श्रीभाष्यम् 01-02-16 अदृश्यत्वादिगुणकाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम्॥

(अधिकरणार्थः – अदृश्यत्वादिगुणकं ब्रह्मैव, न प्रधानपुरुषौ)

(अक्षरविद्या (मुण्ड.उ.1-1,2-3))

५४. अदृश्यत्वादिगुणको धर्मोक्ते: ॥ १-२-२२ ॥

(विषयवाक्यप्रदर्शनम्)

आथर्वणिका अधीयते अथ परा यया तदक्षरमधिगम्यते, यत्तदद्रेश्यमग्राह्यमगोत्रं अचक्षुश्श्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा: (मु.१.१.५,६) इति; तथोत्तरत्र अक्षरात्परत: पर: (मु.२.१.२) इति।

(संशयाकारः)

तत्र सन्दिह्यते – किमिहादृश्यत्वादिगुणकं अक्षरात्परत: परश्च प्रकृतिपुरुषौ, अथोभयत्र परमात्मैव – इति।

(सयुक्तिकः पूर्वपक्षः)

किं तावत् प्राप्तम्? प्रकृतिपुरुषाविति। कुत:? अस्याक्षरस्य अदृष्टो द्रष्टा (बृ.५.७.२३) इत्यादाविव न द्रष्टृत्वादिश्चेतनधर्मविशेष इह श्रूयते, अक्षरात्परत: पर: (मु.२.१.२) इति च सर्वस्माद्विकारात्परभूतादक्षरादस्मात्पर: क्षेत्रज्ञसमष्टिपुरुष: प्रतिपाद्यते।

(दृष्टान्तस्य चेतनकारणत्वानुगुण्यम्)

तदुक्तं भवति –

रूपादिमत्स्थूलरूपाचेतनपृथिव्यादिभूताश्रयं दृश्यत्वादिकं प्रतिषिध्यमानं पृथिव्यादिसजातीय-सूक्ष्मरूपाचेतनमेव उपस्थापयति, तच्च प्रधानमेव। तस्मात्परत्वं च समिष्टपुरुषस्यैव प्रसिद्धम्। तदधिष्ठितं च प्रधानं महदादिविशेषपर्यन्तं विकारजातं प्रसूत इति तत्र दृष्टान्ता उपन्यस्यन्ते यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति। यथा सत: पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम् (मुण्ड.१.१.७) इति। अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रतिपाद्येते इति॥

(सिद्धान्तप्रदर्शनम्)

एवं प्राप्ते ब्रूम: – अदृश्यत्वादिगुणको धर्मोक्ते: – अदृश्यत्वादिगुणकोऽक्षरात्परत: परश्च परमपुरुष एव; कुत:? तद्धर्मोक्ते: यस्सर्वज्ञस्सर्ववित् (मु.१.१.९) इत्यादिना सर्वज्ञत्वादिकास्तस्यैव धर्मा उच्यन्ते; तथा हि यया तदक्षरमिधगम्यते (मु.१.१.५) इत्यादिना अदृश्यत्वादिगुणकमक्षरमभिधाय अक्षरात्सम्भवतीह विश्वम् (मु.१.१.७) इति तस्माद्विश्वसम्भवं चाभिधाय यस्सर्वज्ञस्सर्विविद्यस्य ज्ञानमयं तप:। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते (मु.१.१.९) इति भूतयोनेरक्षरस्य सर्वज्ञत्वादि: प्रतिपाद्यते। पश्चात्, अक्षरात्परत: पर: (मु.२.१.२) इति च प्रकृतमदृश्यत्वादिगुणकं भूतयोन्यक्षरं सर्वज्ञमेव परत्वेन व्यपदिश्यते। अत: अक्षरात्परत: पर: (मु.२.१.२) इत्यक्षरशब्द: पञ्चम्यन्त: प्रकृतमदृश्यत्वादिगुणकमक्षरं नाभिधत्ते, तस्य सर्वज्ञस्य विश्वयोनेस्सर्वस्मात्परत्वेन तस्मादन्यस्य परत्वासम्भवात्। अतोऽत्राक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते॥२२॥

(ब्रह्मणः एवाक्षरत्वे हेतुद्वयम्)

