[highlight_content]

नयमयूखमालिका – Adhyaya 2 Pada 1

।।श्रीः।।

नयमयूखमालिका

द्वितीयोऽद्ध्यायः

।।द्वितीयस्याध्यायस्य प्रथमः पादः।।

।।स्मृत्यनवकाशदोषप्रसंगइतिचेन्नान्यस्मृत्यनवकाशदोषप्रसंगात्।।1 ।।

।।इतरेषाञ्चानुपलब्धेः।।2 ।।

प्रथमेऽध्याये श्रीमन्नारायणाख्यं परंब्रह्म सकलजगत्कारणमिति तत्र सर्वेषां वेदान्तानां न्यायतस्समन्वयव्युत्पादनेन प्रसाधितं। तत्र संभावितसर्वविधविरोधसमाधानेन तदेव स्थिरीकर्तुं द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमाधिकरणे सांख्यस्मृतिविरोधेन वेदांतानामन्यपरत्वाशङ्का निरस्यते। ननु कथं स्मृतिविरोधे श्रुतेरन्यपरत्वशङ्का, श्रुतिस्मृतिविरोधे स्मृतेरेवाप्रामाण्यस्य “विरोधेत्वनपेक्ष्यं स्यादसति ह्यनुमान” मिति पूर्वतन्त्राधिकरणे स्थितत्वात्। तत्र हि “औदुंबरीं स्पृष्ट्वोद्राये”दिति प्रत्यक्षश्रुतिविरोधेन “औदुंबरी सर्वा वेष्टयितव्ये”ति स्मृतेरनादरणीयत्वं, असत्येव प्रत्यक्षश्रुतिविरोधे स्मृतेर्मूल श्रुत्यनुमापकत्वेन प्रामाण्यञ्चोक्तम्। सत्यं। प्रत्यक्षश्रुतेः स्फुटार्थत्वे तथैव। जगत्कारणविषयावेदान्तास्तु स्पर्शनश्रुतिवन्नस्फुटार्थाः, किंत्वतिगहना नानाप्रकाराः “वेदार्थोयस्स्वयं ज्ञातस्तत्राज्ञानं भवेदपि। ऋषिभिर्निश्चिते तस्मिन् का शङ्का स्यान्महात्मभि” रित्युक्तरीत्योपबृह्मणनिश्चयार्थाइति कपिलदिमहर्षिप्रणीतसांख्यस्मृतिरूपोपबृह्मणानुसारेण तेषामन्यपरत्वशङ्का भवत्येवेति तन्निरासार्थमिदमधिकरणम्। अत्र प्रथमाध्यायप्रसाधितं ब्रह्मणो जगत्कारणत्वमयुक्तं युक्तंवेति सांख्यमन्वादिस्मृतिविप्रतिपत्तेः किं सांख्यस्मृत्योपबृंहणीयास्सन्तो वेदान्तास्तदनुसारेण प्रधानकारणपराः, उत मन्वादिस्मृत्युपबृंहणीयास्सन्तस्ते ब्रह्मकारणपराइत्यनिर्धारणात् संशये पूर्वपक्षः सांख्यस्मृत्योपबृंहणीयाः। तस्या निरवकाशत्वात्। मन्वादिस्मृतीनां वर्णाश्रमादिधर्मेषु अग्निहोत्रादिकर्मसु च सावकाशत्वात्। न च मनुव्यासादि बहुस्मृतिविरोधात् सांख्यस्मृतेर्भ्रान्तिमूलत्वं कल्प्यतामिति वाच्यम्। “ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जयमानञ्च पश्ये”दिति श्वेताश्वतरोपनिषदि सांख्यकर्तुः कपिलस्य ज्ञानपरिपूर्णत्वश्रवणेन तत्कल्पनाऽयोगात्। “यद्वै किञ्च मनुरवदत्तद्भेषज” मिति मनूक्तीनामपि कार्त्स्न्येन प्रामाण्यं श्रुतमितिचेन्न। भेषजशब्दस्य प्रामाण्यार्थत्वाभावेन तदसिद्धेः। यजुर्वेदेहि “यो बरह्मवर्चसकामस्स्यात् तस्मा एतं सोमारौद्रंचरुं निर्वपे”दिति ब्रह्मवर्चसकामस्येष्टिं विधाय “यावदेव ब्रह्मवर्चसं तत्सर्वं करोती”ति फलार्थवादानन्तरं “अत्ब्रह्मवर्चसंक्रियत इत्याहुरीश्वरो दुश्चर्माभवितो”रित्येवंरूपेष्ठ्यनुष्ठानेन “अतिब्रह्मवर्चसं क्रियते तेन यजमानश्वित्रीभवितुं प्रभवती”त्येवं फलमेव पुनर्दोषपर्यवसायिनं सङ्कीर्त्य तत्परिहारार्थं “मानवी ऋचौ धाय्ये कुर्या”दिति मनुना दृष्टे “अग्निं वः पूर्व्यंगिरा देवमीडे वसूना”मित्यादिके ऋचौ सामिधेनीमध्ये धाय्यारूपे वेधाय कथं मानवीभ्यामृग्भ्यां श्वित्रपरिहारइत्याकांक्षायां “यद्वै किञ्च मनुरवदत्तद्भेषजं भेषजमेवास्मै करोती”त्यर्थवादेन तत्सङ्घटकं, न तु मनुदृषऋगर्थानां “अग्निर्वसूनाम्मध्ये पूर्व्य” इत्यादीनां मनुस्मृतिवचनार्थानाञ्च प्रामाणिकत्वप्रतिपादनम्। मनूक्त्यर्थानां श्वित्रे व्याध्यन्तरे वा भेषजरूपत्वं बाधितमिति चेत्, तर्हि असदर्थावलम्बनार्थवादत्वमस्तु। नह्यर्थवादस्य सदर्थावलम्बनत्वसिध्यर्थं प्रकृतार्थासङ्धटकार्थान्तरपरिग्रहो युक्तः। तस्मात् यद्वै किञ्चे त्यादिकमनुवाक्यानां सर्वेषां स्वस्वविषयत्वेन प्रतीते सर्वत्रार्थे प्रामाम्यप्रतिपादनपरमित्येतदसिद्धेः मनुस्मृतिवचनानां ब्रह्मकारणवादांशमपहाय वर्णाश्रमधर्मेष्वेव अवकाशकल्पनं युक्तमिति वेदान्तानां निरवकाशया सांख्यस्मृत्यैवोपबृंहणीयत्वात् ते कपिलसूत्रहरिहरवार्तिकादिप्रतिपादितेन प्रकारेण प्रधानकारणत्वपरा नेतव्याः। तेषु ये पुरुषस्यैव कारणत्वं स्फुटं वदन्ति तेत्वमात्यजयं राज्ञीव प्रधानकृत्यं पुरुषे व्यपदिशंतीति नेतव्याइति मन्वादिस्मृतिभिरेवोपबृंहणीयाः। तासामाप्ततमप्रणीतानां बहूनामनवकाशत्वात्। न च कर्मभिस्तासां सावकाशत्वं, परमपुरुषाराधनभूतकर्मप्रतिपादकानामपि तदाराधनीयतया तच्छेषिणि परमपुरुषे जगत्कारणे ब्रह्मण्येव तात्पर्यात्। अत एव मनुना वर्णाश्रमादिधर्मान् ऋषिभिः पृष्टेन तदाराधनीयपरमपुरुषोपदेशपूर्वकमेव तेषामुपदेशः कृतः। “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः।। ततस्स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम्। महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः।। सोऽभिध्याय शरीरात्स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमपासृजत्।। तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः।। आपो नारा इति प्रोक्ता आपो वै नरसूनवः। ता यदस्यायनं प्रोक्तं तेन नारायणस्स्मृतः” इत्यादिना पुराणेषु परः पुमान्। विष्णुराराध्यते पन्था नान्यस्तत्तोषकारक” इत्यादिवचनैस्तदाराधनतया तच्छेषत्वेनैव कर्मप्रतिपादनमिति स्पष्टमेव। तथा याज्ञवल्क्येनापि “क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता” इतीश्वरं प्रस्तुत्य “मुखपादोरुपज्जास्स्युस्तस्य वर्णा यथाक्रम”मिति पुरुषसूक्तप्रक्रियया तस्य जगत्कारणत्वं प्रतिपादयता मनुवदेव स्ववर्णितवर्णाश्रमधर्माणामाराधनीये पुरुषसूक्तप्रतिपाद्ये श्रियःपतौ नारायण एव तात्पर्यमाविष्कृतम्। तथा आपस्तम्बेनापि “पूः प्राणिनस्सर्व एव गुहाशयस्याहन्यमानस्यविकल्मषस्ये”ति एवं “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण” इति सुबालोपनिषत्प्रतिपाद्यरूपं नारायणं प्रस्तुत्य “तस्मात्कायाः प्रभवति सर्वे समूलं शाश्वतिकस्सनित्य”इति तस्य सकलमूलकारणत्वं वदता सएव स्ववर्णितवर्णाश्रमादिधर्माणामाराधनीय इति तत्र तात्पर्यमाविष्कृतम्। एवमन्येषामपि स्मतर्ॄणां वचनान्युदाहरणीयानि। नच अनवकाशत्वतौल्ये कथं मन्वादिस्मृतिभिरेवोपब्रह्मणीया इति निर्णय इति वाच्यम्। मन्वादीनामाप्ततमत्वात्। मनोस्तावदाप्ततमत्वं तदुक्तीनां भेषजत्वश्रुत्याऽवसितम्। तथाहि — भेषजत्वमिह रोगदुरितोभयशान्त्यथसा धारणदोषपरिहारार्थत्वमात्रं विवक्षितं, नतु विशिप्य रोगशान्त्यार्थत्वमेव। “यद्वैकिंचे”ति वाक्यस्यात्यंतासार्थत्वापत्तेः। नहि मनुस्मृतिवचनानां मध्ये किमपि वचनं वैद्यकवद्रोगशांत्यर्थभेषजप्रतिपादकमस्ति। दुपितशांत्यर्थप्रतिपादकंत्वस्त्येव वर्णाश्रमधर्मविषयचनजातम्। नित्यनैमित्तिकानां वर्णाश्रमधर्माणां दुरितक्षयहेतुत्वात्। ननु तथाऽपि सर्वाणि मनुस्मृतिवचनानि दुरितक्षयोपयोगीनि न भवंति, मनुस्मृतौ राजनीतिव्यवहारपदनिर्णयविषयत्वेन द्दष्टार्थानामपि सत्त्वादिति वीप्सार्थकयत्किञ्चिच्छब्दासांगत्यमस्तीतिवाच्यं। तेषामपि दुरितक्षयार्थकर्मानुष्ठानोपकारकत्वेन परम्परया तादर्थ्यसत्त्वात्, तदभावेऽपि कार्त्स्न्यपरयत्किञ्चिच्छब्दस्य वर्णाश्रमधर्मविषयवचनजातपरत्वेन सङ्कोचोपपत्तेश्च असंकुचितसर्वपरत्वासंभवे संकुचितसर्वपरत्वौचित्यात्। अतएव “सर्वएव हारियोजनस्य लिप्सन्त” इति ज्योतिष्टोमप्रकरण श्रुतिवाक्ये सर्वशब्दस्य असंकुचितसर्वपरत्वासम्भवात् केनचिदवच्छेदेन सामस्त्यपरत्वे वाच्ये प्राकरणिकज्यौतिष्टोमिकाÐत्वज्यावच्छिन्नसामस्त्यपरत्वं युक्तमिति ऋत्विजामेव हारियोजनभक्षणविधायकमिदं वाक्यमिति निर्णीतं पूर्वतन्त्रे। एवञ्च भेषजत्वोक्त्या लब्धप्रामाण्यानां मनूक्तीनां परमतात्पर्यविषयमाराधनीयं विहाय तदाराधनमात्रे तात्पर्यपर्यवसानायोगस्य उक्तत्वात्। तत्रैव धर्मशास्त्ररूपाणां सर्वासां मनूक्तीनां परमतात्पर्यविषयमाराधनीयं विहाय तदाराधनमात्रे तात्पर्यपर्यवसानायोगस्य उक्तत्वात्। तत्रैव धर्मशास्त्ररूपाणां सर्वासां मूक्तीनां प्रामाण्यं लभ्यत इति तत्र तस्याप्ततमत्वम्। तथा “सहोवाच व्यासः पाराशर्य” इति श्रुत्या स्वप्रतिपाद्येऽर्थे व्यासोक्तत्वेन गौरवप्रदर्शनात् तथा व्यासोपदिष्टानां सर्वेषां प्रामाण्यं लभ्यत इति तस्याप्ततमत्वम्। एवं याज्ञवल्क्यादीनामपि “जनकोह वै देहो बहुदक्षिणेन यज्ञेनेज” इति बृहदारण्यकाध्यायादिवचनभङ्गीभिराप्ततमत्वं, कपिलस्यत्वाप्तत्वमात्रम्। “ऋषिं प्रसूत” मित्यादेस्तदृषित्वोपयो- गिकतिपयवेदवेदार्थगोचरज्ञानवत्त्वमात्रविषयत्वेनापि चारितार्थ्यात्। तथा सांख्यशास्त्रप्रवक्तारः कपिलासुरिपञ्चशिखादयस्त्रिचतुराएव स्मृतीतिहासपुराणवक्तारो मन्वादयस्त्वतिबहवइति सुप्रसिद्धम्। स्मृतीतिहासपुराणानिच कपिलादिप्रणीतकतिपयसूत्ररूपात् सांख्यशास्त्रात् अतिबहुलानीतिव्यक्तमेव। तस्मादाप्ततममन्वादिबहुप्रणीतबहुशास्त्रविरोधात् सांख्यशास्त्रस्य निरवकाशत्वमकिंचित्करमिति निवकाशाभिर्मन्वादिस्मृतिभिरेवोपबृह्मणीया वेदांताः। ततश्च तेषां समन्वयात् ब्रह्मणोजगत्कारणत्वमविचलमिति।।

