श्रीशारीरकमीमांसाभाष्ये भोक्त्रापत्त्यधिकरणम्॥ ५ ॥
(अधिकरणार्थः – परस्य ब्रह्मणः शरीरसम्बन्धाशङ्कितभोक्तृतानिरासः)
१५२. भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ २–१–१४ ॥
(सङ्गतिः – सूत्रार्थविवरणम्)
पुनरपि साङ्ख्य: प्रत्यवतिष्ठते – यदुक्तं, स्थूलसूक्ष्मचिदचिद्वस्तुशरीरस्य परस्य ब्रह्मण: कार्यकारणरूपत्वाज्जीवब्रह्मणोस्स्वभावविभाग उपपद्यते – इति ।
स तु विभागो न सम्भवति – ब्रह्मणस्सशरीरत्वे तस्य भोक्तृत्वापत्ते:, सशरीरत्वे जीवस्येवेश्वरस्यापि सशरीरत्वप्रयुक्तसुखदु:खयो: भोक्तृत्वस्यावर्जनीयत्वात् ॥
(अधिकरणारम्भाक्षेपपरिहारौ)
ननु च सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् (शारी.१.२.८) इत्यत्रेश्वरस्य भोगप्रसङ्गपरिहार उक्त:, नैवम् तत्र ह्युपास्यतया हृदयायतने सन्निहितस्य शरीरान्तर्वर्तित्वमात्रेण भोगप्रसङ्गो न विद्यत इत्युक्तम्, इह तु जीववद्ब्रह्मणोऽपि शरीरत्वे तद्वदेव सुखदु:खयोर्भोक्तृत्वप्रसङ्गो दुर्वार इत्युच्यते; दृश्यते हि सशरीराणां जीवानां शरीरगतबालत्वस्थविरत्वादिविकारासम्भवेऽपि शरीरधातुसाम्यवैषम्यनिमित्तसुखदु:खयोग:। श्रुतिश्च न ह वै सशरीरस्य सत: प्रियाप्रिययोः अपहतिरस्ति अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत: (छां.८.१२.१) इति ॥
(पूर्वभार्थः)
अतस्सशरीरब्रह्मकारणवादे जीवेश्वरस्वभावविभागासम्भवात्केवलब्रह्मकारणवादे मृत्सुवर्णादि-वत् जगद्गतापुरुषार्थादिसर्वविशेषाश्रयत्व-प्रसङ्गाच्च प्रधानकारणवाद एव ज्यायानिति चेत् –
(सिद्धान्तार्थः)
अत्रोत्तरं स्याल्लोकवत् – इति। स्यादेव विभागो जीवेश्वरस्वभावयो:; न हि जीवस्य शरीरधातुसाम्यवैषम्यनिमित्तं सुखदु:खयोर्भोक्तृत्वं सशरीरत्वकृतम्, अपि तु पुण्यपापरूपकर्मकृतम्। न ह वै सशरीरस्य (छां.८.१२.१) इत्यपि कर्मारब्धदेहविषयम्, स एकधा भवति त्रिधा भवति (छा.७.२६.२) स यदि पितृलोककामो भवति (छा.८.२.१) स तत्र पर्येति जक्षत्क्रीडन् रममाण: (छा.८.१२.३) इति कर्मबन्धविनिर्मुक्तस्याविर्भूतस्वरूपस्य सशरीरस्यैवापुरुषार्थगन्धाभावात्। अपहतपाप्मनस्तु परमात्मनस्स्थूलसूक्ष्मरूपकृत्स्नजगच्छरीरत्वेऽपि कर्मसम्बन्धगन्धो नास्तीति नतरामपुरुषार्थगन्धप्रसङ्ग: ॥
(सूत्रोक्तदृष्टान्तार्थविशदीकरणम्)
लोकवत् – यथा लोके राजशासनानुवर्तिनां तदतिवर्तिनां च राजानुग्रहनिग्रहकृतसुखदु:ख-योगेऽपि न शरीरित्वमात्रेण शासके राज्ञ्यपि शासनानुवृत्त्यतिवृत्तिनिमित्त-सुखदु:खयोर्भोक्तृत्वप्रसङ्ग:। यथाह – द्रमिडभाष्यकार: यथा लोके राजा प्रचुरदन्दशूके घोरेऽनर्थसङ्कटेऽपि प्रदेशे वर्तमानो व्यजनाद्यवधूतदेहो दोषैर्न स्पृश्यते, अभिप्रेतांश्च लोकान् परिपालयति, भोगांश्च गन्धादीनविश्वजनोपभोग्यान्धारयति, तथाऽसौ लोकेश्वरो भ्रमत्स्वसामर्थ्यचामरो दोषैर्न स्पृश्यते, रक्षति च लोकान्ब्रह्मलोकादीन्, भोगांश्चाविश्वजनोपभोग्यान्धारयति इति मृत्सुवर्णादिवद्ब्रह्मस्वरूपपरिणामस्तु नैवाभ्युपगम्यते, अविकारत्व-निर्दोषत्वादिश्रुते:॥
(अन्यथा व्याख्यानानुवादः, तद्दूषणं च)
यत्तु परैर्ब्रह्मकारणवादे भोक्तृभोग्यविभागाभावमाशङ्क्य समुद्रफेनतरङ्गदृष्टान्तेन विभागप्रतिपादनपरं सूत्रं व्याख्यातम्; तदयुक्तम्, अन्तर्भावितशक्त्यविद्योपाधिकाद् ब्रह्मणस्सृष्टिं अभ्युपगच्छतामेवं आाक्षेपपरिहारयोरसङ्गतत्वात्, कारणान्तर्गतशक्त्यविद्योपाध्युपहितस्य भोक्तृत्वादुपाधेश्च भोग्यत्वात्। विलक्षणयोस्तयो: परस्परभावापत्तिर्हि न सम्भवति ।
(स्वरूपपरिणामनिबन्धनतयाऽपि शङ्का-परिहारयोरनुपपत्तिः)
स्वरूपपरिणामस्तु तैरपि नाभ्युपेयते, न कर्माविभागादिति चेन्नानादित्वात् (ब्र.सू.२.१.३५) इति क्षेत्रज्ञानां तद्गतकर्मणां चानादित्वप्रतिपादनात्। स्वरूपपरिणामाभ्युपगमेऽपि भोक्तृभोग्याविभागाशङ्का कस्यचिदपि न जायते, मृत्सुवर्णादिपरिणाम-रूपघटशरावकटकमकुटादिविभागवद्भोक्तृभोग्यविभागोपपत्ते:। स्वरूपपरिणामे च ब्रह्मण एव भोक्तृभोग्यत्वापत्तिरिति पुनरप्यसामञ्जस्यमेव॥१४॥
इति श्रीशारीरकमीमांसाभाष्ये भोक्त्रापत्त्यधिकरणम्॥ ५॥