॥श्रीः॥
नयमयूखमालिका
।। अथ द्वितीयस्याध्यायस्य तृतीयः पादः।।
सांख्यादितंत्राणां न्यायाभासमूलत्वाद्विप्रतिषेधाच्चासामंजस्यमुक्तं। इदानीं स्वपक्षस्यापि वियदुत्पत्त्युनुत्पत्त्यादिविषयुश्रुतिविप्रतिषेधदोषोस्तीति प्रतिबन्दीं मनसि विपरिवर्तमानां निरसितुं तदभावख्यापनाय ब्रह्मकार्यस्य प्रपञ्चस्य कार्यताप्रकारः पादद्वयेन विशोध्यते। नन्वेवं सति वियदादि कार्यत्वप्रसाधनस्य परोक्तदोषपरिहारार्थेन प्रथमपादेन संगत्त्या तदानंतर्यं स्यात्। कारणविषयपादद्वयानन्तरं कार्यविषयपादद्वयारम्भ इति चेत् तर्हि कार्यविषयस्यास्य पादद्वयस्याध्यायसंगतिरेव न स्यात्। प्रथमाध्यायनिरूपिते वेदांतानां जगत्करणब्रह्मसमन्वये परिपन्थिनो विरोधस्य समाधानं हि द्वितीयाध्यायार्थ इति चेत् उच्यते- कारणविषयश्रुतीनां ब्रह्मणि समन्वयो वियदाद्युत्पत्तिश्रुतीनां स्वार्थसमन्वयमपेक्षते। अन्यथा वियन्नित्यत्वे परनादीनां वियदादिजन्यत्वे च ब्रह्म कथं वियदादिकस्य कारणं भवेत्। कथंच ब्रह्म सर्वस्य कार्यस्य कारणं स्यात्। अतो वियदाद्युतपत्ति श्रुतिसमन्वयचिंता, तदनुबन्धेन जीवनित्यत्वज्ञातृत्वाणुत्वादिचिंता। अथवा “विप्रतिषेधाच्चासमंजस”मित्यादिसूत्रैस् सांख्यादिदर्शनानां परस्परविरोधादप्रामाण्ये समर्थिते वेदांतेष्वपि वियदादेर्जीवस्यचोत्पत्त्यनुत्पत्तिश्रुतीनां जीवस्य ज्ञातृत्वज्ञानरूपत्वादिश्रुतीनां च परस्परविरोधेनाप्रामाण्ये तेषां कारणविषयेप्यप्रामाण्यशंकया निर्विचिकित्सं प्रामाण्यं नसिध्येदिति प्रथमाध्यायनिरूपितकारणविषयश्रुतिसमन्वयाक्षेपकतया ज्ञातृत्वादिविचारस्यापि साक्षादेव संगतिरनुसंधेया। इह प्रथमं वियदुत्पत्तिस्समर्थ्यते-
नवियदश्रुतेः।।1।।
अस्तितु।।2।।
गौण्यसंभवाच्छब्दाच्च।।3।।
स्याच्चैकस्य ब्रह्मशब्दवत्।।4।।
प्रतिज्ञाहानिरव्यतिरेकात्।।5।।
शब्देभ्यः।।6।।
यावद्विकारंतु विभागो लोकवत्।।7।।
एतेन मातरिश्वा व्याख्यातः।।8।।
असंभवस्तु सतोऽनुपपत्तेः।।9।।
वियदुत्पद्यते नवेति तदुत्पत्तिप्रतिपादनक्षमश्रुतिसंभवासंभवाभ्यांसंशये पूर्वपक्षः- वियन्नोत्पद्यते। तदुत्पत्तिप्रतिपादनक्षणश्रुत्यभावात्। छांदोग्येतावत् तद्विषया श्रुतिरेव नास्ति। तैत्तरीयकाथर्वणादिषु सत्यपि सा न तदुत्पत्तिप्रतिपादनक्षमा। निरवयवत्वेन सर्वगतत्वेन च तस्य नित्यत्वावगमात्। नच द्वितीयहेतोरसिद्धिः। क्वचिदपि तदभावस्य बुध्यारोहासंभवात्। अत्र वियन्नास्तीति निषेधस्य व्याहतत्वात्। यत्र निषिध्यते तस्यैव देशस्य वियद्रूपत्वात्। अतस्तैत्तिरीयकश्रुतौ वियतिश्रुता संभूतश्रुतिः “एतस्माज्जायते प्राणोमनस्सर्वेन्द्रियाणि च। खंवायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी”त्याथर्वणे वियत्यनुषक्ता जायतेश्रुतिश्च गौण्येव वाच्या। न च श्रुतानुषक्तयोस्सम्भूतशब्दयोर्जायतेशब्दयोश्चार्थभेदे कश्चिद्दोषः। आथर्वणएव “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायत” इति श्रुतयोरपि ब्रह्मशब्दयोर्मुख्यामुख्यत्वदर्शनात् वियदुत्पत्तिवादिनाऽपि “आकाशवत्सर्वगतश्च नित्य” इति श्रुतौ सकृच्छØतयोर्नित्यसर्वगतशब्दयोः एकत्र मुख्यत्वस्य अन्यत्रामुख्यत्वस्य च अङ्गीकर्तव्यत्वाच्चेति। एवं प्राप्ते सिद्धान्तः-
यत्र तेजसः प्राथम्यं श्रुतं, तत्रैव छान्दोग्ये मृत्पिण्डादिदृषान्तपूर्वकं एकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तस्याहानिः आकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति। तेनाकाशस्य ब्रह्मकार्यत्वं छान्दोग्यश्रुतेरप्यनुमतमवसीयते। “सदेव सोम्येदमग्रआसी”दिति सृष्टेः प्रागेकत्वावधारणं “ऐतदात्म्यमिदं सर्व”मिति सर्वस्य ब्रह्मात्मत्वप्रतिपादनमित्यादिशब्दैश्च तथाऽवसीयते। एवंचैभिश्शब्दैराकाशस्यापि साधारण्येन ब्रह्मविकारत्वेऽध्यवसिते तस्य विशिष्यापि ब्रह्मणो विभागरूपोत्पत्तिरुक्तैव भवति। यथा लोके “सर्व एते देवदत्तस्य पुत्रा” इति सामान्येनाभिधाय केषांचिद्विशिष्य तत उत्पत्तिवचनेन सर्वेषामपि तत उत्पत्तिरुक्तैव भवति। एवं सति छान्दोग्ये तेजस्सृष्टिप्राथम्यश्रवणं कथमितिचेत् न खलु ब्रह्मणा तेजः प्रथमं सृष्टमिति श्रुतम्। येन श्रुतिप्राप्तं तत्प्राथम्यं स्यात्। किन्तु तेजस्सृष्टिः प्रथमपठितेति स्थानप्रमाणतस्तत्प्राथम्यं प्राप्नोति। नच स्थान प्रमाणं “आकाशस्सम्भूत” इति सम्भूतश्रुतेरीष्टे। आकाशस्य नित्यत्वसाधको निरवयवत्वहेतुरप्रयोजकः। श्रुत्युदाहृतैकमृत्पिंडारब्धघटशरावादिन्यायेन परिणामवादे निरवयवस्याप्यनित्यत्वोपपत्तेः। न च इह वियत् नास्तीति निषेधस्य व्याहत्या सर्वगतत्वसिद्धिः। तत्र इहप्रत्ययवेद्यस्य निबिडमूर्तद्रव्याभावरूपावकाशपरत्वोपपत्तेः। इह अवकाशे स्थातव्यमित्यादिव्यवहारेषु तस्यापि इहप्रत्ययवेद्यत्वात्। एवं सति “वायुश्चान्तरिक्षं चैतदमृत”मिति वियदमृतत्वश्रुतेः का गतिरितिचेत्, वाय्वमृतत्वश्रुतेर्या गतिः सैव। स्पष्टोत्पत्तिकस्य वायोरपि ह्यमृतत्वं श्रूयते। किं बहुना। ब्रह्मव्यतिरिक्तं यद्यावदस्ति अव्यक्तमहदहङ्कारतेजः प्रभृतिकं, तत्सर्वमपि वियद्वायुवदुत्पत्तिमदेव। सर्वविज्ञानप्रतिज्ञाद्यनुरोधात्।।
