श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥३॥
(अधिकरणार्थः – अक्ष्याधारपुरुषत्वं परमात्मन एव, न जीवादेः)
(उपकोसलविद्या छा.उ.4-10)
४५. अन्तर उपपत्ते: ॥ १-२-१३ ॥
(विषयवाक्यप्रदर्शनम्)
इदमामनन्ति च्छन्दोगा: य एषोऽक्षिणि पुरुषो दृश्यते। एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म (छा.४.१५.१) इति ॥
(संशयस्वरूपम्)
तत्र सन्देह: – किमयमक्ष्याधारतया निर्दिश्यमान: पुरुष: प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता निर्दिश्यमान: पुरुष: प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेष:, उत जीवात्मा, अथ परमात्मा इति ॥
(सयुक्तिकः पूर्वपक्षः)
किं युक्तम्? प्रतिबिम्बात्मेति। कुत:? प्रसिद्धवन्निर्देशात्; दृश्यते इत्यपरोक्षाभिधानाच्च। जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात्प्रसिद्धिरुपपद्यते? उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनश्शरीरे स्थितिगती निश्चिन्वन्ति। रश्मिभिरेषोऽस्मिन्प्रतिष्ठित: (बृ.७.५.१) इति श्रुतिप्रसिद्ध्या चक्षु:प्रतिष्ठो देवताविशेषो वा; एष्वेव प्रसिद्धवन्निर्देशोपपत्तेरेषामन्यतम: –
(सिद्धान्तः)
इति प्राप्ते प्रचक्ष्महे – अन्तर उपपत्ते: – अक्ष्यन्तर: परमात्मा। कुत:? एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति एतं संयद्वाम इत्याचक्षते। एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनि:। एष हि सर्वाणि वामानि नयति। एष उ एव भामनि:। एष हि सर्वेषु लोकेषु भाति (छां.४.१५.३) इत्येषां गुणानां परमात्मन्येवोपपत्ते: ॥१३॥
(परमात्मनः चक्षुष्यवस्थानं श्रुतिसिद्धम्)
४६. स्थानादिव्यपदेशाच्च ॥ १-२-१४॥
चक्षुषि स्थितिनियमनादय: परमात्मन एव यश्चक्षुषि तिष्ठन् (बृ.५-७-१८) इत्येवमादौ व्यपदिश्यन्ते । अतश्च य एषोऽक्षणि पुरुष: (छा.४-१५-१) इति स एव प्रतीयते। अत: प्रसिद्धवन्निर्देशश्च परमात्मन्युपपद्यते। तत एव दृश्यते इति साक्षात्कारव्यपदेशोऽपि योगिभिर्दृश्यमानत्वादुपपपद्यते॥१४॥
(प्रकरणप्रतिपादितं निरवधिकानन्दत्वं परमात्मन एव)
४७. सुखविविशष्टाभिधानादेव च ॥ १-२-१५ ॥
इतश्चाक्ष्याधार: पुरुषोत्तम: कं ब्रह्म खं ब्रह्म (छा.४.१०.५) इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मण: उपासनस्थानविधानार्थं संयद्वामत्वादिगुणविधानार्थं च य एषोऽक्षिणि पुरुष: (छा.४-१५-१) इत्यभिधानात्। एवकारो नैरपेक्ष्यं हेतोर्द्योतयति।
(प्रकरणविच्छेदप्रदर्शनेन परमात्मपरत्वाभावशङ्का)
नन्वग्निविद्याव्यवधानात् कं ब्रह्म (छा.४.१०.५) इति प्रकृतं ब्रह्म नेह सन्निधत्ते। तथा हि अग्नय:, प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति ब्रह्मविद्यामुपदिश्य अथ हैनं गार्हापत्योऽनुशशास (छा.४.११.१) इत्यारभ्याग्नीनामुपासनमुपदिदिशु:। न चाग्निविद्या ब्रह्मविद्याङ्गमिति शक्यं वक्तुम्; ब्रह्मविद्याफलानन्तर्गत-तद्विरोधिसर्वायु: प्राप्तिसन्तत्यविच्छेदादिफलश्रवणात् ॥
(प्रकरमविच्छेदसमर्थनेन परमात्मपरत्वनिर्णयः)
