि “अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्ष” इत्यादौ शौनकस्य ब्राह्मणस्य द्वितीयोऽभिप्रतारिं क्षत्रिय इति तत्प्रायपाठात् रैक्कस्य ब्राह्मणस्य द्वितायो जानश्रुतिरपि क्षत्रिय इत्यवगम्यते। स्यादेतत्। जानश्रुतेः क्षत्रियत्वनिर्धारणमिह प्रायपाठसत्वाधीनं, तत् अभिप्रतारिणः क्षत्रियत्वनिर्धारणाधीनं, तदपि तस्य चैत्ररथत्वनिर्धारणाधिनं, तच्च तस्य कापेययाज्जयत्वनिर्धारणाधीनं, तत्कुतो निर्धार्यते। नहि तदिह वा अन्यत्र वा श्रुतमस्ति। न च कापेयसहपाठात् तत्सम्बन्धः क्वचित्सिध्यन् तद्याज्यत्वरूपस्सिध्यतीति वाच्यम्। भोजनार्थं सहोपविष्टावित्येव हि सहपाठः। न च तावन्मात्रेण कश्चन कुलसम्बन्धस्सिध्यति। अतिथिगृहस्थयोर्व्यभिचारात्, प्राचीनशालीयसंज्ञादिषु व्यभिचाराच्च। तेषामेकविद्यत्वं सम्बन्धश्चेत्, इहापि तदेव सम्बन्धस्स्यात्। उभयोरपि असंवर्गाविद्योपासकत्वात्। ननु छन्दोगब्राह्मणे “अथ यस्य ज्योतिरुक्थ्यः पूर्वमहर्भवत्यायुरुत्तर” इति विहितस्य द्विरात्रस्य “एकाकिनमेवैनमन्नाद्यस्याद्यक्षं करोती” त्येनं द्विरात्रयाजिनमेकमेव भ्रातृवर्गादिमध्ये ऐश्वर्यस्याध्यक्षं करोतीत्येवं फलार्थवादमुक्त्वा तदुपपादकमर्थवादान्तरमाम्नातम्। “एतेन वै चित्ररथं कापेया अयाजयन् तेमेकाकिमन्नाद्यस्याध्यक्षमकुर्वन् तस्माच्चैत्ररथीनामैकः क्षत्रपतिर्जायत” इति चित्ररततद्वंश्यानां कापेययाज्यत्वं श्रुतमिति चेत्, किंततः। न खल्वभिप्रतारी चित्ररथः, नामभेदेन ततो भेदावगमात्। नापि चित्ररथवंश्यः, तथा श्रवणाभावात्। भाष्ये तु “एते नवै चित्ररथं कापेया अयाजयन्नि”ति श्रुतिपाठो लिखितः। तत्रापि अभिप्रतारिणः कापेययाज्यत्वासिद्धिशङ्का तुल्या। तस्य चैत्ररथत्वाश्रवणादेव। तस्मादभिप्रतारिणः कापेययाज्यत्वं ततश्चित्ररथवंश्यत्वञ्च अवगन्तुमशक्यमिति चेत् उच्यते– कापेयस्तावत् श्रुत्यन्तरबलात् चित्ररथयाजकत्वेन प्रत्यभिज्ञायत इति तावन्निर्विवादं। तत्सहोपविष्टोऽभिप्रतारी कापेययाज्यः चित्ररथवंश्यश्चेति बुद्धिरौत्सर्गिकी। बाधकाभावात्। भवत्येव यथाह्विदितपूर्वस्य हस्तिनो निकटे दृश्यमाने पुरुषे राज्ञो हस्तिपकोऽयमिति