श्रीशारीरकमीमांसाभाष्ये कर्त्रधिकरणम्॥५॥
(अधिकरणार्थः – आत्मन एव कर्तृत्वम्, न गुणानाम् इति समर्थनम्)
२४९. कर्ता शास्त्रार्थवत्वात् ॥ २–३–३३ ॥
(अवान्तरसङ्गतिप्रदर्शनम्, अधिकरणीयो विचारश्च)
अयमात्मा ज्ञाता, स चाणुपरिमाण इत्युक्तम्; इदानीं किं स एव कर्ता; उत स्वयमकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते।
(पर्वपक्षः सयुक्तिकः)
किमत्र युक्तम्? अकर्तैवात्मेति। कुत:? आत्मनो ह्यकर्तृत्वम्, गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते। तथाहि कठवल्लीषु जीवस्य न जायते म्रियते (कठ.२.१८) इत्यादिना जन्मजरामरणादिकं सर्वं प्रकृतिधर्मं प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वमपि प्रतिषिध्यते हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्त न हन्यते (कठ.२.१९) इति। हन्तारमात्मानं जानन्न जानात्यात्मानमित्यर्थ:। तथा च भगवता स्वयमेव जीवस्याकर्तृत्वं स्वरूपम्, कर्तृत्वाभिमानस्तु व्यामोह इत्युच्यते प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश:। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते (भ.गी.३.२७) नान्यं गुणेभ्य: कर्तारं यदा द्रष्टाऽनुपश्यति (भ.गी.१४.१९) कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते। पुरुषस्सुखदु:खानां भोक्तृत्वे हेतुरुच्यते (भ.गी.१३.२०) इति च। अत: पुरुषस्य भोक्तृत्वमेव, प्रकृतेरेव तु कर्तृत्वम् इति।
(सिद्धान्तमुखेन सूत्रार्थः)
एवं प्राप्ते प्रचक्ष्महे – कर्ता शास्त्रार्थवत्त्वात् इति। आत्मैव कर्ता, न गुणा:, कस्मात्? शास्त्रार्थवत्त्वात्। शास्त्राणि हि यजेत स्वर्गकाम: मुमुक्षुर्ब्रह्मोपासीत इत्येवमादीनि स्वर्गमोक्षादिफलस्य भोक्तारमेव कर्तृत्वे नियुञ्जते; न ह्यचेतनस्य कर्तृत्वेऽन्यो नियुज्यते। शासनाच्च शास्त्रम्; शासनं च प्रवर्तनम् शास्त्रस्य च प्रवर्तकत्वं बोधजननद्वारेण; अचेतनं च प्रधानं न बोधयितुं शक्यम्। अत: शास्त्राणामर्थवत्त्वं भोक्तुश्चेतनस्यैव कर्तृत्वे भवेत्। तदुक्तं शास्त्रफलं प्रयोक्तरि (पूर्व.मी.न्या.३-७) इति।
(अनुवादपूर्वकं पूर्वपक्षनिरासः)
यदुक्तं हन्ता चेन्मन्यते (कठ.२.१९) इत्यादिना हननिक्रयायामकर्तृत्वमात्मन: श्रूयत इति; तदात्मनो नित्यत्वेन हन्तव्यत्वाभावादुच्यते। यच्च प्रकृते: क्रियमाणानि (भ.गी.३.२७) इत्यादिना गुणानामेव कर्तृत्वं स्मर्यत इति; तत्सांसारिकप्रवृत्तिष्वस्य कर्तृता सत्त्वरजस्तमोगुणसंसर्गकृता; न स्वरूपप्रयुक्तेति प्राप्ताप्राप्ताविवेकेन गुणानामेव कर्तृतेत्युच्यते। तथा च तत्रैवोच्यते कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु (भ.गी.१६.२९) इति। तथा तत्रैवात्मनश्च कर्तृत्वमभ्युपेत्योच्यते तत्रैवं सति कर्तारमात्मानं केवलं तु य:। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मति: (भ.गी.१८-१६) इति। अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् (भ.गी.१८.१४) इत्यधिष्ठानादिदैवपर्यन्तसापेक्षे सत्यात्मन: कर्तृत्वे य आत्मानमेव केवलं कर्तारं मन्यते, न स पश्यतीत्यर्थ: ॥३३॥
