श्रीशारीरकमीमांसाभाष्ये उपसंहारदर्शनाधिकरणम् ॥ ८॥
(अधिकरणार्थः – अत्यद्भुतसर्वशक्तेर्ब्रह्मणः, इतरानपेक्षं सङ्कल्पमात्रतो जगत्सृष्टियोगः)
१६२. उपसंहारदर्शनान्नेति चेन्नक्षीरवद्धि ॥ २–१–२४ ॥
(अवान्तरसङ्गतिप्रदर्शनम्)
परस्य ब्रह्मणस्सर्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तु शरीरतया सर्वप्रकारत्वेन सर्वात्मत्वं सकलेतरिवलक्षणत्वं चाविरुद्धमिति स्थापितम्। इदानीं सत्यसङ्कल्पस्य परस्य ब्रह्मण: सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते ॥
(एतदधिकरणोत्थापकशङ्कानुदयाक्षेपः)
ननु च परिमितशक्तीनां कारककलापोपसंहारसापेक्षत्वदर्शनेन सर्वशक्तेर्ब्रह्मण: कारककलापानुपसंहारेण जगत्कारणत्वविरोध: कथमाशङ्क्यते?; उच्यते – लोके तत्तत्कार्यजननशक्तियुक्तस्यापि तत्तदुपकरणापेक्षत्वदर्शनात्सर्वशक्तियुक्तस्य परस्य ब्रह्मणोऽपि तत्तदुपकरणविरहिण: स्रष्टृत्वं नोपपद्यत इति कस्यचिन्मन्दधियश्शङ्का जायत इति सा निराक्रियते ॥
(एतदधिकरणीयः पूर्वः पक्षः)
घटपटादिकारणभूतानां कुलालकुविन्दादीनां तज्जननसामर्थ्ये सत्यपि कानिचिदुपकरणान्युपसंहृत्यैव जनयितृत्वं दृश्यते। तज्जननाशक्ता: कारककलापोपसंहारेऽपि जनयितुं न शक्नुवन्ति; शक्ता: पुन: कारककलापोपसंहारे जनयन्तीत्येतावानेव विशेष:। ब्रह्मणोऽपि सर्वशक्ते: सर्वस्य जनयितृत्वं तदुपकरणानामनुपसंहारे नोपपद्यते ॥
(पूर्वपक्षहेतोः उपकरणानुपसंहारस्य श्रुतिप्रतिपन्नता)
प्राक्सृष्टेश्चासहायत्वं सदेव सोम्येदमग्र आसीत् (छा.६.२.२) एको ह वै नारायण आसीत् (महोप.१.१) इत्यादिषु प्रतीयते। अतस्स्रष्टृत्वं नोपपद्यत इत्येवं प्राप्तम्। तदिदमाशङ्कते – उपसंहारदर्शनान्नेतिचेत् – इति॥
(सिद्धान्तप्रदर्शनम्)
परिहरति – न क्षीरवद्धि – इति; न सर्वेषां कार्यजननशक्तानामुपसंहारसापेक्षत्वमस्ति; यथा क्षीरजलादेर्दधिहिमजननशक्तस्य तज्जनने; एवं ब्रह्मणोऽपि स्वयमेव सर्वजननशक्तेस्ससर्वस्य जनियतृत्वमुपपद्यते। हीति प्रसिद्धवन्निर्देशश्चोद्यस्य मन्दताख्यापनाय। क्षीरादिषु आतञ्जनादि अपेक्षा न दध्यादिभावाय; अपितु शैघ्र्यार्थं रसविशेषार्थं वा॥
१६३. देवादिवदपि लोके ॥ २–१–२५ ॥
यथा देवादय: स्वे स्वे लोके सङ्कल्पमात्रेण स्वापेक्षितानि सृजन्ति; तथाऽसौ पुरुषोत्तम: कृत्स्नं जगत्सङ्कल्पमात्रेण सृजति। देवादीनां वेदावगतशक्तीनां दृष्टान्ततयोपादानम्, ब्रह्मणो वेदावगतशक्तेस्सुखग्रहणायेति प्रतिपत्तव्यम्॥
इति श्रीशारीरकमीमांसाभाष्ये उपसंहारदर्शनाधिकरणम्॥८॥