[highlight_content]

नयमयूखमालिका – Adhyaya 2 Pada 4

॥श्रीः॥

नयमयूखमालिका

।।अथ द्वितीयस्याध्यायस्य चतुर्थपादः।।

तथा प्राणाः।।1।।

गौण्यसंभवात्तत्प्राक्छØतेश्च।।2।।

तत्पूर्वकत्वाद्वाचः।।3।।

जीवोत्पत्तितदनुबधिज्ञातृत्वादिनिरूपणानंतरं जीवोपकरणानामिंद्रियामामुत्पत्तिप्रकारो विशोध्यत इति संगतिः। किमिंद्रियाणां वियदादिवत् स्वरूपान्यथाभावरूपोत्पत्तिः, उत जीववत् धर्मान्यथाभावमात्ररूपेति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः– यद्यपि वियदधिकरणे “ब्रह्मातिरिक्तं सर्वमुत्पत्तिम” दिति निर्णीतं, तथापींद्रियाणां वियदादिवत् न स्वरूपान्यथाभावरूपोत्पत्तिः। “असद्वा इतमग्रआसीत् तदाहुः किं तदासीदिति ऋषयो वाव ते अग्रे सदासीत् के ते ऋषय इति प्राणावाव ऋषय इती” ति, सर्गाद्यकालेऽपि स्थितिश्रवणात् प्राणशब्दस्य बहुवचनांतस्य इंद्रियेष्वेव, “प्राणमनूत्क्रामंतं सर्वे प्राणा अनूत्क्रामंती”ति प्रयोगदर्शनात् “तस्यासतऋषयस्सप्ततीर” इति ऋषिशब्दस्यापि तेषु दृष्टप्रयोगत्वाच्च। यद्यपि प्राणशब्दो ब्रह्मण्यपि दृष्टप्रयोगः, ऋषिशब्दश्च ज्ञानवत्त्वादुपपन्नः, तथाऽपि बहुवचनांतयोरनयोस्तस्मिन्नन्वयो न घटते। न “अदितिः पाशा” निति बहवचनवत् इह बहुवचनं अवयवबहुत्वविषयतया योजयितुं शक्यम्। ब्रह्मणो निरवयवत्वादिति। सिद्धान्तस्तु–

ब्रह्मण एकस्यैव सर्गाद्यकालेऽवस्थितेः सावधारणासु बहुषु श्रुतिषु श्रवणात्, प्राणशब्दस्य तस्मिन्निरूढिसत्वात्, ऋषिशब्दस्य ज्ञानसाधनेन्द्रियापेक्षया ज्ञानवति तत्र स्वारस्याच्च, ब्रह्मैवात्र प्राणाः। बहुवचनं तु “गुणेत्वन्याय्यकल्पने” ति न्यायात् पाशबहुत्ववन्नेतव्यम्। अवयवाभावेऽपि विशेषणबहुत्वस्य तदालम्बनस्य सद्भावात्। नच एकत्वावधारणेऽपि जीववदिंद्रियाणामपि सत्वमस्त्विति वाच्यम्। कृतहानाकृताभ्यागमपरिहाराय अदृष्टाश्रयतया जीवस्येव तेषां तदा सत्वस्यावक्तव्यत्वात्, उदाहृतश्रुतेः ब्रह्मण्येव स्वरस्यस्य दर्शितत्वाच्च। सर्गाद्यकाले जीवकृत्या दृष्टावस्थितिवत् वागादीन्द्रियकृत्यस्य कस्याप्यभावात्, भूतसृष्ठ्यनंतरमेव नामरूपव्याकरणश्रवणेन ततः प्राग्वागादींद्रियकृत्यानां नामोच्चारणादीनामभावावगमात्, “एतस्माज्जायत” इति मंत्रे तेषां वियदादिसमानस्वरूपान्यथाभावरूपजननश्रवणाच्च।।

