॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
पुरुषविद्याधिकरणम् ॥ ९ ॥
*तस्यैवम् विदुषो यज्ञस्यात्मा यजमान*(तै.महाना.५२ अनु) इति श्रुतायाः पुरुषविद्याया: *पुरुषो वा व यज्ञ*(छान्.३-१५-१) इति छान्दोग्यश्रुता पुरुषविद्या न भिन्ना पुरुषविद्येति समाख्यैक्यात् पुरुष-सन्बन्धिषु यज्ञावयवत्वकल्पनासामान्यात् मरणावभृथसाम्याच्चेति पूर्वपक्षे प्राप्त उच्यते –
पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३-३-२४ ॥
उभयत्राम्नातयोः पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव कुतः ? इतरेषा-मनाम्नात् । *यत्सायम् प्रातर्मध्यन्दिनम् च तानि सवनानि*(तै.महा. ना.८ अनु) इत्यादिना तैत्तिरीयाम्नातानाम् छान्दोग्ये अनाम्नानात् त्रेधाविभक्तपुरुषायुषस्यैव छान्दोग्ये सवनत्वेनाभिधानात् छान्दोग्यश्रुता-शिशिषादीक्षादित्वपरिकल्पनस्य तैत्तिरीयकेऽदर्शनात् यजमानपत्न्यादि-परिकल्पनानाम् च भिन्नभिन्नत्वात् छान्दोग्ये *पुरुषो वा व यज्ञ* (छान्.३-१५-१) इति श्रुतस्य पुरुषस्य यज्ञत्वपरिकल्पनस्य तैत्तिरीयके-ऽदर्शनाच्च विद्याभेद एव । नच *तस्यैवम् विदुषो यज्ञस्ये*(तै.महाना. ५२ अनु)त्यत्र षष्ट्यन्तयोस्सामानाधिकरण्याश्रयणेन पुरुषे यज्ञत्व-कल्पनम् तैत्तरीयकेऽप्यस्तीति वाच्यम् । पुरुषस्यैव यज्ञत्वे तस्यैव यजमानत्वेन विरोधात् । किञ्च पुरुषे यज्ञत्वकल्पने हि *विद्वान्य आत्मा यजमान* इत्येव वक्तव्यम् स्यात् । नत्वेकवाक्यतया *विदुषो यज्ञस्यात्मा यजमान*(तै.महाना.५२ अनु) इति । अतो *विदुषो यज्ञस्ये*(तै.महाना.५२ अनु)ति व्यधिकरणे षष्ट्यौ विद्वत्सम्बन्धि-यज्ञस्येति । ततश्च *प्रणव एव विस्वर* इति न्यायेन पुरुषस्य यज्ञत्व-परिकल्पनैकरूप्याभावाच्च विद्याभेद एव । यद्वा विदुषो यज्ञत्वकल्पन-मिति भाष्यस्वारस्यात् समानाधिकरणे षष्ठ्यौ । न चैवम् सति विद्वान्यज्ञस्तस्यात्मा यजमान इति वाक्यभेदशङ्कनीयः । *विदुषो यज्ञस्यात्मा यजमान*(तै.महाना.५२ अनु) इति सिद्धवत्कारेण *विद्वान्यज्ञ* इत्यस्यार्थस्य सिद्धत्वात् । न च विदुषि यज्ञत्वकल्पने यज्ञत्वयजमानत्वयोरेकनिष्टत्वविरोध इति वाच्यम् । विद्वच्छब्देन कार्यकारणसङ्घातविशिष्टस्य आत्मशब्देन निष्कृष्टविशेष्यमात्रस्य च प्रतिपादनसम्भवेन विरोधाभावात् । न च विद्यैक्यप्रसक्तिः । छान्दोग्या-म्नातायाः पुरुषविद्यायाः *प्र ह षोडशम् वर्षशतम् जीवती*(छान्.३-१६-७)ति षोडशाधिकवर्षशतम् जीवनम् फलत्वेनाम्नातम् । तैत्तिरीयके तु श्रुतायाः पुरुषविद्यायाः *ब्रह्मणे त्वा महस ओमित्यात्मानम् युञ्जीते* (तै.महा.ना.८ अनु)ति पूर्वानुवाकविहितब्रह्मविद्यायाः *ब्रह्मणो महिमान-माप्नोती*(तै.महा.ना.८ अनु)ति ब्रह्मप्राप्तिफलिकायास्सन्निधौ पठित-त्वात् *फलवत्सन्निधौ अफलम् तदङ्गमि*ति न्यायेन ब्रह्मविद्याङ्गतया ब्रह्मप्राप्तिफलत्वमेव । अतः फलसम्योगभेदाद्विद्याभेदस्सिद्धः । न च तैत्तिरीयकपुरुषविद्यायाः पूर्वानुवाकविहितब्रह्म प्राप्तिफलकत्वे पुनः फलकीर्तनम् व्यर्थमिति वाच्यम् । *सोमापौष्णम् त्रैतमालभेत पशुकाम* (तै.यजु.सम्.२-२-१-६)इति श्रुतेन पशुना प्रधानफलेन *ऊर्ग्वा उदुम्बर उर्क् पशव*(तै.यजु.सम्.२-२-१-६) इत्यङ्गभूतोदुम्बरतायास्स्तुति-वत् अङ्गभूतपुरुषविद्याया अङ्गिभूतब्रह्मविद्याफलभूतब्रह्मप्राप्तिजनकत्वेन स्तुत्यर्थम् वा पूर्वानुवाकोक्तब्रह्मप्राप्तेर्दक्षिणोत्तरायणनिमित्तकसूर्यचन्द्रसा-युज्यप्राप्तिपूर्वकत्वलक्षणगुणविधानार्थम् वा पुनः कीर्तने न वैयर्थ्य-मित्यलम् प्रसक्तानुप्रसक्त्या ॥
इति पुरुषविद्याधिकरणम् ॥