श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम् ॥९॥
(अधिकरणार्थः – विदुषाणां जीवानां सूर्यरश्म्यनुसारेणैव ब्रह्मप्राप्तिः)
५०५. रश्म्यनुसारी ॥ ४–२–१७ ॥
(विचारणीयविषयोपस्थापनम्)
विदुषो हृदयात् शताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्यादित्यमण्डलगति: श्रूयते – अथ यत्रैतदस्माच्छरीरदुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते (छा.८.६.५) इति।
(विचारार्थः संशयः)
तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमस्सम्भवति, नेति चिन्तायां –
(पूर्वपक्षः युक्त्या)
निशि मृतस्य विदुषो रश्म्यनुसारासम्भवादनियम: । वचनन्तु पक्षप्राप्तविषयम् –
(सिद्धान्तार्थः सूत्रतः)
इति प्राप्ते उच्यते – रश्म्यनुसारी – इति। रश्म्यनुसार्येव विद्वानूर्ध्वं गच्छति; कुत:? अथैतैरेव रश्मिभि: (छां.८.६.५) इत्यवधारणात्; पाक्षिकत्वे ह्येवकारोऽनर्थकस्स्यात् ।
(पूर्वपक्षयुक्तेर्निरासः)
यदुक्तं निशि मृतस्य रश्म्यसम्भवाद्रश्मीननुसृत्य गमनं नोपपद्यत इति; तन्न, निश्यपि सूर्यरश्म्यनुसारस्सम्भवति; लक्ष्यते हि निश्यपि निदाघसमये ऊष्मोपलब्ध्या रश्मिसद्भाव:; हेमन्तादौ तु हिमाभिभवाद्दुर्दिन इवोष्मानुपलम्भ:; श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वय: – तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च, एवमेवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च । अमुष्मादादित्यात्प्रतायन्ते ता: आसु नाडीषु सृप्ता: आभ्यो नाडीभ्य: प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता: इति । तस्मान्निश्यपि रश्मिसम्भवान्निशि मृतानामपि विदुषां रश्म्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव॥१७॥
इति श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम्॥९॥