संग्रहकारिका।।

अग्रे सत्वात्प्राणाः नित्या इतिचेन्न सृज्यत्वात्।

प्राणपदन्तद्ब्रह्मणि बहुवचनं पाशवन्नेयं।।

इति प्राणाधिकरणम्।।

———–

सप्तगतेर्विशेषितत्वाच्च।।4।।

हस्तादयस्तु स्थितेऽतो नैवं।।5।।

वियदादिवदुत्पत्तिमत्त्वेन सिद्धानामिंद्रियाणां संख्याविशेषश्चित्यत इति संङ्गतिः। “किमिंद्रियाणि सप्त उत एकादशे” ति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः। सप्तैव। इह परत्र च जीवेन सह सप्तानामेव हि गतिः श्रूयते। “सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषस्समिधस्सप्तजिह्वाः। सप्त इमे लोका येषु चरंति प्राणा गुहाशया निहितास्सप्त सप्ते”। वीप्सा पुरुषभेदाभिप्राया। विशेषिताश्च ते गतिमन्तः प्राणाः स्वरूपनिर्देशेन– “यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टेत तामाहुःपरमां गति”मिति।अत्र हि ज्ञानसाधनानि चक्षुरादीनि पञ्च मनोबुद्धिश्चेति सप्तैवेदंतयोंद्रियाणि निर्दिष्टानि। परमांगतिमिति परमगतिरूपमोक्षसाधनं योगमाहुरित्यर्थः। “यानि त्वष्टौ ग्रहाः अष्टावतिग्रहाः सप्त वै शीर्षण्याः प्राणाः द्वाववाञ्चौ, नव वै पुरुषे प्राणानाभिर्दशमी, दश वै पशोः प्राणा आत्मैकदश” इत्याद्यष्टाद्यधिकसंख्याश्रवणं तदन्येषामपि किंचित्किंचिज्जीवोपकारकत्वमात्रेण इंद्रियत्वोपचारात् नाभिवत्। न हि नाभिरंध्रमिंद्रियम्। इंद्रियाणि तु सहगतिमंति सप्तैव। न्यूनाधिकसंख्याश्रवणए च न्यूनसंख्याग्रहणं न्याय्यम्। लाघवात्। अधिकसंख्याग्रहणे न्यूनसंक्यानां तत्रान्तर्भावात् सर्वाबाधो भवतीत्यधिकसंख्याग्रहणमेव न्याय्यमिति चेन्न। तथासति वागादिप्चगाहङ्कारचित्ताभ्यां सह क्वचिच्चतुर्दशेंद्रियाणि श्रूयन्त इति चतुर्दशसंख्याग्रहणापत्त्या एकादशेति नियमाभावप्रसङ्गादिति। सिद्धान्तस्तु–

हस्तादीनामपि शरीरस्थिते जीवे कार्यभेदेन तद्भोगोपकरणत्वात्, ज्ञानेंद्रियाणि पंच, कर्मेंद्रियाणि पंच, मनश्चेत्येकादशेंद्रियाणीत्येवं मंतव्यम्। अतो “दशेमे पुरुषे प्राणा आत्मैकादशएकादशमतश्चे”त्यादिश्रुतिस्मृतिसिद्धेन्द्रियसंख्या व्यवस्थितैव। नानाविधसंख्याश्रवणे कार्यानुसारेम संख्यानियमनमेव हि युक्तं। नानाविधावदानसाधनश्रवणे सामर्थ्यानुसारेणावदेयनियमनमिव। तदधिकसंख्यावादास्तु मनोवृत्तिभेदाभिप्रायाः। महदनुगृहीते मनः अध्यवसायं, अहङ्कारानुगृहीतं मनः अभिमानं, पूर्वसंस्कारानुगृहीतं मनः चिन्तांचकारोति। मन एवाध्यवसायादिरूपवृत्तिभेदोपहितं बुद्ध्यहङ्कारचित्तशब्दैरभिधीयत इति। न्यूनसंख्याश्रवणानि तु तत्र तत्र विवक्षितगमनादिकार्यविशेषाभिप्रायाणि। योगदशायां कर्मेन्द्रियेभ्योऽपि ज्ञानेन्द्रियाणां यत्नेन वशीकर्तव्यत्वरूपमस्ति प्राधान्यं तदभिप्राया “यदा पंचावतिष्ठंत” इति स्मृतिः। “सप्तवै शीर्षण्याः प्राणा” इति सप्तानां शीर्षण्यत्वरूपमस्ति प्राधान्यम्, तदभिप्राया “सप्तप्राणा” इति श्रुतिः गतिश्रुतिश्च। एकादशानामपि गतिश्रुतिरस्त्येव। “दशेमे पुरुषे प्राणाः आत्मैकादशः ते यदाऽस्मान्मर्त्याच्छरीरादुत्क्रामन्ती” त्यादिका। अतो एकादशेन्द्रियाणीति सिद्धम्।। सङ्ग्रहकारिका।।

संग्रहकारिका।।

सप्तप्राणा युक्ताः सप्तानामेव गतिकथनात्।

मैवं सह हस्ताद्यैः एकादशकार्यभेदात्स्युः।।

इति सप्तगत्यधिकरणम्।।

अणवश्च।।6।।

तानीन्द्रियाणि किं विभूनि परिच्छिन्नानिवेति संशये “त एते सर्व एव समाः सर्वेऽनन्ता” इति आनन्त्यश्रवणात् अस्येन्द्रियस्य इदं परिमाणमिति परिमाणविशेषानुक्तिसहितात् विभुरेवेति प्राप्ते सिद्धान्तः-

उत्करान्तिगत्या गतिश्रवणात्, आनन्त्यश्रवणस्य “स योहैताननन्तानुपास्ते अनन्तं सलोकं जयति” इति वाक्यशेषेण उपासनार्थत्वावगमाच्च परिच्छिन्नान्येव। दूरगतवस्तुग्रहणं तु शीघ्रगतिमत्वादिनोपपद्यते।।

