॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
कामाद्यधिकरणम् ॥ १६ ॥
*य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान*(बृह.४-१-१७) इति आकाशशयानत्ववशित्वादिगुण- विशिष्टतयोपास्यः छान्दोग्यदहरविद्याप्रतिपादितापहतपाप्मत्वादि-गुणाष्टकविशिष्टाकाशाद्भिन्नः । अतो रूपभेदाद्विद्याभेद इति पूर्वपक्षे प्राप्तेऽभिधीयते ।
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३-३-३८ ॥
तत्र चेतरत्र च स्थलद्वयेऽपि कामादिविशिष्टम् ब्रह्मैवोपास्यम् । हृदयायतनत्व सेतुत्वविधरणत्वदिभिर्विद्यैक्यप्रत्यभिज्ञानात् वाजसनेयक-श्रुतवशित्वादीनाम् छान्दोग्यश्रुतसत्य सङ्कल्पत्वविततिरूपतया रूपभेदा-भावात्, *परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत* (छान्.८-१२-१) इति *अभयम् वै ब्रह्म भवती*(बृह.६-४-२५)ति चोभयत्रापि ब्रह्मप्राप्ति-रूपफलसम्योगाविशेषाच्च । इयाम्स्तु विशेषः – छान्दोग्ये दहराकाशे परमात्मधर्मसद्भावात् आकाशशब्दितस्य परमात्मत्वम् न भूताकाशत्वम् । वाजसनेयके तु आकाशे शयान एव परमात्मलिङ्गसद्भावात् शयान-स्यैव परमात्मत्वम् आकाशस्य तु भूताकाशत्वमिति ।
ननु *नेह नानास्ति किञ्चन*(बृह.६-४-२९) *एकधैवानुद्रष्टव्यमेत-दप्रमेयम्*(बृह.६-१४-१९) *स एष नेति नेती*(बृह.६-१४-१९)त्यादिपूर्वो-त्तरवाक्यैः निर्गुणमेवेह ब्रह्म प्रतिपाद्यते छान्दोग्ये तु सगुणम् । अतो निर्गुणसगुणब्रह्मविद्ययोरैक्यासम्भवात् वाजसनेयकश्रुतमोक्षार्थनिर्गुणो-पासने गुणानाम् लोप एवेत्यत्राह –
आदरादलोपः ॥३-३-३९॥
वाजसनेयकेऽपि *सर्वस्य वशी सर्वस्येशानः एष सर्वेश्वर एष भूता-धिपतिरेषभूतपाल*(बृह.६-४-२२) इति भूयो भूयो गुणोपदेशाद्गुणेष्वादरः प्रतीयते । अतो वाजसनेयकश्रुतदहरविद्याया अपि सगुणत्वादेव न गुणानाम् लोपः कार्यः । *नेह नाने*(बृह.६-४-२९)त्यादिनिषेधानामब्रह्मा- त्मकनिषेधपरत्वेन विहितगुण निषेधपरत्वाभावात् । ननु छान्दोग्ये *तद्य इहात्मानमनुविद्य व्रजन्त्येताम्श्च सत्यान् कामान्स्तेषाम् सर्वेषु लोकेषु कामचारो भवती*(छान्.८-१-६)ति छान्दोग्यदहरविद्यायास्सर्व-लोककामचारलक्षणसम्सारिक फलसम्बन्धः प्रतीयते । वाजसनेयके तु *अभयम् वै ब्रह्म भवती*(बृह.६-४-२५)ति मुक्तिफलकत्वम् । अतो नानयोर्विद्ययोरैक्यमित्यत्राह –
उपस्थितेऽतस्तद्वचनात् ॥ ३-३-४० ॥
उपस्थिते – ब्रह्मोपसम्पन्ने प्रत्यगात्मनि, अतः उपसम्पत्तेरेव हेतोः सर्वलोककामचारः श्रूयते *परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येतितस्य सर्वेषु लोकेषु कामचारो भवती* (छान्.८-१२-२)ति । सर्वबन्धनविनिर्मुक्तानुभाव्यफलतया हि सर्वलोक-कामचारः श्रूयते । अतः छान्दोग्यगतदहरविद्याऽपि मुक्तिफलैव अतो न विद्याभेद इति तत्र स्थितम् ।