उच्यते – प्राणो ब्रह्म (छा.४.१०.५) एतदमृतमभयमेतद् ब्रह्म (छां.४.१५.३) इत्युभयत्र ब्रह्मसंशब्दनात्। आचार्यस्तु ते गतिं वक्ता (छा.४.१४.१) इत्यग्निवचनाच्च गत्युपदेशात्पूर्वं ब्रह्मविद्याया असमाप्तेस्तन्मध्यगताग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते, अथ हैनं गार्हापत्योऽनुशशास (छा.४.११.१) इति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च। किञ्च व्याधिभि: प्रतिपूर्णोऽस्मि (छा.४.१०.३) इति ब्रह्मप्राप्तिव्यतिरिक्तनानाविधकामोपहतिपूर्वक-गर्भजन्मजरा-मरणादिभवभयोपतप्ताय उपकोसलाय एषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या च (छां.४.१४.१) इति समुच्चित्योपदेशान्मोक्षैकफलात्मविद्याङ्गत्वमग्निविद्याया: प्रतीयते। एवं चाङ्गत्वेऽवगते सति फलानुकीर्तनमर्थवाद इति गम्यते ॥
(अर्थवादोक्तफलस्य मोक्षाऽविरोधिता)
न चात्र मोक्षविरोधिफलं किञ्चिच्छ्रूयते, अपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषा: क्षीयन्ते उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च (छां.४.१३.२) इत्यमीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात्। अपहते पापकृत्याम् – ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति। लोकी भवति – तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति। सर्वमायुरेति – व्याध्यादिभिरनुपहतो यावद्ब्रह्मप्राप्ति जीवति। नास्यावरपुरुषा: क्षीयन्ते – अस्य शिष्यप्रशिष्यादय: पुत्रपौत्रादयोऽपि ब्रह्मविद एव भवन्ति। नास्याब्रह्मवित्कुले भवति (मु.३.२.९) इति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते। उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च – वयम् अग्नयस्तमेनमुपभुञ्जाम: – यावद्ब्रह्मप्राप्ति विघ्नेभ्य: परिपालयाम इति।
(उक्तार्थनिगमनम्)
अतोऽग्निविद्याया ब्रह्मविद्याङ्गत्वेन तत्सिन्नधानाविरोधात्सुखविशिष्टं प्रकृतमेव ब्रह्मोपासनस्थानविधानार्थं गुणविधानार्थं चोच्यते।
(ब्रह्मणः पुनरवक्तव्यत्वाक्षेपः)
ननु आचार्यस्तु ते गतिं वक्ता (छा.४.५.१) इति गतिमात्रपरिशेषणादाचार्येण गतिरेवोपदेश्येति गम्यते; तत्कथं स्थानगुणविध्यर्थतोच्यते ।
(पूर्वोक्तशङ्कापरिहारः)
तदभिधीयते आचार्यस्तु ते गतिं वक्ता (छा.४.५.१) इत्यस्यायमभिप्राय: – ब्रह्मविद्यामनुपदिश्य प्रोषुषि गुरौ तदलाभादनाश्वासं उपकोसलमुज्जीवयितुं स्वपरिचरणप्रीता गार्हापत्यादयो गुरोरग्नयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्यामुपदिश्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् (छां.४.९.३) इति श्रुत्यर्थमालोच्य साधुतमत्वप्राप्त्यर्थमाचार्य एवास्य संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानमर्चिरादिकां च गतिमुपदिशत्विति मत्वा आचार्यस्तु ते गतिं वक्ता (छां.४.१४.१) इत्यवोचन्। गतिग्रहणमुपदेश्यविद्याशेषप्रदर्शनार्थम्। अत एवाचार्योऽपि अहं तु ते तद्वक्षामि यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते (छां.४.१४.३) इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्टं ब्रह्माक्षिस्थानोपास्यमर्चिरादिकां च गतिमुपदिदेश। अत: कं ब्रह्म खं ब्रह्म (छा.४.१०.५) इति सुखविशष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानात् अयमक्ष्याधार: परमात्मा॥१५॥
(कं ब्रह्मेति वाक्यस्य ब्रह्मपरत्वाभावमाशङ्क्य, उत्तरसूत्रसङ्गतिः)
ननु च कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इति परं ब्रह्माभिहितमिति कथमवगम्यते, यस्येह अक्ष्याधारतयाऽभिधानं ब्रूषे; यावता कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इति प्रसिद्धाकाशलौकिकसुखयोरेव ब्रह्मदृष्टिर्विधीयत इति प्रतिभाति, नाम ब्रह्म (छां.७.१.५), मनो ब्रह्म (छां.७.३.२) इत्यादिवचनसारूप्यात्। तत्राह –
