श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये–द्वितीय: उत्क्रान्तिपाद:
(अधिकरणानि – 11, सूत्राणि 20)
(पादार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता)
वागधिकरणम्॥१॥
(अधिकरणार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता)
४८९. वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ४–२–१ ॥
(अधिकरणार्थः – प्रयतो जीवस्योक्ता वाचो मनसि सम्पत्तिः, वाक्स्वरूपसम्पत्तिरेव, न तु तद्वृत्तिमात्रस्य)
इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमं तावदुत्क्रान्तिश्चिन्त्यते। तत्रेदमाम्नायते अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मन: प्राणे प्राणस्तेजसि तेज: परस्यां देवतायाम् (छा.६.८.६) इति।
(अधिकरणीयः संशयः)
अत्र वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वाचो मनसि सम्पत्तिश्रुति: किं वाग्वृत्तिमात्रविषया, उत वाग्विषयेति विशये –
(युक्त्या पूर्वःपक्षः)
वृत्तिमात्रविषयेति युक्तम्। कुत:? मनसो वाक्प्रकृतित्वाभावात्तत्र वाक्स्वरूपसम्पत्त्यसम्भवात्। वागादिवृत्तीनां मनोऽधीनत्वेन वृत्तिसम्पत्तिश्रुति: कथंचिदुपपद्यत इति॥
(सूत्रतः सिद्धान्तार्थः)
एवं प्राप्तेऽभिधीयते वाङ्मनसि इति । वाक्स्वरूपमेव मनसि सम्पद्यते। कुत:? दर्शनात् – दृश्यते हि वागिन्द्रय उपरतेऽपि मन: प्रवृत्ति:। वृत्तिमात्रसम्पत्त्यापि तदुपपद्यत इति चेत् तत्राह – शब्दाच्चेति। वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वाक्स्वरूपसम्पत्तावेव हि शब्द:; न वृत्तिमात्रसम्पत्तौ । न हि तदानीं वृत्त्युपरमे वागिन्द्रियं प्रमाणान्तरेणोपलभ्यते; येन वृत्तिमात्रमेव सम्पद्यत इत्युच्येत ।
(पूर्वपक्षयुक्तेः समाधानम्)
यदुक्तं मनसो वाक्प्रकृतित्वाभावाद्वाचो मनसि सम्पत्तिर्नोपपद्यत इति; तत्, वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वचनान्मनसा वाक्संयुज्यते; नतु तत्र लीयत इति परिहर्तव्यम् ॥१॥
(उक्तेऽर्थे श्रुत्यन्तरार्थसामञ्जस्यसिद्धिः)
४९०. अत एव सर्वाण्यनु ॥ ४–२–२ ॥
यतो वाचो मनसा संयोगमात्रं सम्पत्ति:; न तु लय:; अत एव वाचमनु सर्वेषामिन्द्रियाणां मनसि सम्पत्तिश्रुतिरुपपद्यते, तस्मादुपशान्ततेजा अपुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानै: (प्रश्न.उप.३.९) इति॥२॥
इति श्रीशारीरकमीमांसाभाष्ये वागधिकरणम्॥१॥