संग्रहकारिकाः।।
वियन्नित्यं निरंशत्वादमृतत्वस्य च श्रुतेः।
सृष्टौ च तेजः प्राथम्याद्गौणी तज्जननश्रुतिः।।
असाधकं निरंशत्वममृतत्वममर्त्यवत्।
श्रुतं न तेजःप्राथम्यं बाधः पाठेन कल्पने।।
तस्माज्जनिमदाकाशं मरुच्च महदादिभिः।
एवं हि सर्वविज्ञानप्रतिज्ञाद्युपपद्यते।।
इति वियदधिकरणम्।।
तेजोऽतस्तथाह्याह।।10।।
आपः।।11।।
पृथिवी।।12।।
अधिकाररूपशब्दान्तरेभ्यः।।13।।
तदभिध्यानादेव तु तल्लिङ्गात्सः।।14।।
विपर्ययेण तु कमोऽतउपपद्यते च।।15।।
अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्।।16।।
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोभाक्तस्तद्भावभावित्वात्।।17।।
ब्रह्मव्यतिरिक्तं सर्वं ब्रह्मकार्यमिति निर्णीतम्। इहेदं चिन्त्यते किं तेजः प्रभूतीनां पूर्वपूर्वस्माद्वाय्वादेरुत्पत्तिः, तेषां ब्रह्मकार्यत्वं तु परम्परया, उत पूर्वपूर्वशरीरकात्परमात्मनस्तेषामुत्पत्तिरिति। तत्र पूर्वःपक्षः। पूर्वपूर्वस्मादेवोत्पत्तिः। “वायोरग्निः, अग्नेरापः, अद्भ्यःपृथिवी”ति श्रुतिराह। ननु “तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत तदपोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्ते”ति ईक्षापूर्वकं तेजः प्रभृतीनां स्रष्टृत्वं श्रूयते। नचेक्षणमचेतनानां सम्भवति। अत ईक्षणलिंगात् तेज आदिशब्दाः तत्तच्छरीरकपरमात्मपरा इति तेजश्शरीरात् परमात्मनोऽपां अच्छरीरकात् ततः पृथिव्याश्चोत्पत्तिर्वक्तुं युक्ता। न च “ता अन्नमसृजन्ते”ति अन्नशब्देन कथं पृथिव्यभिधीयत इति वाच्यम्। महाभूतसृष्ट्यधिकारात्। “यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्ये”ति त्रिवृत्कृतमहाभूतरूपोक्तिप्रकरणे अन्नस्य रूपोक्तेः, समानप्रकरणे “अद्भ्यः पृथिवी”ति पृथिवीवाचकशब्दान्तरश्रवणाच्च। अतस्तेजआदिशब्दास्तत्तच्छरीरकपरमात्मपरा वाच्याः। अन्तर्याम्यधिकरणे सर्वेषां परमात्मशरीरत्वस्य उक्तत्वादितिचेत् मैवं- तथासति तेज आदिशब्दानां तत्तच्छरीरके परमात्मनि लक्षणया श्रुतहानिप्रसङ्गात्। न चेक्षणलिगेन श्रुतिबाधनं युक्तम्। किन्तु श्रुत्यनुसारात् ईक्षणमेव गौणं वक्तुं युक्तम्। “एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी”त्याथर्वणमंत्रोऽपि पुत्रपौत्रप्रपौत्रादिरीत्या साक्षात्परम्परासाधारण्येन ब्रह्मकार्यत्वपरतयोपपद्यते। एवं प्राप्ते सिद्धान्तः-
तत्तच्छरीरकात्परमात्मनो जगदुत्पद्यते। ईक्षणलिंगात्। न च श्रुतिबाधः। चराचरप्रपञ्चवाचिनां सर्वेषां शब्दानां तत्तच्छरीरके परमात्मनि मुख्यत्वात्। लोके “ब्राह्मणोऽधीते, ब्राह्मणो विद्वा” नित्यादिप्रयोगेषु, वेदे “ब्राह्मणमुपनयीत, ब्राह्मणो यजेते”त्यादिप्रयोगेषु च शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य व्युत्पत्तिसिद्धत्वात्। सर्वस्य चराचरस्य परमात्मशरीरताया अन्तर्यामिब्राह्मणेन, “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी”ति तेजआद्यनुप्रवेशपूर्वकनामरूपव्याकरणश्रुत्याचावगमात्। न च सर्वशरीरत्वश्रवणमौपचारिकं, तेजआदिसृष्ट्यनन्तरं नामरूपवयाकरणार्थमेवानुप्रवेशश्रवणात् “तत्सृष्ट्वा तदेवानुप्राविशदि”ति श्रुत्यन्तराच्चेति वाच्यं। सर्वगतस्येश्वरस्य क्वचिदसतः पश्चात्प्रवेशासंभवेन प्रवेशश्रुतीनां नियंतृतया सार्वदिकसत्तप्रितापादनपरत्वात्। तस्मात्तेजः पृभृतिशब्दानां परमात्मनि मुख्यत्वात् “तत्तेज ऐक्षते” त्यादिभिः परमात्मन एव सर्वस्मिन् प्रपंचे साक्षात्स्रष्टृत्वमवसीयते। “एतस्माज्जायत”इत्याद्याथर्वणमंत्रेणापि तथाऽवसीयते। अयं हि मंत्रोऽव्यक्तमहदहंकारादिकार्येषूत्तरोत्तरः पूर्वपूर्व स्मादुत्पद्यत इति पुत्र पौत्रन्यायानुसारिणः क्रमाद्वैपरीत्येन सर्वं परमात्मन एवोत्पद्यत इति सर्वस्य परमात्मानन्तर्यरूपो यः क्रमः तत्रैव स्वारसिकः। स च