संग्रहकारिकाः।।

वेदान्तौघस्य सांख्यस्मृतिरतिगहनस्यार्थतत्वावधृत्यै

वक्तुं युक्तोपबृह्मण्यनितरविषया साह्यलब्धावकाशा।

नत्वन्या कापि धर्मावगतिपरतया विश्रुता सावकाशा

तस्माद्वेदान्तवेद्यं न भवति जगतः करणं ब्रह्मतत्ते।।

मैवं मनुव्यासमुखस्मृतीनामपि प्रतीतोऽनवकाशभावः।

आराधनीये खलु कर्मभिस्स्वैर्नारायणे भावमुशन्ति तासाम्।।

तस्माद्भजन्त्याप्ततमैः प्रणीतास्ताएव तेषामुपबृह्मणत्वम्।

या तद्विरुद्धार्थरैव दृष्टा सांख्यस्मृतिर्भ्रान्तिनिबन्धना सा।।

इति स्मृत्यधिकरणम्।।

।।एतेन योगः प्रत्युक्तः।।3।।

अत्रापि विषयसंशयपूर्वपक्षसिद्धान्तहेतवः पूर्ववद्ब्रष्टव्याः। हिरण्यगर्भस्य भ्रमासम्भवात् तत्कृतस्य शास्त्रस्येश्वराभ्युपगमेन श्वेताश्वतरोपनिषदाद्युक्तयोगानुष्ठानवर्णनेन च कपिलादिस्मृतिवैलक्षण्येन च वेदान्तान्तरङ्कत्वात् तेनोपबृंहणीया वेदान्ता इति तदुक्तरीत्या ईश्वराधिष्ठितस्य प्रधानस्य कारणत्वोनाभ्युपगन्तव्यत्वात् ब्रह्म कारणमित्येतदयुक्तं इत्यस्यातिदेशाधिकरणस्याधिका शङ्का। हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन तत्कृतस्य शास्त्रस्य भ्रममूलत्वसंभवात्, अब्रह्मात्मकप्रधानकारणत्वाभ्युपगमात्, ईश्वरस्य निमित्तमात्रत्वाङ्गीकारात्, वेदांताभिमतध्येयवैषम्यात्, तन्निरूप्यविलक्षणध्यानविधानाच्च विरुद्धेन तेन वेदान्ता नोपबृंहणीया इति तत्परिहारः।।

संग्रहकारिका।।

योगस्तर्ह्युपबृंहणत्वमयतां सह्यब्जभूनिर्मित-

स्तत्राङ्गीकृत ईश्वरश्श्रुतिमितो योगश्च तद्रोचरः।

मैवं श्रुत्युदितेश्वरात्तदुदिताद्योगाच्च तद्गोचरा-

द्वैलक्षण्यजुषौ हि तौ भववतः कस्येह नास्ति भ्रमः।।

इति योगप्रत्युक्त्याधिकणम्।।

विलक्षणत्वादस्य तथात्वञ्च शब्दात्।।4

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्।।5

दृश्यते तु।।6

असदिति चेन्न प्रतिषेनुगतिभ्याम्।।7

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्।।8

तु दृष्टान्तभावात्।।9

स्वपक्षदोषाच्च।।10

तर्काप्रतिष्ठानादपि।।11

अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः।।12

मन्वादिस्मृतिभिरोवोपबृंहणं कार्यमित्युक्तमयुक्तम्। तासां तर्कविरुद्धत्वात्। अतस्तर्कानुगृहीतया सांख्यस्मृत्यैवोपबृंहणं कार्यमिति प्रत्यवस्थानात्सङ्गतिः। ब्रह्मकारणत्वं युक्तमयुक्तंवेति चेतनात् ब्रह्मणोऽचेतनतया तद्विलक्षणस्य जगत उत्पत्तिसम्भवासम्भवाभ्यां संशये पूर्वपक्षः चेतनाद्ब्रह्मणोऽचेतनस्य जगत उत्पत्तिर्न सम्भवति। विलक्षणत्वात्। घटकुण्डलमृत्सुवर्णादीनां मृत्त्वसुवर्णत्वादिकारणगतासाधारणरूपेण सालक्षखण्ये सत्येव हि कार्यकारणभावो दृष्टः। चेतनस्य च चेतनत्वमसाधारणं न तत्कार्येषूपलभ्यते। न च कदाऽप्युनुपलभ्यमानं चैतन्यं सुषुप्तजीवेष्विव घटादिष्वनुद्भूतं श्रुत ब्रह्मकारणताऽन्यथाऽनुपपत्त्या कल्पनीयम्। सति चैतन्ये कदाचिदुद्भवावश्यम्भावेन तथा कल्पनाऽयोगात्। अन्यथा श्रुतयृपादित्यभावान्यथानुपपत्त्या यूपेऽप्यनुद्भूतादित्यत्वकल्पनापत्तेः, “विज्ञानञ्चाविज्ञानञ्चे”त्यादिचेतनाचेतनविभाजकश्रुतिविरोधापत्तेश्च विलक्षणाविलक्षणयोः कार्यकारणभावाभ्युप गतौ वैलक्षण्ये सति भेदावश्यंभावेन कार्यकारणैक्यसिद्धांतविरोधापत्तेश्चेति। सिद्धांतस्तु-

