॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
लिङ्गभूयस्त्वाधिकरणम् ॥१९॥
सहस्रशीर्षमित्यस्यानुवाकस्य प्रकृतदहरविद्योपास्यनिश्चायकत्वमेव युक्तम् । न तु सर्वपर विद्योपास्यनिश्चायकत्वम् । कुतः *सहस्रशीर्षमि* (तै.महा.ना.११.अनु)त्यादिद्वितीयानिर्देशेन पूर्वानुवाकोदितो पासनासम्बन्धे *तस्मिन्यदन्तस्तदुपासितव्यमि*(तै.महा.ना.१०.अनु)ति उपासिगतेन कृत्प्रत्ययेन उपास्यस्य कर्मणोऽभिहितत्वादुपास्ये द्वितीयानुपपत्तेः । विश्वमेवेदम् पुरुषः*(तै.महा.ना.११.अनु) *तत्त्वम् नारायण*(तै.महा.ना. ११.अनु) इत्यादिप्रथमानिर्देशात् द्वितीयार्थाश्रयणे विद्यामुपासीतेति विधि-पदाध्याहारप्रसङ्गाच्च । *येनावृतम् खञ्चदिवम् महीम् च*( तै.महा.ना. १.अनु) इत्यादिवत् प्रथमार्थे द्वितीया आश्रयणीया । तथा च पूर्वानुवाको-दितदहरविद्योपास्यविशेष समर्पकतया तदेकवाक्यत्वसम्भवे वाक्यभेद-कल्पनाया अयुक्तत्वात् । *पद्मकोशप्रतीकाशम्*(तै.महा.ना.११.अनु) इत्यस्मिन्ननुवाके प्रकृतदहरविद्याप्रत्यभिज्ञानात् प्रकृतहानानौचित्या-च्चेति पूर्वपक्षे प्राप्त उच्यते –
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥३-३-४३॥
यद्यपि दहरविद्या प्रकृता तदेकवाक्यत्वञ्च युक्तम्, तथाऽपि सकलपरवद्योपास्य निर्द्धारणार्थत्वे बहूनि लिङ्गान्युपलभ्यन्ते । तत्तत्परविद्यावाक्यगतानि परब्रह्मपरतत्त्वादिपदरूपाणि चिह्नानीह वाक्ये दृश्यन्ते । यदि प्रकृतविद्योपास्यदेवताविशेषसमर्पकमिदम् वाक्यजातम् स्यात्, परब्रह्मपरतत्त्वादिप्रयोगो नारायणपदावृत्तिश्च न स्यात् । एकेन नारायणपदेनैव समीहितसिद्धेः । अतः परब्रह्मादिपदवाच्यस्य नारायण-त्वविधानायैव अयम् सम्रम्भः *शिवश्च नारायणः शक्रश्च नारायण* (आथर्वणः) इतिवत् परम् ब्रह्मापि नारायणः परतत्त्वमपि नारायण इति वाक्यभेदोऽपि न दोषाय । तल्लिङ्गम् प्रकरणाद्वलीयः । तदप्युक्तम् पूर्वकाण्डे – *श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याना समवाये पारदौर्बल्यमर्थविप्रकर्षादि*(जै.मी.सू.३-३-१४)ति न च सकलपरविद्यो-पास्यनिश्चायकत्वे *पद्मकोशप्रतीकाशमि*(तै.महा.ना.११.अनु)ति दहर-विद्योपास्यविशेषणोपसम्हारो न युक्त इति वाच्यम् । *ऐतदात्म्यमिदम्म् सर्वमि*(छान्.६-८-७)ति सामान्येन निर्दिष्टस्य *तत्त्वमसी*(छान्.६-८-७)ति विशेषे उपसम्हारवत् सकलपरविद्योपास्यतया अभिहितस्य नारायणस्य प्रकृतदहरविद्योपास्यतया उपसम्हारे दोषाभावादिति स्थितम् ॥
इति लिङ्गभूयस्त्वाधिकरणम् ॥