॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥
सर्वापेक्षाधिकरणम् ॥ ५ ॥
यदि ब्रह्मविद्या यज्ञाद्यनपेक्षा तदा गृहस्थेष्वपि सा अग्नीन्धना-द्यनपेक्षैव । न च विविदिषा वाक्यात् यज्ञादीनाम् तादर्थ्यप्रतीतिरिति वाच्यम् । तेनैव वाक्येन यज्ञादीनाम् विविदिषार्थत्वोपलम्भेऽपि
विद्यार्थत्वाप्रतीतेरिति पूर्वपक्षे प्राप्त उच्यते ।
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३-४-२६ ॥
सिद्धान्तस्तु – यथा गमनसाधनभूतोऽश्वः परिकरबन्धसापेक्षः तथा गृहस्थेषु विद्या यज्ञादिसर्वकर्मापेक्षैव *तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ती*(बृह.६-४-२२)ति श्रुतेः । यथा *अश्वेन जिगमिषती*त्यादि- सन्नन्तपदप्रयोगे प्रकृत्यर्थगमनसाधनत्वप्रतीतिदर्शनेन यज्ञेन विविदष-न्तीत्यत्रापि यज्ञादौ वेदनसाधनत्वप्रतीतेः । यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः । तथाऽपि *अश्वेन जिगमिषती* त्यादिसन्नन्तपदप्रयोगस्थले प्रकृत्यर्थप्राधान्यस्यैव व्युत्पत्ति सिद्धत्वात् अत्रापि प्रकृत्यर्थभूतवेदनसाधनत्वमेव वेदानुवचनादीनाम् तृतीयया प्रतिपाद्यत इति द्रष्टव्यम् ॥
इति सर्वापेक्षाधिकरणम् ॥ ५ ॥