प्रत्यभिज्ञायमाने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती राजकीयश्चेति बुद्धिः। ननु सिध्यतु कापेययाज्यत्वमभिप्रतारिणः, ततश्चित्ररथवंश्यत्वं न सिध्यति, अन्यस्यापि तद्याज्यत्वसम्भवादिति चेत्। न त्रिविधाः खलु याजकाः पितृपितामहादिपरम्परया कुलक्रमागाताः याजकाः पितृभूताः तदसम्भवे कस्यचिदाधानप्रभृतिषु सर्वेषु कर्मसु याजका मनुष्यभूताः, तदसम्भवे तत्र कर्मणि दैवादागत्य आÐत्वज्यं कुर्वन्तो देवभूताः। अतस्समानान्वयानां याज्ययाजकभावस्य मुख्यत्वेन औत्सर्गिकत्वात्, पूर्वराजचरित्रेषु बहुशो याज्ययाजककुलव्यवस्थादर्शनाच्च कापेयानां पितृभूतयाजकत्वावधारणात् कापेययाजकयोगेन चित्ररथवंश्यत्वसिद्धिः। तस्मात् संवर्गविद्यान्वयिनोर्द्वयोः ब्राह्मणस्य द्वितीयः क्षत्रिय इत्युत्तरदर्शनात् तत्प्रायपाठादपि रैक्वस्य द्वितीयो जानश्रुतिः क्षत्रियः। ननु रैक्वो ब्राह्मण इति कुतोऽवगतं, येन शौनकद्वितीयवत् तद्वितीयः क्षत्रियस्स्यात्। तदन्वेषणार्थं प्रेषिते क्षत्तरि तमन्विष्यप्रत्यागते सति “यत्रारे ब्राह्मणस्यान्वेषणा तदेनमच्छे”ति यत् तपोनवादौ ब्राह्मणानामावासस्थले ब्राह्मणस्यान्वेषणं कर्तुमुचितं, तत्र गत्वैनं प्राप्नुहीत्यर्थकेन तस्य ब्राह्मणत्वस्य स्फुटीकरणात्। तस्मादिह आमन्त्र्यमाणस्य क्षत्रियत्वावगमात् न शूद्रेत्यामन्त्रणेन तस्य विद्यादिकारः। विद्यापेरदेशेषु उपदेश्यस्य उपनयनसंस्कारपरामर्शात् शूद्रस्य तदभावाभिलापाच्च न शूद्रस्य विद्याधिकारः। छान्दोग्ये ह्येवमुपाख्यायते शैसवे प्रमीतपतृकस्सत्यकामो “विद्यार्थमाचार्यमुपेस्य, ब्रह्मचर्य चरिष्यामि किं गोत्रोऽह”मिति मातरं पृष्ट्वा तया त्वज्जनकपरिचरणं कृत्वैव स्थिताऽस्मिनाहं गोत्रं वेदेत्युक्तः गौतममासाद्य “ब्रह्मचर्यं भवति वत्स्याम्युपेयां भगवन्त” मित्युक्त्वा “किंगोत्रस्व ” मिति पृष्टो “नाहं गोत्रवं वेद माताऽपि नावेदीत् माता मे जबाला सत्यकामोऽह” मित्युवाच। अथ गौतमस्सत्यवचनेन “नायमब्राह्मण” इति निर्धार्य “समिधं सोम्याहरोपत्वानेप्य” इत्युक्तवानिति। ननु अपरामृष्टमुपनयनं विद्याङ्गमध्ययनाङ्गं वा उभयधापि नोपपद्यते। विद्यांगोपनयने गोत्रपरिज्ञानस्य अनपेक्षितत्वेन गोत्रप्रश्नानुपपत्तेः। अध्ययनांगोपनयन