श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम्॥४॥
(अधिकरणार्थः – ज्ञानाश्रयत्वस्य जीवस्वरूपतानिरूपणम्)
२३५. ज्ञोऽत एव ॥ २–३–१९ ॥
(अवान्तरसङ्गतिः, अधिकरणीयः संशयश्च)
वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। किं सुगतकपिलाभिमतचिन्मात्रमेवात्मनस्स्वरूपम्; उत कणभुगभिमतपाषाणकल्पस्वरूपं अचित्स्वभावमेव आगन्तुकचैतन्यगुणकम्; अथ ज्ञातृत्वमेवास्य स्वरूपमिति।
(युक्तिसहितः पूर्वः पक्षः, चेतनस्य ज्ञानमात्रस्वरूपता)
किं युक्तम्? चिन्मात्रमिति; कुत:? तथा श्रुते:। अन्तर्यामिब्राह्मणे हि य आत्मनि तिष्ठन् (बृ.५.७.२२) इति माध्यन्दिनस्य पर्यायस्य स्थाने यो विज्ञाने तिष्ठन् (बृह.५.७.२२) इति काण्वा अधीयते। तथा विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च (तै.आन.५.१) इति कर्तुरात्मनो विज्ञानमेव स्वरूपं श्रूयते । स्मृतिषु च ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थत: (वि.पु.१.२.६) इत्यादिष्वात्मनो ज्ञानस्वरूपत्वं प्रतीयते। अपरस्तु जीवात्मनो ज्ञानत्वे ज्ञातृत्वे च स्वाभाविकेऽभ्युपगम्यमाने तस्य सर्वगतस्य सर्वदा सर्वत्रोपलब्धिप्रसङ्गात्, करणानां च वैयर्थ्यात्, सुषुप्तिमूर्च्छादिषु सतोऽप्यात्मन: चैतन्यानुपलब्धेर्जाग्रतस्सामग्र्यां सत्यां ज्ञानोत्पत्ति-दर्शनादस्य न ज्ञानं स्वरूपम्; नापि ज्ञातृत्वम्; आगन्तुकमेव चैतन्यम्; सर्वगतत्वं चात्मनोऽवश्याभ्युपेत्यम्, सर्वत्र कार्योपलब्धे: सर्वत्रात्मनस्सन्निधानाभ्युपगमाच्छरीरगमनेनैव कार्यसम्भवे सति गतिकल्पनायां प्रमाणाभावाच्च। श्रुतिरपि सुषुप्तिवेलायां ज्ञानाभावं दर्शयति – नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि (छा.८.११.२) इति। तथा मोक्षदशायां ज्ञानाभावं दर्शयति – न प्रेत्य संज्ञाऽस्ति (बृ.६.५.१३) इति। ज्ञानस्वरूपम् (वि.पु.१.२.६) इत्यादिप्रयोगस्तु ज्ञानस्य तदसाधारणगुणत्वेन लाक्षणिक इति॥
(सिद्धान्तप्रदर्शनम्, तत्र चेतनस्य ज्ञातृत्वस्वरूपता)
एवं प्राप्ते प्रचक्ष्महे – ज्ञोऽत एव – ज्ञ एव – अयमात्मा ज्ञातृत्वस्वरूप एव, न ज्ञानमात्रम्, नापि जडस्वरूप:; कुत:? अत एव – श्रुतेरेवेत्यर्थ; । नात्मा श्रुते: इति प्रकृता श्रुति: अत इति शब्देन परामृश्यते । तथा छान्दोग्ये प्रजापतिवाक्ये मुक्तामुक्तात्मस्वरूपकथने अथ यो वेदेदं जिघ्राणीति स आत्मा (बृ.५.७.२२) मनसैवेतान् कामान् पश्यन् रमते य एते ब्रह्मलोके (छा.८-१२-४) सत्यकामस्सत्यसङ्कल्प: (छा.८.७.१) नोपजनं स्मरन्निदं शरीरम् (छा.८-१२-३) अन्यत्रापि न पश्यो मृत्युं पश्यति (छा.७.२६.२) तथा वाजसनेयके कतम आत्मा (बृ.६.३.७) इति पृष्ट्वा योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: पुरुष: (बृ.६.३.७) इति तथा विज्ञातारमरे केन विजानीयात् (बृ.६.५.१५) जानात्येवायं पुरुष: इति, तथा एष हि द्रष्टा श्रोता घ्राता रसियता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष: (प्रश्न. ४-९) एवमेवास्य परिद्रष्टुरिमाष्षोडशकला: (प्रश्न.६,५) इति ॥१९॥