क्रिमिमाक्षिकादिषु सत्यपि वैलक्षण्ये कार्यकारणभावो दृश्यते। तत्राचेतनांश एव माक्षिकप्रकृतिक इति सालक्षण्यमस्तीति चेत् न। यथा कथञ्चित्सालक्षण्यस्य कार्यकारणभावप्रयोजकत्वे सर्वस्य सर्वस्मादुत्पत्तिः प्रसज्यत #िति कारणगतासाधारणरूपेण सालक्षण्यं तवाभिमतम्। न च तदिहोपपादयितुं शक्यम्। क्रिमौ माक्षिकत्वस्याभावात्। एवमुपपद्यते विलक्षणयोरपि जगद्ब्रह्मणोः कार्यकारणभावः। न च तथा सति भेदाभ्युपगमापत्तिः। सालक्षण्यप्रतिषेधेऽपि कुण्डलहिरण्ययोरिवाभेदोपपत्तेः। न च जगद्ब्रह्मणोरभेदे जगत्सृष्ट्यादिषु सत्सु हेया जगदवस्थाः जगतीव ब्रह्मण्यपि स्युरित्येकस्मिन्नेव ब्रह्मणि हेयगुणाः तद्विरुद्धाः श्रुत्यन्तरसिद्धापहतपाप्मत्वादयश्चेत्यसामञ्जस्यापत्तिः। सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्म कारणं, स्थूलचिदचिद्वस्तुशरीरकं ब्रह्म कार्यमित्येवंरूपे सिद्धान्ताभिमते कार्यकारणाभेदे तदप्रसक्तेः शरीरगतधर्माणां शरीरिण्यप्रसङ्गे बाल्ययौवनत्थाविरादीनामात्मन्यसम्बन्धस्य दृष्टान्तस्य सद्भावादिति। एवं च यद्यपि स्थूलसूक्ष्म शरीररूपविशेषणांशे कार्यकारणयोरचेतनत्वेन विशेष्यांशे तयोश्चेतनत्वेन च सालक्षण्यमस्तीति वक्तुं शक्यम्, तथाऽपि कारणगतविशेष्यांशस्य कार्यगत विशेषणांशेऽपि कारणत्वं वक्तव्यमित्यभ्युपेत्य वैलक्षण्यम्। तत्र दृष्टान्त उपन्यस्तः। बाल्यावस्थस्य यौवनाद्यवस्थान्तरापत्तावपि हि कारणगतविशेष्यांशस्य कार्यगतविशेषणांशेऽपि कारणत्वमस्ति, निरात्मकशरीरस्य यौवनादिप्राप्त्यभावात्, तथेहापि सत्यपि वैलक्षण्ये कार्यकारणभाव उपपद्यत इति दर्शयितुम्।।

संग्रहकारिके।।

अचेतनं चेतनतः कथं स्याद्विलक्षणाद्विश्वमिति स्थवीयः।

विशिष्टयोः कारणकार्यभावे न चोद्यमेतद्धि पदं लभेत।।

तथाऽपि तर्कप्रतितर्कउच्यते न सर्वसाम्यं क्वचिदप्युदीक्ष्यते।

यथा कथञ्चित्प्रकृतेऽपि वर्तते विशेषतो न क्रिमिमाक्षिकादिषु।।

इति विलक्षणत्वाधिकरणम्।।

————————————-

एतेन शिष्टापरिग्रहा अपि व्याख्याताः।।13

प्रधानकारणवादिसांख्यामात्रतर्केण समन्वयभङ्गाभावेऽपि परमाणुकारणवादिकणभक्षाक्षचरणक्षपणकादि- बहुत्वान्त्रिकाभिमततर्केण तद्भङ्गस्स्यादित्यधिकाशङ्कानिरासाय पूर्वन्यायातिदेशार्थमिदमधिकरणम्। परमाणुकारणवादिनां तर्केण समन्वयभङ्गो भवति न वेति तेषा परस्परविरोधसद्भावेऽपि तद्भङ्गसामर्थ्यसम्भवतदसम्भवाभ्यां संशये पूर्वपक्षः। सम्भवति तद्भङ्गे सामर्थ्य, यथा शुनां परस्परविरोधसत्त्वेऽपि एकं वराहं मारयितुमैकमत्येन तद्भक्षणलिप्सया प्रवृत्तानां सर्वेषां शुनां तदलाभेऽपि वराहस्य मारणं भवति। एवं परमाणवस्सत्याः शून्याः विज्ञानात्मकाः क्षणिकाश्चतुर्विधाः एकविधा इत्येवमवान्तरकलहसद्भावेऽप्यल्पपरिमाणानामेव तंत्वादीनां महापरिमाणपटाद्यारम्भकत्वदर्शनात् तद्विपरीतपरिमाणयोर्ब्रह्मजगतोरुपादानोपादेयभावो न सम्भवतीति प्रतिष्ठितेन सकलपरमाणुवाद्यभिमतेन तर्केण तद्भङ्ग उपपद्यत इति पूर्वः पक्षः। सिद्धान्तस्तु-

यथा नानादिग्विप्रकीर्णमपि बहुलन्तमस्तोमं एक एवादित्यः प्रतिक्षिपति, एवमुदाहृतं अन्यदप्येतादृशं तर्कजालं “यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मय” मित्याद्यो मृत्याद्यो मृत्पिण्डारब्धघटशरावादिप्रत्युदाहरणेन प्रतिक्षिपन् वेद एव जागर्तीति नात्रप्रयतितव्यमस्तीति।।

संग्रहकारिके।।

अणुकारणता बहवादिमता प्रतितिष्ठति तर्क इहेति मुधा।

तदवान्तरभेदकथाकलहक्षपितश्श्रुतिसीम्नि न स प्रभवेत्।।

अल्पान्महत्स्यान्महतो नाल्पमित्येष वादिनां।

श्ववराहनयः क्षिप्तः श्रुत्या दृष्टान्तवर्णनात्।।

इति शिष्टापरिग्रहाधिकरणम्।।

।।भोक्रापत्तेरविभागश्चेत्स्याल्लोकवत्।।14

पूर्वाधिकरणस्यातिदेशाधिकरणत्वात् तद्विहाय तन्मूलाधिकरणेन सङ्गतमिदमधिकरणम्। तत्र हि “न तु दृष्टान्तभावा”दिति सूत्रेण शरीरगतबालत्वयुवत्वादीनां शरीरिण्यप्रसङ्गं दृष्टान्तीकृत्य चिदचिच्छरीरकं ब्रह्मेति तद्गतदोषाणां ब्रह्मण्यप्रसक्तिरुक्ता। साऽनुपपन्ना। जीववच्छरीरित्वे तत्कृत सूखदुःखभोगप्रसक्तेरित्याक्षिप्यते। प्रथमेऽध्याये “सम्भोगप्राप्तिरिति चेन्न वैशेष्या”दिति सूत्रेण परस्यास्मदादिशरीरानुप्रवेशप्रयुक्ता सुखदुःखभोगप्रसक्तिर्निराकृता। यथा परगृहप्रविष्टस्यागृहस्वामिनो गृहसाकल्यवैकल्यप्रयुक्तहर्षविषादभाक्त्वं नास्ति एवं परस्यापीति। इह पुनः शरीरस्वामित्व प्रयुक्ता सा निराक्रियते। “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ती”ति श्रवणात् शरीरस्वामित्वे तत्कृतसुखदुःखभोगो न निवारयितुं शक्य इति पूर्वः पक्षः। सिद्धान्तस्तु-

यथाऽपराधिनमपराधानुगुणं क्लेशयितुं तदर्थं कारागृहं निर्माय तत्क्लेशनार्थं स्वयमपि तत्र प्रविष्टस्य स्वतन्त्रस्य तत्कृतक्लेशभाक्त्वं न भवति, एवं परस्यापि। “नहवै सशरीरस्ये”त्यादिश्रुतिरपि स्वकर्मोपार्जितशरीरविषया। न तु शरीरस्वामिमात्रविषया। अन्तर्यामिब्राह्मणो- “यस्य पृथिवी शरीर”मित्यादिना परस्य पृथिव्यादिशरीरस्वामित्वमुक्त्वा तत्तदभिमानिदेवतावत् तत्कृतसुखदुःखभाकत्वशङ्कानिरासायैव प्रतिपर्यायं “एषत आत्माऽन्तर्याम्यमृत” इत्यमृतत्ववचनादिति।।

