॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
अनियमाधिकरणम् ॥ १३ ॥
उपकोसलविद्यायाञ्चार्चिरादिगतेः पाठात् यस्याम् विद्यायामर्चि-रादिगतिः श्रूयते तन्निष्ठानामेवार्चिरादिगत्या ब्रह्मप्राप्तिः नान्येषाम् । न च *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते*(छान्.५-१०-१) *श्रद्धाम् सत्यमुपासत*(बृ.५-२-१५) इति सर्वब्रह्मविद्या-साधारण्यम् श्रुतमिति वाच्यम् । तथासत्युपकोसलविद्यायामर्चिरादिगति-श्रुतिवैयर्थ्यप्रसङ्गादिति पूर्वपक्षे प्राप्ते उच्यते –
अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥३-३-३२॥
सर्वेषाम् सर्वोपासननिष्ठानामर्चिरादिमार्गेणैव गन्तव्यत्वात् एतद्विद्या-निष्ठानमेवेति नियमो नास्ति । तथा हि नियमे सति *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते*(छान्.५-१०-१) *श्रद्धाम् सत्यमुपासते*(बृ.५-२-१५) *अग्निर्ज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना*(गीता.८-२४) इति श्रुतिस्मृतिभ्याम् विरोधप्रसङ्गः । उपकोसलविद्यायाम् पुनराम्नानन्तु *ये चेमेऽरण्ये श्रद्धा तप इत्युपासत*(छान्.५-१०-१) इति पञ्चाग्निविद्यावाक्यप्राप्तसर्वब्रह्म-विद्यासाधारणार्चिरादिगतेरपुनरावृत्ति विधानार्थमनुवाद इति ।
इति अनियमाधिकरणम् ॥