श्रीभाष्यम् 01-02-17 वैश्वानराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वैश्वानराधिकरणम्॥६॥

(अधिकरणार्थः – वैश्वानरशब्दार्थः परमात्मैव, न जाठराग्न्यादिकम्)

(वैश्वानरविद्या – छा.उ. 5-11)

५७. वैश्वानरस्साधारणशब्दविशेषात् ॥ १-२-२५ ॥

(विषयवाक्यप्रदर्शनम्)

इदमामनन्ति च्छन्दोगा: आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि (छां.५.११.६) इति प्रक्रम्य यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते (छा.५.१८.१) इति।

(संशयस्वरूपम्)

तत्र सन्देह: – किमयं वैश्वानर आत्मा, परमात्मेति शक्यनिर्णय:, उत न – इति।

(सयुक्तिकः पूर्वपक्षः)

किं प्राप्तम् अशक्यनिर्णय इति। कुत:? वैश्वानरशब्दस्य चतुष्वर्थेषु प्रयोगदर्शनात् – जाठराग्नौ तावत् अयमग्निर्वैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यावदेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति (बृ.७.९.१) इति; महाभूततृतीये च विश्वस्मा  अग्नं भुवनाय देवा वैश्वानरं केतुमह्नामकृणवन् इति देवतायां च वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्री: (तै.यजु.१.५.११) इति; परमात्मनि च तदात्मन्येव हृदयेऽग्नौ वैश्वानरे प्रास्यत् (तै.अष्ट.३.१२.८) इति, स एष वैश्वानरो विश्वरूप: प्राणोऽग्निरुदयते (प्रश्न.१.७) इति च। वाक्योपक्रमादिषूपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानीति॥

(सिद्धान्तस्वरूपम्)

एवं प्राप्तेऽभिधीयते – वैश्वानरस्साधारणशब्दविशेषात् – वैश्वानर: पर एवात्मा, कुत:? साधारणशब्दविशेषात् विशेष्यत इति विशेष: – साधारणस्य वैश्वानरशब्दस्य परमात्मासाधारणैर्धर्मै: विशेष्यमाणत्वादित्यर्थ:। तथाहि – औपमन्यवादय: पञ्चेमे महर्षयस्समेत्य को न आत्मा किं ब्रह्म (छां.५.१.१) इति विचार्य उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागाच्छाम (छां.५.११.२) इत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मु:। स चोद्दालक एतान्वैश्वानरात्मजिज्ञासूनभिलक्ष्यात्मनश्च तत्राकृत्स्नवेदित्वं मत्वा तान् होवाच अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम (छा.५-११-४) इति – ते चोद्दालकषष्ठास्तमश्वपतिमभ्याजग्मु:। स च तान्महर्षीन्यथार्हं पृथगभ्यर्च्य न मे स्तेन: (छा.५.११.५) इत्यादिना यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि (छां.५.११.१) इत्यन्तेनाऽत्मनो व्रतस्थतया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भवन्त: (छां.५.११.५) इत्यवोचत्। ते च मुमुक्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं ब्रूहीत्यवोचन्। तदेवं को न आत्मा किं ब्रह्म (छा.५.११.४) इति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानैस्तज्ज्ञमन्विच्छद्भिर्वैश्वानरात्मज्ञसकाशमागम्य पृच्छयमानो वैश्वानरात्मा परमात्मेति विज्ञायते, आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात्सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निर्दिश्यमानो वैश्वानरशब्दो ब्रह्मैवाभिधत्त इति विज्ञायते । किञ्च स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति (छां.५.१८.१) तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मान: प्रदूयन्ते (छां.५.२४.३) इति च वक्ष्यमाणं वैश्वानरात्मविज्ञानफलं वैश्वानरात्मनं परं ब्रह्मेति ज्ञापयति॥२५॥

(वैश्वानरस्य परमात्मत्वे ज्ञापकान्तरम्)