संग्रहकारिका।।

ते विभवोऽनंतत्वश्रवणात् मैवं गतागतोत्क्रमणैः।

सूक्ष्मास्ते तेषां पुनरुपासनाफलमनन्तताश्रवणम्।।

श्रेष्ठश्च।।7।।

इन्द्रियाणामुत्पत्तिविचारानन्तरं छन्दोगानां प्रामसंवादे इन्द्रियैस्सह विवादेन लब्धश्रैष्ट्यस्य मुख्यप्राणस्य इन्द्रियैस्सह विवादोक्त्यैव तत्समानच्छायतावगमात् इन्द्रियोत्पत्तिविचारानन्तरं मुख्यप्राणोत्पत्तिर्विचार्यत इति संगतिः। यद्यपि “एतस्माज्जायते प्राण” इति मंत्रत एव इन्द्रियाणामिव प्रामस्यापि वियदादिवदुत्पत्तिस्सिध्यति, तथापि प्राणस्य भूतवायोः इन्द्रियवृत्तिभ्यश्चान्यत्वं श्रुतिविरोधसमाधानेन निर्निनीषुः तस्य प्राकू प्रकृतोत्पत्तिविचारेण प्रासंगिकत्वसंपादनाय किंचिदधिकशंकानिराकरणाय च प्राणस्योत्पत्तिरिह चिंत्यते। अधिकशंकात्वित्थं- सर्गाद्यकाले जीवकार्यमदृष्टावस्थानमिव वागादीन्द्रियकार्यं नामधेयोच्चारणादिकं नास्ति। अतः प्राणर्षि शब्दौ ब्रह्मणि दृष्टप्रयोगौ ब्रह्मपरावित्युक्तं। प्राणस्यतु “नासदासीन्नोसदासीत्तदानीं तम आसीत्तमसा गूढमग्रे प्रकेत” मित्युपक्रान्ते नासदासीये सूक्ते “आनीदवातं स्वधयातदेक”मिति अननाख्यासाधारणव्यापारसद्भावश्श्रुतः। न च आनीच्छब्दः क्वचिदपि ब्रह्मणि दृष्टप्रयोमः। न च “अबात”मिति विशेषणात् अननाख्यप्राणव्यापारो नभवत्यानीच्छब्दः। किन्तु ब्रह्मसत्तापर इति वाच्यम्। संवर्गविद्यादिषु वायुप्राणयोः पृथगुपदेशेन वाय्वभावेऽपि प्राणसद्भावोपपत्तेरिति।। तन्निवृत्तिस्त्वित्थं- वायोस्तत्वांतराभावेन वायुविशेषात्मको भवत्येव प्राणः। तस्मात् “अवात”मिति वायुसामान्यनिषेधात् आनीच्छब्दस्य प्राणव्यापारत्वायोगेन ब्रह्मपरत्वमेव वक्तुं युक्तं। तथाच स्वेन ब्रह्मण धीयते उपभुज्यत इति व्युत्पत्त्या स्वधाशब्देन लक्ष्मीरुच्यत इति लक्ष्मीविशिष्टस्य भगवतः परब्रह्मणस्सर्गाद्यसमये स्थितिरुक्ता भवतीति “श्रेष्ठश्चे”ति सूत्रं “पौष्णं पेषणं विकृतौ प्रतीयेते”ति पूर्वतंत्रसूत्रवत् उत्तरचिन्तार्थत्वात् उत्तराधिकरणशेषएव। नाधिकरणान्तरमिति केचिदाहुः।। इति श्रेष्ठाणुत्वाधिकरणम्।।

वायुक्रिये पृथगुपदेशात्।।8।।

चक्षुरादिवत्तु तत्सहशिष्ठ्यादिभ्यः।।9।।

अकरणत्वाच्च दोषस्तथा हि दर्शयति।।10।।

पंचवृत्तिर्मनोवद्व्यपदिश्यते।।11।।

किमयं मुख्यप्राणः वायुमात्रं. उत उच्छ्वासनिश्वासरूपा तत्क्रिया, अथवा अवस्थाविशेषापन्नो वायुरिति संशये “यः प्राणस्स वायु”रिति श्रवणात् वायुमात्रं उच्छ्वासनिश्वासरूपा तत्क्रियावा। तत्र प्राणशब्दप्रयोगादिति पूर्वःपक्षः। सिद्धान्तस्तु-

