श्रीशारीरकमीमांसाभाष्ये तद्भूताधिकरणम् ॥१०॥
(अधिकरणार्थः – आश्रमभ्रष्टानां ब्रह्मविद्यायां सर्वथा अनधिकार एव)
४५८. तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्य: ॥ ३–४–४०॥
(प्रकृताधिकरणीयसंशय-पूर्वपक्षौ)
नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्य: प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति, नेति चिन्तायां- विधुरादिवदनाश्रमैकान्तैर्दानादिभिर्विद्यानुग्रहसम्भवादस्त्यधिकार: –
(सिद्धान्तार्थः स्वस्य जैमिनेश्च सम्मतः)
इति प्राप्त उच्यते – तद्भूतस्य तु नातद्भाव: – इति। तुशब्द: पक्षव्यावृत्त्यर्थ:; तद्भूतस्य नैष्ठिकाद्याश्रमनिष्ठस्य, नातद्भाव: – अतथाभाव:, अनाश्रमित्वेनावस्थानं न सम्भवति; कुत:? तद्रूपाभावेभ्यो नियमात् – तद्रूपाणि तेषां नैष्ठिकादीनां रूपाणि वेषा:, धर्मा इत्यर्थ:; तेषामभावा: – तद्रूपाभावा:; तेभ्य: शास्त्रैर्नियमात् । नैष्ठिकाद्याश्रमप्रविष्टान् स्वाश्रमधर्मनिवृत्तिभ्यो नियच्छन्ति हि शास्त्राणि ब्रह्मचार्याचार्यकुलवासी तृतीयोत्यन्तमात्मानमाचार्यकुलेऽवसादयन् (छा.२.२३.१) इति, अरण्यमियात्ततो न पुनरेयात् इति, सन्न्यस्याग्निं न पुनरावर्तयेत् (यजुषि.काठके) इति च । अतो विधुरादिवत् नैष्ठिकादीनामनाश्रमित्वेनावस्थानासम्भवान्न तानधिकरोति ब्रह्मविद्या । जैमिनेरपि – इत्यविगानं दर्शयन्नुक्तं स्वाभिमतं द्रढयति॥४०॥
(आश्रमप्रच्युतानां प्रायश्चित्ताद्विद्याकारशङ्का – तन्निरासौ)
अथ स्यात् – नैष्ठिकादीनां ब्रह्मचर्यात्प्रच्युतानां प्रायश्चित्ताधिकारस्सम्भवति; अस्ति च प्रायश्चित्तमधिकारलक्षणे निरूपितम् अवकीर्णिपशुश्च तद्वत् (जै.मी.सू.६.८.२२) इति। अत: प्रच्युतब्रह्मचर्यस्य प्रायश्चित्तसम्भवात्कृतप्रायश्चित्तो ब्रह्मविद्यायामधिकरिष्यति – इति; तत्राह –
४५९. न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ३–४–४१ ॥
अधिकारलक्षणोक्तमपि प्रायश्चित्तं नैष्ठिकादीनां तद्भ्रष्टानां न सम्भवति; कुत:? पतनानुमानात्तदयोगात् – नैष्ठिकादीनां प्रच्युतानां पतनस्मृतेस्तस्य प्रायश्चित्तस्यासम्भवात् – आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विज: । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा (आग्नेय.१६.५.२३,अत्रि.स्मृ.८.१६) इति। अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्मचारि-विषयम् ॥४१॥
(नैष्ठिकात् प्रच्यवनस्य प्रायश्चित्तसम्भवपक्षः)
४६०. उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥ ३–४–४२ ॥
नैष्ठिकादीनां ब्रह्मचर्यप्रच्यवनमुपपूर्वम् – उपपातकम्, महापातकेष्वपरिगणितत्वादिति तत्र प्रायश्चित्तस्य भावं – विद्यमानतामप्येके आचार्या मन्यन्ते; अशनवत् – यथा मध्वशनादि-निषेधस्तत्प्रायश्चित्तं चोपकुर्वाणस्य नैष्ठिकादीनां च समानम्; तदुक्तं स्मृतिकारै: उत्तरेषां चैतदविरोधि (गौत.१.३.४) इति। गुरुकुलवासिनो यदुक्तं, तत्स्वाश्रमाविरोधि उत्तरेषामप्याश्रमिणां भवतीत्यर्थ:। तद्वदिहापि ब्रह्मचर्यप्रच्यवने प्रायश्चित्तसम्भवाद्ब्रह्मविद्यायोग्यताप्यस्ति ॥४२॥
(उक्तानामाश्रमप्रच्युतानां ब्रह्मविद्यानुगुणप्रायश्चित्ताभावपक्षः स्वीयः)
४६१. बहिस्तूभयधापि स्मृतेराचाराच्च ॥ ३–४–४३ ॥
तु शब्दो मतान्तरव्यावृत्त्यर्थ:; उपपातकत्वे महापातकत्वेऽप्येते बहिर्भूता एव ब्रह्मविद्याधिकारिभ्य:; ब्रह्मविद्यायामनधिकृता इत्यर्थ: । कुत:? स्मृते: – पूर्वोक्तात् पतनस्मरणात्। यद्यपि कल्मषनिर्हारणाय कैश्चिद्वचनै: प्रायश्चित्ताधिकारो विद्यते तथापि कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवति, प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा (आग्नेय.१६५.२३, अत्रि.स्मृ.८.१६) इति स्मृतेरित्यर्थ:। आचाराच्च – शिष्टा हि नैष्टिकादीन् भ्रष्टान् कृतप्रायश्चित्तानपि वर्जयन्ति, तेभ्यो ब्रह्मविद्यादिकं नोपदिशन्ति; अतस्तेषां नास्ति ब्रह्मविद्यायामधिकार: ॥४३॥
इति श्रीशारीरकमीमांसाभाष्ये तद्भूताधिकरणम्॥१०॥