इतश्च न प्रधानपुरुषौ

५५. विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ ॥ १-२-२३ ॥

विशिनष्टि हि प्रकरणं – प्रधानाच्च पुरुषाच्च भूतयोन्यक्षरं व्यावर्तयतीत्यर्थ:; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनादिभि:। तथा ताभ्यामक्षरस्य भेदश्च व्यपदिश्यते। अक्षरात्परत: पर: (मुण्ड.२.१.२) इत्यादिना। तथाहि – स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह (मु.१.१.१) इति सर्वविद्याप्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता; परविद्यैव च सर्वविद्याप्रतिष्ठा; तामिमां सर्वविद्याप्रतिष्ठां विद्यां चतुर्मुखाथर्वादिगुरुपरम्परयाऽङ्गिरसा प्राप्तां जिज्ञासु: शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्न: पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति (मु.१.१.३) इति ब्रह्मविद्यायास्सर्वविद्याश्रयत्वाद्ब्रह्मविज्ञानेन सर्वं विज्ञातं भवतीति कृत्वा ब्रह्मस्वरूपमनेन पृष्टम् । तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च (बृह.६.४.२२) इति। ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये – ब्रह्मविषये परोक्षापरोक्षरूपे द्वे विज्ञाने उपादेये इत्यर्थ:।

(विद्याविभाग-तत्फलयोः प्रदर्शनम्)

तत्र परोक्षं शास्त्रजन्यं ज्ञानम्, अपरोक्षं योगजन्यम्, तयोर्ब्रह्मप्राप्त्युपायभूतमपरोक्षं ज्ञानम्; तच्च भक्तिरूपापन्नम्, यमेवैष वृणुते तेन लभ्य: (मुण्ड.३.२.३) इत्यत्रैव विशेष्यमाणत्वात्, तदुपायश्चागमजन्यं विवेकादिसाधनसप्तकानुगृहीतं ज्ञानम्, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृह.६.४.२२) इति श्रुते:। आह च भगवान्पराशर: तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने। आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते (वि.पु.६.५.६०) इति। तत्रापरा ऋग्वेदो यजुर्वेद: (मु.१.१.५) इत्यादिना धर्मशास्त्राणि (मु.१.१.५) इत्यन्तेन आगमोत्थं ब्रह्मसाक्षात्कारहेतुभूतं परोक्षज्ञानमुक्तम्। साङ्गस्य सेतिहासपुराणस्य सधर्मशास्त्रस्य समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पत्तिहेतुत्वात् अथ परा यया तदक्षरमिधगम्यते (मु.१.१.५) इत्युपासनाख्यं ब्रह्मसाक्षात्कारलक्षणं भक्तिरूपापन्नं ज्ञानम् यत्तदद्रेश्यमग्राह्यम् इत्यादिना परोक्षापरोक्षरूपज्ञानद्वयविषयस्य परस्य ब्रह्मण: स्वरूपमुच्यते ।

(ब्रह्मणो जगदुत्पत्तिः)

यथोर्णनाभिस्सृजते गृह्णते च (मु.१.१.७) इत्यादिना यथोक्तस्वरूपात्परस्मात् ब्रह्मणोऽक्षरात्कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्य उत्पत्तिरुक्ता; विश्वमिति वचनान्नाचेतनमात्रस्य । तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्प्राणो मनस्सत्यं लोका: कर्मसु चामृतम् (मु.१.१.८) इति ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते । तपसा – ज्ञानेन, यस्य ज्ञानमयं तप: (मु..१.१.९) इति वक्ष्यमाणत्वात्; चीयते उपचीयते; बहु स्याम् (छा.६.२.३, तै.आन.६) इति सङ्कल्परूपेण ज्ञानेन ब्रह्म सृष्ट्युन्मुखं भवतीत्यर्थ:। ततोऽन्नमभिजायते – अद्यत इत्यन्नम्, विश्वस्य भोक्तृवर्गस्य भोग्यभूतं भूतसूक्ष्ममव्याकृतं परस्माद्ब्रह्मणो जायत इत्यर्थ: । प्राणमन: प्रभृति च स्वर्गापवर्गरूपफलसाधनभूतकर्मपर्यन्तं सर्वं विकारजातं तस्मादेव जायते। यस्सर्वज्ञस्सर्ववित् (मु.१.१.९) इत्यादिना सृष्ट्युपकरणभूतं सार्वज्ञ्यसत्यसङ्कल्पत्वादिकमुक्तम्। सर्वज्ञात्सत्यसङ्कल्पात् परस्माद्ब्रह्मणोऽक्षरादेतत् कार्याकारं ब्रह्म नामरूपविभक्तं भोक्तृभोग्यरूपं च जायते।

(मुण्डकगतद्वितीयखण्डार्थोपपादनम्)