“एतस्माज्जायत” इति मंत्रे पृथगुपदेशान्नवायुमात्रम्। वायुमात्रे प्राणशब्दाप्रयोगाच्च। अत एव तदीया निश्वासादिक्रियाऽपि न भवति। अग्न्यादिक्रियाया इव वायुक्रियाया अपि “एतस्माज्जायत” इति द्रव्योत्पत्तिमंत्रे पृथगुत्पत्त्युपदेशानर्हत्वात् तस्याभावार्थप्रत्ययान्तप्राणशब्दार्हत्वेऽपि प्राणितीति कर्त्रर्थप्रत्ययान्तस्य प्राणिति अनेन जीवतीति करणार्थप्रत्ययान्तस्य वा तस्यां प्रयोगाभावादिति। ननु यदि वायुरेव किंचिदवस्थान्तरं प्राप्तं#ः प्राणः, तर्हि किमग्निरिव प्राणोपि वायुत्वं परित्यजेत्, नेत्युच्यते। नायमग्निवद्भूतान्तरं। किन्तु वायुत्वापरित्यागेनैव जीवस्य चक्षुरादिवदुपकरणविशेषः। तैर्विशिष्टत्वात्। प्राणसंवादे हि “अथ ह प्राणा अहंश्रेयसे व्यूदिरे अहं श्रेयानस्मी”ति चक्षुरादिभिस्सहकलहाभिधानेन तत्समानच्छायत्वावसायात्, तदनन्तरं “त्वंनश्रेष्ठोऽसीति चक्षुरादिवचनेन प्राणस्य मुख्यत्वनिर्धारणाच्च। समानजातीयानामेव हि सहशिष्टस्तुल्योपकारकत्व संशयेन परस्परोत्कर्षकलहः। कस्यचिदुपकारादिशयदर्शनेन मुख्यत्वनिर्धारणं च भवति। जीवोपकरणत्वेनप्रसिद्धैस्समानजातीयत्वञ्च प्राणस्यापि तदुपकरणत्वे सत्येव भवति। ननु चक्षुरादिभिरिव प्राणेन जीवस्योपकारविशेषो न दृश्यतइतिचेन्नायं दोषः। श्रुतिरेवाहि शरीरेन्द्रियधारणरूपां क्रियां तदुपकारत्वेन दर्शयति। यथा प्राणसंवादे चक्षुरादीन् प्रति प्राणस्य वचनं “मामोहमापद्यथाहमेवैतत्पंचधात्मानं प्रविभज्य एतद्बाणमवष्टभ्य विधारयामी”ति। ननु पंचधा भेदे व्यानादयः किं प्राणात्तत्वांतराणि नेत्युच्यते। “कामस्संकल्पोविचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मनएवे”ति वचनात्कामसंकल्पादयो मनस इव प्राणवायोरकस्यैव प्राणापानादयोवृत्तिभेदाः। एतेनेन्द्रियाणां साधारणी वृत्तिः प्राणइति सांख्यपक्षे निरस्तः। तेहि कल्पयन्ति “पंजरस्थानं सर्वेषां शुकानां पंजरचालनमिव वा सर्वासां खलकपोतिकानामुपरिपतितवागुरोत्क्षेपणमिववा शरीरस्थानां सर्वेषामिन्द्रियाणां साधारणवयापारः प्राण”इति। नैतद्युक्तं। इन्द्रियकार्यविषयोपलब्धिव्यतिरेकेणोच्छ्वासनिश्वासक्रियायाः, स्वात्मानं पंचधा विभज्य देहधारणक्रियायाश्च मुख्यप्राणस्वतंत्रकार्यस्यदर्शनात्।।

संग्रहकारिका।।

मुख्यप्राणोप्यक्षवर्गोक्तरीत्या ब्रह्मोत्पन्नोवायुमात्रं तथोक्तेः।

देहांतर्वा तत्क्रिया श्वासरूपा मैवं द्रव्यैस्साकमुत्पत्तिवादात्।।

वायोरेवत्ववस्थांतरमयमिति संगच्छते वायुतोक्तिः

पूर्वावस्थानुवृत्तेर्भवति दहनवन्नास्य भूतांतरत्वं।

नित्यं संसारभाजामुपकरणमिदं शिष्यते चक्षुराधैः

ख्यातात्यंतोपकारस्तनुकरणमयं धारयन्पञ्चवृत्तिः।।

इति वायुक्रियाधिकरणम्।।

अणुश्च।।12।।

प्राणस्वरूपनिर्धारणान्तरं तत्परिमाणं निरूप्यतइति संगतिः। प्राणोविभुः परिच्छिन्नोवेति श्रुतिविप्रतिपत्तेस्संशये विभुरिति पूर्वःपक्षः। “समएभिस्त्रिभिर्लोकैस्समोनेन सर्वेण, प्राणे सर्वं प्रतिष्ठितं, सर्वं हीदं प्राणेनावृत”मिति श्रवणात्। नन्विन्द्रियाणामानन्त्यश्रवणेऽपि उक्रमणादिलिंगेन परिच्छिन्नत्वं प्रसाधितं, तेनैव न्यायेन प्राणस्यापि परिच्छिन्नत्वं सिध्येत्। किमनेनाधिकरणेन। उच्यते- उपास्तिविधानांतर्गतमानन्त्यं, इदंतु नतथेति पूर्वपक्षीमन्यते। यद्वा “सर्वंहीदंप्राणेनावृत”मितीत्युपपत्तिसहितं सर्वसाम्यश्रवणमुत्क्रमणादिलिंगात् प्रबलं। अतस्तदौपयिकोत्क्रमणादिरूपं वाच्यमिति पूर्वपक्ष्यभिप्रायः। उपासनाविधिशेषत्वं सर्वसाम्यलिंगेपि तुल्यं “एवमेतत्साम्यं वेदे”त्युपासनाविधिसन्निधानात्। “प्राणे सर्वं प्रतिष्ठितं सर्वाहीदं प्राणेनावृत”मित्येतदपि सर्वस्य शरीरस्य प्राणे प्रतिष्ठितत्वं प्राणेनावृतत्वं च ब्रूते। न तु सर्वस्य जगतः प्राणावृतत्वरूपं। प्राणस्य व्यापकत्वं हिशब्दप्रयोगेन प्रसिद्धार्थवादत्वावगमात् शरीरस्येव च प्राणप्रतिष्ठितत्वप्राणावृतत्वयोः लोकतश्श्रुत्यंतरतश्च प्रसिद्धेरिति सिद्धान्तः।।

