॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः
(पे-२) सञ्ज्ञामूतिक्लृप्त्यधिकरणम् ॥ ८ ॥
*अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी*(छान्.६-३-२)ति स्वाम्शत्वेनात्मभूतस्य जीवस्यैवानुप्रवेशव्याकरणकर्तृत्वाभिधानात् परदेवतायाः स्वेन रूपेणानुप्रवेशानुक्तेः, हिरण्यगर्भस्य नामरूपव्याकर्तृ-त्वस्य पुराणादिषु प्रसिद्धत्वात्, परमात्माम्शभूतो हिरण्यगर्भ एव प्रवेशनामरूप व्याकरणयोः कर्ता । नचैवम् *व्याकरवाणी*(छान्.६-३-२) ति परमात्मनोऽभिसन्धिर्नोपपद्यत इति वाच्यम् । जीवसमष्ट्याश्रयस्य प्रवेशव्याकरणकर्तुर्हिरण्यगर्भस्य परमात्माम्शतयाऽत्यन्तभिन्नत्वाभावेन तद्गतनामरूपव्याकर्तृत्वस्य प्रवेशसमानाधिकरणस्य स्वनिष्ठतया परमात्मनोऽनुसन्धानोपपत्तेः प्रयोजककर्तृतयाऽपि *व्याकरवाणी*(छान्. ६-३-४) त्यभिसन्ध्युपपत्तेश्च । यदि पुनः परमात्मनस्साक्षात्कतृत्वाभावो भवेत् तर्हि *अनेन जीवेने*(छान्.६-३-२)त्यनर्थकम् । जीवस्य कर्तृत्वा-भावेन *चारेणानुप्रविश्य परसैन्यम् सङ्कलयानी*तिवत् करणत्व एव तृतीया वाच्या । करणत्वञ्च तदोपपद्यते यदि परमात्मा प्रयोजककर्ता जीवश्च प्रयोज्यकर्ता स्यात् । प्रयोजककर्तुर्हि साक्षात्कर्ता करणम् भवति प्रधानक्रियोद्देशेन प्रयोजकेन प्रयोज्यकर्तुर्व्याप्रियमाणत्वात् । अतः *जीवेने*(छान्.६-३-२)ति करणत्वेन निर्दिश्यमानो जीवस्साक्षात्कर्ते-त्यवसीयते । अतस्तेजोबन्नानि प्रविश्य हिरण्यगर्भ एव नामरूपे व्याकरोति । अतो हिरण्यगर्भकर्तृकैव नामरूपव्याक्रियेति पूर्वपक्षे प्राप्त उच्यते –
सञ्ज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २-४-१७ ॥
सञ्ज्ञामूर्तिक्लृप्तिः – नामरूपव्याकरणम् त्रिवृत्करणम् कुर्वतः परमात्मन एव न हिरण्यगर्भस्य । *अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् । तासाम् त्रिवृतम् त्रिवृतमेकैकामकरोदि*(छान्.६-३-४)ति त्रिवृत्करणनामरूपव्याकरणयोस्समानकर्तृकत्वावगमात् । न च त्रिवृत्करणम् हिरण्यगर्भकर्तृकम् सम्भवति । हिरण्यगर्भस्य त्रिवृत्कृत-तेजोबन्नोत्पादितब्रह्माण्डसृष्टत्वावेदनेन तस्य त्रिवृत्करणकर्तृत्वासम्भवात् । अतो जीवसमष्टिशरीरकस्सन् परमात्मा नामरूपे व्याकरोदिति सिद्धम् । *अनेन जीवेनात्मनाऽनुप्रविश्ये*(छान्.६-३-२)त्यस्योपपत्तिस्तु तद्वाक्यविवरणदशायामेवोक्ता तत्रैवानुसन्धेया ।
ननु *यदग्ने रोहितम् रूपम् तेजसस्तद्रूपम्*(छान्.६-४-७), *अन्नमशितम् त्रेधा विधीयत*(छान्.६-५-१) इत्युत्तरत्र चतुर्मुखसृष्टा-ग्न्यादिषु त्रिवृत्करणप्रकारप्रदर्शनात् त्रिवृत्करणमपि चतुर्मुखकर्तृक-मेवेत्यत्राह –
माम्सादिभौमम् यथाशब्दमितरयोश्च ॥ २-४-१८ ॥
