॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
ऐहिकाधिकरणम् ॥१४॥
मुक्तिव्यतिरिक्तफलकोपासनानामुद्गीथविद्यारहितयज्ञादिकर्मनिष्पाद्या-नामपि यज्ञादि रूपसाधननिष्पत्तौ सत्याम् विळम्बे हेत्वभावात् इह जन्मन्येव निष्पत्तिरिति पूर्वपक्षः – सिद्धान्तस्तु
ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ३-४-५० ॥
मुक्तिव्यतिरिक्तफलकमुपासनम् अप्रस्तुतप्रतिबन्धे प्रतिबन्धाभावे ऐहिकम् इहैव जन्मनि सम्भवति । सति प्रतिबन्धे जन्मान्तरे । न च प्रतिबन्धासम्भवश्शङ्कनीयः । *यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति उद्गीथविद्यायाः प्रबलकर्मान्तरा-प्रतिबद्धफलत्वावेदनेन प्रबलकर्मान्तरप्रतिबन्धस्यानुज्ञातत्वात् । न च *तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ती*(बृह.६-४-२२)ति यज्ञादेर्वे-दनसाधनत्वश्रवणात् कारीर्यभिचारादिवत् नियतैहिकत्वमेव किम् न स्यादिति वाच्यम् । शुष्यच्छालिसम्पत्तिवैरिविशेषविपत्तिफलकत्वेन विहितानाम् तेषाम् नियतैहिकत्वेऽपि विद्यासाधन यज्ञादिकर्मणाम् तज्ज्न्मनि विद्योद्देशेन अविहितया पश्चादिफलकचित्रेष्ट्यादिवन्नियतै-हिकत्वाभावात् पूर्वतन्त्रे चतुर्थाध्याये योगसिध्यधिकरणे तथा निर्णीत-त्वादिति ॥
इति ऐहिकाधिकरणम् ॥