तत्तच्छरीरकात् ब्रह्मणस्साक्षाज्जगत्सृष्टेरेवोपपद्यते “एतस्माज्जायत” इत्यत्र साक्षात्त्वस्य मुख्यत्वेनौत्सर्गिकत्वात्। नन्वयं मंत्रः प्राणस्य भूतानां च मध्ये चक्षुरादीनि मनश्चोत्पद्यन्त इत्येवंरूपक्रमतात्पर्यकः। खादिपृथिव्यन्तानां क्रमाम्नानलिंगात्। न तु सर्वस्य प्राणादेः परमात्मन उत्पत्तिपर इति चेत्-न। इन्द्रियमनःखादीनामपि “एतस्माज्जायत” इति साक्षात् परमात्मसृष्टतयोपात्तप्राणाविशेषात्। न हि प्राण एव साक्षाज्जायते अन्ये पौत्रादिन्यायेन परंपरया ब्रह्मणो जायन्त इति विशेषश्रवणमस्ति। नत्वयं मंत्रः क्रमपरः। क्रमस्तु खादिषु श्रुत्यंतरसिद्धोनूद्यते। अन्यत्र श्रुत्यंतरविरुद्धो न गृह्यते। सुबालोपनिषदि स्पष्टं क्रंमाम्नानात्। तस्मात् सर्वं जगत् साक्षात् परमात्मन एवोत्पद्यत इति सिद्धं।।
संग्रहकारिकाः।।
तेजोजलपृथिवीनां मारुततेजोजलेभ्य उत्पत्तिः।
श्रुत्यनुरोधात् ब्रह्म तु मूलं कूटस्थपुरुषइव।।
“तत्तेजऐक्षते”त्याद्याम्नायोक्तादभिध्यानात्।
साक्षादेव निदानं तेषां तत्तच्छरीरकं ब्रह्म।।
एवं स “त्येतस्माज्जायत” इत्यादिवचनमुपपन्नं।
तद्ध्यविशेषादेषां ब्रह्मानंतर्यमेव बोधयति।।
तेजः प्रमुखाश्शब्दा लोकेऽन्यत्र प्रसिद्धिमंतोपि।
व्याकरणश्रुत्यादेर्गम्यंते ब्रह्मपर्यंताः।।
इति तेजोधिकरणम्।।
नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः।।18।।
वियदादिवज्जीवोप्युत्पद्यते न वेति चिंत्यते। उत्पद्यत इति पूर्व पक्षः। “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, प्रजापतिः प्रजा असृजते”त्यादिश्रवणात् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् प्राक्सृष्टेरेकत्वावधारणाच्च। न च “तत्वमसी”ति जीवस्य ब्रह्माभेदश्रवणादुत्पत्त्यनुपपत्तिः। “सर्वं खल्विदं ब्रह्मे” त्यादिश्रवणेन वियदादीनामप्यनुत्पत्तिप्रसंगात्। नच “न जायते म्रियते वा विपश्चि”दित्यनेन जीवोत्पत्तिनिषेधश्शंकनीयः। वाय्वाकाशामृतत्ववचनेन तयोरप्युतपत्तिनिषेधापत्तेः तस्य देहोत्पत्तिविनाशानुबंध्युत्पत्तिविनाशाबावपरत्वाच्च। “जीवापेतं वाव किलेदं म्रियते नजीवो म्रियत”इति देहमरणानुबन्धिमरणनिषेधक श्रुत्यन्तरानुसारेणास्यापि तथैवाभिप्रायावगमाच्च। न च कृतहानाकृताभ्यागमप्रसंगो दोषः। सर्वत्र द्रव्यं नित्यं तस्य पूर्वावस्थाप्रहाणं विनाशः अवस्थांतरापत्तिरुत्पत्तिरिति सिद्धांत्यभिमते परिणामवादे द्रव्यात्मना नित्ये जीवे तदप्रसंगात्। नैयायिकमते घटादीनामिव जीवस्याभूत्वा भवनरूपोत्पत्त्यभ्युपगमो हि प्रसज्येत। तस्माज्जीवो वियदादिवदुत्पद्यत इति। एवं प्राप्ते सिद्धांतः-
जीवो वियदादिवन्नोत्पद्यते। “न जायते म्रियते वाविपश्चित्, ज्ञाज्ञौ द्वावजावीशनीशा”वित्यादिषु तदनुत्पत्तिश्रवणात् “अजो नित्यश्शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे, नित्योनित्यानाञ्चेतनश्चेतनानाम्” इत्यादिश्रुतिभ्यः तस्य नित्यत्वेनोत्पत्त्यभावावगमाच्च। न च “न जायते म्रियत” इति हि श्रुतिः देहोत्पत्तिमरणानुबंध्युत्पत्तिमरणाभावमात्रपरेति वाच्यं। तत्रैव “न हन्यते हन्यमाने शरीरे”इति देहहननानुबन्धिहनना भावोक्त्यैवार्थसिद्धस्य तस्य पृथगवक्तव्यत्वात्। प्रागवियतोवियद्रूपेणेव प्रागजीवस्य जीवरूपेण परिणामाभ्युपगमे जीवकर्तृकत्वनियतयोः पुण्यपापयोरजीवाश्रितत्वासंभवेन कृतहानाकृताभ्यागमप्रसंगापरिहाराच्च। सर्वविज्ञानप्रतिज्ञानमेकत्वावधारणञ्च सृष्टेः प्राग्जीवस्य सूक्ष्मतापत्त्या सृष्टौ स्थूलकार्यतापत्त्याचोपपद्यते। कथं तर्हि विदादिभ्यो विशेषः। इत्थं- वियदादीनामस्ति स्वरूपान्यथाभाव इति तेन रूपेण कार्यत्वं। जीवस्य त्वविक्रियस्य न स्वरूपान्यथाभावोस्ति। किन्तु ज्ञानाख्यगुणसंकोचविकासलक्षण धर्मान्यथाभावमात्रं। तावन्मात्रेण तस्य कार्यत्वमिति। इदमुत्तराधिकरणे स्पष्टीभविष्यति।।
संग्रहकारिका।।
श्रुतेर्जीवोऽपि जनिमान् मैवं तदजनुश्रुतेः।
धर्मज्ञानान्यथाभावविषया तज्जनिश्रुतिः।।
इति आत्माधिकरणम्।।3।।
ज्ञोऽत एव।।19।।
उत्क्रांतिगत्यागतीनाम्।।20।।
स्वात्मना चोत्तरयोः।।21।।
नाणुरतच्छØतेरिति चेन्नेतसधिकारात्।।22।।
स्वशब्दोन्मानाभ्याञ्च।।23।।
अविरोधश्वंदनवत्।।24।।
अवस्थितिवैशेष्यादितिचेन्नाभ्युपगमात्धृदिहि।।25।।
गुणाद्वाऽऽलोकवत्।।26।।
व्यतिरेको गन्धवत्तथाच दर्शयति।।27।।
पृथगुपदेशात्।।28।।
तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्।।29।।
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्।।30।।