एव गोत्रभेदेन प्रकारभेदसत्त्वेन गोत्रप्रश्नोपयोगात् अध्ययनागोपनयने “समिधं सोम्याहरे” ति विनियोगानुपपत्तेः। विद्यांगोपनयन एव “तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठ”मिति तमित्पाणित्वस्य विहितत्वात्, अग्रे सत्यकामाय षोडशकलब्रह्मविद्योपदेशस्यैव दर्शनात्, वेदाध्यापनस्यादर्शनाच्च। उच्यते– उपक्रमगतोगोत्रप्रश्नानुसारादध्ययनांगमिदमुपनयनं। अध्ययनन्तु “उपनीये”त्यनेनैव गृहीतं। तस्य अध्ययनपर्यंतोपनयनपरत्वात्। पूर्वतन्त्रे हि “तस्मादग्निचिद्वर्षति न धावे”दित्यत्र अग्निचि”दित्यस्य यदर्थोग्नेश्चयनसंस्कारः, तत्पर्यन्ताग्निचयनपरते त्यग्निचयनांगकक्रतौभूत एव “वर्षति न धावे”दित्यादीना आग्निचिद्वतानि, न त्वग्निचयनसंस्कारमात्रे भूत इति निर्णीतं क्रमलक्षणे।विद्याप्रदेशे अध्ययनांगोप”नयनपरामर्शो विद्यार्थमपि तदपेक्षास्ति,अतस्तद्रहितस्य न विद्याधिकार”इति ज्ञानपनार्थः।समिदाहरणनियोगस्तु तस्मिन् दयया तस्मै विद्यामप्युपदेक्ष्यामीत्यभिप्रायो वर्णनीयः।अस्तु शूद्रस्याप्युपनयनमिति चेत् न “न शूद्रेपातकं किञ्चिन्नच संस्कारमर्हति”त्येतदनन्तरं “धर्मेप्सवस्तु धर्मज्ञास्सतां वृत्तिमनुव्रताः”।मन्त्रवर्जन्नदुष्यन्ति प्रश्सां प्राप्नुवन्ति चे “ति धार्मिकाणां शूद्राणां मन्त्रवर्जसंस्काराभ्यनुज्ञानं कृतमिति चेत् सत्यं।तज्जातकर्मादिमात्रविषयं।न तु उपनयनविषयमपि।”शूद्रश्चतुर्थो वर्ण एकजाति”रिति गौतमस्मृतौ।आहत्य तस्य द्वितीयजन्मरूपोपनयनाभावस्रणात् इहापि शूद्रत्वाभावनिर्धारणे सत्येव अध्ययनांगोपनयनप्रवृत्युपन्यासाच्च।किंच शूद्रस्य वेदवाक्यश्रवनतदध्ययनतदर्थविचारज्ञानानुष्ठानानि,”पद्यु वा एतत्श्मशानं यच्छूद्रःतस्माच्छूद्रसमीपे नाध्येतव्य”मिति शूद्रसमीपे अध्ययनप्रतिषेधेन गौतमस्मृतौ “अथहास्यवेदमुपश्रुण्वतस्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेद”इति शूद्रस्य वेदश्रवणादिषु दण्डविधानेन चार्थात्प्रतिषिध्यन्ते।यस्य हि समीपेऽपि नाध्येतव्यं वेदवाक्यं,यस्य च तच्छ्रवणेऽपि महान् दण्डः,स तत्कथं श्रुणुयात्।अश्रुण्वतः कुतोऽध्ययनमनुष्ठानं वा,तस्मान्नशूद्रस्य विद्याधिकार इति सिद्धम्।।