*एतेन वाजसनेयकगतहार्दविद्या निर्गुणविद्येति वदन्तः परे प्रत्युक्ताः । तथा हि सति छान्दोग्यसगुणहार्दविद्यैक्यसमर्थनस्य च परस्परगुणोप-सम्हारसमर्थनस्य चासङ्गतिप्रसङ्गात् । न च निर्गुणायामपि विद्यायाम् ब्रह्मस्तुत्यर्थमेव सगुणविद्यासम्बन्धिगुणोपसम्हारस्सम्भवतीति वाच्यम् । निर्गुणस्योत्कृष्टस्य परस्य ब्रह्मणस्सगुणत्वरूपापकर्षप्रतिपादनेन निन्दाया एव प्रतीयमानतया स्तुतेरप्रतीतेः । अत एव *व्यतिहारो विशिम्षन्ती* (ब्र.सू.३-३-३८)ति सूत्रे वस्तुतो निर्गुणत्वादिति परैरेव सगुणत्वे अपकर्षमङ्गीकृत्य तस्याः अवास्तवत्वेन परिहारस्य कृतत्वात् । किम् च लोके हि स्तुतिर्विधेये रुच्युत्पादनेन सप्रयोजना । न चात्र निर्गुणस्य तज्ज्ञानस्य वा विधेयत्वमस्ति । प्रतिपाद्ये च निर्गुणे ब्रह्मणि सगुणत्व-प्रतिपादनलक्षणास्तुतिश्च निर्गुणप्रतिपत्तिलक्षणशेषिविरुद्धा । अतः *कामादीतरत्रे*त्यधिकरणे परेषाम् विद्यैक्यगुणोपसम्हाराभिलपनम् दुरुपपादति यत्किञ्चिदेतदित्यास्तान्तावत् ।
यच्चेदमुच्यते निर्गुणवाक्यसन्निधिपठितस्य *सर्वस्य वशी*(बृह.६-४-२२)त्यादिगुणगणसमर्पकवाक्यस्य निषेध्यानुवादकतयैकवाक्यत्व-सम्भवे वाक्यभेदेन गुणप्रापकता न युक्तेति तत्र ब्रूमः – तावद्वशित्वा-दीनाम् गुणानामन्यतोऽप्राप्तेः श्रुतिप्राप्तस्य श्रुत्या निषेधे अहिम्सावाक्य-मग्नीषोमीयहिम्साया, अग्रहणवाक्यञ्च षोडशीग्रहणस्य *असद्वे*(तै.-आन.२-७-१)त्यादिवाक्यञ्च ब्रह्मसत्त्वस्य, निषेधकम् किन्न स्यात् । किम् च – *मृडमृदे*(अष्टा.१-२-६)त्यादिविधिः *नित्याने* त्यादि- निषेधस्येव सगुणवाक्यमेव निर्गुणत्वनिषेधकम् किन्न स्यात् । न च जगत्कर्तृत्वाक्षिप्तसार्वज्ञ्यादिगुणाः निषेधाय अनूद्यन्त इति वक्तुम् शक्यम् । तथा सति जगदारोपाधिष्ठानत्वेन कुसमयसिद्धम् ब्रह्मसत्त्वम् *असद्वा इदमग्र आसीदि*(तै.आन.२-७-१)ति निषेद्धुम् *सत्यम् ज्ञानमनन्तमि* (तै.आन.१.अनु)त्यनूद्यते ज्ञाननिवर्त्यत्वश्रुत्याक्षिप्तम् विश्वमिथ्यात्वम् *नेह नानास्ती*(बृह.६-४-१९)त्यनूद्यते *विश्वम् सत्यम् मघवाना* इति वाक्येन प्रतिषेद्भुमिति किम् नस्यात् । सत्यत्वम् हि मिथ्यात्वप्रतिषेध एव । *आत्मैवेदम् सर्व*(छान्.७-२५-२)मिति वाक्यप्राप्तो जीवब्रह्माभेदः *तत्वमसी*(छान्.६-८-७)त्यनूद्यते *द्वासुपर्णे*(मुण्ड.३-१-१(श्वेत.४-६))ति निषेद्धुमिति च किन्न स्यात् । *नेह नानास्ति किञ्चने*(बृह.