श्रीशारीरकमीमांसाभाष्ये योगप्रत्युक्त्यधिकरणम्॥२॥
(अधिकरणार्थः – वेदान्तविरोधित्वात् योगतन्त्रस्य जगत्कारणत्वनिरूपणे सामर्थ्याभावनिरूपणम्)
१४१. एतेन योग: प्रत्युक्त: ॥ २–१–३ ॥
(सूत्रार्थविवरणम्)
एतेन – कापिलस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता। का पुनरत्राधिकाशङ्का यन्निराकरणाय न्यायातिदेश: –
(योगस्मृतेः वेदान्तोपबृंहणत्वशङ्का)
योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानाद्वक्तुः हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यम् – इति॥
(योगस्मृतेः वेदान्तानुपबृंहणत्वनिरूपणम्)
परिहारस्तु- अब्रह्मात्मकप्रधानकारणवादान्निमित्तकारणमात्रेश्वराभ्युपगमाद्ध्यानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादानतादिसर्वकल्याण-गुणात्मकत्व-विरहेणावैदिकत्वाद्वक्तुर्हिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्तमोऽभिभवसम्भवात् च योगस्मृतिरपि तत्प्रणीतरजस्तमोमूलपुराणवद्भ्रान्तिमूलेति न तया वेदान्तोपबृंहणं न्याय्यम् – इति ॥३॥
इति श्रीशारीरकमीमांसाभाष्ये योगप्रत्युक्त्यधिकरणम्॥२॥