इतश्च वैश्वानर: परमात्मा –

५८. स्मर्यमाणमनुमानं स्यादिति ॥ १-२-२६ ॥

द्युप्रभृतिपृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते। तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम्। तदिह तदेवेदमिति स्मर्यमाणं – प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरषत्वे अनुमानं – लिङ्गमित्यर्थ:; इति शब्द: प्रकारवचन:; इत्थंभूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात्। श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम्। यथा आथर्वणे  अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदा:। वायु: प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा (मु.२.१.४) इति। अग्निरिह द्युलोक:, असौ वै लोकोऽग्नि: (बृ.८.२.९) इति श्रुते:। स्मरन्ति च मुनय: द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता इति यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षिति:। सूर्यश्चक्षुर्दिशश्श्रोत्रं तस्मै लोकात्मने नम: (महा.शान्ति.राजधर्म:) इति च।

(द्युप्रभृतीनां वैश्वानरावयत्वरूपणम्)

इह च द्युप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवत्वेनोच्यन्ते – तथा हि तैरौपमन्यवप्रभृतिभिः महर्षिभि: आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि (छा.५.११.६) इति पृष्ट: केकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षु: विशेषप्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतै: किञ्चित् ज्ञातं किञ्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकं पप्रच्छ । तत्र औपमन्यव कं त्वमात्मानमुपास्से (छां.५.१.६) इति पृष्टे दिवमेव भगवो राजन् (छा.५.१२.१) इति तेन चोक्ते दिवि तस्य पूर्णवैश्वानरात्मबुद्धिं निवर्तयन्वैश्वानरस्य द्यौर्मूधा?? इति चोपदिशंस्तस्या वैश्वानरांशभूताया दिव: सुतेजा इति गुणनामधेयं प्राचिख्यपत्। एवं सत्ययज्ञादिभः आदित्यवाय्याकाशाप्पृथिवीनामेकैकेनैकैकमुपास्यमानतया कथितानां विश्वरूप:, पृथग्वर्त्मा, बहुलो, रयि:, प्रतिष्ठा, इत्येकैकगुणनामधेयानि वैश्वानरात्मनश्चक्षु:प्राणसन्देहवस्तिपादावयवत्वं चोपदिष्टम्। सन्देहो मध्यकाय उच्यते। अत एवम्भूतद्युमूर्धत्वादिविशिष्टं परमपुरुषस्यैव रूपमिति वैश्वानर: परमपुरुष एव॥२६॥

(उत्तरसूत्रावतरणम्)

पुनरप्यनिर्णयमेवाशङ्क्य परिहरति –

५९. शब्दादिभ्योऽन्त:प्रतिष्ठानाच्च नेति चेन्न

तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ १-२-२७ ॥

(वैश्वानरशब्दस्य परमात्मपरत्वाभावशङ्कनम्)

यदुक्तं वैश्वानर: परमात्मेति निश्चीयत इति, तन्न, शब्दादिभ्योऽन्त: प्रतिष्ठानाच्च जाठरस्याप्यग्नेरिह प्रतीयमानत्वात्। शब्दस्तावद्वाजिनां वैश्वानरविद्याप्रकरणे स एषोऽग्निर्वैश्वानर: (प्रश्न.१.७) इति वैश्वानरसमानाधिकरणतयाऽग्निरिति श्रूयते;  अस्मिन्प्रकरणे च हृदयं गार्हापत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीय: (छां.५.१८.२) इति वैश्वानरस्य हृदयादिस्थस्याग्नित्रयकल्पनं क्रियते। तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा (छां.५.१९.१) इत्यादिना प्राणाहुत्याधारत्वं च वैश्वानरस्यावगम्यते। तथा वैश्वानरस्यास्मिन्पुरुषेऽन्त: प्रतिष्ठानं वाजसनेयिनस्समामनन्ति स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्त:प्रतिष्ठितं वेद इति । अतोऽग्निशब्दसामानाधिकरण्यात् अग्नित्रेतापरिकल्पनात् प्राणाहुत्याधारभावादन्त: प्रतिष्ठानाच्च वैश्वानरस्य जाठरत्वमपि प्रतीयत इति नैकान्तत: परमात्मत्वमिति चेत् –

