[highlight_content]

इन्द्रप्राणाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥

इन्द्रप्राणाधिकरणम् ॥११॥

    कौषीतकिनामुपनिषदि – *प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियम् धामोपजगाम तम् हेन्द्र उवाच प्रतर्दन वरम् ते ददानीति स होवाच प्रतर्दनः त्वमेव वरम् वृणीष्व यम् त्वम्, मनुष्याय हिततमम् मन्यसे* (कौषी.३-१) स्पष्टोऽर्थः । *स होवाच मामेव विजानीहोतदेवाहम् मनुष्याय हिततमम् मन्ये*(कौषी.३-९) मोक्षसाधनमिति मम मतम् । अत-इतरत्प रित्यज्य मामुपास्वेत्यर्थः । अत्र प्रसिद्धजीवभावस्य इन्द्रस्य हिततमत्व-लक्षण – मोक्षसाधनत्वाश्रयोपासनकर्मत्वासम्भ्वात् मामिति शब्दः स्वात्म भूतम् परमात्मानमभिदधाति । *य आत्मनि तिष्ठन्*(बृह.५-७-२२) *अन्तःप्रविष्टश्शास्ता जनानाम् सर्वात्मा*(तै.यजुःआर.३-११) इति शास्त्रेण स्वस्याप्यात्मभूतः परमात्मेति निश्चीयते । अहम् बुद्धिशब्दाः परमात्म-पर्यन्ता इति जानत इन्द्रस्य स्वात्मभूते परमात्मनि मामिति शब्दप्रयोगे नानुपपत्तिः । ननु स्वायत्ते शब्दप्रयोगे असन्दिग्धम् परमात्मवाचकपदम् प्रयुज्यता, किम् न्यायलभ्यपरमात्मपर्यवसानेन मामितिशब्देनेति चेत् स्यादेवम् यदि परमात्मस्वरूपमात्रोपासनमेव विधित्सितम् स्यात् अपि तु स्वशरीरकतया । अतो मामिति निर्देश उपपद्यते । तत्क्रतुन्यायेन

स्वोपासकस्य पापाश्लेषम् वक्तुम् स्वस्य पापाश्लेषम् दर्शयति -*त्रिशीर्षाणम् त्वाष्ट्रमहनम् अरुन्मुखान् यतीन् सालावृकेभ्यः प्रयाच्छम्*(कौषी.३-१) रौतीति रुत्-वेदः न विद्यते रुत् मुखे येषाम् ते अरुन्मुखा: वेदान्त-विमुखान् यतीनित्यर्थः । *बह्वीस्सन्धा अतिक्रम्य दिवि प्राह्लादीनतृणह-मन्तरिक्षे । पौलोमान् पृथिव्याम् कालकञ्जान्*(कौषी.३-१) । न हनिष्या- मीति कृताः बह्वीः प्रतिज्ञा अतिक्रम्य दिवि वर्तमानान् प्रह्लादपुत्रान्

अतृणहम्। पुलोमसुतान् कालकञ्जाख्यान् असुराम्श्च हिम्सितवानस्मि। *तस्य मे तत्र न लोम च मीयते*(कौषी.३-१) एवम् हिम्सितवतो लोमापि न हिम्स्यते ब्रह्मविद्याप्रभावादित्यर्थः । *स यो माम् विजानीयात् नास्य

केन च कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्य पापञ्चक्रुषो मुखान्नीलम् वेती*(कौषी.३-१)ति । एवम् पापम् कृतवतोऽपि मया ईदृशम् पापम् कृतमिति निर्वेदजनितमुख-वैवर्ण्यमपि नास्तीत्यर्थ: चक्रुष इति क्वसन्तात् षष्ठी ।

