॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥
न ह वा एवम् विदि किञ्चनानन्नम् भवती*(छान्.५-२-१)ति छान्दोग्ये *न ह वास्यानन्नम् जग्धम् भवती*(बृह.८-१-१४)ति वाज-सनेयके च श्रवणाद्वामदेव्योपासनानिष्ठस्य प्रार्थयमानसर्वयोषिदपरिहारा-नुमतिवत् सर्वान्नानुमतिः प्राणविद्यानिष्ठस्य सर्वदा क्रियत इति पूर्वपक्षे प्राप्त उच्यते –
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३-४-२८ ॥
प्राणात्यय एव प्राणविदस्सर्वान्नानुज्ञानम् न सर्वदा । ब्रह्मविदो-ऽप्युषस्तेः प्राणात्यय एव इभ्योच्छिष्टाशनस्य दर्शनेन प्राणविदस्सर्वा-न्नानुमतेरापद्विषयत्वस्य किम् पुनर्न्यायसिद्धत्वात् ।
अबाधाच्च ॥ ३-४-२९ ॥
*आहारशुद्धौ सत्त्वशुद्धिरि*(छान्.७-२६-२)ति शास्त्राबाधार्थमप्येवमेव न्याय्यम् इतरथा तस्य बाधस्स्यात् ।
अपि स्मर्यते ॥ ३-४-३० ॥
*प्राणसम्शयमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसे* ति स्मरणाच्च सर्वान्नीनत्वमापद्विषयम् ।
शब्दश्चातोऽकामकारे ॥ ३-४-३१ ॥
*तस्माद्ब्राह्मणस्सुराम् न पिबति पाप्मना नोत्सृजा* इति सम्हितायाम् कामकारप्रतिषेधकशब्ददर्शनात् । पाप्मना सम्स्पृष्टो न भवानीति मत्वा ब्राह्मणस्सुराम् न पिबतीति हि तस्याश्श्रुतेरर्थः ।
ननु ब्रह्मविद उषस्तेः प्राणात्यये सर्वान्नीनत्वदर्शनात् प्राणविद-स्सर्वान्नीनत्वस्यापद्विषयत्वम् कैमुत्यन्यायेन सिध्यतीत्यनुपपन्नम् । वामदेव्योपासननिष्ठस्य सर्वयोषिदपरिहारवत् प्राणविद्यानिष्ठस्य वचन-बलात् सर्वान्नीनत्वमिति वदन्तम् प्रत्येतस्यानुत्तरत्वादिति चेन्न । वामदेव्योपासनस्य *न काञ्चन परिहरेत्तद्व्रतमि* ति सर्वयोषि-दपरिहारेऽपि स्पष्टविधिश्रवणात् । प्रकृते च *न ह वा एवम् विदि किम् चनानन्नम् भवती*(छान्.५-२-१)त्यत्र सर्वान्नभक्षणविधेः कल्प्यत्वात् प्रत्यक्षनिषेधविरोधे न विधिकल्पनानुदयेनार्थ वादत्वस्यैव युक्तत्वात् सर्वप्राण्यन्ने *यत्किञ्चिदिदमाश्वभ्य आशकुनिभ्य*(छान्.५-२-१) इति विहितस्य प्राणान्नत्वचिन्तनस्य स्तुतिमात्रम् क्रियते *न ह वा एवम् विदि किम् चनानन्नम् भवती*(छान्.५-२-१)ति । न चैवम् सति निषेधशास्त्रविरोधात् *एवम् विदि पापम् कर्म न श्लिष्यत*(छान्.४-१४-३) इत्यादेरपि स्तुतिमात्रत्वप्रसङ्ग इति वाच्यम् । पाप्मनामश्लेषाभावे अनिर्मोक्षप्रसङ्गेन सकलपापाश्लेषस्य मोक्षविधिशास्त्रापेक्षितत्वेन फल-विधित्वस्य वक्तव्यत्वात् । प्राणविद्यायाश्च ज्येष्ठत्व श्रेष्ठत्वादिफलकत्वेन फलाकाङ्क्षाया अभावादिति ॥
इति सर्वान्नानुमत्यधिकरणम् ॥