(आत्मनो विभुत्वे समुन्मिषतो दोषस्य अणुत्वतो निरासः)
यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति सर्वगतस्य तस्य सर्वदा सर्वत्रोपलब्धि: प्रसज्यत इति तत्रोच्यते।
२३६. उत्क्रान्तिगत्यागतीनाम् ॥ २–३–२० ॥
नायं सर्वगत:, अपित्वणुरेवायमात्मा; कुत:? उत्क्रान्तिगत्यागतीनां श्रुते:, उत्क्रान्तिस्तावच्छ्रूयते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्घ्नो वाऽन्येभ्यो वा शरीरदेशेभ्य: (बृ.६.४.२) इति। गतिरपि ये वै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति (कौषी.१.२) इति । आगतिरपि तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे (बृ.६.४.६) इति। विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरन्॥२०॥
(आत्मनो विभुत्वे, गत्यागत्योः सर्वथा असम्भवः)
२३७. स्वात्मना चोत्तरयो: ॥ २–३–२१ ॥
च शब्दोऽवधारणे। यद्यपि शरीरवियोगरूपत्वेनोत्क्रान्ति: स्थितस्याप्यात्मन: कथंचिदुपपद्यते; गत्यागती तु न कथंचिदुपपद्येते। अतस्ते स्वात्मनैव सम्पाद्ये ॥२१॥
(श्रुतौ महत्वोक्तेः जीवविषयकत्वभ्रान्तिकृताणुत्वविरोधपरिहारः)
२३८. नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २–३–२२ ॥
योऽयं विज्ञानमय: प्राणेषु (बृ.६.३.७) इति जीवं प्रस्तुत्य स वा एष महानज आत्मा (बृ.६.४.१५) इति महत्त्वश्रुते: नाणुर्जीव इति चेन्न; इतराधिकारात् – जीवादितरस्य प्राज्ञस्य तत्राधिकारात्; यद्यप्युपक्रमे जीव: प्रस्तुत:, तथापि यस्यानुवित्त: प्रतिबुद्ध आत्मा (बृ.६.४.१३) इति मध्ये पर: प्रतिपाद्यत इति तत्सम्बन्धीदं महत्वम्; न जीवस्य ॥२२॥
(आत्मनः अणुत्वस्य श्रौतता)
२३९. स्वशब्दोन्मानाभ्यां च ॥ २–३–२३ ॥
साक्षादणुशब्द एव श्रूयते एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राण: पञ्चधा संविवेश (मु.३.१.९) इति; उद्धृत्य मानमुन्मानम्; अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य श्रूयते वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्स विज्ञेय: (श्वे.५.९) इति; आराग्रमात्रो ह्यवरोऽपि दृष्ट: (श्वेत.५.८) इति च । अतोऽणुरेवायमात्मा ॥२३॥
(अणुत्वे सर्वावयवावच्छेदेन वेदनानुपपत्ति-तत्परिहारौ)
अथ स्यात् – आत्मनोऽणुत्वे सकलशरीरव्यापिनी वेदना नोपपद्यत इति; तत्र मतान्तरेण परिहारमाह –
२४०. अविरोधश्चन्दनवत् ॥ २–३–२४ ॥
यथा हरिचन्दनबिन्दुर्देहैकदेशवर्त्यपि सकलदेहव्यापिनमाह्लादं जनयति, तद्वदात्माऽपि देहैकदेशवर्ती सकलदेशवर्तिनीं वेदनामनुभवति ॥२४॥
(अणोरात्मनः चन्दनबिन्दुदृष्टान्तासाङ्गत्य-तत्समाधाने)
२४१. अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २–३–२५ ॥