(अग्न्याख्यदेवतायाः, तृतीयभूतस्य तेजसश्च वैश्वानरशब्दावाच्यत्वम्)

तन्न, तथा दृष्ट्युपदेशात् – पूर्वोक्तस्य त्रैलोक्यशरीरस्य परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात्।  अग्निशब्दादिभिर्हि न केवलो जाठर: प्रतिपाद्यते;  अपितु जाठराग्निविशिष्ट: परमात्मा । कथमिदमवगम्यत इति चेत् – असम्भवात् – जाठरस्य केवलस्य त्रैलोक्यशरीरत्वासम्भवात्। त्रैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषयतया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्टं परमात्मानमेवाभिदधातीत्यर्थ:। यथोक्तं भगवता अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित:। प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् (भ.गी.१५.१४) इति जाठरानलशरीरो भूत्वेत्यर्थ:। अतस्तद्विशिष्टस्योपासनमत्रोपदिश्यते। किञ्च पुरुषमपि चैनमधीयते वाजसनेयिन: स एषोऽग्निर्वैश्वानरो यत्पुरुष: इति; न हि जाठरस्य केवलस्य पुरुषत्वम्, परमात्मन एव हि निरुपाधिकं पुरुषत्वम्, यथा, सहस्रशीर्षा पुरुष:, पुरुष एवेदं सर्वम्  (पुरुषसूक्तं) इत्यादौ॥ २७॥

(अग्न्याख्यदेवतायाः तृतीयभूतस्य तेजसश्च वैश्वानरशब्दावाच्यत्वम्)

६०. अत एव न देवता भूतञ्च॥ १-२-२८ ॥

                उक्तेभ्य एव हेतुभ्यो देवतायाश्च तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्ग:॥२८॥

(अग्निशब्दादेः अव्यवधानेन भगवद्वाचकता)

६१. साक्षादप्यविराधं जैमिनि: ॥ १-२-२९ ॥

(सङ्गतिप्रदर्शनम्)

वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकत्वम्, तथैव परमात्मन उपास्यत्वं चोक्तम्। जैमिनिस्त्वाचार्यो वैश्वानरशब्दवदग्निशब्दस्यापि परमात्मन एव साक्षात् अव्यवधानेन वाचकत्वे न कश्चिद्विरोध इति मन्यते।

(शब्दानां परमात्मनि अव्यवहितवृत्तेरुपपादनम्)

एतदुक्तं – भवति – यथा वैश्वानरशब्दस्साधारणोऽपि परमात्मासाधारणधर्मविशेषितो विश्वेषां नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते, एवमग्निशब्दोऽप्यग्रनयनादिना येनैव गुणेन योगाज्ज्वलने वर्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि सम्भवादस्मिन्प्रकरणे परमात्मासाधारणधर्मविशेषित: परमात्मानमेवाभिधत्त इति॥२९॥

(उत्तरसूत्रोपयोगिनी शङ्का)

यस्त्वेतमेवं प्रादेशमात्रमभिविमानम् (छा.५.१८.१) इत्यपरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धितया मात्रया परिच्छिन्नत्वं कथमुपपद्यते – तत्राह

६२. अभिव्यक्तेरित्याश्मरथ्य: ॥ १-२-३० ॥

(परमात्मनः प्रादेशमात्रतावर्णनफलम्)

उपासकाभिव्यक्त्यर्थं प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यो मन्यते। द्यौर्मूर्धा आदित्यश्चक्षु: वायु: प्राण: आकाशो मध्यकाय:, आपो वस्ति:, पृथिवी पादौ इति द्युप्रभृतिप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वम् कृत्स्नमभिव्याप्तवतो विगतमानस्य ह्यभिव्यक्तेरेव हेतोर्भवति॥३०॥

(ब्रह्मणः पुरुषविधत्ववर्णनफलम्)