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्।।31।।
नित्योऽपलब्ध्यनुपलब्धिप्रसंगोन्यतरनियमोवान्यथा।।32।।
जीवोत्पत्तिविचारप्रसंगात् तस्य ज्ञातृत्वादिधर्मश्चित्यते ज्ञानरूपत्व ज्ञातृत्वादिविषयश्रुतिविरोधसमाधानेन जगत्कारणब्रह्मविषयश्रुतीनां निर्विचिकित्सप्रामाण्यसिध्यर्थं। अपि च जीवस्य धर्मान्यथाभावरूपो विकारः, न स्वरूपान्यताभावरूपइत्येतदयुक्तं। स्वरूपातिरेकेण ज्ञानाख्यधर्माभावात्। ज्ञानमेव हि तस्य स्वभावः इत्युत्थानादाक्षेपिकी संगतिरप्यनुसंधेया। किं ज्ञानस्वरूपो जीवः उतजड एवागंतुकज्ञानः, अथवा नित्यमेव ज्ञानगुणाधारतया स्वतोज्ञातेति संशये पूर्वपक्षः-“विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिच। यो विज्ञाने तिष्ठन् विज्ञानादंतरः, ज्ञानस्वरूपमत्यंतनिर्मलं परमार्थत” इत्यादिश्रुतिस्मृतिभ्यो ज्ञानस्वरूपएवेत्येकः पूर्वपक्षः। अपरस्तु जीवस्य ज्ञानस्वरूपत्वे तस्य सर्वगतस्य सर्वदा सर्वविषयोपलब्धिप्रसंगेन चक्षुरादिवैयर्थ्यप्रसंगेन च ज्ञानविकलसुषुप्तिमूर्छाद्यभावप्रसंगेन च तस्य ज्ञानरूपत्वं नयुक्तं। अतएव सिद्धांत्यभिमतं नित्यज्ञानाधारतया ज्ञातृत्वमप्ययुक्तं। किन्तु नैयायिकादिमतरीत्या चक्षुरादिकरणाधीनज्ञानवत्त्वमेवाभ्युपेयमिति। एवं प्राप्ते सिद्धांतः-
“अथ योवेदेदं जिघ्राणीति स आत्मा, मनसैतान् कामान् पश्यन् रमते, नपश्यो मृत्युं पश्यति, जानात्येवायं पुरुषः, एषहि द्रष्टा श्रोता घ्राता रसयिते”त्यादिश्रुतिभ्यः ज्ञातैवायमात्मा। नचैवं सति सर्वदा द्रष्टा श्रोता घ्राता रमयिते”त्यादिश्रुतिभ्यः ज्ञातैवायमात्मा। नचैवं सति सर्वदा सर्वविषयोपलब्धिप्रसंगः। तस्याणुत्वात्। अणुत्वंच उत्क्रांतिगत्यागतिश्रवणात्। “तेन प्रद्योतेनैष आत्मा विष्क्रामति, यैवैकेचास्माल्लोकात्प्रयंति चन्द्रमसमेव ते सर्वे गच्छन्ति, तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण”इति हि तस्योत्क्रान्तिगत्यागतयश्श्रूयन्ते। नचैतासां विभुत्वे शक्यमुपपादनं। ननु “योयं विज्ञानमयः प्राणेष्वि”ति प्राणसम्बन्धिनं जीवं प्रस्तुत्य “सवाएष महानजआत्मे”ति महत्वाम्नानान्नाणुरिति चेन्न। तत्र जीवादितरस्य ब्रह्मणोधिकारात्। उपक्रमे जीवप्रस्तावेपि मध्ये “यस्यानुवित्तः प्रतिबुद्धआत्मे”ति परप्रतिपादनात्, तदनुबन्धित्वाच्च महत्वाम्नानस्य। किञ्च “एषोणुरात्मा चेतसा वेदितव्याः यस्मिन् प्राणः पंचधा संविवेशे”ति जीवस्य साक्षादणुत्वं श्रूयते। “वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्सविज्ञेय” इति “आराग्रशतभागस्य” इति च तस्याल्पपरमाणत्वं श्रूयते। एवं सति शरीरैकवर्तिनो जीवस्य कथं सर्वांगीणसुखाद्यनुभव इति चेत्- चंदनवदिति ब्रूमः। यथा हरिचन्दनबिंदुर्देहैकदेश वर्त्यपि सकलदेहव्यापिनमाह्लादं जनयति, तथैकदेशस्थितोपि जीवस्सर्वांगीणसुखमनुभवति। “योयं विज्ञानमयः प्राणेषु हृद्यंतर्ज्योतिः, हृदिह्ययमात्मे”त्यादिश्रुतिभिः तस्यापि हृदयदेशे स्थित्यभ्युपगमात्। वस्तुतस्तु- जीवो हृदि स्थितोपि स्वगुणेन ज्ञानेन सकलदेहं व्याप्नोति, यथामणिर्द्युमणिर्वा एकदेशवर्तिभिः स्वालेकैरनेकदेशं। नच ज्ञानस्वरूपएवात्मा नज्ञानगुणकइति शंकनीयं। यथा गन्धस्य पृथिवीगुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः तथा जानामीति आत्मगुणत्वेनानुभूयमानस्य ज्ञानस्य जीवाद्व्यतिरेकात्। “जानात्येवायंपुरुष” इति श्रुत्यापि तस्य ज्ञातृगुणत्वप्रदर्शनात्, “न हि विज्ञातुर्विपरिलोपोविद्यत” इति श्रुतौ ज्ञातृज्ञानयोः पृथगुपदेशाच्च। कथं तर्हि “विज्ञानं यज्ञं तनुत” इत्यादिषु तस्य ज्ञानरूपत्व व्यवहारः। ज्ञानगुणसारत्वात्। ज्ञानं हि तस्य सारभूतो गुणः। ततश्च यथा ब्रह्मणः प्राज्ञस्य ज्ञानमानन्दश्च सारभूतो गुण इति “सत्यं ज्ञानमनन्तं ब्रह्म, आनन्दो ब्रह्मेति व्यजाना”दिति ज्ञानान्दव्यपदेशः, एव मिहापि ज्ञानव्यपदेशः। ननु “सत्यं ज्ञान”मित्यत्र अन्तोदात्तस्वरबलात् ज्ञानवत्वमर्थः प्रतिभाति। केवलं भावार्थल्युडन्ततायामंतोदात्तस्वरानुपपत्तेः। तथा हि-ल्युडादेशस्य अनइत्यस्य “आद्युदात्तश्चे”ति प्रत्ययस्वरेण प्रथमाकारे उदात्तेलितीति लित्स्वरेण प्रकृत्याकारेचोदात्ते “अनुदात्तं पदमेकवर्ज”मिति शेषनिघातस्वरेण प्रत्ययस्थयोरकारयोरनुदात्तयोः “एकादेश उदात्तेनोदात्त”इत्येकादेशस्वरेण प्रकृत्याकारप्रत्ययाद्यकारयोः एकादेशेचोदात्ते सति प्रत्ययान्त्याकारस्यानुदात्तस्य विभक्त्यकारस्य च “अनुदात्तौ सुप्तिषा”विति सुप् स्वरेण अनुदात्तस्य “अमिपूर्व” इत्येकादेशो भवन् “स्थानोऽन्तरतम” इति परिभाषयानुदात्तस्स्यात्। तस्य चानुदात्तस्य “उदात्तादनुदात्तस्य च स्वरित” इति स्वरितादेशो भवेत्। अत एव तत् ज्ञानमिति पदं केवलल्युडन्तत्वे स्वरितान्तं स्यात्। यथा काठके “संज्ञानं विज्ञानं प्रज्ञान”मिति। तस्मादन्तोदात्तनिर्वाहार्थमिदं ज्ञानपदं ल्युडन्तरं मत्वर्थीयाच् प्रत्ययान्तं वाच्यं। अर्शादेराकृतिगणत्वात्। तथासत्यंतोदात्तस्वरउपपद्यते। अर्शांद्यच्प्रत्यये “यस्येति चे”ति प्रकृतावंत्यस्य अकारस्य लोपे “चित” इति चित्स्वरेण मत्वर्थींयप्रत्ययस्योदात्तत्वे च सति तस्य विभक्त्यकारस्य चैकादेशस्यापि “एकादेशउदात्तेनोदात्त” इत्युदात्तस्यैव भावात्। एवमिह ज्ञानपदप्रक्रियाश्रयणे ज्ञानवत्वमेवात्मनस्सिध्येत्। न ज्ञानरूपत्वं। तस्मात्ज्ञानरूपत्वमनेन न प्रतीयतइति चेदुच्यते- औणादिकनप्रत्ययांतत्वाश्रयणे तदपि प्रतिभाति। ज्ञाधातोराहत्य न प्रत्ययविधानाभावेऽपि “उणादयो बहुल”मिति बहुलग्रहणेन यतो विहितास्ततोऽन्यत्रापि ते भवन्तीत्येतदर्थेन तत्सिद्धेः। औणादिकप्रत्ययांतत्वे भावार्थत्वमप्युपपद्यते। अर्त्यादिसूत्रविहितमन्प्रत्ययस्वरेणोदात्तत्वे सति तस्य विभक्त्यकारेण भवतएकादेशस्याप्युदात्तस्यैव भावात्। एवमुभयथेह ज्ञानपदप्रक्रियाश्रयणसंभवेपि प्रक्रियालाघवादौणादिकनप्रत्ययांततया भावार्थत्वमेव युक्तमित्यभिप्रेत्य भाष्यकारैर्ज्ञानस्वरूपत्वेप्रमाणतयेदमुदाहृतं। ज्ञानस्य यावदात्मभावित्वादपि तेन तस्य व्यपदेशः। खंडादीनां यावत्स्वरूपभाविगोत्वादिधर्मवाचिगवादिशब्देन व्यपदेशदर्शनात्। जीवस्य स्वप्रकाशत्वादपि ज्ञानव्यपदेशउपपद्यते। स्वप्रकाशत्वमपि स्वापेक्षमेव नतु परापेक्षमपि। स्वापेक्षमपि अहमितिप्रत्यक्त्वैकत्वविशिष्टतामात्रेण। स्वपरप्रकाशत्वं तु धर्मज्ञानस्यैव। सोयं प्रभाप्रभावन्न्यायोधर्मधर्मिज्ञानयोः। यदाहुः- “स्वस्यैव भासकोदीपः स्वात्मनोऽन्यस्य च प्रभा। एवंभेदोस्ति साम्येपि ज्ञानयोर्धर्मधर्मिणो”रिति। ननु सुषुप्त्यादिषु ज्ञानाभावात् कथं ज्ञानस्य गोत्वादिवत् स्वरूपानुबन्धिधर्मत्वमिति चेत्। पुंस्त्वादिवदभिव्यक्त्येति ब्रूमः-यथा सप्तधातुमये शरीरे सदासन्नपि पुंस्त्वरूपसप्तमधातुः न बाल्ये यौवनइवाभिव्यज्यते, एवं सदासन्नेव ज्ञानगुणः सुषुप्तौ जागरइव नाभिव्यज्यते। तदानीमपि स्वयमेव प्रकाशमानतार्हत्वरूपस्य स्वयंप्रकाशत्वस्य न हानिः। अहमर्थस्य तु सुषुप्तावपि प्रकाशमानताऽस्त्येव। “सुखमहमस्वाप्स”मिति परामर्शात्। यदाहुः- “प्रत्यक्स्वयंप्रभसुखे नित्ये पुंसि व्यवस्थिते। अस्वाप्सं सुखमित्यादौ कालाद्यंशेऽनुमास्थितिः।। अगायं मधुरं मदमयामित्येवमादिषु। माधुर्यादिवदत्रापि सुखं भाति तदातन”मिति। तस्माज्ज्ञानगुणस्संकोचविकासशाली, तद्धर्मी जीवस्त्वणुरित्यस्मत्पक्षे न कश्चिद्दोषः। किन्तु “ज्ञानस्वरूपोजीवः सच सर्वगत” इति पक्षएव नित्योपलब्ध्यनुपलब्धिप्रसंगोन्यतरनियमोवा स्यात्। तथाहि- सर्वगतज्ञानरूपं जीवस्वरूपं किमुपलब्धेरेवहेतुः, उत अनुपलब्धेरेव, अथावाउभयोरपि। आद्ये देहावच्छिन्नप्रदेश इव अन्यत्रापि तदुपलब्धिस्स्यात्। द्वितीये देहावच्छिन्नप्रदेशेपि तदुपलब्धिर्नस्यात्। तृतीये सदोपलब्ध्यनुपलब्धी परस्परविरुद्धे स्यातां। सर्वगतोजीवश्चक्षुरादिकरणायत्तगन्तुकज्ञानइति नैयायिकादिपक्षेप्ययंदोषस्समानः। अयमर्थः “अंशोनानाव्यपदेशा”दित्यधिकरणे स्फूटीभविष्यति।
संग्रहकारिके।।
जीवं विज्ञानरूपं कतिचिदभिदधुश्श्रूयतेऽसौ तथेति
ज्ञानैरागन्तुकैस्तं कतिचदथ पुनर्ज्ञातृताभाजमूचुः।।
नित्यज्ञातृत्वमन्ये तदिह समुदितो मध्यमस्तर्कपक्षः
जानीयाद्दूरदेशे स्थितमपि हि विभुर्जीवएषोऽन्यथा ते।।
जानात्येवायमित्याद्युपनिषदुदितो ज्ञातृरूपस्सनित्यं
सर्वज्ञस्तावतास्यादिति न यदणुरुत्क्रांतिगत्यादिमानैः।
देहव्याप्तिस्तु दीपद्युतिसदृशगुणज्ञानतस्तस्य युक्ता
ज्ञानत्वोक्तिस्ससारोगुणइति घटते स्वप्रकाशस्सचेति।।
इति ज्ञाधिकरणम्।।
कर्ता शास्त्रार्थवत्त्वात्।।33।।
उपादानाद्विहारोपदेशाच्च।।34।।
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः।।35।।
उपलब्धिवदनियमः।।36।।
शक्तिविपर्ययात्।।37।।
समाध्यभावाच्च।।38।।
यथाच तक्षोभयथा।।39।।