६-४-१९)ति वाक्ये किञ्चनेत्यनेनैव निषेध्यसमर्पणस्य सिद्धतया निषेध्यसमर्पणाय *एष सर्वेश्वर*(बृह.६-४-२२) इत्यादीनामनपेक्षितत्वाच्च । नहि *न सुराम् पिबेदि*(काठक सम्.१२-१२)त्यत्र निषेध्यसमर्पणाय *सुराम् पिबेदि*ति वाक्यान्तर-मपेक्षितम् । वशित्वादीनाम् निषेधार्थमनुवादे *स न साधुना कर्मणा भूयानि*(बृह.६-४-२२)ति निषेध्यानाम् कर्मकृतोत्कर्षादीनामिव ब्रह्मणि तेषाम् व्यावहारिक सत्यत्वस्याप्यभावप्रसङ्गात् ।
यच्चेदमुच्यते सगुणनिर्गुणवाक्यविरोधे परत्वेन निर्गुण-वाक्येनापच्छेदन्यायेन सगुणवाक्यम् बाध्यत इति तदेतत्सकलजन-विदितसामान्यविशेषन्यायानभिज्ञानात् *को हि मीमाम्सको ब्रूयाद्विरोधे शास्त्रयोर्मिथः एकम् प्रमाणमितरत्त्वप्रमाणम् भवेदि*ति । लोके हि सामान्यम् विशेषेण, सावकाशम् निरवकाशेन, नित्यम् नैमित्तिकेन, नैमित्तिकम् काम्येन, अतिदिष्टमुपदिष्टेन बाध्यमानमपि स्वोचितसत्य-वस्तुसमर्पणेन सम्भावनीयम् दृष्टम् न तु मिथ्याभूतवस्तुविषयकतया । ततश्च सगुणवाक्यस्य मिथ्याभूतवस्तुविषयसमर्पणेन सम्भावनाम् कुर्वन् कथन्नोपहास्यः । अतोऽत्रापच्छेदनयानवतारादुत्सर्गापवादनयेन निषेधस्य विशिष्यविहितेतरगुणविधित्वस्य वक्तव्यत्वात्, उपाध्य-नुक्तिपूर्वकमुक्तानाम् गुणानाम् निरुपाधिकत्वस्य स्वतः प्राप्तत्वात् *स्वाभाविकी ज्ञानबलक्रिया चे*(श्वेत.६-८)ति स्वाभाविकत्वश्रुतेः *नान्यो हेतुर्विद्यत ईशनाये*(श्वेत.६-१७)ति ईश्वरत्वस्याहेतुकत्वश्रवणात्, *सत्य-स्सोऽस्य महिमेति* च *सत्यकामा* इति च तेषाम् गुणानाम् सत्यत्वस्यापि प्रतिपादनात् तेषाम् मानान्तराप्राप्तानाम् निषेधार्थमनुवाद इत्यप्यसम्भवात्, क्वचिद्गुणानामुपास्यत्व श्रवण-मात्रेणासत्यत्वे *उत्तरस्मिन्स्तापनीये शैब्यप्रश्नेऽथकाठके । माण्डूक्यादौ च सर्वत्र निर्गुणोपास्तिरीरिते* ति परैरप्युपास्यत्वेनाभ्युपगतस्य निर्गुणस्याप्यसत्त्वप्रसङ्गाच्च । *यस्सर्वज्ञस्सर्वविदि*(मुण्ड.१-१-९)ति स्वरूपोपदेशपरवाक्येषूपासनाविध्यश्रवणेऽपि गुणानाम् श्रवणाच्च । *तमेवम् विद्वानमृत इह भवती*(पुरुषसूक्तम्.१७)ति सगुणज्ञानस्य मोक्षहेतुत्वश्रवणेन च गुणानाम् सत्यत्वमवश्याभ्युपगन्तव्यम् । गुणनिषेधश्रुतयस्तु अध्यात्मशास्त्रे गुणशब्दवाच्यत्वेन प्रसिद्धसत्वादि-गुणनिषेधपरा इत्येवाभ्युपगन्तव्यम् । *कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणाः*(वि.पु.), *न हि तस्य गुणास्सर्वे सर्वैर्मुनिगणैरपि । वक्तुम् शक्या वियुक्तरय सत्त्वाद्यैरखिलैर्गुणैः*(वि.पु.) *नान्तम् गुणानाम् गच्छन्ति तेनानन्तोऽयमीरितः*(वि.