एवम् चेतनविशेषरूपस्वविशिष्टपरमात्मोपासनमुक्त्वा अचेतनविशेष-रूपप्राणविशिष्टपरमात्मोपासनमाह – *स होवाच प्राणोऽस्मि प्रज्ञात्मा तम् मामायुरमृतमित्युपास्व*(कौषी.३-१)अत्र प्रज्ञारूपात्मा जीवशरीरक इत्यर्थः। जीवशरीरकोऽहम् प्राणोऽस्मि – प्राणशरीरकोऽहमस्मि तादृशम् प्राणशरीर- कम् मामायुरमृतमित्युपास्व । यद्वा-मामिति जीवविशिष्टता आयुरिति प्राणविशिष्टता । *आयुः प्राण*(कौषी.२-२) इति श्रुतेः । अमृतमिति स्वेन रूपेणावस्थितिः । एवम् च स्वरूपेण चिदचिद्विशिष्टतया च त्रिविधोपासनम् विधीयते अतो नोपासनात्रयविधिकृतवाक्यभेद इति द्रष्टव्यम् । प्रज्ञात्म-विशिष्टोपासनस्य फलमाह – *प्रज्ञया सत्यसङ्कल्प-मि*(कौषी.३-२)ति । अपहतपाप्मत्वादि गुणाष्टकलक्षणम् ब्राह्मम् रूप-मित्यर्थः । *यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः *(कौषी.३-२)ननु प्रज्ञा शब्दितजीवस्य प्राणस्य च कथमभेद इत्यत्राह- *सह ह्येतावस्मिन् शरीरे वसतस्सहोत्क्रामतः* (कौषी.३-२) सहोत्क्रमणप्रतिष्ठत्वादेककार्य-करत्वादभेदव्यपदेशो युज्यत इति भावः । *प्राण एव प्रज्ञात्मा इदम् शरीरम् परिगृह्योत्थापयति* (कोषी. ३-३) एतावता प्रज्ञाशब्दितजीवसहाय-कस्य मुख्यप्राणस्यैव शरीरोत्था-पकत्वेन अमुख्यप्राणापेक्षया वैलक्षण्य-मुक्तम् । *वागेवास्या एकमङ्ग-मुदूढम् तस्या नाम पुरस्तात् प्रतिविहिता भूतमात्रे*(कौषी.३-५)त्यादि । अस्याः – प्रज्ञायाः । प्रज्ञया जीवेनेति यावत् । एवम् वागादीनामिन्द्रिया-णाम् अङ्गत्वेन परिगृहीतत्वात् नामादिदशानाम् वाग्घ्राणादिग्राह्यत्वम् प्रतिपादितम् । ततः *प्रज्ञया या समारुह्य वाचा नामानि सर्वाण्याप्नोती *(कौषी.३-६)त्यादिना प्रज्ञाशब्दि-तस्य जीवस्य नामादिदशविधभूतमात्रा-व्याप्तिप्रकारा उच्यते । अत्र प्रज्ञा-शब्दः *प्रज्ञैवास्या*(कौषी.३-५) इति पूर्ववाक्यस्थप्रज्ञाशब्दनिर्दिष्टमनःपरः ततश्च मनसा वागिन्द्रियमधिष्ठाय तद्द्वारा सर्वाणि नामानि अभिलप-नक्रियाद्वारा व्याप्नोतीत्यर्थः एव-मुत्तरवाक्येऽपि द्रष्टव्यम् । *ता वा एता दशैव भूतमात्रा अधिप्रज्ञम् दश प्रज्ञामात्रा अधिभूतम् यद्धि भूतमात्रा नस्युर्न प्रज्ञामात्रास्स्युःयद्वा प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः*(कोषी.३-८) *न ह्यन्यतरतो रूपम् किञ्चन सिद्धयेत्*(कौषी.३-९) | अनेन नाम-गन्धरूपशब्द – रसकर्मसुखदुःखानन्द-गतिज्ञातव्यलक्षणा दराभूतमात्राश्च तद्ग्रहिवाग्घ्राणचक्षुश्श्रोत्रजिह्वाहस्त-शरीरोपस्थपादमनोलक्षणा दश-प्रज्ञामात्राश्च अन्योन्याधाराः, वागीदीन्द्रि-याणामभावे नामादिसिद्धेरभावात्, तेषाञ्चाभावे तद्व्यवहारफलकप्रज्ञा-मात्रशब्दितेन्द्रियाद्यनिष्पत्तेः, ग्राह्यग्राहकोभयाधीनत्वात्सर्वलोकयात्रायाः, ग्राह्येण विना कृतम् ग्राहकम् ग्राहकेण विना कृतम् ग्राह्यम् वा न कार्यक्षमम् भवति । *नो एवै-तन्नाना*(कौषी.३-९) नाना- शब्दो विनार्थकः । एतत् ग्राहाग्राहकजातम् परस्पराविनाभूतमित्यर्थः तस्मात् प्रज्ञामात्रशब्दितमपि इन्द्रियजातम् भूतमात्रान्तर्गतमित्यर्थः । तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिताः एवमेवैता भूतमात्रा: प्रज्ञामात्रा-स्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः *(कौषी.३-९) नाभौ –रथचक्रमध्य-वर्तिसरन्ध्रकाष्ठविशेषे अरशब्दिताः काष्ठविशेषाः परितोऽर्पि-ताः। तत्र च नेमिशब्दितम् वलयाकारम् काष्ठम् यथा अर्पितम् एवम् प्राणशब्दितपर-मात्मनि प्रज्ञामात्रशब्दनिर्दिष्टाश्चेतना अर्पिताः तेषु च भूतमात्राशब्दित-