४८. अत एव च स ब्रह्म॥ १-२-१६ ॥
यतस्तत्र यदेव कं तदेव खम् (छा.४.१०.५) इति सुखविशष्टस्याकाशस्याभिधानम्, अत एव स्वशब्दाभिधेयस्स: आकाश: परं ब्रह्म। एतदुक्तं भवति – अग्निभि: प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इत्युक्ते उपकोसल उवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामि (छां.४.१०.५) इति॥
(विजानाम्यहम् इति वाक्याभिप्रायविवरणम्)
अस्यायमभिप्राय: – न तावत्प्राणादिप्रतीकोपासनमग्निभिरभिहितम्, जन्मजरामरणादि-भवभयभीतस्य मुमुक्षोर्ब्रह्मोपदेशाय प्रवृत्तत्वात्। अतो ब्रह्मैवोपास्यमुपदिष्टम्। तत्र प्रसिद्धै: प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम्; तेषु च प्राणविशिष्टत्वं जगद्विधरणयोगेन वा प्राणशरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति विजानाम्यहं यत्प्राणो ब्रह्म (छा.४.१०.५) इत्युक्तवान्। तथा सुखाकाशयोरपि ब्रह्मण: शरीरतया तन्नियाम्यत्वेन विशेषणत्वम्; उतान्योन्यव्यवच्छेदकतया निरतिशयानन्दरूप-ब्रह्मस्वरूपसमर्पणपरत्वेन वा; तत्र पृथग्भूतयोश्शरीरतया विशेषणत्वे वैषयिकसुखभूताकाशयोर्नियामकत्वं ब्रह्मणस्स्यादिति स्वरूपावगतिर्न स्यात् अन्योन्यव्यवच्छेदकत्वेऽपरिच्छन्नानन्दैकस्वरूपत्वं ब्रह्मणस्स्यादित्यन्यतर-प्रकारनिर्दिधारयिषया कं च तु खं च न विजानामि (छा.४.१०.५) इत्युक्तवान्। उपकोसलस्येममाशयं जानन्तोऽग्नय: यद्वा व कं तदेव खं यदेव खं तदेव कम् (छा.४.१५.५) इत्यूचिरे। ब्रह्मणस्सुखरूपत्वमेवापरिच्छिन्नमित्यर्थ:। अत: प्राणशरीरतया प्राणविशिष्टं यद्ब्रह्म, तदेवापरिच्छन्नसुखरूपं चेति निगमितम् – प्राणं च हास्मै तदाकाशं चोचु: (छां.४.१०.५) इति। अत: कं ब्रह्म खं ब्रह्म (छां.४.१०.५) इत्यत्रापरिच्छिन्नसुखं ब्रह्म प्रतिपादितमिति परं ब्रह्मैव तत्र प्रकृतम्, तदेव चात्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधार: परमात्मा॥ १६॥
(अक्षिपुरुषस्य परमात्मत्वे ज्ञापकान्तरम्)
४९. श्रुतोपनिनषत्कगत्यभिधानाच्च ॥ १-२-१७ ॥
श्रुतोपनिषत्कस्य – अधिगतपरमपुरुषयाथात्म्यस्यानुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अर्चिरादिका गतिर्या, तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषं श्रुतवते तेऽर्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षम् (छां ४.१५.५) इत्यारभ्य चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छां.४.१५.५) इत्यन्तेनोपदिशति। अतोऽप्ययमक्षिपुरुष: परमात्मा॥१७॥
(व्यतिरेकोक्त्या जीवनिषेधः)
५०. अनवस्थितेरसम्भवाच्च नेतर: ॥ १-२-१८ ॥
प्रतिबिम्बादीनामक्षिणि नियमेनानवस्थानादमृतत्वादीनां च निरुपाधिकानां तेष्वसम्भवान्न परमात्मन इतर: छायादि: अक्षिपुरुषो भवितुमर्हाति। प्रतिबिम्बस्य तावत्पुरुषान्तर-सन्निधानायत्तत्वान्न नियमेनावस्थानसम्भव:। जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम्। देवतायाश्च रश्मिभिरेषोऽस्मिन् प्रतिष्ठित: (छा.७.५.१०) इति रश्मिद्वारेणावस्थानवचनात् देशान्तरावस्थितस्यापि इन्द्रियाधिष्ठानोपपत्ते: न चक्षुष्यवस्थानम्। सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न सम्भवन्त्येव। तस्मादक्षिपुरुष: परमात्मा ॥१८॥
इति श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम्॥३॥