श्रीशारीररकमीमांसाभाष्ये दक्षिणायनाधिकरणम्॥११॥
(अधिकरणार्थः – दक्षिणायने मृतस्याऽपि विदुषः ब्रह्मप्राप्तिरस्त्येव, न चन्द्रं प्राप्य पुनरावृत्तिः)
५०७. अतश्चायनेऽपि दिक्षणे ॥ ४–२–१९ ॥
(सूत्रार्थानुवादः, अधिकाशङ्का च)
निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्त:, तत एव हेतोर्दक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिस्सिद्धा ॥
अधिकाशङ्का तु अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति (तै.ना.५२.) इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रं प्राप्तानां च तेषां यदा तत्पर्यवैति, अथैतमेवाध्वानं पुनर्निवर्तन्ते (छा.५.१०.५) इति पुनरावृत्तिश्रवणात्, भीष्मादीनां च ब्रह्मविद्यानिष्ठानामुत्तरायणप्रतीक्षादर्शनाद्दक्षिणायने मृतस्य ब्रह्मप्राप्तिर्न सम्भवति – इति।
(अधिकाशङ्कापरिहारतः सिद्धान्तः)
परिहारस्तु – अविदुषां पितृयाणेन पथा चन्द्रं प्राप्तानामेव पुनरावृत्ति:, विदुषस्तु चन्द्रं प्राप्तस्यापि तस्माद्ब्रह्मणो महिमानमाप्नोति (तै.ना.५२) इति वाक्यशेषात्तस्य दक्षिणायनमृतस्य चन्द्रप्राप्ति: ब्रह्म प्रपित्सतो विश्रमहेतुमात्रमिति गम्यते; वाक्यशेषाभावेऽपि पूर्वोक्तादेव बन्धहेत्वभावात् विदुषश्चन्द्रं प्राप्तस्यापि ब्रह्मप्राप्तिरनिवार्या। भीष्मादीनां योगप्रभावात् स्वच्छन्दमरणानां धर्मप्रवर्तनायोत्तरायणप्राशस्त्यप्रदर्शनार्थ: तथाविधाचार:॥
(विदुषः दक्षिणायनमरणेऽपि ब्रह्मप्राप्तिनिर्णयस्य गीतावचनविरोधशङ्का-तत्परिहारौ)
ननु च विदुषो मुमूर्षून् प्रति पुनरावृत्तिहेतुत्वेन कालविशेषविधिर्दृश्यते – यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ। अग्निर्ज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना:॥ धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते। शुक्ल कृष्णे गती ह्येते जगतश्शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽवर्तते पुन: (भ.गी.८.२३,२४,२५,२६) इति; तत्राह –
५०८. योगिन: प्रति र्स्म्येते स्मार्ते चैते ॥ ४–२–२० ॥
नात्र मुमूर्षून् प्रति मरणकालविशेषोपादानं स्मर्यते; अपि तु योगिन: – योगनिष्ठान् प्रति स्मार्ते स्मृतिविषयभूते – स्मर्तव्ये देवयानिपतृयाणाख्ये गती स्मर्येते योगाङ्गतयाऽनुदिनं स्मर्तुम्। तथा ह्युपसंहार:। नैते सृती पार्थ जानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगमुक्तो भवार्जुन (भ.गी.८.२७) इति । अग्निर्ज्योति: (भ.गी.८-२३) धूमो रात्रि: (भ.गी.८.२४) इति कालशब्द: कालाभिमानिदेवतातिवाहिकपर:, अग्न्यादे: कालत्वासम्भवात्। अत: तेऽर्चिषमभिसम्भवन्ति (बृ.८.२.१५) इति विहितदेवयानानुस्मृतिरत्र विद्यानिष्ठान् प्रति विधीयते, न मुमूर्षून् प्रति मरणकालविशेष:॥२०॥
इति श्रीशारीरकमीमांसाभाष्ये दक्षिणायनाधिकरणम्॥११॥
इति श्रीभगवद्रानुजविरिचते श्रीशारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य द्वितीय:पाद:॥२॥