संग्रहकारिका।।

समएभिस्त्रिभिर्लोकैरित्याम्नानादयं विभुः।

अणुरुत्क्रमणादिभ्यः सर्वसाम्यश्रुतिस्स्तुतिः।।

इति प्राणाणुत्वाधिकरणम्।।

ज्योतिराद्यधिष्ठानन्तु तदामननात्प्राणवता शब्दात्।। 13

तस्य नित्यत्वम्।।14।।

प्राणानामुत्पत्तिमत्तापरिमाणादिविचारानन्तरं अग्न्यादिदेवताधिष्ठितत्वप्रकारविशेषश्चित्यत इति संगतिः। किमग्न्यादिदेवतानां प्राणाधिष्ठातृत्वं “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्या”मिति प्राक्प्रसंगादुक्तं। तत् स्वस्वायत्तं उत ईश्वरायत्तमिति संदेहे पूर्वपक्षः-यद्यपि “परात्त तच्छØते”रित्यधिकरणे जीवानां कर्तृत्वमीश्वरायत्तमित्युक्तं, तथापि अग्न्यादित्यादीनामीश्वरदत्तैश्वर्याणां ईश्वरवत् वरदायित्वफलप्रदत्वादिसत्वेन स्वातंत्र्यसत्वात्तत्तदायत्तमेवाधिष्ठातृत्वमस्तु परायत्तताश्रुतेः मनुष्यादिविषयत्वेन संकोचोपपत्तेरिति। सिद्धान्तस्तु-

ज्योतिरादीनामग्न्यादित्यादीनां यच्चक्षुराद्यधिष्ठातृत्वं तत्परमेश्वरस्यैव संकल्पात्। कुतः? तस्य सर्वान्तर्यामित्वश्रुतेः। अतो यथा जीवस्य “एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिचर्तत” इति स्वातंत्र्यश्रवणेऽपि तस्य इन्द्रियाधिष्ठातृत्वं परायत्तं, एवमभिमानिदेवतानामपीति युक्तं। ननु परमेश्वरदत्तैश्वर्येम देवतानां मनुष्यादिभ्यो विशेषोस्तीति चेन्न। सर्वेषां संसारिणामीश्वरनियम्यत्वस्य नित्यत्त्वात् “स ईशोऽस्य जगतोनित्यएवे”त्यविशेषश्रवणात्। अतः प्राग्देवतापदप्राप्तेः परमेश्वरनियम्यानां तासां तदनन्तरमपि अमात्यानां राजनियम्यत्ववत् ईश्वरनियम्यत्वमवर्जनीयमे।।