संग्रहकारिके।।

विद्यास्वस्त्यधिकारश्शूद्राणामपि फलार्थित्वात्।

इतिहासपुराणाभ्यां वेद्यत्वाद्दर्शनाच्च तथा।।

वेदोपबृह्मणतया विद्यार्थे ते न तु स्वतन्त्रतया।

विदुराद्यास्स्वयमुद्गतविद्या जानश्रुतिस्तु स नृपः।।

इति अपशूद्राधिकरणम्।।9।।

———————

कम्पनात्।।40।।

एवं प्रासंगिकेऽधिकरणत्रये वृत्ते यदंगुष्ठाधिकरणान्ते स्थितमुत्तरत्र समापयिष्यतइत्युक्तं, तत्सूत्रद्वयेन समापयति- “अंगुष्ठमात्रः पुरुषो मध्य आत्मनी”ति ” अंगुष्ठमात्रः पुरुषोऽन्तरात्मे”त्यनयोर्मन्त्रयोर्मध्ये “यदिदं किं च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ती”ति मन्त्रः पठ्यते। अस्यार्थः। अस्मिन्नंगुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थिते ततो निस्सृतमिदं सर्वं जगदुद्यतवज्रतुल्यादेतस्माद्यन्महतोभयं तस्माद्धेतोः एजति- कम्पते। तच्छासनातिवृत्तौ प्रत्यवायो भवष्यतीति भयात् स्वस्वकार्येषु प्रवर्तत इत्यर्थः। “भयादस्याग्निस्तपति भयत्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम” इत्यनन्तरमंत्रे आग्न्यादीनामंगुष्ठमात्रनिमित्तभयहेतुकस्वस्वव्यापारप्रवृत्त्युपन्यासादिहापिमंत्रे “महद्भयं वज्रमुद्यत” मिति प्रथमानां पञ्चम्यर्थतां कम्पत इत्यस्य स्वस्वव्यापारप्रवृत्यर्थताञ्चोलोच्यैवं व्याख्यातम्। एवंरूपात् कम्पनादपि अंगुष्ठप्रमितः परमात्मा।।

व्योतिर्दर्शनात्।।41।।

तयोरेव अंगुष्ठमात्रविषययोर्मन्त्रयोर्मध्ये ” न तत्र सूर्यो भाति न चं द्रतारकं नेमा विद्युतो भाति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती”ति परमात्मासाधारणं सर्वतेजसां छादकं तेषां कारणभूतं अनुग्राहकञ्च अंगुष्ठमात्रपुरुषस्य ज्योतिर्दृश्यते। अत्र हि “तमेव भान्तमनुभाति सर्व” मिति तद्भानानुभानरूपभानपौर्वापर्योक्त्या सर्वतेजः- कारणत्वमुक्तम्। पूर्वार्धेन सर्वतेजश्छादकत्वमुक्तम्। चतुर्थपादेन सर्वतेजोऽनुग्राहकत्वमुक्तं। इदं परमात्मासाधारणम्। “तं देवा ज्योतिषां ज्योतिः, यस्यादित्यो भामुपयुज्य भाती” त्यादिश्रुत्यन्तरदर्शनात् आथर्वणस्यैव ” न तत्र सूर्य” इति मन्त्रस्य पाठाच्च। एवम्भूतज्योतिर्दर्शनादपि अंगुष्ठमात्रः पुरुषः परमात्मा।।

इति प्रमिताधिकरणम्।।10।।

————————————-

आकाशोऽर्थान्तरत्वादिव्यपदेशात्।।42।।

सुषुप्त्युत्क्रान्त्योर्भेदेन।।43।।

पत्यादिशब्देभ्यः।।44।।

पूर्वं दहराकाशस्य परब्रह्मत्वसमर्थनाय अल्पश्रुतिपरिहारे कृते तत्प्रसङ्गादंगुष्ठमात्रस्य परमात्मत्वं साधितम्। तत्प्रसङ्गामतं तु अधिकरणत्रयम्। अथ पूर्वप्रकृचदहरविद्याया बुद्धिस्थत्वेन तदनन्तरश्रुतस्याकाशवाक्यस्य परमात्मपरत्वं निरूप्यत इति सङ्गतिः। छान्दोग्ये दहरविद्यानन्तरं श्रूयते– “आकाशो हवै नामरूपयोर्निर्वहिता ते यदन्तर तद्ब्रह्म तदमृतं स आत्मे”ति। तत्र आकाशः “अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी”ति पूर्वमन्त्रप्रकृतो मुक्तात्मा, पूर्वपक्षः– स मुक्तात्मा। ” ते यदन्तरे”ति नामरूपमध्यस्थितत्वोक्त्या नामरूपास्पृष्टत्ववर्णनात्। “नामरूपयोर्निर्वहते”ति तु मुक्तात्मनु पूर्वावस्थाभिप्रायेण उपपद्यते। स हि बद्धावस्थायां नामरूपयोर्नितरां वोढा, देवमनुष्यादिजन्मपर्यायेण बहुविधनामरूपवोढा स्थित इत्येवं प्राप्त उच्यते–