ज्ञातृत्वनिरूपणानन्तरं कर्तृत्वं निरूप्येत ज्ञानाधीनत्वात् कृतेरिति कार्यकारणभावस्सङ्गतिः। ज्ञानस्वरूपस्सर्वगतो जीव इत्यत्र उपलब्धिनियमादिव्यवस्थित्यसिद्धिवत् प्रकृतेः कर्तृत्वे तस्यास्सर्वसाधारणत्वात् कर्तृनियमव्यवस्थित्यसिद्धिवत् प्रकृतेः कर्तृत्वे तस्यास्सर्वसाधारणत्वात् कर्तृनियमव्यवस्थित्यसिद्धिरुच्यत इति दृष्टान्तसङ्गतिश्च। किं प्रकृतिरेवकर्त्रीति तदीयकर्तृत्वाध्यासेन जीवस्य कर्तृत्वव्यहारः उत स्वभावतएव जीवः कर्तेति संशये पूर्वपक्षः- अकर्तैवात्मा। कठवल्लीषु “हन्ताचेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यत” इति श्रवणात्। हन्तुंउहन्तारम्। “जन्तु” मित्यादाविव औणादिकस्तुन् प्रत्ययः। “य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यत” इति गीतावचनैकार्थ्यात्। हननकर्तृत्वप्रतिषेधश्च कर्तृत्वमात्रप्रतिषेधोपलक्षणम्। अत एव गीतासु भगवद्वचनं- “प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते।। कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यत” इति। अतो जीवः प्रकृतिगतं वा कर्तृवं तत्तज्जीवासाधारणप्रकृतिपरिणामबुद्धिगतं वा कर्तृत्वमात्मन्यध्यस्यन् कर्तेति व्यपदिश्यते। शास्त्रमपि तथाभूतमेव कर्तृत्वमपेक्ष्य प्रवर्तते सहोपादानादिव्यवहारेणेति। एवं प्राप्ते सिद्धान्तः-
बुद्धेः प्रकृतेर्वा कर्तृत्वे “यजेत स्वर्गकामः, मुमुक्षुर्ब्रह्मोपासीते”त्येवमादिशास्त्रं स्वर्गमोक्षादिफलकामं भोक्तारमेव नियुङ्क्ते। “शास्त्र फलं प्रयोक्तरी”ति न्यायात्। किं च शास्त्रेण कर्ता बोधजननद्वारा नियुज्यते। न च अचेतनयोः बुद्धिप्रकृत्योः बोधनीयत्वमस्ति, अतो भोक्तृत्वात् बोधनीयत्वाच्च आत्मैव विधिनिषेधशास्त्रनियोज्य इति युक्तम्। न च कूटस्थ आत्माऽहङ्कर्तेति परकीयं कर्तृत्वमात्मन्यध्यसितुमपि प्रभवति। तस्मादध्यासोऽप्यात्मप्रभास्थानीयधर्मज्ञानपरिणामतया तद्धर्मतां नेतव्य इति तथैव कृतिरपि तद्धर्मतां नीयताम्। किमर्थं बाधानुपलम्भेऽपि “अहं कर्ते”ति प्रतिभासस्य भ्रान्तिरूपत्वं, शास्त्रस्य भ्रांतिकृतकर्तृत्वालम्वनत्वञ्च, कल्प्यते। “हन्ता चेन्मन्यते हन्तु”मिति मंत्रस्तु “न जायते म्रियते वा विपश्चि”दिति मन्त्रे “न हन्यते हन्यमानेऽपि देह” इति देहातिरिक्तस्य आत्मनो हननायोग्यत्वेन प्रकृतत्वात्तद्विषयतयोपपद्यते। कर्तृत्वप्रतिषेधकानि। “तत्रैवं सति कर्तारमात्मानं केवलं तु यः। “पश्यत्यकृतबुद्धित्वान्न सपश्यति दुर्मति”रिति तदीयवचनांतरेणैकार्थ्यात्। किञ्च “सयथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तत” इत्युपादानविहारोपदेशदर्शनात्, “विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चे”ति लौकिकवेदिकक्रियासु कर्तृत्वव्यपदेशाच्च, आत्मा कर्तैव। नच विज्ञान शब्दोऽन्तःकरणपरः। अन्तः करणनिर्देशे श्रुतिषु तृतीयायाएव दर्शनात्। इहापि तथा निर्देशविपर्ययप्रसङ्गात्। “तदेषां प्राणानां विज्ञानेन विज्ञानमादाये”त्यादिवाक्यान्तरेषु अन्तः करणपरस्य विज्ञानशब्दस्य तृतीयानिर्देशो हि दृश्यते। किं च प्रकृतेः कर्तृत्वे तस्यास्सर्वपुरुषसाधारणत्वात् पूर्वाधिकरणोक्तोपलब्ध्यादिनियमासम्भवरीत्या कर्मनियमस्याप्यसम्भवात्। तथा च सर्वाणि कर्माणि सर्वेषां भोगाय स्युः। आत्मनां सांख्यमते विभुत्वेन सर्वत्र सर्वेषां सन्निधानाविशेषात्। न च अन्तः करणस्य कर्तृत्वपक्षे नायं दोषः, अन्तः करणानां प्रतिशरीरं भिन्नत्वादिति वाच्यम्। तेषां तदायतनशरीराणाञ्च सर्वात्मसन्निधावुत्पद्यमानानां प्रत्यात्मव्यवस्थितेरुपपादयितुमशक्यत्वात्। बुद्धेः कर्तृत्वपक्षे च कर्तुरन्यस्य भोक्तृत्वानुपपत्तेः भोक्तृत्वमपि तस्या एव स्यादिति आत्मनो भोक्तृत्वशक्तिर्नस्यात्। तथा च “पुरुषोऽस्ति भोक्तृभावा”दिति तेषामेव अभ्युपगमविरोधः। बुद्धेः कर्तृत्वे च “प्रकृतेरन्योऽस्मी”त्येवंरूपमोक्षसाधनसमाधिकर्तृत्वमपि तस्या एव वाच्यम्। न च प्रकृतिः स्वरूपेण बुद्धिपरिणतिरूपेण वा प्रकृतेरन्यः कूटस्थोऽस्मीति समाधातुं प्रभवति। किंच आत्मनः कर्तृत्वाभ्युपगमे सत्यामिच्छायां करोति, अन्यदा न करोति। यथा तक्षा वास्यादिकरणसम्पन्नोऽपि सत्यामेवेच्छायां करोति नान्यदेति नियम उपपद्यते। बुद्धेस्तु अचेतनायाः कर्तृत्वे तस्या भोगेच्छादिनियमकारणाभावात् सर्वदा कर्तृत्वं स्यात्। तस्मादात्मैव स्वभावतः कर्तेति युक्तम्।।
संग्रहकारिके।।
स न कर्ता गुणानां हि कर्तृत्वं विभुना स्मृतम्।
मैवं शास्त्रार्थवत्वाद्यैः कर्ता स गुणयोगतः।।
इति कर्त्रधिकरणम्।।
परात्तु तच्छØतेः।।33।।
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः।।34।।