संग्रहकारिका।।

अग्न्यादिदेवतानामाराध्यानां फलप्रदानांच।

प्राणाधिष्ठातृत्वं स्वायत्तं भवतु को दोषः।।

मैवं तदीश्वरादीनां तासां प्राणवता सह।

नित्यानुबन्धिनीह्येषां सर्वेषां तन्नियम्यता।।

इति ज्योतिराद्यधिष्ठानाधिकरणम्।।

इन्द्रियाणि तद्व्यपदेशादन्यत्रश्रेष्टात्।।15।।

भेदश्रुतेर्वैलक्षण्याच्च।।16।।

इन्द्रियाणां प्राणस्य चोत्पत्त्यादिनिरूपणान्तरं किं सर्वे प्राणशब्दनिर्द्रिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता इति विचार्यते। ननु किमस्य विचारस्य प्रयोजनं। मुख्यप्राणानुगततद्व्यावृत्तलक्षणविचारस्य व्यवहार विशेष एव प्रयोजनमिति चेत् मैवं। न खलु वैशेषिकशास्त्र इव व्यवहारमात्रप्रयोजनो लक्षणविचारोस्त्यस्मिन् शास्त्रे उच्यते। श्रुतिविप्रतिपत्तिनिरासार्थ एवायमपि विचारः। तथाहि – बहुवचनांतः प्राणशब्दः इन्द्रियपर्याय इति निर्विवादं। तस्य मुख्यव्यावृत्तः प्रयोगो दृश्यते-“प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ती”ति। तेन श्रेष्ठादन्ये चक्षुरादय एवेंद्रियाणीति प्रतीयते। “अथह यएवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिर”इति श्रेष्ठे मुख्यप्राणशब्दप्रयोगात् सोपीन्द्रियांतर्भूत इति प्रतीयते। येन प्रवृत्तिनिमित्तेन चक्षुरादिषु प्राणशब्दप्रवृत्तिः तेनैव श्रेष्ठे तत्प्रवृत्तौ हि श्रेष्ठःप्राणानां मध्ये मुख्यप्राणो भवति यथा ब्राह्मणानां मध्य एव कश्चिन्मुख्यब्रह्मणो भवति। एवं श्रुतिविप्रतिपत्तौ सत्यां पूर्वपक्षः-प्राणोपीन्द्रियमेव। प्राणशब्दवाच्येषु तस्य मुख्यत्वप्रतिपादनात्। न च “एतस्माज्जायत” इति मंत्रे प्राणस्य पृथगुत्पत्तिवचनान्दिन्द्रियेभ्यो भेदश्शंकनीयः। तथा सति मनसोपि तेभ्यो भेदापत्तेः। प्राणस्यापीन्द्रियत्वे सत्येव प्रायस्सजातीयेष्वेव लोके दृष्टः परस्परोत्कर्षकलहः चक्षुरादीनां प्राणस्य च श्रूयमाणस्संगच्छते। न चांतरंगेणेन्द्रियत्वेन साजात्ये संभवति बहिरंगेण जीवोपकरणत्वेन साजात्यात् स उपपादनीयः। एवं च “इन्द्रियाणि दशैकञ्चे”त्यादिवचनं मुख्यप्राणातिरिक्तेन्द्रियादिविषयं। यथा “सप्तप्राणा”इति वचनं शीर्षण्यप्राणमात्रविषयमिति नैकादशसंख्योक्तिविरोधः। तस्मात् “स योहैताननंतानुपास्त” इति विहितमिन्द्रियोपासनं मुख्यप्राणसहितमेव कार्यमिति। सिद्धांतस्तु-

श्रेष्ठे मुख्यप्राणशब्दः प्राणशब्दोदितानामिन्द्रियाणां मध्ये मुख्येन्द्रियरूप इत्येवमर्थो न भवति, किन्तु मुखेभवः प्राण इत्येतदर्थकः। बृहदारण्यके समानप्रकरणे “अथहेममासन्यंप्राणमूचु”रिति मुख्यशब्दस्थाने आसन्यशब्दप्रयोगात्, तस्यचास्येभव इत्येतदर्थकत्वात्। तत्रह्यास्यशब्दस्य “पद्दन्नोमास्”इत्यादिसूत्रेणासन्नादेशः। यदि तु मुख्यः प्राण इत्यस्य प्राणानां मध्येमुख्य इत्यर्थः, तथापि प्राणस्येन्द्रियत्वं न लभ्यते। अयं प्राणः प्राणशब्दस्य मुख्योभिधेयः, अन्ये प्राणा इन्द्रियाणि तस्य लक्षणीया न मुख्या इत्येवमर्थकत्वोपपत्तेः, “त एतस्यैव सर्वे रूपमभवं स्तस्मादेत एतेनाख्यायंत” इति मुख्यप्राणवाचकेनैव सता चक्षुरादीनां लक्षणीयत्वोक्तेः। सर्वमेतत् “अन्यथात्वंशब्दादितिचे”दिति गुणोपसंहारपादाधिकरणे स्पष्टीभविष्यति। तस्मान्मुख्यप्राणव्यतिरिक्ताश्चक्षुरादय एवेन्द्रियाणि। “एतस्माज्जायते प्राण”इति मंत्रे पृथङ्निर्देशादपि तथावसीयते। मनस इन्द्रियेभ्यः पृथङ्निर्देशेऽपि “मनष्षष्ठानीन्द्रियाणी”ति वचनांतरानुसारेण मनस इन्द्रियत्वमभ्युपेयते। न तथेह प्राणस्येन्द्रियत्वे वचनांतरमस्ति। किंच प्राणस्येन्द्रियाणांच वैलक्षण्यमप्यस्ति। सुषुप्तौ हि चक्षुरादिषु सर्वेषूपरतेष्वपि प्राणस्य वृत्तिरुपलभ्यते। “प्राणाग्नय एवैतस्मिन् पुरे जाग्रति भूर्भूरित्येव श्वसिती”ति श्रुत्याप्यनूद्यते। कार्यवैलक्षण्यं चास्ति- ज्ञानानि कर्माणि च इन्द्रियाणां कार्याणि, प्राणस्य तु देहधारणं। तस्मान्मुख्यप्राणव्यतिरिक्ताश्चक्षुरादयएव इन्द्रियाणि। तेषांचैकादशानामनुगतं लक्षणं सात्विकाहंकारविकारत्वम्।।