पु.) *तवानन्तगुणस्यापि षडेव प्रथमे गुणाः*(वि.पु.) *वर्षायुतैर्यस्य गुणा न शक्या वक्तुम् समेतैरपि सर्वलोकैः । महात्मनश्शङ्खचक्रासिपाणेर्विष्णोर्जिष्णोर्वसु-देवात्मजस्य*(वि.पु.) *चर्तुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैकमम्शम् वदेन्न वा देववर प्रसीद* (वि.पु.) *यथा रत्नानि जलधेरसङ्ख्येयानि पुत्रक । तथा गुणाह्यनन्तस्य असङ्ख्येया महात्मनः*(शिवगुहसम्वादेः) *इषुक्षयान्निवर्तन्ते नान्तरि-क्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्*(वि.पु.) *समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः । इच्छा-गृहीताभिमतोरुदेह स्सम्साधिताशेषजगद्धितोऽसौ*(वि.पु.६-५-८४) ॥ तेजो बलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः । परः पराणाम् सकला न यत्र केलशादयस्सन्ति परावरेशे*(वि.पु.६-५-८५) इत्यादि-प्रमाणानामनाञ्जस्यमेव परमते । उक्तञ्च वरदाचार्यैः – *यद्ब्रह्मणो गुणशरीरविकारभेदकर्मादिगोचरविधिप्रतिषेधवाचः । अन्योन्यभिन्न- विषया नविरोधगन्धमर्हन्ति तन्न विधयः प्रतिषेधबाध्या*(तत्वसारः ६९) इति ।
अनयैवदिशा अन्तर्यामिब्राह्मणादिषु *य आत्मनि तिष्ठन्नि*(बृह. (माध्यम्).५-७-२२)त्यादिवाक्यैर्जीवब्रह्मणोर्नियन्तृ नियाम्यभावलक्षणस्य भेदस्य विहितत्वात् निषेधस्य तदितरविषयत्वस्यैव युक्तत्वात् समस्त-हेयरहितस्य ब्रह्मणो हेयाश्रयजीवैक्यस्यायुक्तत्वात् हेयस्यापारमार्थ्येऽपि तस्य निरसनीयतया हेयत्वस्यावर्जनीयत्वात् तत्प्रतिभटतयोक्तस्य ब्रह्मणस्तत्सम्बन्धावहवस्त्वैक्यासम्भवात्, सर्वज्ञस्य ब्रह्मणः स्वसङ्कल्पेन स्वगतहेयस्य तद्विषयविभ्रमस्य वोपादानायोगात् असर्वज्ञत्वे सर्वज्ञश्रुतिविरोधात्, सर्वशक्तेः स्वगतहेयानिवारकत्वायोगात्, *पृथगात्मानम् प्रेरितारञ्च मत्वेति*(श्वेत.१-६)ति पृथक्त्वज्ञानस्य मोक्ष-हेतुत्वावेदनात् *यस्मात्क्षर मतीतोऽहमि*(गी.१५-१८)त्युक्तवैलक्षण्य-ज्ञानवत एव *असम्मूढस्समर्त्येष्वि*(गी.१०-३)ति असम्मूढत्वप्रति-पादनात् जीवब्रह्मणोर्नियन्तृनियाम्यभावलक्षणभेदस्य मानान्तराप्राप्तत्वात् विहितस्य निषेधायोगात्, उपासनार्थत्वाश्रयणस्य *अथ योऽन्याम् देवतामुपास्त*(बृह.३-४-१०) इति वाक्यप्रतिपन्नैक्येऽपि सम्भवात् ऐक्यस्य स्वरूपोपदेशवाक्यप्रतिपन्नत्ववत् स्वरूपोपदेशपरान्तर्यामि- ब्राह्मणप्रतिपाद्यत्वस्य नियन्तृनियाम्यभावलक्षणभेदेऽपि सत्त्वाच्च । भेदनिषेधश्रुतयस्तु पृथक्सिद्धत्वलक्षणाब्रह्यात्मकभेदनिषेधपरा इत्येव स्थितमित्यलम् प्रसक्तानुप्रसक्तया ॥
इति कामाद्यधिकरणम् ॥