कर्तृत्वे चिन्तिते तद्विशेषश्चिन्त्यत इति सङ्गतिः। जीवस्य कर्तृत्वं स्यात्तं, उत परमात्मायत्तमिति विधिनिषेधशास्त्रान्तर्यामिशास्त्राभ्यां संशये पूर्वपक्षः- स्वायत्तमेव जीवस्य कर्तृत्वम्। अन्यथा विधिनिषेधशास्त्रयोरत्यन्तवैयर्थ्यं स्यात्। न च “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा, एषह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधुकर्म कारयति तं यमधो निनीषत” इत्याद्यन्तर्यामिशास्त्रात् परमात्मायत्तं कर्तृत्वमिति शङ्कनीयम्। तथासति पुरुषप्रवृत्तिनिवृत्त्यैदंपर्येण प्रवृत्तानां विधिनिषेधशास्त्राणां अत्यन्तवैयर्थ्यापत्तेः, अन्तर्यामिशास्त्रस्याप्यसामञ्जस्यप्रसङ्गाच्च। न हि कश्चित् स्वयमेव किंचिदनिष्टं कर्म कारयित्वा तत्फलं निग्रहमपि करोतीति युक्तमिति। एवंप्राप्ते सिद्धान्तः।
परमात्मायत्तमस्य कर्तृत्वम्। अन्तर्यामिशास्त्रबृन्दाबाधसम्भवे तद्बाधनायोगात्। सम्भवति च तदबाधेन विधिनिषेधशास्त्रावैयर्थ्योपपादनम्। आद्यपृवृत्तौ भगवानुदासीनः द्वितीयादिप्रवृत्तिष्वनुमन्ता स्वभक्तानां स्वद्वेषिणञ्च स्वेष्टानिष्टकर्मसु कारयितेति भगवतोऽवस्थात्रयसत्वात्। तथा हि- आदौ जीवस्य करणकलेबरादि दत्वा किमयं करिष्यतीति पश्यन्नुदासीनो भगवानास्ते। स यत्करोति पुण्यं पापं वा तत्फलरूपं द्वितीयादिप्रवृत्तिमनुमन्यते। प्रवृत्तप्रवर्तनमनुमतिः। यत्तु मुमुक्षूणां प्रपदनोपासनादिकं साधुकर्म, यच्च तामसानां भगवद्वेषिणां भगवन्निन्दादिरूपमसाधुकर्म, तदुभयं स्वयं कारयति तद्विषयं “एषह्येबे”त्यादिशास्त्रद्वयम्। न सर्वविषयम्। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं। ददामि बुद्धियोगन्तं येन मामुपयान्ति त”इति तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु” इतिच भगवद्वचनातू ततोन्यत्रविधिनिषेधशास्त्रावकाशः तन्नात्यन्तवैयर्थ्यमिति केचिदाचार्याः तद्वैयर्थ्यं समादधुः। अन्येत्वाहुः- नैवमन्तर्यामिशास्त्रस्य विषयसङ्कोचः कल्पनीयः। भगवतो जीवकर्मविशेषेषु औदासीन्यानुमन्तृत्वकल्पने प्रमाणाभावात् उदाहृतगीतावचनयोः कर्मान्तरकारयितृत्वाभावपर्यन्तकल्पने कल्पकाभावात्। न च विधिनिषेधशास्त्रावैयर्थ्यार्थं तथाकल्पनम्। सर्वेषु विहितनिषिद्धकर्मसु ईश्वरस्य कालादृष्टेन्द्रियादिवत् कारणत्वेऽपि जीवस्य कर्तृत्वाक्षतेः तदिच्छादीनामिवेश्वरस्यापि कारणत्वोपपत्तेः। न च तथासंति जीवस्य विहितनिषिद्धकर्मसु “स्वतन्त्रः कर्ते”ति लक्षितं कर्तृत्वं नस्यात्, बलादीश्वरस्य कारयितृत्वेन नदीरयाकृष्यमाणपुरुषस्येव स्वातंत्र्यहानिरिति वाच्यम्। प्रयोयोजकेन राज्ञा नियुक्तानां प्रयोज्यकतर्ॄणाममात्यादीनामपि स्वकर्मसु स्वेच्छया प्रवर्तमानानां स्वातंत्र्यदर्शनात्। तस्मादन्तर्यामिशास्त्रासङ्कोचेन विधिप्रतिषेधावैयर्थ्योपपादनासम्भवात् न तत्सङ्कोचः कल्प्य इति। मतद्वयस्याप्युपपादनप्रपञ्चस्तत्तद्ग्रन्थेषु द्रष्टव्यः।।
सङ्ग्रहकारिकाः।।
कर्तृता परवती शरीरिणामीश्वरेण यदि नाम वर्ण्यते।
व्यर्थता विधिनिषेधशास्त्रयोश्शक्यते शमयितुं न केनचित्।।
अस्ति तावदरविंदलोचनश्शासिता यमयितेति च श्रुतिः।
सा यथा विधिनिषेधलङ्घनं नादधीत नयतस्तथोच्यते।।
दत्वादौ करणकलेबरादि पश्यत्युद्योगं प्रथममुदासितैव देवः।
पश्चात्तत्फलमनुमन्यते द्वितीयं केषांचिद्भवति कृतौ प्रयोजकोऽपि।।
अन्तर्यामिश्रुतेरित्थमन्यवैयर्थ्यशङ्कया।
सङ्कोचमूचिरे केचित् मुमुक्षुद्वेषिकर्मसु।।
इच्छाद्यधीनतावत्स्यात् ईश्वराधीनताऽपिनः।
तावता शास्त्रवैयर्थ्यं नेत्यसङ्कोचनं परे।।
इति परायत्ताधिकरणम्।।
अंशोनानाव्यपदेशादन्यथाचापि दाशकितयादिवत्वमधीयतएके।।35।।
मंत्रवर्णात्।।36।।
अपिच स्मर्यते।।37।।
प्रकाशादिवत्तु नैवं परः।।38।।
स्मरन्ति च।।39।।
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्।।40।।
असन्ततेश्वाव्यतिकरः।।41।।
आभासएव च।।42।।
अदृष्टानियमात्।।43।।
अभिसंध्यादिष्वपि चैवम्।।44।।
प्रदेशभेदादिति चेन्नान्तर्भावात्।।45।।
जीवेश्वरयोः प्रवर्त्यप्रवर्तकभावे राजभृत्ययोरिव अत्यन्तभेदस्स्यादिति जीवस्य परमात्मांशत्वकथनमप्यौपचारिकं स्यादिति शंकया संगतिः। किं जीवः परस्मादत्यंतभिन्नः, उताज्ञानावस्थापन्नं परमेव ब्रह्म, यद्वा ब्रह्मैवोपाध्यवच्छिन्नं, अथवा विशिष्टस्य ब्रह्मणोविशेषणरूपोंशइति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः- अत्यंतभिन्नोजीवः। “ज्ञाज्ञौद्वा”वित्यादिभेदनिर्देशात्। अज्ञंब्रह्मैववा जीवः। “तत्वमसि, अयमात्माब्रह्मे”त्यदिश्रवणात्। ब्रह्मैव सत्वोपाध्यवच्छिन्नं वा जीवः। तत्वमस्यादिश्रवणादेव। न तु ब्रह्मणोंशोजीवइति युक्तं। अंशत्वं हि तन्त्वादिवन्नावयवत्वरूपं। निरवयवस्य ब्रह्मणोऽवयवारब्धत्वाभावात्। अतएव टङ्कच्छिन्नपाषाणशकलवदपि नांशत्वम्। ब्रह्मणः खण्डनानर्हत्वाच्चेति।। सिद्धान्तस्तु-
