श्रीभाष्यम् 03-02-01 सन्ध्याधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीररकमीमांसाभाष्ये

तृतीयस्य साधनाध्यायस्य द्वितीयः उभयलिङ्गपाद:

(अधिकरणानि – 8, सूत्राणि – 40)

(पादार्थः – परस्य ब्रह्मणः निरस्ताखिलदोषता समस्तकल्याणगुणाकरता च)

 

सन्ध्याधिकरणम्

(बृहदारण्यकदहरविद्या 6-3-10)

(अधिकरणार्थः – स्वप्नानां जीवानुभाव्यानां )

३१५. सन्ध्ये सृष्टिराह हि (पू)

(पादसङ्गतिप्रदर्शनम्, विषयवाक्यं च)

एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दु:खित्वं ख्यापितम्; इदानीमस्य स्वप्नावस्था परीक्ष्यते। स्वप्नमधिकृत्य श्रूयते –   तत्र रथा रथयोगा पन्थानो  भवन्ति, अथ रथान् रथयोगान् पथस्सृजते, तत्रानन्दा मुद: प्रमुदो भवन्ति, अथ आनन्दान् मुद: प्रमुद: सृजते, तत्र वेशान्ता: पुष्किरण्य: स्रवन्त्यो भवन्ति, अथ वेशान्ता: पुष्किरण्य: स्रवन्त्यस्सृजते, हि कर्ता (बृ.६.३.१०) इति।

(अधिकरणीयः संशयः)

तत्र संशय: – किमियं रथादिसृष्टि: जीवेनैव क्रियते; आहोस्विदीश्वरेण इति ।

(पूर्वपक्षः सयुक्तिकः)

किंयुक्तम्? सन्ध्ये सृष्टिर्जीवेनेति। कुत:? सन्ध्यं – स्वप्नस्थानमुच्यते,  सन्ध्यं तृतीयं स्वप्नस्थानम् इति वचनात्; सा तु जीवेनैव क्रियते सृजते हि कर्ता (बृ.६.३.१०) इत्याह हि। स्वप्नदृग्जीव एव तत्र प्रतीयते ॥१॥

(जीवस्यैव स्वाप्नार्थनिर्मातृत्वे श्रुत्यन्तरम्)

३१६. निर्मातारं चैके पुत्रादयश्च

किञ्च – एनं जीवं स्वप्ने कामानां निर्मातारमेके शाखिनोऽधीयते  एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाण: (कठ.२.५.८) इति । पुत्रादयश्च तत्र काम्यमानतया कामशब्देन निर्दिश्यन्ते, नेच्छामात्रम्; पूर्वत्र हि सर्वान् कामान् छन्दत: प्रार्थयस्व (कठ.१.१.२५)  शतायुष: पुत्रपौत्रान् वृणीष्व (कठ.१.१.२३) इति पुत्रादय एव कामा: प्रकृता: ।

(पूर्वपक्षार्थनिगमनम्)

अतो रथादीन् जीव: स्वप्ने सृजति, जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम्; अत उपकरणाद्यभावेऽपि सृष्टिरुपपद्यते॥२॥

(सिद्धान्तसूत्रं सविवरणम्)

इति प्राप्तेऽभिधीयते

३१७. मायामात्रं तु कार्त्स्न्येेनानभिव्यक्तस्वरूपत्वात्

तु शब्द: पक्षं व्यावर्तयति स्वप्ने रथपुष्करिण्याद्यर्थजातं मायामात्रं परमपुरुषसृष्टमित्यर्थ:। मायाशब्दो ह्याश्चर्यवाची जनकस्य कुले जाता देवमायेव निर्मिता (श्रीराम.बाल.१.२७) इत्यादिषु तथा दर्शनात्। अत्रापि   तत्र रथा रथायोगा पन्थान: – (बृ.६.३.१०) सकलेतरपुरुषानुभाव्यतया न भवन्तीत्यर्थ:,  अथ रथान् रथयोगान्पथ: सृजते (बृ.६.३.१०) स्वप्नदृगनुभाव्यतया तत्कालमात्रावसानान् सृजत इत्याश्चर्यरूपत्वमेवाह।

