श्रीशारीरकमीमांसाभाष्ये अनाविष्काराधिकरणम्॥१३॥
(अधिकरणार्थः – बाल्येन तिष्ठासेदिति विद्यासहकारित्वेन विहितबार्यस्वरूपम्)
४६७. अनाविष्कुर्वन्नन्वयात् ॥ ३–४–४९ ॥
(अधिकरणीयौ विषयसंशयौ)
तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृह.५.५.१) इत्यत्र विदुषा बाल्यमुपादेयतया श्रुतम् । बालस्य भाव:, कर्म वा बाल्यम् । बालभावस्य वयोऽवस्थाविशेषस्य अनुपादेयत्वात् कर्मैवेह गृह्यते। तत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्; उत डम्भादिरहितत्वमेवेति विशये –
(सयुक्तिकः पूर्वःपक्षः)
विशेषाभावात्सर्वमुपादेयम्; नियमशास्त्राणि च विशेषविधिनाऽनेन बाध्यन्त इति॥
(सूत्रतः सिद्धान्तवर्णनम्)
एवं प्राप्तेऽभिधीयते – अनाविर्ष्कुर्वन्निति । बालस्य यत्स्वभावानाविष्काररूपं कर्म; तदुपाददानो वर्तेत विद्वान्। कुत:? अन्वयात् – तस्यैवान्वयात्। बाल्येन तिष्ठासेत् (बृ.५.५.१) इत्यस्मिन्विधौ तस्यैव ह्यन्वयसम्भव:; इतरेषां विद्याविरोधित्वश्रवणात् नाविरतो दुश्चिरतान्नाशान्तो नासमाहित:। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् (कठ.२.२४) आहारशुद्धौ सत्त्वशुद्धि: (छा.७.२६.२) इत्यादिषु ॥४९॥
इति श्रीशारीरकमीमांसाभाष्ये अनाविष्काराधिकरणम्॥१३॥