॥श्रीः॥
॥श्रीभूमिदेवीसमेतश्रीनिवासपरब्रह्मणे नमः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया ।
अञ्जनाचलश्रृङ्गारमञ्जलिर्मम गाहताम् ॥
जिज्ञासाधिकरणम् ॥ 1 ॥
अथातो ब्रह्मजिज्ञासा।।
”परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं सगुरुमेवाभिग- च्छेत् समित्पाणिश्श्रोत्रि ब्रह्मनिष्ठम्।। तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्।।” अस्मिन्वाक्ये ब्रह्मप्राप्तिसाधनज्ञानेच्छोः” न्यायसिद्धानुवादेन गुरूपसदनं विधीयते । कर्मचितान् – कर्मसञ्चितान् कर्मसम्पाद्यान् । लोकान् । परीक्ष्य – मीमांसान्यायैः निरूप्य । ब्राह्मणः – अधीतसाङ्गसशिरस्कवेदः । य इत्यध्याहार्यम् । स इत्युत्तरत्र श्रवणात् । अकृतः – नित्यः । अत्र पुरुषः विशेष्यः । लिङ्गवशात् अक्षरं पुरुष इत्यनन्तरोक्तेश्च । कृतेन कर्मणा नास्ति – न सिद्ध्यति – न लभ्यते । इति करणम् द्रष्टव्यम् । इति यो निर्वेदमायात् स तद्विज्ञानार्थम् गुरुमेवाभिगच्छेत् । एवकारेण नियमविधित्वमवगम्यते । समित्पाणिः” – न रिक्तपाणिः, ‘ रिक्तपाणिस्तु नोपेया ‘दिति स्मृतेः । श्रोत्रियं श्रुतवेदान्तम् । ब्रह्मनिष्ठं” – ब्रह्मसाक्षात्कारवन्तम् । श्रुतवेदान्तोऽपि रुचिभेदादब्रह्मनिष्ठो नोपगन्त इति भावः । अभिगच्छेदित्यन्वयः” । शमः – बाह्येन्द्रियनियमनरूपः । प्रशान्तचित्तायेति अन्तःकरणनियमनस्य उक्ततया पारिशेष्यात् । एतेन श्रवणोपयुक्तमवधानम् विवक्षितम् । न तु उपासनोपयुक्तात्यन्तेन्द्रियजयादि । तस्मै स विद्वान् प्रोवाचेत्यन्वयः । । येनेति । ज्ञानाभिप्रायः सामान्यतः करणाभिप्रायो वा, लिङ्गव्यत्ययो वा । अक्षरं स्वरूपेणाविकारम् । आभ्यामचिज्जीवव्यावृत्तिः । तां ब्रह्मविद्यां प्रोवाच – प्रब्रूयादित्यर्थः” । तस्मै स विद्वान् प्रोवाचेत्यनन्वयात् अप्राप्तत्वाच्च विधावपि लिटो विधानम् । छन्दसि लुङ्लङ्लिट -इति विधानात्।
एतच्छ्रुत्यर्थं हृदि निधाय भगवान् बादरायणः शास्त्रारम्भे अथातो ब्रह्मजिज्ञासेति सूत्रं प्रणिनाय । तस्य चायमर्थः । — अथ – षोडशलक्षणकर्मविचारानन्तरम् । अतः — कर्मणामल्पास्थिरत्वाधिगमसहितानन्तस्थिरफलब्रह्मापातप्रतीतेर्हेतोः” । ब्रह्मजिज्ञासा – ब्रह्मविचारः कर्तव्यः । अत्र अधीतसाङ्गसशिरस्कवेदः पुरुषः कर्म ब्रह्म चानन्तस्थिरफलमित्यापाततोऽवगम्य तन्निर्णयाय प्रथमं कर्मविचारे प्रवर्तते । कर्मप्रतिपादनोपक्रमत्वाद्वेदानां कर्मविचारे सति ‘अक्षय्यं” ह वै चातुर्मास्ययाजिनस्सुकृतं भवती ‘त्यादिभिरक्षय्यफलकत्वेन श्रुतानामपि चातुर्मास्यादीनां ‘प्रत्यब्दं” चातुर्मास्यैर्यजेते ‘ति आवृत्तिविधानात्, ततोऽपि बहुवित्तव्ययायाससाध्याश्वमेधविश्व सृडयनादीनामननुष्ठानलक्षणाप्रामाण्यप्रसङ्गात्, तदावृत्तिविधानवैयर्थ्यप्रसङ्गाच्च, चातुर्मास्यादीनामक्षयफलत्वमापेक्षिकमिति निश्चित्य अनन्तस्थिरफलरूपं” ब्रह्म च वेदान्तवाक्यैः आपाततोऽवगम्य तन्निर्णयाय ब्रह्मविचारे प्रवर्तत इति पर्यवसितोऽर्थः। अत्रावृत्तिविधानादिभिः कर्मणामल्पास्धिरफलत्वावगमे उपासनस्यापि आवृत्तिविधात् तज्जन्यमोक्षरूपफलस्यापि अनित्यत्वादिप्रसक्तिपरिहारश्च आवृत्त्यधिकरणे वक्ष्यते । ननु कर्मविचारे सति आवृत्ति-विधानादिभिः” कर्मणामल्पास्थिरफलत्वं प्रतीयतां नाम, वेदान्तवाक्यैरनन्तस्थिरफलं ब्रह्म कथं प्रतीयताम् । सिद्धे ब्रह्मणि व्युत्पत्तिविरहात् व्यवहाराधीनत्वादाद्यव्युत्पत्तिग्रहस्य व्यवहारस्य च कार्यान्वित एव सम्भवात् । तथा हि — गामानयेति वाक्यश्रवणानन्तरं गवानयने प्रवृत्तं प्रयोज्यमुपलभ्य बालो व्युत्पित्सुः इयं गवानयनप्रवृत्तिः गवानयनकार्यतासाद्ध्या गवानयनप्रवृत्तित्वात् मदीयगवानयनप्रवृत्तिवत् इति तदीयकार्यताज्ञानमनुमाय तस्य च ज्ञानस्य शब्दान्वयव्यतिरेकानुविधायितया शब्दजन्यतां निश्चिनोति । ततश्च प्राथमिकव्युत्पत्तिग्रहे शब्दस्य कार्यताज्ञानजनकत्वनिश्चयात् तदुपजीविद्वितीयादिव्युत्पत्तिग्रहोऽपि कार्यविषयक एवेति कार्यान्विते सिद्धार्थे व्युत्पत्तिग्रहासम्भवात् अव्युत्पन्नस्य शब्दस्य अर्थप्रत्यायकत्वासम्भवात् अनन्तस्थिरफलापातप्रतीत्यसम्भवात् ब्रह्मविचारोऽनारभ्य इति पूर्वपक्षः।।
अम्बातातमातुलादिभिश्चन्द्रादीनङ्गुल्या निर्दिश्य, अयं चन्द्रः, इयं गौ,रित्यादिशब्देषु बहुशः प्रयुक्तेषु भूयस्सहचारदर्शी बालः शब्दप्रयोगे तदर्थव्युत्पत्तिं स्वात्मनो दृष्ट्वा तयोःकञ्चिदौत्पत्तिकं सम्बन्धं निश्चिनोति। स एव शक्तिरिति गीयते। ततश्च सिद्धार्थोऽपि व्युत्पत्तिग्रहसम्भवात् अनन्तस्थिरफलापात प्रतीतिसम्भवात् ब्रह्मविचार आरम्भणीय इति सिद्धान्तः कृतः।।
इति जिज्ञासाधिकरणम् ।।