(आत्मनः कर्तृत्वस्य श्रुत्युपदेशतो लाभः)
२५०. उपादानाद्विहारोपदेशाच्च ॥ २–३–३४ ॥
स यथा महाराज: (बृ.४.१.१८) इति प्रकृत्य, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते (बृह.४.७.१८) इति प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते॥३४॥
(आत्मनः कर्तृत्वव्यपदेशः लौकिक-वैदिकीषु क्रियासु)
२५१. व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय:॥ २–३–३५ ॥
विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च (तै.आन.५.१) इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्च कर्ता । विज्ञानशब्देन नात्मनो व्यपदेश:; अपित्वन्त:करणस्य बुद्धेरिति चेत् – एवं सति निर्देशविपर्ययस्स्यात् – बुद्धे: करणत्वाद्विज्ञानेनेति करणविभक्तिनिर्देशस्स्यात्॥३५॥
(आत्मनः कर्तृत्वानभ्युपगमे दोषप्रदर्शनम्)
२५२. उपलब्धिवदनियम: ॥ २–३–३६ ॥
आत्मनोऽकर्तृत्वे दोष उच्यते। यथाऽऽत्मनो विभुत्वे नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्यादिनोपलब्धेरनियम उक्त:; तद्वदात्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्यास्सर्वपुरुषसाधारणत्वात् सर्वाणि कर्माणि सर्वेषां भोगाय स्यु:; नैव वा कस्यचित्। आत्मनो विभुत्वाभ्युपगमात्सन्निधानमपि सर्वेषामविशिष्टम्। अत एव चान्त:करणादीनामपि नियमो नोपपद्यते; यदायत्ता व्यवस्था स्यात्॥३६॥
(बुद्धेः कर्तृत्वाभ्युपगमे आत्मापलापापत्तिः)
२५३. शक्तिविपर्ययात्॥ २–३–३७ ॥
बृुद्धे: कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेर्भोक्तृत्वशक्तिरपि तस्या एव स्यादित्यात्मनो भोक्तृत्वशक्तिर्हीयेत। भोक्तृत्वं च बुद्धेरेव संपद्यत इति आत्मसद्भावे प्रमाणाभावश्च स्यात्। पुरुषोऽस्ति भोक्तृभावात् (सां.का.१७) इति हि तेषामभ्युपगम:॥३७॥
(प्रकृतौ, प्रकृत्यन्यथाख्यातिरूपसमाध्यनुपपत्तिः)
२५४. समाध्यभावाच्च ॥ २–३–३८ ॥
बुद्धे: कर्तृत्वे मोक्षसाधनभूतसमाधावपि सैव कर्त्री स्यात् । स च समाधि: प्रकृतेरन्योऽस्मीत्येवंरूप:, न च प्रकृतेरन्योऽस्मीति प्रकृतिस्समाधातुमलम्। अतोऽप्यात्मैव कर्ता॥३८॥
(आत्मनः कर्तृत्वे, तस्मिंस्तस्यानुपरतिशङ्का-तत्परिहारौ)
नन्वात्मन: कर्तृत्वेऽभ्युपगम्यमाने सर्वदा कर्तृत्वान्नोपरमेतेत्यत्राह –
२५५. यथा च तक्षोभयधा॥ २–३–३९ ॥
वागादिकरणसम्पन्नोऽप्यात्मा यदेच्छति, तदा करोति यदा तु नेच्छति, तदा न करोति, यथा तक्षा वाश्यादिकरणसन्निधानेऽपि इच्छानुगुण्येन करोति, न करोति च। बुद्धेस्त्वचेतनाया: कर्तृत्वे तस्या: भोगवाञ्छादिनियमकारणाभावात्सर्वदा कर्तृत्वमेव स्यात्॥२९॥
इति श्रीशारीरकमीमांसाभाष्ये कर्त्रधिकरणम्॥ ५॥