संग्रहकारिके।।

यदि वर्ण्येत चिदचिच्छरीरं ब्रह्म कारणम्।

तदा शरीरिणोऽस्य स्यात् भोक्तृत्वं सुखदुःखयोः।।

मैवं कर्मकृतं तन्न शरीरकृतं ततोऽस्य तन्न भवेत्।

राजानुग्रहनिग्रहवशवर्तित्वं यथा राज्ञः।।

इति भोक्त्रापत्त्यधिकरणम्।।

तदनन्यत्वमारम्भणशब्दादिभ्यः।।15

भावेचोपलब्धेः।।16

सत्वाच्चापरस्य।।17

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च।।18

पटवच्च।।19

यथा प्राणादिः।।20

विलक्षणत्वाधिकरणे कारणात् ब्रह्मणः कार्यस्य जगतो वैलक्षण्येऽप्यनन्यत्वं “असदिति चेन्न प्रतिषेधमात्रत्वा” दिति गुणसूत्रोक्तं कुण्डलहिरण्यन्यायेन सांख्यंप्रत्युपपादितम्। इदानीं वैलक्षण्ये सत्यनन्यत्वमयुक्तम्। वैलक्षण्यस्य भेदव्याप्तत्वात्। अत एव कुण्डलहिरण्ययोरप्यनन्यत्वमसिद्धम्। सर्वत्र कार्यकारणयोर्बुद्धिशब्दान्तरादिभिर्भेदावश्यम्भावादिति वदतो वैशेषिकस्य मतमास्थायानन्यत्वमाक्षिप्य समाधीयत इति सङ्गतिः। तत्रैवं पूर्वपक्षः- अनन्यत्वे ब्रह्मणो जगत्कारणत्वं न संभवति। लोके कार्यकारणभूतानां घटमृत्पिण्डादीनां बुद्धिशब्दान्तरादिभिः कार्यकारणभावस्य भेदव्याप्तिनिर्धारणात्। नहि मृत्पिंडे पिंडशब्दो वा घटे वा पिंडाकारा बुद्धिरुदेति। न च घटशब्दो मृत्पिंडे पिंडशब्दो वा घटे प्रयुज्यते। न च पिंडाकारो घटे पृथुबुध्नोदराकारो मृत्पिंडेवाऽस्ति। न च मृत्पिंडेनोदकाहरणं घटेन वा कुड्यनिर्माणं क्रियते। न च तंतुष्विव पटे बहुत्वं पटइव तंतुष्वेकत्वं वाऽस्ति। न च घटस्येव मृत्पिंडस्य दण्डचक्रादि कारणम्, मृत्पिंडस्येव घटस्य जलसंयोजनपूर्वकमर्दनं वा कारणं भवति। न चोत्तरकाले मृत्पिंडः पूर्वकाले घटोवाऽस्ति। न च पूर्वकाले घटादिदर्शनमुत्तरकाले मृत्पिंडदर्शनं वाऽस्ति। तस्माद्बुद्धिशब्दादिभेदात् कार्यकारणयोर्भेद एष्टव्यः। एकस्मिन्नेव शरीरे बाल्ययौवनाद्यवस्थाभेदेनेव एकस्मिन्नेव मृद्द्रव्ये पिंड घटावस्थाभेदेन बुद्धिशब्दान्तरादय उपपद्यन्त इति चेत् न । अवस्थानामनित्यतायामसत्कार्यवादापत्तेः, अनित्यानामवस्थानां प्राक्सता कारणेनानन्यत्वासम्भवात् कार्यकारणानन्यत्वसिद्धांतभङ्गापत्तेश्च। तासामपि नित्यातायां बुद्धिशब्दान्तरादिव्यवस्थित्यसम्भवात् दण्डचक्रादिकारणकलापवैयर्थ्यप्रसङ्गाच्च। ननु मृदः पिण्डतादशायामनभिव्यक्ता घटावस्था, अभिव्यक्तैव सा बुद्धिशब्दान्तरादिभाजनं, अभिव्यक्त्यर्थश्च दण्डचक्रादि कारणकलापः। न च तथा सति मृत्पिण्डगतघटावस्थाभिव्यक्त्यर्थेन दण्डचक्रादिव्यापारेण तद्गतकरककपालमणिकमल्लकाद्यवस्थानामप्यपवरकगतघटाभिव्यक्त्यर्थमारोपितेन प्रदीपन तद्गतकरकादीनामिवाभिव्यक्तिप्रसङ्गः। नैल्योत्पलत्वयोः प्रदीपप्रभयोत्पलत्वस्यैवाभिव्यक्तिः। कूपजलस्य कूपान्तरस्थितिसमये जलत्वशौक्ल्ययोर्जलत्वस्यैवाभिव्यक्तिरित्यादिव्यवस्थादर्शनेन तद्वदिहापि यथा दर्शनमभिव्यङ्ग्याभिव्यञ्जकभाववैचित्र्योपपत्तेरिति चेत्- मैवम्। अभिव्यक्तावपि नित्यत्वानित्यत्वविकल्पे पूर्वोक्तदोषानातिप्रसक्तेः।किंच केयमभिव्यक्तिः, ज्ञानं चेत्, तदा दण्डचक्रादिमेलनस्य घटज्ञानकारणत्वापत्त्या तस्मिन्नसति क्वचिदपि घटज्ढानोदयो न स्यात्। आवरणाभिभवश्चेत् तेन किमावरणमभिभूयते? पूर्वं मृदिस्थिता पिंडावस्थेति चेत्-न। तथा सति घटध्वंसकमुद्गरपातानंतरमपि घटावस्थायाः प्रतीतिप्रसङ्गः। तदावरणभूतायाः पिण्डावस्थायास्तिरोहितत्वात्। ननु तदानीं मुद्गरपाताभिव्यक्ता कपालावस्था तदावरणं, स्वकारणाभिव्यक्तायाः कस्याश्चित् कार्यावस्थायाः तद्गतसकलकार्यावस्थांतरावरणत्वाभ्युपगमात्। न च तथा सति कपालेषु कदाचित् घटकारणमेलने घटावस्थाभिव्यक्तिप्रसङ्गः। इष्टापत्तेः। कपालानि चूर्णीकृत्य जलमृदन्तरसंयोजनमर्दनव्यापारैर्मार्दवं प्रापय्य दण्डचक्रादिमेलने घटाभिव्यक्तिदर्शनात्। न च दग्धपटकारणानां पुनः पटभावो न दृश्यत इति शङ्कनीयम्। तद्भस्मनां क्षितितलपतितानां तत्क्षितिप्ररूढकार्पासतरुफलपरिणतौ क्रमेण तेषां पटभावाभिव्यक्तिदर्शनादितिचेत् मैवं। एवं घटाद्यवस्थानां पिण्डाद्यवस्थास्वपि सद्भावस्य तदानीं तदप्रतीत्यर्थं प्रतीयमानपिंडाद्यवस्थानां तदावरणत्वस्य च कल्पने कल्पकाभावात् यथानुभवमवस्थानामागन्तुकत्वेन व्यवस्थित्युपपत्तेः। अन्यथा कदाचित् कस्याश्चितेवावस्थाया अनुभवः, नावस्थान्तराणामित्यनुभवाननुभवव्यवस्थाया अप्यनुपपत्तेः। न ह्यभिव्यक्तिरनुभवस्वयंवरलभ्यः, येन दंडचक्रादिसमवधानात्पूर्वं पिंडावस्थाया एवानुभवः, तदनन्तरं घटावस्थायाएव। ततो मुद्गरपातानन्तरं कपालावस्थाया एवेत्यादिव्यवस्था सिध्येत्। न च जलसंयोजनमृण्मृदुकरणादिकं दण्डचक्रादिकं मुद्गरपातनादिकञ्च पिंडघटकपालावस्थानामनुभवेषु वा तत्तदितरावस्थानामननुभवेषु वा करणानीत्युक्त्या तथा व्यवस्थानिर्वाहः। उदाहृततत्तत्कारणसमवधानेष्वतीतेष्वपि पिंडाद्यवस्थानामनुभवस्य तत्तत्प्रतिद्वंद्विव्यवस्थानामननुभवस्यचानुवृत्तिसत्त्वात्। तस्माद्यथानुभवं पूर्वं पिंडावस्थैव, मध्ये घटावस्थैव, ततःकपालावस्थैवेति व्यवस्थैवाङ्गीकर्तुं युक्ता। तथा सत्यवस्थानामागन्तुकत्वेनासत्कार्यवादः प्रसज्यत इति तत्परिहारार्थमिदंकल्प्यत इति चेत्, किमभिव्यक्तीनामागन्तुकत्वे स न प्रसज्यते, अभिव्यक्तीनामपि नित्यत्वे तु कथमपि त्वदुक्तव्यवस्थासिद्धिः। एवमवस्थानां तत्तदभिव्यक्तीनां वाऽऽगन्तुकत्वेवासत्कार्यवादस्य अप्रतिक्षेप्यत्वस्थितौ द्रव्यमात्रे सत्कार्यवादाभ्युपगमस्य निष्प्रयोजनत्वात्। कुलालेन घटः कृतः, कलादेन कुण्डलं कृतमिति कर्तृकार्ययोरिव मृत्पिण्डेन घटः कृतः सुवर्णेन कुण्डलं कृतमिति समवायिकारणतत्समवेतकार्ययोरप्यबाधित भेदव्यवहारदर्शनात् कार्यकारणयोरवस्थाभेदवद्द्रव्यभेद उपगन्तुं युक्तः। “मृद्धटस्सुवर्णं कुण्डल” मित्यभेदव्यवहारेण भेदव्यवहारो बाधित इति चेत् न। मृत्त्वसुवर्णत्वयोरवयवावयविवृत्तिजातित्वेन तथा व्यवहारोपपत्त्या तेन भेदव्यवहारबाधनायोगात्। अत एव यत्रावयववृत्तिस्तन्तुत्वादिजातिर्नावयविपटादिवृत्तिः, न तत्र तन्तयः पट इत्यादिव्यवहारः। तस्मात् सहावस्थाभिः कार्यकारणद्रव्ययोर्भेद एव युक्त इति लोके कार्यकारणभेदनियमदर्शनात् जगद्ब्रह्मणोरनन्यत्वे ब्रह्मणोजगत्कारणत्वासम्भवात् जगत्कारणे ब्रह्मणि समन्वय इत्येतन्नघटत इति एवंप्राप्ते सिद्धांतः-