ब्रह्मणोंऽश एव जीवः। नानाव्यपदेशात्। अभेदव्यपदेशाच्च। स्रष्टॄत्वसृज्यत्वनियन्तृत्वनियाम्यत्व सर्वज्ञत्वकिंचिद्ज्ञत्वस्वाधीनत्वपराधीनत्वपतित्वशेषत्वादिभिर्भेदव्यपदेशो हि भूयान् दृश्यते। तथैव अभेदव्यपदेशोऽपि तत्वमस्यादिर्दृश्यते। अपि च आथर्वणिकाः ब्रह्मसूक्ते ब्रह्मणोदाशकितवादिरूपत्वमप्यधीयते। “ब्रह्मदाशा ब्रह्मदासा ब्रह्मे मे कितवा उत। स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्माऽथवा पुमा”निति। तस्माद्विशिष्टब्रह्मणो विशेषणरूपोंशो जीवइत्येव अभ्युपगन्तव्यम्। एवं सत्येव भेदाभेदश्रुतीनां बंधमोक्षव्यवस्थादीनाञ्च उपपत्तिः। सत्यमिथ्योपाध्यवच्छिन्नब्रह्मजीववादयोस्तु बन्धमोक्षव्यवस्थाद्यनुपपत्तिः, सर्वश्रुतिसामञ्जस्यानुपपत्तिश्च अन्यत्र प्रपञ्चिता। अतो विशिष्टैकदेशरूपोंशो जीवइत्येव युक्तम्। “पादोऽस्य विश्वाभूतानि, त्रिपादस्यामृतं दिवी”ति मंत्रवर्णात्, “ममैवांशो जीवलोके जीवभूतस्सनातन” इति गीतावचनाच्च एवमेवावगम्यते। एवञ्च यथा प्रकाशो मण्यादीनां प्रकाशवतां विशेषणांशः, यथा वा देहिनां देवमनुष्यादिदेहः, तथैव अपृथक्सिद्धप्रकारतया शरीरतया च ईश्वरस्य जीवो विशेषण रूपोंशः। न तु सएव सइति। विशेषणभेदात् भेदश्रुतयः विशेष्टरूपैक्यादभेदश्रुतयश्चोपपद्यन्ते। यथाभूतो जीवश्शेषत्वादिलक्षणः नैवंभूतः परश्शेषत्वादिलक्षण इति प्रभाप्रभावन्न्यायेन शरीरशरीरिभावेन च जीवेश्वरयोर्व्यवस्थितशेषशेषिभावादयश्च उपपद्यन्ते। स्मरन्ति च पराशरादयः जीवेश्वरयोः प्रभाप्रभावन्न्यायं शरीरशरीरिभावञ्च, “एकदेशस्थितस्याग्नेर्ज्योत्स्नाविस्तारिणी यथा। परस्य ब्रह्मणश्शक्तिस्तथेदमखिलञ्जगत्।। यत्किञ्चित्सृज्यते येन सत्वजातेन वै द्विज। तस्य सृज्यस्य संभूतौ तत्सर्वंवै हरेस्तानु” रिति। ननु सर्वेषामीश्वरांशत्वाविशेषे कथं द्विजानां वेदाध्ययनाद्यनुज्ञा, शूद्राणां तत्परिहार इति चेत्, देहविशेषसम्बन्धादिति ब्रूमः। यथाऽग्न्युदकादीनां श्रोत्रियागारस्थितिदशायां कर्मार्हत्वं, तेषामेव श्मशानदेशं प्राप्तानां कर्मानर्हत्वं, एवमात्मनां विविधदेहस्थितिदशायामनुज्ञापरिहारद्वयमुपपद्यते। सर्वेषामात्मनां ब्रह्मांशत्वेनैकरूप्येऽपि तेषामन्योन्यभेदात् अणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न भविष्यति। किन्तु ब्रह्मात्मैक्यवाद एव जीवपरयोर्जीवानाञ्च सप्रसज्यते। न च अविद्याकृतोपाधिभेदात् तदप्रसङ्गः। अखण्डैकरसप्रकाशमात्रस्वरूपस्य ब्रह्मणः स्वरूपतिरोधायकोपाधिभेदोपपादकहेतूनामाभासत्वात्। न खलु दारुखण्डे निपतन् कुठारो दारुखण्डमिव ब्रह्मणि समन्वयन्नुपाधिर्ब्रह्म भिनत्ति। उपाधयो भिन्ना इति चेत्। किं ततः? भोगानाश्रयाणां तेषां भेदेन भोगाश्रयैक्यादापतत्साङ्कर्यं कथं परिह्रियेत। सत्यमिथ्योपाध्युपहित ब्रह्मजीववादयोरुपाधिहेतुभूतानाद्यदृष्टवशात् व्यवस्था भविष्यतीति चेत्, न। उपाधिभिरिवादृष्टैरपि अखण्डे ब्रह्मणि छेदनाद्यसंभवात्। एतेन अदृष्टहेतुसङ्कल्पानुष्ठानशरीरादिप्रतिनियमात् व्यवस्थेत्याशङ्काऽपि निरस्ता। सङ्कल्पादीनामपि सर्वात्मसननिधावत्पद्यमानानां प्रत्यात्मनियमहेत्वभावात्। ननु आत्मप्रदेशनव्यवस्थया भोगव्यवस्थाऽस्त्विति चेत् न।ब्रह्मणः प्रदेशाश्शरीरान्तर्भूताएव भोगाश्रयावाच्याः। तदन्तर्भूतप्रदेसास्तु न व्यवस्थिताः। प्रायः सर्वेषामपि प्रदेशानां सञ्चरत्सु सर्वेषु शरीरेष्वन्तर्भावात्। तस्मात्सर्वगतात्मपक्ष इव सत्यमित्#ोपाध्युपहितात्मैक्य पक्षेऽपि न भोगव्यवस्थोपपद्यत इति आत्मनामणुत्ववत् भेदोऽप्यभ्युपगन्तव्य इति सिद्धम्।।
संग्रहकारिका।।
जीवस्यात्यन्तभेदे गतिरुपचरणं स्यादभेदश्रुतीनां
गाढाभेदे तु भेदश्रुतिततिसहितस्सङ्करो दुर्निवारः।
तस्मादंशःपरस्येत्युचितमिह सखल्वेकवस्त्वेकदेशो
विंख्यातोऽयं विशिष्टे भगवतिच भवत्येकदेशः प्रकारः।।
इति अंशाधिकरणम्।।7।।
—————
इति श्रीमद्भरद्वाजकुलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि-द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पय्यदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य तृतीयः पादः।।