यदुक्तमण्डस्रष्ट्युत्तरकालम् चतुर्मुखस्रष्टदेवादिविषयोऽयम् *तासाम् त्रिवृतम् त्रिवृतमेकैकाम करोदि*(छान्.६-३-४)ति त्रिवृत्करणोपदेश इति तन्नोपपद्यते । “अन्नमशितम् त्रेधा विधीयते*(छान्.६-५-२) इत्यत्र माम्समनसोः पुरीषादणुत्वेनाणीयस्त्वेन च व्यपदिष्टयोराप्यत्वतैजसत्वप्रसङ्गात् । यद्यदपेक्षया सूक्ष्मम् तत्तस्य कारणम् । अत एव हि पार्थिवाप्यतैजसानामुत्तरोत्तरसूक्ष्मतयोत्तरोत्तर-कारणत्वम् । ततश्च पुरीषस्य स्थविष्टत्वात्पार्थिवत्वम् ततस्सूक्ष्मस्य माम्सस्याप्यत्वम् ततोऽणिष्ठस्य मनसस्तैजसत्वमभ्युपगन्तव्यम् । तथा *आप: पीता*(छान्.६-५-२) इत्यत्रापि स्थविष्ठस्य मूत्रस्य पार्थिवत्वम् मध्यमस्य लोहितस्याप्यत्वम् ततोप्यणीयसः प्राणस्य तैजसत्वमभ्यु-पगन्तव्यम् । तथा *तेजोऽशितमि*(छान्.६-५-२)त्यत्रापि स्थूल-स्यास्थ्नः पार्थिवत्वम् मध्यमाया मज्जाया आप्यत्वम् अणिष्ठाया वाचस्तैजसत्वमभ्युपगन्तव्यम् । न चैवमिष्यते प्रथमपर्याये पुरीष-वन्माम्समनसी अपि पार्थिवे एव प्रतिपाद्येते । *अन्नमशितम् त्रेधा विधीयते*(छान्.६-५-२) इति प्रक्रमात् । तथा द्वितीये पर्याये मूत्र-लोहितप्राणानामब्विकारत्वम् प्रतिपाद्यते । तृतीयपर्याये अस्थिमज्जा-वाचाम् तेजोविकारत्वमेव प्रतिपाद्यते । अतः *तासाम् त्रिवृतम् त्रिवृमेकैकामकरोदि*(छान्.६-३-४)त्युक्तत्रिवृत्करणप्रकारः अन्नमशित-मित्यादिनाऽनुप्रदर्श्यते । तथा सति हि मनः प्राणवाचाम् तिसृणामपि अणीयस्त्वेन *अन्नमयम् हि सोम्य मन आपोमयः प्राणस्तेजोमयी-वागि*(छान्.६-५-२)ति विरुध्येत । अतः प्रागेव त्रिवृत्कृतानाम् पृथिव्यादीनाम् पुरुषम् प्राप्तानाम् *अन्नमशितमि*(छान्.६-५-२)त्यादिना एकैकस्य त्रेधा परिणाम उच्यते । अण्डसृष्टेः प्रागेव तेजोबन्नानाम् त्रिवृत्करणेन भवितव्यम् । अत्त्रिवृत्कृतानाम् तेषाम् कार्यारम्भा-सामर्थ्यात् । अन्योन्यसम्युक्तानामेव हि कार्यारम्भसामर्थ्यम् तदेव च त्रिवृत्करणम् । तथा च स्मर्यते – *नानावीर्याः पृथग्भूतास्ततस्ते सम्हतिम् विना । नाशक्नुवन् प्रजास्स्रष्टुमसमागत्य कृत्स्नशः ॥ समेत्यान्योन्यसम्योगम् परस्परसमाश्रयाः । महदाद्याविशेषान्ता ह्यण्डमुत्पादयन्ति ते*(वि.पु.१-२-५२-५३) इति । अत एव च *अनेन जीवेनात्म नानुऽप्रविश्य नामरूपे व्याकरोत् तासाम् त्रिवृतम् त्रिवृत-मेकैकामकरोदि*(छान्.६-३-४)ति पाठक्रमोऽप्यर्थक्रमेण बाध्यते । अण्डान्तर्वर्त्यग्न्यादिषु त्रिवृत्करणप्रदर्शनम् तु श्वेतकेतोश्शुश्रूषो-रण्डातर्वर्तित्वेन तस्य बहिष्ठवस्तुषु त्रिवृत्करणप्रदर्शनायोगात् त्रिवृत्कृतानाम् कार्येष्वग्न्यादिषु त्रिवृत्करणप्रदर्शनम् कृतमित्यविरोधः ।
नन्वण्डान्तर्गतानाम् सर्वेषाम् त्रिवृत्कृततेजोबन्नरूपत्वे व्यवस्थित-तेजोबन्नव्यवहारः कथम् स्यादित्यत्राह –
वैशेष्यात्तु तद्वादस्तद्वादः ॥२-४-१९॥
पृथिव्यम्शानाम् भूयस्त्वे पृथिवीव्यवहारः । जलाम्शानाम् भूयस्त्वे जलव्यवहार इति व्यवहारव्यवस्थोपपद्यत इत्यर्थः । *तद्वादस्तद्वाद* इति सूत्रे द्विरुक्तिरध्यायसमाप्तिद्योतनार्था ॥
इति सञ्ज्ञामूर्तिक्लृप्त्यधिकरणम् ॥ ८ ॥
***************
इति श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयोऽध्यायः ॥