तदनन्यत्वं परमकारणाद्ब्रह्मणोऽनन्यत्वमेव। जगतः तदुपपादयद्भ्य आरम्भणशब्दादिभ्यः। तथा च छान्दोग्ये- “श्वेतकेतुर्हारुणेय आस तं ह पितोवाचे”ति प्रस्तुत्य “श्वेतकेतो वस ब्रह्मचर्यं न व सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती”ति पित्रा नियुक्तस्य तस्य गुरुकुलवासं प्रतिनिवृत्तिञ्च “सहद्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः पुनरेयाये”त्युक्त्वा तस्य वेदाभ्यासमूलमवलेपं पश्यतातमवलेपमपनीयतस्याब्रह्मजिज्ञासामुत्पिपादयिषता पित्रा स इत्थं पृष्ट इत्युक्तम्। “स्तब्धोस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञात”मिति। येन श्रुतेन मतेन विज्ञातेन चेत्यर्थः। “आत्मनि खल्वरे दृष्टे श्रुते मतेविज्ञाते इदं सर्वं विदितं भवती”ति श्रुत्यन्तरात्। एवं कृत्स्नस्य जगतो ब्रह्मैककारणकत्वं कारणात् कार्यस्यानन्यत्वं च हृदि निधाय ब्रह्मविज्ञानेन सर्वविज्ञाने प्रतिज्ञाते सति तदभिप्रायमजानता पुत्रेण कथमन्यविज्ञानेनान्यद्विज्ञातं भवतीति मन्यमानेन “कथन्नुभगवस्स आदेश” इति पृष्टे पिता स्वप्रतिज्ढातमर्थमुपपादयितुं कारणात् कार्यस्यानन्यत्वे लौकिकृष्टान्तमुवाचेति वर्णितम्- “यथा सोम्यैकेन मृत्पिंडेन सर्वं मृण्मयं विज्ञातं स्या”दिति । यथा एकमृत्पिण्डारब्धघटशरावाद यस्तदनतिरिक्तद्रव्यत्वात् तज्ज्ञानेन ज्ञाता भवन्तीत्यर्थः। अत्र वैशेषिकप्रक्रियया कारणात्कार्यस्य बुद्धिशब्दान्तरादिभिर्द्रव्यान्तरत्वमाशंक्य लोकप्रतीत्यैव कार्यकारणानन्यत्वमुपपादयितुं वाक्यशेषः “वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्य”मिति। अस्यार्थः- आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणम्। “यत्पर्यपश्यत्सरिरस्य मध्य” इतिवत् रलयोरभेदाद्रेफः। आलम्भ इह स्पर्शः। “आलम्भस्स्पर्शहिंसयो”रिति हि कोशकाराः। “कृत्यल्युटो बहुल”मिति कर्मणि ल्युट्। वाचा- “घटेनोदकमाहरे”त्यादिवाक्पूर्वकोदकाहरणादिव्यवहारेण हेतुनेत्यर्थः। वाक्पदेनाजहल्लक्षणया व्यवहारस्यापि संग्रहः। वाचेति हेतौ तृतीया, अध्ययनेन हेतुना वसतीतिवत् प्रयोजनस्य हेतुत्वविक्षया प्रयोजनार्था। वाक्पूर्वकव्यवहारसिद्ध्यर्थं मृद्द्रव्येणैव पृथुबुध्नोदरत्वादिविकारस्संस्थानविशेषः ततप्रयुक्तञ्च घट इति नामधेयं स्पृश्यते। “नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या”मिति विकारनामधेयोभयवर्तिन आरम्भणशब्दस्य नपुंसकशेषतैकवचनञ्च। उदकाहरणादिव्यवहारविशेषसिध्यर्थं मृद्द्रव्यमेवावस्थांतरनामधेयांरभाग्भवति। अतो घटाद्यपि मृत्तिकेत्येव सत्यं प्रामाणिकं न तु द्रव्यांतरत्वेनेति। “आरम्भणशब्दादिभ्य” इत्यादिशब्देन “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षतबहुस्यांप्रजायेयेती”त्यादयः कार्यकारणयोर्जगद्ब्रह्मणोरननयत्वप्रतिपादकाश्शब्दागृह्यंते। एवञ्च यद्यपि बालस्थविररीत्या बुद्धिशब्दान्तरादयोऽवस्थाभेदेनेव घटरुचकादिरीत्या द्रव्यभेदेनाप्युपपद्यन्ते। द्रव्यभेद एव चात्यन्तसामञ्जस्यम्। तथाऽपि कार्यकारणानन्यत्वे मृद्घटादिकं दृष्टां तयंत्या श्रुत्याऽवस्थाभेद एव दर्शित इति अवस्थाभेदकृता एव बुद्धिशब्दान्तरादय इत्युररीकरणीयम्। न चावस्थानामागन्तुकतायामसत्कार्यवादापत्तिर्दोषः। सत एव द्रव्यस्योत्पत्तिर्हि सत्कार्यवादः, न त्ववस्थानामप्यनागन्तुकत्वं। न च प्रागपि सतो द्रव्यस्योत्पत्त्यनुपपत्तिः। न ह्यभूत्वा भवनुमुत्पत्तिरित्यभ्युपेयते। किं त्ववस्थान्तरोत्पत्तिरुत्पत्तिः, पूर्वावस्थाप्रहाणं नाश इति। एवं च एकमृत्पिण्डारब्धेषु घटशरावादिष्वेकत्वावस्थाप्रहाणेनानेकत्वावस्थापत्तिः। सांद्रतंत्वारब्धे पटे अनेकत्वावस्थाप्रहाणेनैकत्वावस्थापत्तिः। अतो विरलतंत्वारब्धे पटे पटगतैकत्वावस्थापत्तावपि न तन्तुसतस्तन्तुत्वस्येवाऽनेकत्वस्यापि न ग्रहाणम्। किन्तु तन्तुत्वावच्छेदेनानेकत्वानुवृत्तिः, पटत्वावच्छेदेनैकत्वापत्तिरित्यादयोपि विशेषा यथादर्शनमनुसन्धेयाः। ननु “मृत्तिकेत्येवसत्य”मित्य श्रुत्या घटशरावादिकं मृत्तिकेत्येव प्रामाणिकम्, न तु द्रव्यांतरत्वेनेत्येवमर्थया कार्यकारणद्रव्यानन्यत्वे प्रमाणांतरमप्यादर्शितमिति व्याख्यातम्, तत् किं प्रमाणान्तरमिति चेत्-प्रत्यभिज्ञाप्रत्यक्षमिति ब्रूमः। मृत्पिण्डावस्थासद्भावेपि हि घटशरावादिद्रव्यसद्भावः प्रत्यभिज्ञाप्रत्यक्षेणोपलभ्यते। इदं घटशरावादिकं सर्वं पूर्वाह्ने मृत्पिण्ड एवासीदिति पूर्वाह्नस्थित एक एव मृत्कूटः एतावद्घटशरावादिरूप आसीदिति च प्रत्यभिज्ञा दृश्यते। नन्विदं घटशरावादिकं सर्वं पूर्वाह्ने नासीदित्यपि लोके व्यवहारो दृश्यते। श्रुतावपि “असदेवेदमग्र आसी”दिति प्राग्जगदसत्त्वं व्यपदिश्यते। कथं प्रत्यक्षश्रुतिभ्यां लोकवेदयोः कार्यकारणानन्यत्वव्यवस्थासिद्धिरिति चेत उच्यते- पृथुबुध्नोदरादिस्थूलत्वविरोधिसूक्ष्मत्वं यद्धर्मान्तरं ततोऽयमसद्व्यपदेशः। न तु प्राक्सर्वथैवाभावात्। कुतः श्रुतौ वाक्यशेषात् “इदं वा अग्रेनैव किंच नासी”दित्यत्र हि “तदसदेव सन्मनोऽकुरुत स्या”मितीत्यसतो मनस्काराख्यमानससङ्कल्पप्रतिपादको वाक्यशेषश्श्रूयते। लोकेऽपि तत एवासद्व्यपदेश इति युक्तितोऽवगम्यते। न हि सर्वत्र तत्तद्विरोधिधर्मव्यतिरेकेणाभावोनाम कश्चिदस्ति। कल्पनीयाभाववत् तद्विरोधनः क्लृप्तभावरूपधर्मांतरस्यैवाभावव्यवहारालंबनतोपपत्तावतिरिक्ताभावकल्पने गौरवात्। लोकवेदयोरसद्व्यपदेशप्रतिद्वंद्विनश्शब्दान्तराच्च “सदेव सोम्येदमग्र आसीत्” “इदं घटशरावादिकं पूर्वाण्हे मृदेवासी”दित्येवंरूपात्तथाऽवगम्यते। असद्व्यपदेशात् सद्व्यपदेशस्य कार्यकारणानन्यत्वपर्यवसायिनो युक्तिसाहित्येन बलवत्तवात्। युक्तिर्हि विरोधिभावधर्मव्यतिरेकेणाभावनामकं वस्त्वन्तरं न कल्पनीयमिति प्रागुपन्यस्ता। यथा तन्तव एव व्यतिषक्ततन्तुव्यतिरेकेण पटनामकमवयविद्रव्यान्तमस्ति। तस्य रूपादिराहित्ये चाक्षुषतवाद्यभावप्रसंगात्। रूपान्तरादिमत्त्वेऽवयवरूपव्यतिरेकेण अवयविनि रूपान्तरस्य गुरुत्वद्वैगुण्यस्य चोपलब्धिप्रसंगात्। एवं व्यतिषक्तन्तूनामेवपटभाववत् एकस्यैव वायोश्शरीरे वृत्तिविशेषेण प्राणापानादिभाववच्च ब्रह्मण एव विचित्रचराचररूपजगद्भावोपपत्तेर्न वस्तुभेदः कल्पनीय इत्यनयापि युक्त्या सद्व्यपदेशेभ्योबलवत्त्वमवधारणीयम्। एवञ्च “सुवर्णेन कुण्डलं कृत” मित्यादिव्यवहारोप्यवस्थाभेदकृतेनैव कार्यकारणभावेन उपपादनीयः। अन्यथा कुण्डलाय सुवर्णे तोलयित्वार्पिते सुवर्णकारेण कुण्डलं कृत्वा द्विगुणगुरुत्वेन तोलयित्वा प्रत्यर्पणीयत्वप्रसंगात्। तस्मान्मृत्पिण्डघटशारावादीनामनुन्यत्वात् तद्दृष्टां तेन ब्रह्मजगतोरप्युपादानोपादेयभूतयोरनन्यत्वमिति।।