(जीवे ईदृश्याः सृष्टेः अयोगः)

एवंविधाश्चर्यरूपा सृष्टिस्सत्यसङ्कल्पस्य परमपुरुषस्यैवोपपद्यते, न जीवस्य; तस्य सत्यसङ्कल्पत्वादि-युक्तस्यापि संसारदशायां कार्त्स्न्येेनानभिव्यक्तस्वरूपत्वान्न जीवस्य तथाविधाश्चर्यसृष्टिरुपपद्यते।  कामं कामं पुरुषो निर्ममाण: (कठ.२.५.८) इति च परमपुरुषमेव निर्मातारमाह – एषु सुप्तेषु जागर्ति (कठ.२.५.८) तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्मिन्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.२.५.८) इत्युपक्रमोपसंहारयो: परमपुरुषासाधारणस्वभावप्रतीते: ।  अथ वेशान्तान् पुष्किरण्य: स्रवन्त्य: सृजते हि कर्ता (बृह.६.३.१०) इति च तया श्रुत्यैकार्थ्यात्परमपुरुषमेव कर्तारमाह ॥३॥

(जीवस्वभावगतस्य धर्मस्यापि अनाविर्भावे हेतुः)

स्वाभाविकं चेज्जीवस्यापहतपाप्मत्वादिकम्, कुतस्तन्नाभिव्यज्यत इत्यत आह –

३१८. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ (सि)

तुशब्दश्शङ्काव्यावृत्त्यर्थ:; पराभिध्यानात् – परमपुरुषसङ्कल्पात्, अस्य जीवस्य स्वाभाविकं रूपं तिरोहितम्; अनादिकर्मपरम्परया कृतापराधस्य ह्यस्य स्वाभाविकं कल्याणरूपं परमपुरुषस्तिरोधापयति; तत: तत्सङ्कल्पादेव हि अस्य जीवस्य बन्धमोक्षौ श्रुतौ  यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति (तै.आन.७.१)  एष ह्येवानन्दयाति (तै.आन.७.२)  भीषाऽस्माद्वात: पवते (तै.आन.८.१) इत्यादिषु ॥४॥

(तिरोधानप्रदर्शनम्)

३१९. देहयोगाद्वा सोऽपि

सोऽपि तिरोभावो देहयोगद्वारेण वा भवति, सूक्ष्माचिच्छक्तियोगद्वारेण वा; सृष्टिकाले देहावस्थेनाचिद्वस्तुना संयोगाद्भवति, प्रलयकाले नामरूपविभागानर्हातिसूक्ष्माचिद्वस्तुयोगात्। अतोऽनभिव्यक्तस्वरूपत्वात्स्वप्ने जीवो न रथादीन् सङ्कल्पमात्रेण स्रष्टुं शक्नोति।  तस्मिल्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.५.८) इति सर्वेषु सुप्तेषु जागरणं सर्वलोकाश्रयत्वमित्यादयो हि परमपुरुषस्यैव सम्भवन्ति। अतो जीवानां अल्पाल्पकर्मानुगुण-फलानुभवार्थं तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति॥५॥

(स्वप्नस्य शुभाद्यर्थसूचकत्वतः जीवसृष्टत्वायोगः)

३२०. सूचकश्च हि श्रुतेराचक्षते   तद्विद:

इतश्च स्वाप्ना अर्था न जीवसङ्कल्पपूर्वका:; यत: स्वप्नोऽभ्युदयानभ्युदययोस्सूचक: श्रुतेरवगम्यते  यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने (छा.५-२-९) इति;  अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्यादेश्च। स्वप्नाध्यायविदश्च स्वप्नं शुभाशुभयोस्सूचकमाचक्षते । सूचकत्वं च स्वसङ्कल्पायत्तस्य नोपपद्यते; तथाचाशुभस्यानिष्टत्वाच्छुभस्य सूचकमेव सृष्ट्वा पश्येत्। अत: स्वप्ने सृष्टिरीश्वरेणैव कृता ॥६॥

इति श्रीशारीरकमीमांसाभाष्ये सन्ध्याधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.