श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम्
(अधिकरणार्थः – मुक्तस्य मोक्षदशायां स्वानुभवः, स्वात्मभूतपरमात्मापृथग्भावेनेति निरूपणम्)
५२७. अविभागेन दृष्टत्वात् ॥ ४–४–४ ॥
(विचारोपयोगी विषयगर्भः संशयः)
किमयं परं ज्योतिरुपसम्पन्न: सर्वबन्धविनिर्मुक्त: प्रत्यगात्मा स्वात्मानं परमात्मन: पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तम् – इति विशये
(पूर्वः पक्षः)
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता (तै.आन.१.२) यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता:। सर्गेऽपि नोपजायन्ते प्रलये न व्यथिन्त च (भ.गी.१४.२) इत्यादिश्रुतिस्मृतिभ्यां मुक्तस्य परेण साहित्यसाम्यसाधर्म्यावगमात् पृथग्भूतमनुभवति-
(सूत्रतः सिद्धान्तार्थः)
इति प्राप्त उच्यते – अविभागेन – इति । परस्माद्ब्रह्मण: स्वात्मानमविभागेनानुभवति मुक्त:। कुत:? दृष्टत्वात् – परब्रह्मोपसम्पत्त्या निवृत्ताविद्यातिरोधानस्य याथातथ्येन स्वात्मनो दृष्टत्वात् । स्वात्मन: स्वरूपं हि तत्त्वमसि (छा.६.८.७) अयमात्मा ब्रह्म (बृ.उ.६.४.५) ऐतदात्म्यमिदं सर्वं (छां.६.८.७) सर्वं खल्विदं ब्रह्म (छा.३-१४-१) इत्यादिसामानाधिकरण्यनिर्देशै: य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२) अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आ.१.३.२१) इत्यादिभिश्च परमात्मात्मकं तच्छरीरतया तत्प्रकारभूतमिति प्रतिपादितम्; अवस्थितेरिति काशकृत्स्न: (शारी.१.४.२२) इत्यत्र। अतोऽविभागेन अहं ब्रह्मास्मि इत्येवानुभवति।
(साम्यादिशब्दतात्पर्यम्)
साम्यसाधर्म्यव्यपदेशो ब्रह्मप्रकारभूतस्यैव प्रत्यगात्मन: स्वरूपं तत्सममिति देवादिप्राकृतरूपप्रहाणेन ब्रह्मसमानशुद्धिं प्रतिपादयति। सहश्रुतिस्त्वेवंभूतस्य प्रत्यगात्मन: प्रकारिणा ब्रह्मणा सह तद्गुणानुभवं प्रतिपादयतीति न कश्चिद्विरोध:। ब्रह्मप्रकारतया तदविभागोक्तेर्हि सङ्कल्पादेव तच्छ्रुते: (शारी.४.४.८) इत्यादि न विरुध्यते, अधिकन्तु भेदनिर्देशात् (शारी.२.१.२२) अधिकोपदेशात् (शारी.३.४.८) इत्यादि च ॥४॥
इति श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम्॥२॥