॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
अक्षराध्यधिकरणम् ॥१४॥
*एतद्वै तदक्षरम् गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमि* (बृह.५-८-८)त्यादिनिर्दिष्टाः अक्षरसम्बन्धिनः अस्थूलत्वादयः प्रपञ्च-प्रत्यनीकतारूपाः सर्वकर्मत्वसर्वकामत्वादिवत् सर्वासु परविद्यासु नोप-सम्हर्तव्याः उपसम्हारे प्रमाणाभावात् । न च स्वरूपनिरूपकाणाम् सत्यत्वज्ञानत्वादिधर्माणाम् सर्वपरविद्योपसम्हारस्य *आनन्दादयः प्रधानस्ये*(ब्र.सू.३-३-११)त्यधिकरणसिद्धत्वात्तद्वेदेवास्थूलादिकम् किन्न स्यादिति चेन्न । सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपस्यैव प्रत्येतुम-शक्यतया सत्यत्वादेस्सर्वविद्योपसम्हारेऽप्यस्थूलत्वादीनामभावरूपाणाम् *लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यत* इति न्यायेन ब्रह्मप्रतीत्यनन्तरभाविप्रतीतिकानाम् ब्रह्मस्वरूपप्रतीत्युपयोगित्वाभावेन सर्वपरविद्योपसम्हारे प्रमाणाभावादिति प्राप्त उच्यते –
अक्षरधियाम् त्ववरोधस्सामान्यतद्भावाभ्यामौपसदव
त्तदुक्तम् ॥३-३-३३॥
अक्षरब्रह्मसम्बन्धिनीनामस्थूलत्वादिधियाम् सर्वासु परविद्यास्वविरोधः – सङ्ग्रहणम् कर्तव्यम् । कुतः सामान्यतद्भावाभ्याम् सर्वेषूपासनेषूपास्य-स्याक्षरब्रह्मणस्समानत्वात् अस्थूलत्वादीनाम् ब्रह्मप्रतिपत्तावन्तर्भावाच्चे-त्यर्थः । यथा सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपम् प्रतिपत्तुमशक्यम् तथा अस्थूलत्वादिकमन्तरेण जीवव्यावृत्तम् ब्रह्मस्वरूपम् सत्यज्ञानादिवाक्यैर्न प्रतिपत्तुम् शक्यम् । सत्यत्वादेः प्रत्यगात्मसाधारणत्वेन प्रत्यगात्मव्यावृत्तत्वाभावात् । स्थूलत्वादिभेदानर्हत्वन्तु न जीवसाधारणम् । ततश्चास्थूलत्वादीनाम् निषेधरूपतया सत्यादिवाक्यजन्यब्रह्मप्रतीत्युप-जीवकत्वेऽपि स्वेतरसमस्तव्यावृत्तब्रह्मस्वरूपप्रतीत्यर्थमस्थूलत्वादिकम् सकलपरविद्योपसम्हार्यमेव ।
इयदामननात् ॥३-३-३४॥
आभिमुख्येन मननम् आमननम् ध्यानमिति यावत् । आमननात् ध्यानाद्धेतोः ध्यानार्थमियदेवापेक्षितम् न सर्वकर्मत्वसर्वकामत्वादिकमपि । तेन विनाऽपि इतरव्यावृत्तब्रह्मस्वरूपस्य प्रत्येतुम् शक्यतया न सर्व-कर्मत्वादेस्सर्वपरविद्योपसम्हारः । अपि तु यत्र प्रकरणे आम्नातम् तत्रैव व्यवतिष्ठते । अस्थूलत्वादिकन्तु सामर्थ्यरूपलिङ्गवशात्सर्वविद्यानुयायि ॥
इति अक्षराध्यधिकरणम् ॥