॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः
इन्द्रियाद्यधिकरणम् ॥ ७ ॥
किम् सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विशये जीवोपकरणत्वाविशेषात् प्राणशब्दवाच्यत्वाविशेषाच्च मुख्यप्राणाश्चेन्द्रियाणीति पूर्वपक्षे प्राप्त उच्यते –
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ २-४-१५ ॥
त एव वागादय इन्द्रियाणि नतु श्रेष्ठप्राणः । ततः श्रेष्ठप्राणादन्यत्रैव इतरेष्वेव *इन्द्रियाणि दशैकञ्चे*(गी.१३-५)तीन्द्रियत्वव्यपदेशात् । किञ्च भेदश्रुतेः *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे*(मुण्ड.२-१-३)ति प्राणापेक्षया इन्द्रियाणाम् भेदव्यपदेशात् न श्रेष्ठः प्राण इन्द्रियम् । न च तत्रैव *मनस्सर्वेन्द्रियाणि चे*(मुण्ड.२-१-३)ति मनसोऽपि भेदव्यपदेशादिन्द्रियत्वाभावशक्यशङ्क्यः । *मनष्षष्ठानीन्द्रियाणि*(गी. १५-७) *इन्द्रियाणि दशैकञ्चे*(गी.१३-५)त्यादीनाम् मनस इन्द्रियान्त-र्भावग्राहकप्रमाणानाम् परोक्तरीत्या *गामग्निम् ब्राह्मणम् चैव त्रीणि तेजाम्सि न स्पृशेदि* त्यत्र अतेजोभ्याम् गोब्राह्मणाभ्याम् तेजस्सङ्ख्यापूरणवत्, *वेदानध्यापयामास महाभारतपञ्चमानि* त्यादाववेदेन भारतेन वेदसङ्ख्यापूरणवच्च अनिन्द्रियेण मनसेन्द्रिय-सङ्ख्यापूरकतयाऽन्यथासिद्धत्वेऽपि *इन्द्रियाणाम् मनश्चास्मी*(गी.१०-२२)त्यनन्यथासिद्ध प्रमाणसद्भावेन मनस इन्द्रियत्वघ्रौव्यात् मुख्यप्राणे इन्द्रियत्वग्राहकप्रमाणाभावाच्च । अतः *एतस्माज्जायते प्राणो मन-स्सर्वेद्रियाणी*(गी. १५-७) ति श्रुतौ प्राणे न गोबलीवर्दन्यायावतारः मनसि तु तदवतारोऽस्त्येवेति द्रष्टव्यम् ।
भेदश्रुतेर्वैलक्षण्याच्च ॥ २-४-१६ ॥
*त एतस्यैव सर्वे रूपमभवन्नि* ति चक्षुरादीन्द्रियाणाम् तदधीनप्रवृत्तित्वलक्षण कार्यवैलक्षण्यदर्शनाच्च इन्द्रियेभ्यो भिन्न एव प्राण इति ॥
इति इन्द्रियाधिकरणम् ॥