संग्रहकारिका।।

प्राणोऽपीन्द्रियमेहः सर्वेषां प्रणशब्दावाच्यत्वात्।

मैवं पृथगुपदेशा दन्येषां प्राणता तु लक्षणया।।

इति इन्द्रियाधिकरणम्।।

संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्।।17।।

मांसादिभौमं यथाशब्दमितरयोश्च।।18।।

वैशेष्यात्तु तद्वादस्तद्वादः।।19।।

खादिषु पूर्वपूर्वशरीरकस्य ब्रह्मण उत्तरोत्तरसृष्टिकर्तृत्वप्रतिपादनेन सर्वत्रापि सृष्टौ ब्रह्मणस्साक्षातकर्तृत्वं “भेदश्रुते”रिति सूत्रेण दर्शितं। तन्नोपपद्यते-नामरूपव्याकरणे केवलं हिरण्यगर्भस्य कर्तृतायाः श्रुतिस्मृति प्रसिद्धत्वादित्याक्षेपेणोत्थानात् संगतिः। खादिसृष्टाविव नामरूपव्याकरणेऽपि तस्य साक्षात्कर्तृत्वमुपपद्यत इति दृष्टान्तसङ्गतिर्वा। “अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणी”ति श्रुतिः, “नामरूपञ्च भूतानां कृत्यानांच प्रपंचनम्। वेदशब्देभ्यएवादौ देवादीनां चकार स” इच्यादि स्मृतिश्च हिरण्यगर्भस्य नामरूपव्याकर्तृत्वं प्रतिपादयति, उत तच्छरीरकस्य परमात्मन इति संशये पूर्वपक्षः-हिरण्यगर्भस्यैव प्रतिपादयति। “जीवेन व्याकरवाणी”ति श्रवणात्। नन्वेवं सति “यथा चारेण परसैन्यं कलयानीति नरपतिरमन्यते”ति लौकिकवाक्ये चारकर्तृकं परसैन्यसङ्कलनं राज्ञि गौणं व्यपदिश्यते। एवमिहापि जीवकर्तृकं नामरूपव्याकरणं ब्रह्मणि गौणं व्यपदिष्टमिति स्यात्, नैष दोषः। राजचारयोरिव जीवेश्वरयोरंशांशिनोस्स्वरूपभेदाभावेनात्रापि “जीवेनात्मने”ति जीवस्येश्वरकर्तृत्वस्वात्मत्वपरामर्शेन च जीवकर्तृकस्य सङ्कलनस्य मुख्यतयैवेश्वरकर्तृत्वस्वात्मत्वपरामर्शेन च जीवकर्तृकस्य सङ्कलनस्य मुख्यतयैवेश्वरकर्तृकत्वोपपत्तेः। नच सहयोगलक्षणेयं तृतीयास्तु, तथाच ईश्वरस्यापि तत्र कर्तृत्वं घटत इति वाच्यम्। उपपदविभक्तितः कारकविभक्तेः पदान्तरयोगनिरपेक्षत्वेन बलीयस्त्वात्। न च करणार्थतया कारकविभक्तित्वनिर्वाहः। ईश्वरकर्तृके व्याकरणे जीवस्य साधकतमत्वाभावात्। किं च करणार्थत्वेऽपि व्याकरणं जीवकर्तृकमेव पर्यवस्यति। नेश्वरकर्तृकम्। चेतन कर्तारं प्रति चेनांतरस्य करणतयोपकारकत्वं हि तत्प्रयोज्यकर्तृतयैव भवति। अस्मिन्पक्षे राज्ञश्चारकर्तृके सङ्कलन इव ईश्वरस्य जीवकर्तृके व्याकरणे कर्तृत्वममुख्यं विवक्षितमिति नेतव्यम्। एवं करणार्थत्वकल्पने सति तृतीयानुपपत्तिशङ्काऽपि निरस्ता भवति। कर्त्रर्थत्वे हि तच्छङ्का स्यात्। व्याकरणकर्तुः तिङाऽभिहितत्वात्। न च जीवस्य कर्तृत्वं प्रवेशमात्रे पर्यवस्यति। व्याकरणंत्वीश्वरस्यैवेतिकल्पनेन कर्तरि तृतीयानिर्वाहः। “समानकर्तृकयोः पूर्वकाल”इति क्त्वाप्रत्ययस्य कर्त्रैक्यार्थत्वस्मरणेन भिन्नकर्तृकयोस्तदसम्भवात्। तस्यापि कर्त्रर्थत्वस्मरणेन तदभिहितेऽपि कर्तरि तृतीयानुपपत्तेश्च। अतस्संकलनस्य चार इव व्याकरणस्य जीव एव मुख्यकर्ता। तथा सत्येव “नामरूपं च भूताना”मिति स्मृतिरपि संगच्छते। न हि हिरण्यगर्भजीवांतर्यामी परमेश्वरो देवादिनामरूपसृष्टये पूर्वसर्गवृत्ततन्नामरूपस्मृत्यर्थंवेदशब्दानपक्षत इति। एवंप्राप्तेसिद्धांतः

