॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः
ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥
जीवस्य यत्स्वभोगसाधनशरीराद्यधिष्ठातृत्वम् न तत्परमात्मायत्तमिति पूर्वपक्षे प्राप्त उच्यते –
ज्योतिराद्यधिष्ठानम् तु तदामननात्प्राणवता
शब्दात् ॥ २-४-१३ ॥
प्राणवता जीवेन सह ज्योतिरादीनाम् अग्न्यादिदेवतानाम् यत्प्राण-विषयमधिष्ठानम् जीवेनाग्न्यादिदेवताभिश्च क्रियमाणम् प्राणकर्मकाधि-ष्ठानम् यत् तत् तदामननात् तस्य परमात्मन आमननात्मसङ्कल्पादेव भवति । *योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निश्शरीरम् योऽग्निमन्तरो यमयति*(बृह.५-७-५) *य आत्मनि तिष्ठन्नि*(बृह.५-७-५-२२)त्यादि शब्दात् ॥
तस्य च नित्यत्वात् ॥ २-४-१४ ॥
सर्वेषाम् परमात्माधिष्ठितत्वस्य यावत्स्वरूपभावित्वाच्चेति स्थितम् ॥
इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