संग्रहकारिका।।

कार्याणां बुद्धिशब्दाकृतिफलगणनाहेतुकालादिभेदा-

द्भिन्नत्वंकारणेभ्यस्स्थिरमिति न दशाभेदतस्स्यात्स भेदः।

एकस्यैव ह्यनेका समुदयति दशा हेतुभिः कालभेदात्

सत्वासत्वादिरूपात्तदिदमपि जगद्ब्रह्मणोऽनन्यदेव।।

इति आरम्भणाधिकरणम्।।

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः।।21।।

अधिकन्तु भेदनिर्देशात्।।22।।

अश्मादिवच्च तदनुपपत्तिः।।23।।

ब्रह्मणस्स्वानन्यजगत्स्रष्टृत्वे तस्य हिताकरणादयो दोषास्स्युरित्याक्षेपिकी संगतिः पर्वपक्षश्च- न च प्रसाधितेन मृत्पिंडघटशरावादिदृष्टांतेन ब्रह्मणस्सूक्ष्मचिदचित्प्रपञ्चविशिष्टरूपेण कारणत्वं, स्थूलचिदचित्प्रपञ्चरूपेण कार्यत्वमिति ब्रह्मण एव कार्यकारणभावेनानन्यत्वमुच्यते, न तु ब्रह्मजगतोरिति वाच्यम्। ब्रह्मणस्सर्वकारणस्य स्वविशेषणे चिदचिदात्मके जगद्रूपकार्येऽपि कारणत्वस्यावश्यवक्तव्यत्वात्। ततश्च ब्रह्मणस्तेनाप्यनन्यत्वं वाच्यमिति सर्वज्ञं सर्वशक्तिकं ब्रह्म स्वाभिन्नत्वेन जीवं पश्यदपि तस्य हितरूपं जगन्नसृजति, अहितरूपमेव जगत्सृजतीति स्वस्यैव हिताकरणादिदोषः प्रसज्यते। अतस्स्वस्मादनन्यदेव जगद्ब्रह्म सृजतीत्येतन्नयुक्तमिति। राद्धान्तस्तु-

जीवादधिकं ब्रह्म ततो भिन्नमेव। “सत्यकामस्सत्यसङ्कल्पः, ज्ञाज्ञौ द्वावजावीशनीशौ, सकारणं करणाधिपाधिपः, अस्मान्मायी सृजते विश्वमेत तस्मिंश्चान्यो मायया सन्निरुद्धः” इत्यादि भेदनिर्देशात्। अनन्यत्वश्रुतयस्तु अपृथग्भावविषयाः। पृथग्भूतप्रकारो हि ब्रह्मणश्चिदचिदात्मकप्रपञ्चः। “सदेवे” त्यादिश्रुतौ अग्रे “इदं सर्वंसदेवासी”दिति सामानाधिकरण्यनिर्देशेन जगतस्सूक्ष्मतादशायां सच्छब्दनिर्दिष्टब्रह्मविशेषणत्वस्य “तदैक्षत बहु स्यां प्रजायेये”ति ब्रह्मणे बहुभवनसङ्कल्पाद्युक्त्या। स्थूलतादशायां तद्विशेषणत्वस्य च प्रतिपादनेन जगतः कदापि ब्रह्मपृथग्भावो नास्तीत्यवगमात् मृद्घटशरावादिरप्यपृथग्भावरूप एवानन्यत्वे दृष्टान्तः। स्वाभिन्नात् स्वस्य कदापि पृथग्भावासंभवात्। न चानन्यत्वश्रुतयाः “सर्वं खल्विदं ब्रह्म तत्त्वमसी”त्याद्यावा मुख्याभेदविषयाः, भेदश्रुतयस्तु तत्तद्विशेषणभेदादौपचारिकभेदविषया इत्यस्त्विति वाच्यम्। तथासीत प्रसक्तहिताकरणादिदोषस्यैव परिहारालाभादश्मकाष्ठलोष्टादिवदस्यन्तहेयगुणानां जीवानां निर्दोषकल्याणगुणैकतानब्रह्माभेदासंभवाच्च। तस्मात् “अवस्थितेरितिकाशकृत्स्न” इत्यादि सूत्रोक्तप्रकारेमानन्यत्वश्रुतय एवापृथग्भूतप्रकारप्रकारिभावविषया इत्येव युक्तमिति।।

संग्रहकारिका।।

एवं जीवा अपि नियमतस्तत्वमस्यादिवाक्या

द्ब्रह्माभिन्ना इति तदहितां नैव कुर्वीत सृष्टिम्।

मैवं वाक्यं न तदभिदया भेदनिर्देशदृष्टे-

स्तत्स्थत्वेनत्वितिहिकथितः काशकृत्स्नीयपक्षः।।

इति इतरव्यपदेशाधिकरणम्।।

उपसंहारदर्शनान्नेतिचेन्नक्षीरवद्धि।।24।।

देवादिवदपि लोके।।25।।

सत्यसङ्कल्पत्वादिभेदनिर्देशादनन्यत्वश्रुतयस्संत्वपृथग्भावमात्रविषयाः। नैवं सत्यसङ्कलप्पत्वेऽपि सर्वशक्तिमत्त्वेऽपि सहकारिसाहितस्य ब्रह्मणो जगदुपादानत्वतत्स्रष्टृत्वश्रुतयस्समर्थयितुंशक्यन्ते। शक्तस्यापि सहकारिरहितस्याकार्यकरत्वादित्युत्थानादवांतरसङ्गतिः। पूर्वपक्षश्च- “सदेव सोम्येदमग्र आसी”दित्यवधारणेन प्राक्त्सृष्टेस्सर्वसहकारिशून्यं खलु ब्रह्म श्रूयते। तत्कथं जगत्कारणभावमश्नुवीत। न च सर्वशक्तिकत्वेन कश्चिद्विशेषः। घटाद्युत्पादनशक्तएव हि कुलालादिस्सहकारिणः अपेक्ष्यैव घटादिकमुत्पादयति। एवं ब्रह्मापि सर्वकार्योत्पादनशक्तञ्चेत्, तत्तत्कार्योचितानि सहकारीण्यपेक्ष्यैव तानि तानि कार्याणि जनयेत्। न हि कुलालो घटोत्पादनशक्तइति सहकार्यनपेक्षः तमुत्पादयति। अशक्तस्सहकारिषु सत्स्वपि न तमुत्पादयतीत्येव शक्तस्याशक्ताद्विशेषः। तस्मात् सहकारिरहितं ब्रह्म न कारणं भवितुमर्हतीति पूर्वःपक्षः। राद्धान्तस्तु-