अयमाकाशः परमात्मा। न मुक्तात्मा। मुक्तात्मभेदोपपादकनामरूपनिर्वोढृत्वश्रवणात्। निर्वोढृत्वं हि रूढ्या कर्तृत्वम्। न तु योगेन नितरां वोढृत्वम्। रूढेः प्रबलत्वात्। नामरूपकर्तृत्वं तु जीवस्य न बन्धमुक्त्यवस्थयोस्सम्भवति। जगद्व्यापारनिषेधात्। तत्तु परमात्मन एव धर्मः। “नामरूपे व्याकरवाणि, तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायत” इत्यादि श्रुतेः। तस्माद्यद्यपि पूर्वमंत्रे अभिसम्भवितृत्वेन मुक्तात्मा प्रकृतः। तथाऽपि अभिसम्भाव्यत्वेन परमात्माऽपि प्रकृत इति तद्विषय एवायमाकाशशब्दः। आकाशशब्देन प्रकृतस्य दहराकाशस्य प्रत्यभिज्ञानादपि तद्विषयोऽयं। नच प्रजापतिवाक्येन व्यवधानात् न तत्प्रत्यभिज्ञानमस्तीति शङ्कनीयम्। तस्याप्युपासकस्वरूपयाथात्म्यकथनद्वारा दहरवाक्यशेषत्वात्। दहरवाक्ये दहराकाशउपास्यतयोपक्रान्त इह प्राप्यतयोपसंह्रियत इति विशेषः। अथ स्यात् जावात्मनो भिन्नं आत्मान्तरमेव नास्ति। बृहदारण्यके– “योऽयं विज्ञानमयः प्राणे” ष्विति प्रकृतस्य जीवस्य “एष ब्रह्मलोकस्सम्म्राडि” ति निर्दिष्टपरमात्मैक्योपदेशात्, “नेह नानास्ति किं चने” ति भेदनिषेधाच्च। एं च नामरूपकर्तृत्वमपि मुक्तात्मनि घटते। तस्यैव परमात्मत्वात्। अतोऽयमाकाशो न मुक्तात्मा, किं तु तद्भिन्नः परमात्मेति निर्णयो न युक्त इति चेत्, मैवं। बृहदारण्यके प्राणेष्विति जीवं प्रकृत्य “प्राज्ञेनात्मनाऽन्वरूढउत्सर्जन्याती”त्युत्क्रान्तौ च, भेदेन व्यपदेशात् “एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल” इत्यादिवाक्यश्रुतपरिष्वज्जकविषयपत्यादिशब्देभ्यश्च जीवभिन्नस्य परमात्मनः प्रत्याख्यानासम्भवात्। ऐक्योपदेशभेदनिषेधौ तु प्रकार्यैक्यनिबन्धनाविति समनन्तरपादे वक्ष्यते। तस्मादिहाकाशः परमात्मा न मुक्तात्मेति युक्तमेव।।

संग्रहकारिकाः।।

मुक्तात्मा प्रकृतस्स्यात् आकाशो नामरूपनिर्वोढा।

प्राग्बद्धस्तुद्दूनिति तन्निर्वोढा ततस्तदस्पृष्टः।।

निर्वोढेष्येत कर्ता यदि भवतु तथा पूर्वमन्त्रोपदिष्टः

प्राप्तव्यब्रह्मलोकोदिततदभिदया यद्विमुक्तोऽपि कर्ता।

तेनैक्यं ब्रह्मलोकश्रुतिसमधिगतेनैकधैवेति किञ्चि-

न्नानानास्तीति चास्य स्फुटगतिबृहदारण्यके प्रत्यपादि।।

मैवन्निर्वोढा स्यात् कर्ता योगाद्धि बलवति रूढिः।

तत्कर्तृताच बद्धे मुक्तेऽपि च नैव सम्भवति।।

बृहदारण्यकवचसामर्थो न ब्रह्मजीवैक्यं।

सुप्त्युत्क्रांन्त्योर्भेदश्रवणात्पत्यादिशब्देभ्यः।।

इति अर्थातरत्वादिव्यपदेशाधिकरणम्।।11।।

इति तृतीय पादः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.