॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
वेधाद्यधिकरणम् ॥ १० ॥
आथर्वणिकादीनाम् तत्तदुपनिषदारम्भे पठितानाम् *शुक्रम् प्रविध्ये* (आथर्वणिकाः)त्यादीनाम् मन्त्राणाम् *देवासुराह ह वै सत्रम् निषेदुः* (छान्.१-२-१)इत्यादि बृहदारण्यकारम्भपठितब्राह्मणप्रतिपादितप्रवर्ग्यादेश्च कर्मणो लिङ्गादिबलेन अन्यत्र विनियुक्तत्वेऽपि विद्यासन्निधिपाठानर्थ-क्यपरिहाराय विद्यार्थत्वमिति प्राप्त उच्यते –
वेधाद्यर्थभेदात् ॥३-३-२५॥
सन्निधिपाठस्य दिवाकीर्त्यत्वारण्यपाठ्यत्वादिकार्यार्थतयाप्युपपत्तेः बलवद्भिर्लिङ्गादिभिः अभिचाराध्ययनज्योतिष्टोमाद्यर्थत्वावसायात् मन्त्रप्रतिपाद्यस्य वेधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थाद्भेदात् न तत्प्रकाशनद्वारा विद्याशेषत्वम् अपि त्वभिचारादिशेषत्वमिति सिद्धान्तः । अत एव बृहदारण्यके प्रवर्ग्योपसत्परप्रथमद्वितीयाध्याययोर्विद्यासन्निधौ पाठेऽपि न विद्यार्थत्वम् । ननु *उषा वा अश्वस्य मेध्यस्ये*(बृह.३-१-१) त्यादिमन्त्राणामश्वमेधादिकर्मविषयत्वेन विद्यार्थत्वाभावात् कथम् ब्रह्मोपनिषद्भागसङ्गतिरिति चेत् ब्रह्मदृष्टिविधिरूपतया ब्रह्मात्मकप्रतिपादनपरतया च यथाकथञ्चित् ब्रह्मसम्बन्धित्वेन तत्साहित्योपपत्तेः । अत एवाश्वमेधब्राह्मणादेश्च तत्सङ्गतिरिति द्रष्टव्यम् ॥
इति वेधाद्यधिकरणम् ॥