श्रीशारीरकमीमांसाभाष्ये परायत्ताधिकरणम्॥६॥
(अधिकरणार्थः – जीवात्मगतं विहित-निषिद्धक्रियाकर्तृत्वं परमात्माधीनम्)
२५६. परात्तु तच्छ्रुते:॥ २–३–४० ॥
(एतदधिकरणविचारणीयोऽर्थः)
इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण? उत परमात्मायत्तमिति।
(युक्तिसिद्धः पूर्वः पक्षः)
कि प्राप्तम्? स्वातन्त्रयेणेति । परमात्मायत्तत्वे हि विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबृुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्त:; स एव नियोज्यो भवति। अत स्वातन्त्र्येणास्य कर्तृत्वम्॥
(सिद्धान्तः सूत्रार्थविवृत्त्या सह)
इति प्राप्तेऽभिधीयते – परात्तु तच्छ्रुते: – इति। तुशब्द: पक्षं व्यावर्तयति; तत् -कर्तृत्वं अस्य – जीवस्य परात् – परमात्मन एव हेतोर्भवति, कुत:? श्रुते: – अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आर.३.११.१०) य आत्मनि तिष्ठन्नात्मनोमन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२) इति। स्मृतिरपि – सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृति: ज्ञानमपोहनं च (भ.गी.१५.१५) ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया (भ.गी.१८-६१) इति॥४०॥
(पूर्वपक्षोक्तायाः युक्तेः अनूद्य निरासः)
नन्वेवं विधिनिषेधशास्त्रानर्थक्यं प्रसज्येतेत्युक्तम्; तत्राह –
२५७. कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य:॥ २–३–४१ ॥
सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नम् उद्योगमपेक्ष्यान्तर्यामी परमात्मा तदनुमतिदानेन प्रवर्तयति। परमात्मानुमतिमन्तरेणास्य प्रवृत्तिर्नोपपद्यत इत्यर्थ:।
कुत एतत्? विहितप्रतिषिद्धावैयर्थ्यादिभ्य: – आदिशब्देनानुग्रहनिग्रहादयो गृह्यन्ते। यथा द्वयोस्साधारणे धने परस्वत्वापादनमन्यतरानुमतिमन्तरेण नोपपद्यते; अथापीतरानुमते: स्वेनैव कृतमिति तत्फलं स्वस्यैव भवति ।
पापकर्मसु निवर्तनशक्तस्याप्यनुमन्तृत्वं न निर्दयत्वमावहतीति साङ्ख्यसमयनिरूपणे प्रतिपादितम् ॥
(परमात्मनः जीवीयप्रथमप्रवृत्तावौदासीन्ये, श्रुतिविरोध-तत्परिहारौ)
नन्वेवम् एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषति (कौषी.३.९) इत्युन्निनीषयाऽधोनिनीषया च स्वयमेव साध्वसाधुनी कर्मणी कारयतीत्येतन्नोपपद्यते। उच्यते – एतन्न सर्वसाधारणम्, यस्त्वतिमात्रपरमपुरुषानुकूल्ये व्यवस्थित: प्रवर्तते; तमनुगृह्णन् भगवान् स्वयमेव स्वप्राप्त्युपायेष्वतिकल्याणेषु कर्मस्वेव रुचिं जनयति। यश्चातिमात्रप्रातिकूल्ये व्यवस्थित: प्रवर्तते; तं निगृह्णन् स्वप्राप्तिविरोधिगतिसाधनेषु कर्मसु रुचिं जनयति । यथोक्तं भगवता स्वयमेव अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बृुधा भावसमन्विता: (भ.गी.१०.८) इत्यारभ्य तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बृुद्धियोगं तं येन मामुपयान्ति ते (भ.गी.१०-१०) तेषामेवानुकम्पार्थमहमज्ञानजं तम: नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता (भ.गी.१०.११) इति । तथा असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् (भ.गी.१६.८) इत्यादि मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: (भ.गी.१६.१८) इत्यन्तमुक्त्वा तानहं द्विषत: क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु (भ.गी.१६.१९) इत्युक्तम्॥ ४०॥
इति श्री शारीरकमीमांसाभाष्ये परायत्ताधिकरणम्॥६॥