मूर्धाप्रभृत्यवयवविशेषै: पुरुषविधत्वं परस्य ब्रह्मण: किमर्थमिति चेत् – तत्राह

६३. अनुस्मृतेर्बादरि: ॥ १-२-३१ ॥

तथोपासनार्थमिति बादरिराचार्यो मन्यते। यस्त्वेतमेवमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति (छा.५.१८.१) इति ब्रह्मप्राप्तये ह्युपासनमुपदिश्यते एतमेवमिति – उक्तप्रकारेण पुरुषाकारमित्यर्थ:। सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नं भोग्यं तदत्ति – सर्वत्र वर्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मानुभवति। यत्तु सर्वै: कर्मवश्यैरात्मभि: प्रत्येकमनन्यसाधारणमन्नं भुज्यते, तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते॥३१॥

(उरःप्रभृतीनां वेद्यादिरूपताकल्पनप्रजोयनम्)

यदि परमात्मा वैश्वानर:, कथं तर्ह्युर:प्रभृतीनां वेद्यादित्वोपदेश:, यावता जाठराग्निपरिग्रह एवैतदुपपद्यत इत्यत्राह-

६४. सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ १-२-३२ ॥

अस्य परमात्मन एव वैश्वानरस्य द्युप्रभृतिपृथिव्यन्तशरीरस्य समाराधनभूताया: उपासकैरहरह: क्रियमाणाया: प्राणाहुतेरिग्नहोत्रत्वसम्पादनायायमुर: प्रभृतीनां वेदित्वाद्युपदेश इति जैमिनराचार्यो मन्यते। तथाहि – परमात्मोपासनोचितमेव फलं प्राणाहुत्या  अग्निहोत्रसम्पत्तिं च दर्शयतीयं श्रुति:। स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषुभूतेषु सर्वेष्वात्मसु हुतं भवति तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मान: प्रदूयन्ते (छा.५.२४.१) इति॥ ३२ ॥

(परमात्मनः द्युप्रभृतिशरीरकत्वोपपत्तिः)

६५. आमनन्ति चैनमिस्मन् ॥ १-२-३३ ॥

एनं परमपुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम्  अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति च तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजा: (छां.५.१८.२) इत्यादिना। अयमर्थ: यस्त्वमेवं प्रादेशमात्रमभिविमानं आत्मानं वैश्वानरमुपास्ते (छां.५.१८.२) इति त्रैलोक्यशरीरस्य परमात्मनो वैश्वानरस्योपासनं विधाय सर्वेषु लोकेषु (छां.५.१८.१) इत्यादिना ब्रह्मप्राप्तिं च फलमुपदिश्य अस्यैवोपासनस्याङ्गभूतं प्राणाग्निहोत्रं तस्य ह वा एतस्य (छा.५.१८.२) इत्यादिनोपदिशति; य: पूर्वमुपास्यतयोपिदष्टो वैश्वानरस्तस्यावयवभूतान् अग्न्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयानुपासकशरीरे मूर्धादिपादान्तेषु सम्पादयति। मूर्धैव सुतेजा: – उपासकस्य मूर्धैव परमात्ममूर्धभूता द्यौरित्यर्थ:। चक्षुर्विश्वरूप: – आदित्य इत्यर्थ:। प्राण: पृथग्वर्त्मा – वायुरित्यर्थ:। सन्देहो बहुल: – उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थ:। वस्तिरेव रयि: – अस्य वस्तिरेव तदवयवभूता आप इत्यर्थ: । पृथिव्येव पादौ – अस्य पादावेव तत्पादभूता पृथिवीत्यर्थ:। एवमुपासक: स्वशरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोमहृदयमनआस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हापत्यान्वाहार्यपचनौ आहवनीयानग्निहोत्रोपकरणभूतान्परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति उर एव वेदिर्लोमानि बर्हिर्हृादयं गार्हापत्य: (छां.५.१८.२) इत्यादिनोपदिश्यते। अत: परमात्मा पुरुषोत्तम एव वैश्वानर इति  सिद्धम्॥३३॥

इति श्रीशारीरकमीमांसाश्रीभाष्ये वैश्वानराधिकरणम्॥८॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

प्रथमस्याध्यायस्य द्वितीय:पाद:॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.