हरिचन्दनबिन्द्वादेर्देहदेशविशेषावस्थितिविशेषात्तथाभाव:, आत्मनस्तु तन्न विद्यत इति चेन्न; आत्मनोऽपि देहदेशविशेषे स्थित्यभ्युपगमात् । हृदयदेशे ह्यात्मन: स्थिति: श्रूयते हृदि ह्ययमात्मा तत्रैकशतं नाडीनाम् (प्रश्न.३.६) इति; तथा कतम आत्मा (बृ.६.३.७) इति प्रकृत्य योऽयं विज्ञानमय: प्राणेषु ह्यद्यन्तर्ज्योति: (बृह.६.३.७) इति। आत्मनो देशविशेषस्थितिख्यापनाय चन्दनदृष्टान्त: प्रदर्शित:; न तु चन्दनस्य देशविशेषापेक्षा॥२५॥
(अस्मिन् विषये सूत्रकृतः स्वाभिप्रायप्रकाशनम्)
एकदेशवर्तिनस्सकलदेहव्यापिकार्यकरत्वप्रकारं स्वमतेनाह –
२४२. गुणाद्वाऽऽलोकवत् ॥ २–३–२६ ॥
वा शब्दो मतान्तरव्यावृत्त्यर्थ:; आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थित: आलोकवत् – यथा मणिद्युमणिप्रभृतीनामेकदेशवर्तिनामालोकोऽनेकदेशव्यापी दृश्यते, तद्वद्धृदयस्थस्याऽत्मनो ज्ञानं सकलदेहं व्याप्य वर्तते; ज्ञातु: प्रभास्थानीयस्य ज्ञानस्य स्वाश्रयादन्यत्र वृत्तिर्मणिप्रभावदुपपद्यत इति प्रथमसूत्रे स्थापितम्॥ २६॥
(ज्ञानरूपस्यात्मनः स्वातिरिक्तज्ञानगुणकत्वोपपत्तिः)
ननूक्तं ज्ञानमात्रमेवात्मेति; तत्कथं ज्ञानस्य स्वरूपव्यतिरिक्तगुणत्वमुच्यते; तत्राह –
२४३. व्यतिरेको गन्धवत्तथा च दर्शयति ॥ २–३–२७ ॥
यथा पृथिव्या: गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेक:, तथा जानामीति ज्ञातृगुणत्वेन प्रतीयमानस्य ज्ञानस्याऽत्मनो व्यतिरेकस्सिद्ध:; दर्शयति च श्रुति: जानात्येवायं पुरुष: इति॥२७॥
(ज्ञान-तदाश्रययोः श्रुतिकण्ठोक्तिः)
२४४. पृथगुपदेशात् ॥ २–३–२८ ॥
स्वशब्देनैव, विज्ञानं विज्ञातु: पृथगुपदिश्यते न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते (बृ.६.३.३०) इति ॥२८॥
(ज्ञातृत्वस्वरूपेऽप्यात्मनि ज्ञानशब्दप्रयोगौचित्यम्)
यत्तूक्तं यो विज्ञाने तिष्ठन् (बृ.५.७.२२) विज्ञानं यज्ञं तनुते (तै.आन.५.१) ज्ञानस्वरूपमत्यन्तनिर्मलम् (वि.पु.१.२.६) इत्यादिषु ज्ञानमेवात्मेति व्यपदिश्यत इति, तत्राह –
२४५. तद्गुणसारत्वात्तु तद्व्यपदेश: प्राज्ञवत् ॥ २–३–२९ ॥
तुशब्दश्चोद्यं व्यावर्तयति; तद्गुणसारत्वात् – विज्ञानगुणसारत्वात् आत्मनो विज्ञानमिति व्यपदेश:। विज्ञानमेवास्य सारभूतो गुण:, यथा प्राज्ञस्यानन्दस्सारभूतो गुण इति प्राज्ञ आनन्दशब्देन व्यपदिश्यते – यदेष आकाश आनन्दो न स्यात् (तै.आन.७.१) आनन्दो ब्रह्मेति व्यजानात् (तै.भृ.६.१) इति; प्राज्ञस्य ह्यानन्दस्सारभूतो गुण:- स एको ब्रह्मण आनन्द: (तै.आन.८-४) आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन (तै.आन.७.१) इति। यथा वा सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इति विपश्चित: प्राज्ञस्य ज्ञानशब्देन व्यपदेश: सह ब्रह्मणा विपश्चिता (तै.आन.१.२) यस्सर्वज्ञ: (मु.१.१.९) इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते॥
(ज्ञानस्य स्वरूपानुबन्धिधर्मत्वतः आत्मनि ताच्छब्द्यम्)
२४६. यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ २–३–३० ॥