गाह्यग्राहकजातम् सर्वम् समर्पितमित्यर्थः। न च एकवचनान्तप्रज्ञाशब्द-निर्दिष्टस्य बहुवचनान्तप्रज्ञामात्राशब्देन परमार्शो न युक्त इति वाच्यम् । सद्विद्यायाम्- *स्वमपीतो भवती*(छान्.६-८-१)त्येकवचनान्तशब्दनिर्दि-ष्टस्य जीवस्य *सति सम्पद्य न विदुरि*(छान्.६-९-२)ति बहुवचनान्त-शब्देन निर्देशवदुपपत्तेः । *स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः* (कौषी.३-९)। प्रज्ञ एव प्राज्ञः निरुपाधिकसर्वज्ञानाश्रयः । निरुपाधिका- नन्दत्वाजरत्वामृतत्वाश्रयः । *न साधुना कर्मणा भूयान् नो एवासाधुना कर्मणा कनीयोन्*(कौषी. ३-६३(बृह.६-४-२२)) । पुण्यपापकृतोत्कर्षापकर्ष- शून्य इत्यर्थः । *एष ह्येवैनम् साधु कर्म कारयति तम् यमेभ्यो लोकेभ्य उन्निनीषति* एष ह्येवैनमसाधुकर्मकारयति तम् यमधो निनीषति*(कौषी. ३-९)। एतद्वाक्यद्वयम् विवृतम् व्यासार्यैः कर्मणामुन्नयनहेतुत्वम् उपास्ति- निष्पादनरूपम् तद्विपरीतमधोनयनमुपासनप्रतिबन्धरूपमिति । *एष लोक-पाल एष लोकाधिपतिरेष सर्वेशः*( कौषी. ३-९)। लोकपालः- लोकरक्षकः। लोकाधिपतिः- लोकस्वामी । सर्वेशः-सर्वनियन्ता । *स म आत्मेति विद्यात्*(कौषी.३-९) पूर्वोक्तगुणविशिष्टः स्वान्तर्यामीति प्रतिपत्तव्यः।

अत्र *प्राणोऽस्मि प्रज्ञात्मा तम् मामायुरमृतमुपास्वे*(कौषी.३-१)ति मामितिशब्देन प्राणशब्देन च निर्दिश्यमान इन्द्र एव इन्द्रप्रयुक्तस्य मामितिशब्दस्य तद्विषयत्वावश्यम्भावात् इति पूर्वपक्षे प्राप्त उच्यते –

 

प्राणस्तथाऽनुगमात् ॥१-१-२९॥

 

प्राणः परमात्मापरमात्मत्वसाधकानन्दादिमत्त्वेन तस्यास्मिन् प्रकरणे अनुगतत्वात् *स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृत*(कौषी.३-९) इति श्रूयते-

 

न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा

ह्यस्मिन् ।।१-१-३०।।

 

त्वाष्ट्रवधादिना प्रज्ञातजीवभावस्य इन्द्रस्य वक्तुः मामेव विजानी-हीति स्वात्मत्वेन उपदिश्यमानः नेन्द्रजीवभूतादतिरिक्तो भवितुमर्हतीति चेत् न अस्मिन् प्रकरणे परमात्मसम्बन्धिनाम् धर्माणाम् बहुत्वमुपलभ्यते। हित-तमोपासनकर्मत्वम्, साध्वसाधुकर्मकारयितृत्वम्, *भूतमात्रा: प्रज्ञामात्रा- स्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिता*(कौषी.३-२) इति अचेतनवर्गाधारत्वम्, चेतनवर्गाधारत्वम्, आनन्दत्वम्, अजरत्वम्, अमृतत्वम्, लोकाधिपति-त्वम्, एवमादयो धर्माः परमात्मसम्बन्धिन उपलभ्यन्ते । अतो भूयो- धर्मानुग्रहाय अस्य प्रकरणस्य परमात्मपरत्वमेव वक्तव्यम् ।

 

तर्हि इन्द्रस्य मामुपास्वेति निर्देशः कथमुपपद्यत इत्यत्राह-

 

शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥१-१-३१॥

 

*य आत्मनि तिष्ठन्नात्मनोऽन्तर*(बृह.५-७) इति शास्त्रेण परमा-त्मानम् स्वात्मानम् दृष्ट्वा शरीरवाचिनाञ्च शब्दानाम् शरीरिपर्यन्त-ताम् ज्ञात्वा मामुपास्वेत्युपदिष्टवान् । यथा साक्षात्कृतस्वात्मभूत- परमात्मतत्वो वामदेवः *अहम् ममनुरभवम् सूर्यश्चे *(बृह.३-४-१०)ति स्वात्मनि मन्वादिभावमुपदिष्टवान् न हि मन्वादिभाव: स्वस्वरूपगतो वामदेवेन उपदिष्टः, अपि तु स्वात्मभूतपरमात्मगतः तद्वदेवायमुपदेश इति भावः।

 

जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रित-

त्वादिह तद्योगात् ॥१-१-३२॥

 

त्वाष्ट्रवधवक्तृत्वादिजीवलिङ्गानाम्, आयुःप्रदत्व शरीरोत्थापकत्व इन्द्रि- याश्रयत्वादीनाम्, मुख्यप्राणलिङ्गानाञ्च उपन्यासः किमर्थमितिचेत् इन्द्र- रूपजीवशरीरकतया प्राणरूपाचेतनशरीरकतया स्वरूपेण च उपासनार्थम् चेतनाचेतनधर्माणाम् ब्रह्मधर्माणाञ्च कीर्तनम् । त्रिविधञ्चोपासनम् प्रकर- णान्तरेष्वप्याश्रितम् यथा तैत्तिरीयके – *सत्यम् ज्ञानमनन्तम् ब्रह्मे*(तै. आन.२-१)ति स्वरूपेण, *सच्च त्यच्चाभवदि*(तै.आन.२-६)ति भोक्तृभोग्य-लक्षणचेतनाचेतनशरीरकतया चोपासनम् एवम् *तम् मामायुरमृतमित्यु- पास्वे*(कौषी.३-१)ति वाक्ये पूर्वोक्तत्वाष्ट्रहननादिकृतपापलेशशून्यत्ववक्तृ-त्वघ्रातृत्वादिगुणकजीवविशिष्टतया आयुष्ट्वेन्द्रियनिश्श्रेयसहेतुत्व-शरीरोत्थापकत्वादिगुणविशिष्ट प्राणविशिष्टतया आनन्दत्वामृतत्वादि- स्वरूपेण च विशिष्टस्य स्वात्मत्वेन उपासनम् विधीयते । एवम् सति

अनेकोपासनविधानकृतवाक्यभेदशङ्काया नावकाश इति सर्वम् समञ्जसम् ।

      अस्मिन् पादे *जन्माद्यस्य यत*(ब्र.सू.१-१-२) इत्यादिषु सद्ब्रह्मात्मादिसामान्यशब्दैः जगत्कारणम् प्रकृति पुरुषाभ्यामर्थान्तरमिति साधितम्। *ज्योतिश्चरणाभिधानादि*(ब्र.सू.१-१-२५)त्यस्मिन् सूत्रे पुरुषसूक्तोदितो महापुरुषो जगत्कारणमिति विशेषतो निर्णीतम् । स एव प्रज्ञातजीव-वाचिभिरिन्द्रादिशब्दैः क्वचित् शास्त्रदृष्ट्या तच्छरीरकतया उपास्यत्वाय उपदिश्यत इति *शास्त्रदृष्ट्या तूपदेशो वामदेववत्*(ब्र.सू.१-१-३१) *उपासा- त्रैविध्यादि*(ब्र.सू.१-४-१७)ति सूत्रितम् । ननु पुरुषसूक्तेनैव सकलचेतना-चेतनप्रपञ्चविलक्षणः सर्वजगत्कारणभूतः परमपुरुषः परम्ब्रह्मेति सिद्ध्ये-तेति किमर्थोऽयम् कारणत्वायोगव्यवच्छेदार्थः । उच्यते – श्रुत्यन्तरेषु पुरुषोत्तमजगत्कारणत्वनिर्धारणम् सम्शयसहिष्णिवति तदृढीकरणाय

अयोगव्यवच्छेदार्थोऽयम् विचार इति न वैयर्थ्यशङ्का ।।

 

इति इन्द्रप्राणाधिकरणम् ।।

 

इति श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमस्याध्यायस्य प्रथमःपाद ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.