संज्ञामूर्तिक्लृप्तिः- देवादीनां नामरूपव्याकरणं त्रिवृत्कुर्वतः परमेश्वरस्यैव सृष्टिः। “सेयं देवतैक्षतहंताहमिमास्तिस्रो देवताः अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणी”ति त्रिवृत्करणनामरूपव्याकरणयोस्समानकर्तृकत्वश्रवणात्। त्रिवृत्करणं हि परमेश्वरस्यैव कर्म। न तु “तस्मिन्नंडेऽभवद्ब्रह्मा सर्वलोकपितामह” इति अंडांतस्संभूतत्वेन स्मृतस्य हिरण्यगर्भस्य। त्रिवृत्कृतैस्तेजोवन्नैरंडस्योत्पादनीयत्वात्। तस्मात् त्रिवृत्करणकर्तेश्वरः नामरूपव्याकरणस्यापि कर्ता। हिरण्यगर्भस्यापि तत्कर्तृत्वस्मृतिः घटादेरिव तस्य द्विकर्तृकत्वादुपपद्यते। कथमिदानीं “जीवेनात्मने”ति सामानाधिकरण्यं। जीवशब्दस्य जीवशरीरकपरमात्मपरत्वादित्यवेहि। कथमाख्याताभिहिते कर्तरि तत्कर्तृकाख्यातोपात्तक्रियापेक्षया क्त्वाप्रत्ययप्रकृत्युपात्तक्रियायाः पूर्वकालत्वं तयोः क्रिययोः कर्तुरैक्यं चेत्येतावन्मात्रमेव हि क्त्वार्थः। लाघवात्। नत्वन्यलभ्या कर्तृशक्तिरपि। तथाऽपि प्रधानक्रियान्वयस्याभ्यर्हितत्वात् व्याकरणान्वय एव जीवशरीरकस्य परमात्मनो वक्तव्यस्स्यादिति चेत्- सत्यं। प्रधानक्रियान्वयासंभवे उपसर्जनक्रियान्वयोपि युक्त एव। यथा “इष्टकाः कृत्वा भुङ्क्त” इत्यत्र तत्र इष्टकानां भोजनक्रियाकर्मत्वेन अन्वयानर्हत्वादसंभवः। इह तृतीयांतनिर्दिष्टस्य कर्तुः कर्त्रर्थकाख्यातान्वयानर्हत्वादित्येव विशेषः। यदि क्त्वाप्रत्ययस्य कर्त्रैक्यपूर्वकालत्वमात्रमर्थमंगीकृत्य कर्तृशक्त्यभिधायकत्वं प्रत्याख्यायेत तदेह जीवेनेतिवत् “इष्टकाः कृत्वाऽहंभोक्ष्य” इत्यत्रापि मयेति अनभिहिताधिकारविहितया तृतीययैव भाव्यं स्यात्। अतस्तस्य कर्तृशक्त्यभिधायकत्वमंगीकृत्यैव तत्र प्रथमा समर्थनीया। ततश्च अत्रापि क्त्वाप्रत्ययेन कर्तुरभिधानात् जीवेनेति तृतीया न स्यात् प्रथमयैव भाव्यं स्यादिति कर्तृशक्त्यनभिधानमाश्रित्य तृतीयासमर्थनायामनुपपत्तिः, तदा छांदसत्वेनेयं व्याकरणकर्तरि जीवशरीरके परमात्मनि तृतीयोपपादनीया। न तु जीवस्येश्वराभिन्नत्वं व्याकरणस्य जीवकर्तृकत्वंचांगीकृत्य तृतीयेयमुपपादनीया। जीवेश्वरयोर्भेदस्य समर्थितत्वात्। अतस्त्रिवृत्करणसमानकर्तृकं व्याकरणं त्रिवृत्करणकर्तुरीश्वरस्यैव कृतिरिति सिद्धं। यद्यपि हिरण्यगर्भसृष्ट्यनंतरनामरूपव्याकरणानन्तरं त्रिवॄत्करणं श्रुतौ पठितं, तथापि पाठक्रमादर्थक्रमस्य बलीयस्त्वात् त्रिवृत्करणं प्रागेवेत्यस्यार्थस्य प्रपंचनं भाष्ये द्रष्टव्यं।।

संग्रहकारिका।।

सरसिजसंभव एव व्याकरणनामरूपयोः कर्ता।

जीवेनेति श्रवणात् तत्सृज्यप्रकरणे च तत्स्मरणात्।।

मैवं यस्त्रिवृतं चकार कथितः कर्ता स हि व्याकृतौ

तद्धाता न तथा त्रिवृत्कृतधराद्युत्पादिताण्डोद्भवः।

तेन व्याकरणत्रिवृत्करणयोः कर्ता स एवेश्वरो

जीवेनेति तु तच्छरीरकतया तत्रैव शक्तं पदम्।।

इति संज्ञामूर्त्यधिकरणम्।।

इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजि-द्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ चतुर्मतसारे नयमयूखमालिकाख्ये द्वितीयपरिच्छेदे द्वितीयस्याध्यायस्य चतु र्थः पादः।।

।।द्वितीयोऽध्यायस्समाप्तः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.