विज्ञानस्य यावदात्मभाविधर्मत्वात्तेन तद्व्यपदेशो न दोष:; तथा च खण्डादयो यावत्स्वरूपभाविगोत्वादिधर्मशब्देन गौरिति व्यपदिश्यमाना दृश्यन्ते; स्वरूपनिरूपणधर्मत्वादित्यर्थ:। चकारात् ज्ञानवदात्मनोऽपि स्वप्रकाशत्वेन विज्ञानमिति व्यपदेशो न दोष इति समुच्चिनोति॥३०॥
(ज्ञानस्य आत्मस्वरूपानुबन्धिधर्मत्वाभावशङ्का-परिहारौ)
यच्चोक्तं सुषुप्त्यादिषु ज्ञानाभावात् ज्ञानस्य न स्वरूपानुबन्धिधर्मत्वमिति, तत्राह –
२४७. पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् ॥ २–३–३१ ॥
तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थ:। अस्य – ज्ञानस्य सुषुप्त्यादिष्वपि विद्यमानस्य जागर्यादिष्वभिव्यक्ते: सम्भवात्स्वरूपानुबन्धिधर्मत्वोपपत्ति: । पुंस्त्वादिवत् – यथा पुंस्त्वाद्यसाधारणस्य धातोर्बाल्यावस्थायां सतोऽप्यनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस्तद्वत्ता न कादाचित्की भवति । सप्तधातुमयत्वं हि शरीरस्य स्वरूपानुबन्धि – तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम् इति शरीरस्वरूपव्यपदेशात्।
(आत्मप्रकाशस्य सार्वकालिकता)
सुषुप्त्यादिष्वप्यहमर्थ: प्रकाशत इति प्रागेवोक्तम्। तस्य विद्यमानस्य ज्ञानस्य विषयगोचरत्वं जागर्यादावुपलभ्यते। एते चात्मनो ज्ञातृत्वादयो धर्मा: प्रागेवोपपादिता: । अतो ज्ञातृत्वमेव जीवात्मन: स्वरूपम् । स चायमात्माऽणुपरिमाण: । न प्रेत्य संज्ञाऽस्ति (बृ.४.४.१२) इत्यपि न मुक्तस्य ज्ञानाभाव उच्यते; अपि तु एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति (बृ.४.४.१२) इति संसारदशायां यद्भूतानुविधायित्वप्रयुक्तं जन्मनाशादिदर्शनम्, तन्मुक्तस्य न विद्यते न पश्यो मृत्युं पश्यति न रोगं नोत दु:खताम्। सर्वं हि पश्य: पश्यति सर्वमाप्नोति सर्वश: (छा.७.२६.२) नोपजनं स्मरन्निदं शरीरम् (छा.८.१२.३) मनसैतान् कामान् पश्यन् रमते (छा.८.१२.५) इत्यादिश्रुत्यैकार्थ्यात् ॥३१॥
(आत्मनो ज्ञानत्व-जडत्वपक्षयोः विभुत्वे दूषणम्)
सम्प्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह –
२४८. नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा॥ २–३–३२ ॥
अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च नित्यमुपलब्ध्यनुपलब्धी सहैव प्रसज्येयाताम्; अन्यतरनियमो वा – उपलब्धिरेव वा नित्यं स्यात्, अनुपलब्धिरेव वा।
(उपलब्ध्यनुपलब्ध्योः उभयोर्वा प्रसङ्गप्रकारः)
एतदुक्तं भवति – लोके तावद्वर्तमानयोरात्मोपलब्ध्यनुपलब्ध्योरयं ज्ञानात्मा सर्वगतो हेतुस्स्यात् उपलब्धेरेव वा, अनुपलब्धेरेव वा; उभयहेतुत्वे सर्वदा सर्वत्रोभयं प्रसज्येत; यद्युपलब्धेरेव, सर्वस्य सर्वदा सर्वत्रानुपलम्भो न स्यात्। अथानुपलब्धेरेव, सर्वदा सर्वत्रोपलब्धिर्न स्यात् इति। अस्माकं शरीरस्यान्तरेवावस्थितत्वात् आत्मनस्तत्रैवोपलब्धिर्नान्यत्रेति व्यवस्थासिद्धि: । करणायत्तोपलब्धेरपि सर्वेषामात्मनां सर्वगतत्वेन सर्वै: करणैस्सर्वदा संयुक्तत्वाददृष्टादेरप्यनियमादुक्तदोषस्समान:॥३२॥
इति श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम्॥ ४॥