तदेतत्सत्यम् (मु.१.२.१) इति परस्य ब्रह्मणो निरुपाधिकसत्यत्वमुच्यते। मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि। तान्याचरत नियतं सत्यकामा: (मु.१.२.१) इति सार्वज्ञ्यसत्यसङ्कल्पत्वादिकल्याणगुणाकरमक्षरं पुरुषं स्वतस्सत्यं कामयमानास्तत्प्राप्तये फलान्तरेभ्यो विरक्ता ऋग्यजुस्सामाथर्वसु कविभिर्दृष्टानि वर्णाश्रमोचितानि त्रेताग्निषु बहुधा सन्ततानि कर्माण्याचरतेति एष व: पन्था: (मु.१.२.१) इत्यारभ्य एष व: पुण्यस्सुकृतो ब्रह्मलोक: (मुण्ड.१.२.६) इत्यन्तेन कर्मानुष्ठानप्रकारं, श्रुतिस्मृतिचोदितेषु कर्मस्वेकतरकर्मवैधुर्येऽपीतरेषां अनुष्ठितानामपि निष्फलत्वम्, अयथानुष्ठितस्य चाननुष्ठितसमत्वम्  अभिधाय प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति (मु.१.२.७) इत्यादिना फलाभिसन्धिपूर्वकत्वेन ज्ञानविधुरतया चावरं कर्माचरतां पुनरावृत्तिमुक्त्वा तपश्श्रद्धे ये ह्युपवसन्ति (मुण्ड.१.२.११) इत्यादिना पुनरपि फलाभिसन्धिरहितं ज्ञानिनानुष्ठितं कर्म ब्रह्म प्राप्तये भवतीति प्रशस्य परीक्ष्य लोकान् (मुण्ड.१.२.१२) इत्यादिना केवलकर्मफलेषु विरक्तस्य यथोदित कर्मानुगृहीतं ब्रह्मप्राप्त्युपायभूतं ज्ञानं जिज्ञासमानस्य च आचार्योपसदनं विधाय,

(तृतीयखण्डार्थानुवादः)

तदेतत्सत्यं यथा सुदीप्तात् (मुण्ड.२.१.१) इत्यादिना,  सोऽविद्याग्रन्थिं विकिरतीह सोम्य (मुण्ड.२.१.१०) इत्यन्तेन पूर्वोक्तस्याक्षरस्य भूतयोने: परस्य ब्रह्मण: परमपुरुषस्यानुक्तैस्स्वरूपगुणैस्सह सर्वभूतान्तरात्मतया विश्वशरीरत्वेन विश्वरूपत्वम्, तस्माद्विश्वसृष्टिं च विस्पष्टमभिधाय

(चतुर्थखण्डार्थविवरणम्)

आविस्सन्निहितम् (मु.२.२.१) इत्यादिना तस्यैवाक्षरस्याव्याकृतात्परतोऽपि पुरुषात्परभूतस्य परस्य ब्रह्मण: परमव्योम्नि प्रतिष्ठितस्यानवधिकातिशयानन्दस्वरूपस्य हृदयगुहायामुपासनप्रकारं उपासनस्य च परभक्तिरूपत्वमुपासीनस्याविद्याविमोकपूर्वकं ब्रह्मसमं ब्रह्मानुभवफलं चोपिदश्योपसंहृतम्। अत एवं विशेषणाद्भेदव्यपदेशाच्च नास्मिन्प्रकरणे प्रधानपुरुषौ प्रतिपाद्येते॥

(सूत्रोक्तभेदव्यपदेशप्रपञ्चनम्)

भेदव्यपदेशोऽपि हि ताभ्यां परस्य ब्रह्मणोऽत्र विद्यते। दिव्यो ह्यमूर्त: पुरुषस्सबाह्याभ्यन्तरो ह्यज:। अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परत: पर: (मु.२.१.२)  इत्यादिभि: अक्षरादव्याकृतात्परो यस्समष्टिपुरुष: तस्मादपि परभूतोऽदृश्यत्वादिगुणकोऽक्षरशब्दाभिहित: परमात्मेत्यर्थ:। अश्नुत इति वा, न क्षरतीति वाऽक्षरम्। तदव्याकृतेऽपि स्वविकारव्याप्त्या वा महदादिवन्नामान्तराभिलापयोग्य-क्षरणाभावाद्वाऽक्षरत्वं कथिञ्चदुपपद्यते॥२३॥

५६. रूपोपन्यासाच्च ॥ १-२-२४ ॥

अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदा: । वायु: प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा  (मु.२.१.४) इतीदृशं रूपं सर्वभूतान्तरात्मन: परमात्मन एव सम्भवति; अतश्च परमात्मा   ॥२४॥

इति श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम् ॥५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.