॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥
समन्वयाधिकरणम्।। 4 ||
तत्तु समन्वयात्।।4।।
एवं मानान्तरसिद्धिमूलप्रामाण्यशङ््का निराकृता। अथाफलत्वनिबन्धनतदनारम्भशङ््कानिराकर- णार्थं चतुर्थमिदमधिकरणम्।
अस्य च वाक्यद्वयं विषयः।तदर्थो लिख्यते–ईशावास्ये,सपर्यगाच्छु- क्लमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभूस्स्वयम्भूः याथार्थ्यतोऽर्थान्व्यदधा- च्छाश्वतीभ्यस्समाभ्यः’।पर्यगात्-परितो व्याप्तवान्। शुक्लमित्यादेःलिङ्गव्यत्ययः छान्दसः।शुक्लः-तेजिष्ठः।कायाभावादेव व्रणरहितः। अत एव स्नायुशून्यः। शुद्धः-रागद्वेषादिशून्यः” अपापविद्धश्च। कविः-क्रान्तदर्शी।मनीषी।मनीषा स्रष्टव्यालोचनरूपं ज्ञानम्। परिभूः– -सर्वदेशव्यापनशीलः” स्वयम्भूः-उत्पादकशून्यः। याथार्थ्यतः-परमात्मयाथातथ्यतः।यथापूर्वम्- सत्य त्वेनेतिवार्थः। शाश्वतीभ्यस्समेभ्यः-चिरकालस्थायितया स्वाप्नपदार्थविसदृशान् पदार्थान् व्यदधात्- अकार्षीदित्यर्थः। तलवकारोपनिषदि -”अन्यदेव तद्विदितादथो अविदितादधि।इति शुश्रुम पूर्वेषां” येनस्तद्व्याचचक्षिरे”।ये अस्माकं पूर्वे गुरवः उपादिशन् तत्र ब्रह्म सर्वात्मना अविदितादपि विल- क्षणमिति तेषां वाचं श्रुतवन्तो वयमित्यर्थः।एतदेव प्रपञ्चयति -”यद्वाचानभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते। ”वागादिभिः यदप्रकाश्यं स्वयं वागिन्द्रियप्रकाशकञ्च यद् तदेव ब्रह्म जानीहि।यद्वस्तु इदमिति इदङ््कारगोचरतया हस्तामलकवत् सुविदितया उपासते जनाः” तद्ब्रह्म न भवति । प्राकृतजनोपास्यजगद्विलक्षणं ब्रह्म ।
अत्रैवं पूर्वपक्षः-‘यद्वाचानभ्युदितमि’ति वागादिभिरप्रकाश्यस्य सिद्धरूपत्वेन प्रवृत्तिनिवृत्यन्वयविरहिणो ब्रह्मणस्स्वरूपेणापुरुषार्थत्वात् पुरुषार्थानवबोधिनश्शास्त्रस्य अप्रामाण्यम् । न च मोक्षसाधनब्रह्मध्यानविधिपरत्वेन प्रामाण्यं वक्तुं शक्यम्। असत्यपि ब्रह्मणि तद्ध्यानविधानसम्भवात् न ब्रह्मसद्भावे तात्पर्यमिति ब्रह्मणश्शास्त्रप्रमाणकत्वम् न सम्भवति । न च यथा व्याधकुलसम्वर्धितस्य राजकुमारस्य ‘पिता ते महाभोगशाली राज्यं परिपालयन्नास्त ‘इत्याप्तवाक्यमुपशृण्वतो हर्षो जायते,एवमिहापि पितृस्थानीयो निखिलहेयप्रत्यनीकत्वसर्वज्ञत्व- सत्यसङ््कल्पत्वदयामहोदारत्वाद्यनन्तकल्याणगुणशाली भगवानास्त इति श्रुतिवाक्यश्रोतुर्महाहर्षो भवतीति सिद्धपरवाक्यस्यापि हर्षहेतुत्वेन पुरुषार्थपर्यवसायित्वमुपपद्यत इति वाच्यम् ।तस्य हर्षस्य राजकुमारहर्षस्येव स्थिरपुषार्थत्वाभावापत्तेः। न च तत्प्राप्त्युपायमन्विष्य पश्चात् ब्रह्मप्राप्त- स्य तदीयनिरतिशयानन्दानुभवः पुरुषार्थ इति वाच्यम् । परकीयानन्दज्ञानस्य परं प्रत्यपुरुषार्थत्वातदिति ।
राद्धान्तस्तु- मैवं स्वमन्दिरान्तस्थनिधिबोधकवाक्यवत् सिद्धपरवेदान्तवाक्यादपि तादृङ्ब्रह्मबोधोऽस्त्येव। अन्यथा हर्षो नोत्पद्येत । स च ब्रह्मावबोधः स्वात्मनिरतिशयानन्दसाक्षात्कारहेतुः। स च साक्षात्कारः” ब्रह्मणा सह भोगसाम्राज्यसहितःस्थायी पुरुषार्थः। न च तत्र स्वकीयत्वमपेक्षितम् । साक्षात्कारत्वाविशेषेण अतीतसुखादिस्मरणस्यापि सुखसाक्षात्कारवत् पुरुषार्थत्वप्रसङ्गात् तत एवातिप्रसङ्गनिरासे स्वकीयत्वविशेषणानपेक्षणात्। तस्माद्वेदान्ताः निधिबोधकवाक्यवत् स्वतः फलशालिन इति ।
एवं शास्त्रानारम्भमूलशङ््का- चतुष्टयनिराकरणक्रम एव अद्ध्यायक्रमेऽपि हेतुः। तत्र सिद्धरूपे ब्रह्मणि व्युत्पत्तिसमर्थनं समन्व- याद्ध्यायोपयोगी।विशेषणानामनन्तानामविरोधसमर्थनमविरोधाध्यायोपयोगी। अनुमानतस्सिद्धिनिराकरणं साधनाध्यायोपयोगी। अनुमानतस्सिद्धौ हि ज्ञानचिकीर्षादिगुणवत्तया सङ्ख्यादिगुणपञ्चकवत्तया च ब्रह्मोपासनं सिद्ध्येत्। न त्वानन्दादिगुणवत्तया । पुरुषार्थपर्यवसानं तु फलाद्ध्यायोपयोगीति स्पष्टमेव।
इति समन्वयाधिकरणम्।।