ब्रह्मणस्सहकारिराहित्येऽपि क्षीरस्य दधिभावापत्तिवत् देवर्षिप्रभृतीनां स्वस्वभोगसाधनस्रष्टृत्ववत् जगदुपादानत्वं तत्स्रष्टृत्ववञ्च उपपद्यते। न च क्षीरस्य दधिभावापत्तौ पाकातंचने सहकारिणी स्तः। न च ब्रह्मणो जगदुपादानत्वे किञ्चित्सहकार्यस्ति। देवादीनाञ्च योगप्रभावासादितैश्वर्यतया भूतवशिनां स्वसङ्कल्पाकृष्टैर्भूतैस्स्रष्टृत्वमुपपद्यते। न तथेश्वरस्य नित्यसिद्धस्य भूतवशितापादको योगप्रभावोऽस्तीतिचेत्- मैवं। विनापि पाकातंचनाभ्यां चिरेण दधिभावो भवत्येव। अचिरेण दधिभावापत्त्यर्थं रसविशेषार्थञ्च तयोरपेक्षा। योगाभ्यासादैश्वर्यावाप्तिश्च श्वेताश्वतरोपनिषदादिमन्त्रार्थवादेभ्योऽवगन्तव्या। ब्रह्मणोऽपि सङ्कल्पमात्रेण स्रष्टृत्वे मन्त्रार्थवादास्संतीति न कश्चिद्विशेषः। किंच सर्वस्यापि सङ्कल्पमात्रेण स्वशरीरव्यापारयितृत्वं दृष्टम्। कृत्स्नञ्जगत् ब्रह्मणश्शरीरमिति तस्य जगद्व्यापारे न काचिदनुपपत्तिः।।

संग्रहकारिका।।

अग्रे सदेकं सहकारिशून्यं कथं ह्युपादानतया जगत्स्यात्।

सङ्कल्पमात्रेण कथं च कुर्यात् क्षीरादिदेवादिवदित्यवेहि।।

इति उपसंहारदर्शनाधिकरणम्।।

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपोवा।।26।।

श्रुतेस्तु शब्दमूलत्वात्।।27।।

आत्मनि चैवं विचित्राश्च हि।।28।।

स्वपक्षदोषाच्च।।29।।

सर्वोपेता तद्दर्शनात्।।30।।

विकरणत्वान्नेति चेत्तदुक्तम्।।31।।

यदि क्षीरद्दष्टांतेन ब्रह्मणोजगद्भावापत्तिः, तर्हि कार्त्स्न्येन क्षीरस्य दधिभाववत् ब्रह्मणोऽपि कार्त्स्न्येन जगद्भाव आपद्येतेति आक्षेपिकी सङ्गतिः। पूर्वपक्षस्तु- क्षीरं दध्याकारेणेव ब्रह्म कार्त्स्न्येन जगदाकारेण परिणमते, उत अग्निसंयुक्तैकभागोजतुपिंडोमुद्रिकाद्युपयुक्तैकदेशेनेव तत्तत्कार्योपयुक्तैकदेशेन परिणमते। नाद्यः। कृत्स्नस्य जगद्भावापत्त्या ब्रह्मावशेषाभावप्रसङ्गात्। न च सूक्ष्मचिदचित्प्रपञ्चविशिष्टं ब्रह्म कारणं, स्थूलचिदचित्प्रपञ्चविशिष्टं ब्रह्म कार्यामिति पक्षे नब्रह्मानवशेषदोषप्रसङ्गः, कार्यरूपतया ब्रह्मावस्थानादिति वाच्यम्। इदानीं कारणरूपेणापि ब्रह्मणस्सत्त्वस्य वक्तव्यत्वात्। अन्यथा कारणस्य ब्रह्मणस्सार्वदिकसत्ताबोधकानां तत्साक्षात्कारोपायविद्याविधायकानांच वाक्यानामानर्थक्यप्रसङ्गात्। सर्वोपादानस्य ब्रह्मणश्चिदचिद्रूपविशेषणांशेऽपि कारणत्वस्य वक्तव्यतया तत्र कृत्स्नस्य ब्रह्मण एककार्यात्मना परिणामे कार्यान्तरात्मना परिणामः कारणब्रह्मावशेषश्च न स्यादिति दूषणस्य वज्रलेपायमानत्वाच्च। तस्मादाद्यः पक्षो न युक्तः। नापि द्वितीयः। निरवयवस्यैंकदेशेन परिणामायोगात् सावयवत्वमिष्यतामिति चेन्न। “निष्कलं निष्क्रियं शांत”मित्यादिनिरवयवत्व श्रुतिव्याकोपप्रसङ्गात्। तस्माद्ब्रह्म जगदुपादानमित्येतन्नयुक्तमिति।। सिद्धांतस्तु-

नैवं शङ्कावकाशोऽस्ति। निरवयवमेव ब्रह्म जगदाकारेण परिणमते। स्वयञ्च यथापूर्वं परिपूर्णमवतिष्ठत इति श्रुत्यैव मुखतः प्रतिपादनात्। न च श्रुतिप्रतिपन्नोऽर्थः कुतर्केणोपनयमर्हति। “नैषा तर्केण मतिरापनेये”ति श्रुतिः। ननु श्रुतिरपि ग्रावप्लवनादिवत् प्रमाणांतरविरुद्धं प्रतिपादयितुं नशक्तोतीति चेत्, न। ब्रह्मणश्शब्दैकबोध्यत्वेन तद्वैलक्षण्यात्। प्रत्यक्षादियोग्येह्यर्थे तद्विरुद्धं श्रुतिरपि न बोधयति। श्रुत्येकगम्यस्त्वर्थो यथा श्रुत्येव सिध्यति। न तु तद्विषयत्वायोग्येन प्रमाणांतरेण बाधितुं शक्यम्। न हि रूपसाधनाक्षमस्य श्रोत्रस्य तद्बाधकत्वमस्ति। किंच जीवात्मन्यचिद्धर्मविलक्षणाः कर्तृत्वभोक्तृत्वादयोऽभ्युपेयन्ते। एवं परमात्मनि चिदचिद्धर्मविलक्षणा धर्माः कुतो न स्युः। लोकेऽग्निजलादयोऽपि औष्ण्यशैत्यादिभिर्विचित्रा दृश्यन्ते। न खलु ते परस्परदृष्टांतेन परस्परविलक्षणधर्मशून्यास्स्वीक्रियन्ते। न च “जातिर्व्यक्तौ नांशेन वर्तते निरवयवत्वात्। नापि परिसमाप्य वर्तते। व्यक्त्यन्तरे तदभावप्रसङ्गा”दिति कृत्स्नैकदेशवृत्तिविकल्पेन जातेर्व्यक्तौ वृत्तिर्निराक्रियते। स्वपक्षे च सांख्यस्य तुल्यमिदं दोषापादनम्, निरवयवं प्रधानं कथमिव महदादिविचित्रकार्यारम्भकमिति। सत्वरजस्तमांसि तस्यावयवास्सन्तीति चेन्न। प्रधानातिरिक्तानां तेषां तदवयवानमभ्युपगमे तत्त्वानां चतुर्विंशतिसंख्याविरोधात्, तेषामपि कृत्स्नैकदेशविकल्पेन महदहङ्काराद्यारम्भकत्वायोगाच्च। परमाण्वादिकारणवादिनामपि कृत्स्नैकदेशसंयोगादिविकल्पैद्र्व्यणुकाद्यारंभायोगाच्च। तस्मात् कल्प्यमपि प्रधानं कृत्स्नैकदेशवृत्तिविकल्पागोचरं मन्यमानस्य श्रुतिसिद्धे ब्रह्मणि का तद्गोचरत्वप्रत्याशा।किञ्च श्रुतिवशादिव सर्वशक्त्युपेतत्वादपि ब्रह्मणो निरवयवस्यापि विचित्रजगदाकारेण परिणामो घटते। सर्वशक्त्युपेतं हि ब्रह्म। “परऽस्य शक्तिर्विविधैव श्रूयत” इत्यादिदर्शनात्। अल्पशक्तिमतामपि प्रपञ्चान्तर्गत चिदचितामतर्कणीया विविधा वैचित्री दृश्यते। सर्वशक्तिमतस्सा कथं न भवेत्। ननु शक्तिमतामपि करणकलेबरापेक्ष एव शक्त्युन्मेषो दृष्टः। अतस्तदनपेक्षं सदपि सर्वशक्तिमत्त्वमध्ययनानपेक्षं धीशक्तिमत्त्वामिवाप्रयोजकमिति चेत्- अत्रोत्तरमुक्तमेव। शब्दैकप्रमाणकं वस्तु यताशब्दमेव ग्राह्यम्। न तु लोकदृष्टकारणविरहेण प्रत्याख्यातुं शक्यम्। तथैव च श्रुत्तिः- “अपाणिपादो जवनो गृहीता पश्यत्यचक्षुस्सश्रृणोत्यकर्णः। न तस्य कार्यं करणंच विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्यशक्तिर्विवधैव श्रूयते स्वाभाविकी ज्ञानबलक्रियाचे”ति। अतश्श्रुत्या श्रुतिदर्शितयुक्त्युपोद्बलितया निरवयवमपि ब्रह्म जगदाकारेण परिणमते, तथैव परिपूर्णमतिष्ठते चेति युक्तमेव।।

