श्रीशारीरकमीमांसाभाष्ये विहितत्वाधिकरणम्॥ ८॥
(अधिकरणार्थः – उपासनप्रवृत्तेषु कर्मणां विद्याङ्गत्वेऽपि तद्रहितेषु केवलाश्रमाङ्गत्वमपि)
४५०. विहितत्वाच्चाश्रमकर्मापि ॥ ३–४–३२ ॥
(सङ्गतिः, संशयः पूर्वपक्षश्च)
यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम्; तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवलाश्रमिणाऽप्यनुष्ठेयानि, उत नेति चिन्तायां,
विद्याङ्गानां सतां केवलाश्रमशेषत्वे नित्यानित्यसंयोगविरोध: प्रसज्यत इति यज्ञादीनां केवलाश्रमधर्मत्वं न सम्भवति – इति प्राप्ते
(सिद्धान्तार्थः)
उच्यते आश्रमकर्मापि – इति । आश्रमस्य कर्मापि भवति। केवलाश्रमिणापि अनुष्ठेयानीत्यर्थ:। कुत:? यावज्जीवमग्निहोत्रं जुहोति इत्यादिना विहितत्वात् – जीवननिमित्ततया नित्यवद्विहितत्वादित्यर्थ: ॥३२॥
(विनियोगपृथक्त्वात् उभयाङ्गत्वाविरोधः)
तथा च विद्याङ्गतया तमेतं वेदानुवचनेन (बृह.६.४.२२) इत्यादिना विहितत्वात् विद्याशेषतया अप्यनुष्ठेयानीत्याह –
४५१. सहकारित्वेन च ॥ ३–४–३३ ॥
विद्योत्पत्तिद्वारेण विद्यासहकारितयाऽप्यनुष्ठेयानि । अग्निहोत्रादीनामिव जीवनाधिकारः स्वर्गाधिकारवत् विनियोगपृथक्त्वेनोभयार्थत्वं न विरुध्यत इत्यर्थ: ॥ ३३॥
(विद्याङ्गत्वाश्रमाङ्गत्वयोः कर्मभेदाप्रयोजकत्वम्)
तद्वदेव कर्मान्तरत्वमपि नास्तीत्याह –
४५२. सर्वथापि त एवोभयिलङ्गात् ॥ ३–४–३४ ॥
सर्वथा – विद्यार्थत्वे आश्रमार्थत्वेऽपि, त एव यज्ञादय इति प्रतिपत्तव्यम्; न कर्मस्वरूपभेद इत्यर्थ:। कुत:? उभयलिङ्गात् – उभयत्र श्रुतौ यज्ञादिशब्दै: प्रत्यभिज्ञाप्य विनियोगात्, कर्मस्वरूपभेदे प्रमाणाभावाच्च ॥३४॥
(आश्रमाङ्गत्वेनानुष्ठीयमानानामेव विद्याङ्गत्वम्)
४५३. अनभिभवं च दर्शयति ॥ ३–४–३५ ॥
धर्मेण पापमपनुदति (तै.ना.५०) इत्यादिभिश्च तानेव यज्ञादिधर्मान्निर्दिश्य तैर्विद्याया अनभिभवं – पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति । अहरहरनुष्ठीयमानैर्हि यज्ञादिभि: विशुद्धेऽन्त:करणे प्रत्यहं प्रकृष्यमाणा विद्योत्पद्यते । अतस्त एवोभयत्र यज्ञादय: ॥३५॥
इति श्रीशारीरकमीमांसाभाष्ये विहितत्वाधिकरणम् ॥८॥