संग्रहकारिके।।

कृत्स्नं यदि परिणमते ब्रह्म तदा नावशिष्येत।

नांशेन निरंशत्वाद्विशिष्टपक्षेऽपि तुल्यमिदम्।।

एतादृशाः प्रधाने परमाण्वादौ च दोषास्स्युः।

न ब्रह्मणि श्रुतिशतप्रतिपन्ने विविधशक्तियुते।।

इति कृत्स्नप्रसक्त्याधिकरणम्।।

प्रयोजनवत्त्वात्।।32।।

लोकवत्तु लीलाकैवल्यम्।।33।।

वैषम्यनैर्घृण्ये सापेक्षत्वात्तथाहि दर्शयति।।34।।

नकर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यतेच।।35।।

सर्वधर्मोपपत्तेश्च।।36।।

युक्त्युपोद्बलितश्रुत्या कृत्स्न प्रसक्त्यादिदोषनिराकरणेन ब्रह्मण उपादानत्वसमर्थनेऽपि स्रष्टृत्वसमर्थनं न संभवति। प्रेक्षावत्प्रवृत्तेः प्रयोजनवत्त्वनियमादित्युत्थानात्संगतिः। पूर्वपक्षस्तु- ब्रह्मणो जगत्सृष्टिस्स्वार्था परार्था वा। नाद्यः। अवाप्तसमस्तकामस्यापेक्षितप्रयोजनाभावाच्च। न च प्रेक्षावतामपि निष्प्रयोजना कंतुकक्रीडादिप्रतीतिर्दृष्टेति शंक्यम्। ततोऽपि क्रीडापराणां तात्कालिकानन्दसत्त्वात्। न च ब्रह्मणो जगत्सृष्टावपि तादृशं प्रयोजनं कल्प्यम्। अवाप्तसमस्तकामत्वश्रुतिविरोधात्। नन्ववाप्तसमस्तकामानामपि राज्ञां कन्तुकक्रीडादिपृवृत्तिर्दृश्यत इति चेत्-न। अवाप्तभोगान्तरप्रयुक्तसकलकामानामप्यनवाप्तकन्तुकक्रीडानन्दार्थमेव तत्र प्रवृत्तेः। न चैवं ब्रह्मणि वक्तुं शक्यम्। किंच स्वप्रयोजनार्थं जीवान् संसारदुःखे निमज्जयतश्च ब्रह्मणो वैषम्यनैर्घृण्ये स्यातां। तल्लीलाचासमञ्जाख्यसगरतनयलीलाकल्पा स्यात्। एतेन परार्थासृष्टिरिति द्वितीयपक्षोऽपि निरस्तः। सृष्टेः पारार्थ्ये हि सर्वान् सुखिन एव सृजेत्। पक्षपातरूपेण वैषम्येण कांश्चित्सुखिनः कांश्चिदुःखिनश्च न सृजेत्। दुःखिनस्सृजतश्च नैर्घृण्यं प्रसज्यते। न च कर्मक्षपणेन रक्षितुमेव पापिनो दुःखं प्रापयति ब्रह्म, यथा व्रणिनो रक्षितुमेव व्रणदाहच्छेददुःखं वैद्यः प्रापयतीति वाच्यम्। व्रणदाहादिकमकृत्वा व्रणशांति कर्तुमशक्तस्य वैद्यस्य दाहादिदुःखप्रापकत्वेऽपि सर्वशक्तिकस्य ब्रह्मणोदुःखमप्रापय्यापि रक्षितुं शक्तस्य तत्प्रापकत्वायोगात्। न च तत्तत्कर्माण्यपेक्ष्य विषमसृष्टिकर्तुः पक्षपातित्वनैर्घृण्यदोषौ न प्रसज्येतेइति वाच्यम्। “सदेव सोम्येदमग्र आसी”दिति ब्रह्ममात्रावशेषत्वेन श्रुतायामाद्यसृष्टौ कर्माभावेन तदानींतनिविषमसृष्ट्या वैषम्यनैर्घ-ण्यप्रसङ्गा निवारणात्। तस्माद्ब्रह्मणो जगत्सृष्टृत्वं न युक्तमिति।। सिद्धान्तस्तु-

सत्यं। प्रयोजनार्थैव प्रेक्षावत्प्रवृत्तिः। इहाप्यस्त्येव सृष्ट्या ब्रह्मणो लीलारूपं प्रयोजनं राज्ञ इव बालस्येव चाक्षद्यूतादिना, “क्रीडा हरेरिदं सर्वं क्षरमित्युपधार्यतां। क्रीडतो बालक्स्येव चेष्टास्तस्य निशामये”त्यादि भगवत्पराशरवचनात्। न चैवं सति ब्रह्मणोऽवाप्तसमस्तकामत्वविरोधः। यद्यदेप्सति तत्तदाऽवाप्तुं सामर्थ्यं ह्यवाप्तसमस्तकामत्वं सार्वभौमादिसाधारणं, न तु सर्वदा सर्वकामावाप्तिमत्वम्। शीतोष्णादिकालभेदेन सुरनरतिर्यगा च विषमसृष्ठ्या वैषम्यनैर्घृण्यदोषापत्तिः, “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने”ति श्रुतेः। कर्मविशेषमूलं जगद्वैषम्यमीश्वरस्तदुत्पत्तौ निमितमात्रं साधारणकारणम्। यथा सस्योत्पत्तौ पर्जन्यस्साधारणकारणम्। तद्भूयोऽल्पत्वव्रीहियवत्वादिवैषम्यं क्षेत्रबीजादिविशेषकृतमित्यभ्युपगमात्। यथोक्तं भगवता पराशरेण- “निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि। प्रधानकारणीभूता यतो वै सृज्यशक्तय”इति। सृज्यशक्तयस्सृज्यकर्माणि। एवं च ब्रह्मणः प्रजानां व्यवहारदर्शने तदीययुक्तायुक्तवचनानुसारेणानुग्रहविशेषं कुर्वतो राज्ञ इव न निरवद्यत्वहानिः। प्रत्युत विषमकर्मणामेकरूपसृष्टावेव युक्तायुक्तवादिनामेकरूपानुग्रहे व्यवहारद्रष्टुरिव तद्धानिस्स्यात्। न च सृष्टेः प्रागेकत्वावधारणात् तदा जीवानामप्यभावेन तत्कर्मणामभावश्शङ्कनीय इति वाच्यम्। जीवानां तत्कर्मप्रवाहाणाञ्चानादित्वेनैकत्वावधारणस्य पृथग्व्यपदेशार्हविभक्तनामरूपात्मकस्थूलरूपाभावाभिप्रायत्वात्। अतो जीवतत्कर्मणामनादित्वेन सत्वेऽप्यविभाग उपपद्यते। अनादित्वं जीवानां तत्सृष्टिप्रवाहाणाञ्च “न जायते म्रियते वा विपश्चित्, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पय” दित्यादिश्रुतिषूपलभ्यते। विचित्रसृष्टिप्रवाहानादित्वेनैव तत्कारणविचित्रकर्मप्रवाहानादित्वमप्यवसीयते। तस्माज्जगदुपादानत्वतत्स्रष्टृत्वोपयुक्तानां सर्वेषां धर्माणां ब्रह्मण्युपपत्तेः प्रधानपरमाष्वादिष्वेव उक्तवक्ष्यमाणन्यायैस्तदुनुपपत्तेः ब्रह्म जगतो मूलकारणामित्येतद्युक्तमेवेति सिद्धम्।।

संग्रहकारिकाः।।

नावाप्तव्यं किमपि फलमस्त्याप्तकामस्य सृष्ठ्या

लीलाऽप्येवं जगति वलते नासमञ्जेतराणाम्।।

तत्पारार्थ्ये कथमपि स्रजेन्नैव कस्यापि दुःखं

कर्मापेक्षा परिहृतिरपि व्यापिका नाद्यसृष्टिः।।

राज्ञइव द्यूतकृतिः लीलेयं ब्रह्मणो जगत्सृष्टेः।

कर्मापेक्षानियमान्नविषमता नापि नैर्घृण्यम्।।

तच्चास्ति प्रलयेष्वपि संसारभुजामनादित्वात्।

श्रुतिषु सदेवेत्यवधृतिरविभागार्हास्तदाऽतइति।।

कारणतानिर्वाहो यैस्स्यात्सर्वेऽपि ते धर्माः।

उपपद्यन्ते ब्रह्मणि तद्वैकल्यं प्रधानादौ।।

इति प्रयोजनवत्त्याधिकरणम्।।

इति श्रीमद्भरद्वाजकुपलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य प्रथमः पादः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.