विषयवाक्यदीपिका अन्तरधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

अन्तरधिकरणम्

अन्तस्तद्धर्मोपदेशात् ।1।1।21।।

छांदोग्येप्रथमाध्यायेषष्ठखण्डे ।।अथ यएषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ।।आदित्यमण्डलस्यमध्ये हिरण्मयः कमनीयविग्रहः यः पुरुषोयोगिभिर्दृश्यत इत्यर्थः ।”दृश्यतेत्वग्रयाया बुद्ध्यासूक्ष्मया सूक्ष्मदर्शिभिः”इतिश्रुत्यैकार्थ्यात् । “हिरण्मय इति रूपसामान्याच्चन्द्रमुखवत्” इति वाक्यकारः । ततश्च हिरण्मयशब्दस्य न मुख्यार्थोग्राह्य इति वाक्यकाराभिप्रायः । ततश्च हिरण्मयत्वमुज्जवलत्वमित्यर्थः । अतो नीलतोयदाभस्यापि हिरण्मयत्वे नानुपपत्तिः । यद्वा “कच्चिन्नतद्धेमसमानवर्णम् । तस्याननम्” इति श्रीरामायण प्रयोगात् । “पश्यतेरुक्मवर्णम्”(मुण्ड3.1.3) इति श्रुतेश्च । नीलतोयदाभस्यापि रुक्मवर्णत्वंसंभवति । तत्र हेतुश्च संप्रदायगम्यः । एतत्सर्वं वेदार्थसंग्रहप्रकाशिकायां स्पष्टम् । तत वावगंतव्यम् ।”यदापश्यः पश्यतेरुक्मवर्णम्” (मुण्ड3.1.3) एव इति प्रकरणे “मन सातु विशुद्धेन” इति रुक्मवर्णविग्रहविशिष्टस्य विशुद्धमनोग्राह्यत्वोक्तेः आरोपिताकारस्यविशुद्धमनोग्राह्यत्वा भावादनारोपितत्वं सिद्धम् । “ईक्षतिकर्मव्यपदेशात्सः”(ब्र.सू.1.3.12) इत्यत्रेक्षणस्य परमार्थविषयत्वं वक्तव्यमिति परैरप्यङ्गीकृतत्वाच्च । “आदित्यवर्णंतमसःपरस्तात्” इतितमः पारवर्तिनः आदित्यवर्णविग्रहविशिष्टत्वाभिधानेन कल्पितत्वाप्रसक्तेः । न हि कल्पितस्य तमः पारवर्तित्वंसंभवति ।।हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सवुर्णः ।।रमणीयश्मश्रुकेशो रमणीयसर्वावयव इत्यर्थः ।।तस्य यथाकप्यासं पुण्डरीकमेवमक्षिणी ।।कं पिवतीति कपिरादित्यः । तेनास्यते क्षिप्यते विकास्यत इति कप्यासम् । तदाह वाक्यकारः “आदित्यक्षिप्तं वा श्रीमत्वात्”इति कं पिवतीति कपिर्नालं तस्मिन्नास्त इतिकप्यासम् । अपचितादपि पंकजान्नालस्थस्य पुण्डरीकस्यशोभातिशयवत्वं तादृशमिहविवक्षितम् ।यद्वा । कं जलम् “आस उपवेशने” इतिधातुरपिपूर्वकः । “वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः” (6) इतिवचनादकारलोपः । के जले अप्यास्त इति कप्यासं सलिलस्थमित्यर्थः ।एवमस्यार्थत्रयस्योपपन्नतया वाक्यकारेण सिद्धांतितत्वमभिप्रेत्य भगवताभाष्यकारेण वेदार्थसंग्रहे”गंभीरांभः समुद्भूतसुमृष्टनालरविकरविकसितपुण्डरीकदलामलायतेक्षणः” इत्यभिहितम् ।मर्कटजघनसदृशपुण्डरीकसादृश्याद्यर्थांतरंत्वाश्लीत्वादिदोषदुष्टतया वाक्यकृदनादृतत्वाद्भाष्य कारेणाप्यनादृतम् । यद्यप्यमरकोशे “पुण्डरीकं सिताम्भोजम्” इत्यनुशिष्टं तथापि शबरस्वामिना नवमाध्याये “मौद्गं चरुं निर्वपेत् श्रियै श्रीकामः” इति विहितायामिष्टौ पुण्डरी काणि बर्हींषि भवन्तीति स्तरणार्थत्वेन विहितेषु पुण्डरीकेष्वतिदेशतः प्राप्तस्य “दर्भैस्तृणातिहरितैः”इति मंत्रस्य दर्भपदस्थाने पुण्डरीकपदं हरितपदस्थाने रक्तपदमूहितव्यमित्युक्तत्वात् । रक्ताम्भोजमेव पुण्डरीकमिति द्रष्टव्यम् ।।तस्योदिति नाम ।।स्पष्टोऽर्थः । तस्योन्नामकत्वे हेतुमाह ।स एष सर्वेभ्यः पाप्मभ्य उदितः ।।सर्वपाप्मोद्गतत्वादुन्नामकत्वमित्यर्थः।नीडाच्छकुतस्योद्गमनवत्पापपंजरादुद्गमनरूपमुख्यार्थस्य कुत्राप्यभावादुद्गमनेन तत्संबन्धराहित्यं लक्ष्यते “नैनं सेतुमहोरात्रे तरतः न जरा नमृत्युर्नशोको न सुकृतं न दुष्कृतमिति” (छां-8.4.2) परमात्मनः सुकृतदुष्कृतसम्बन्धाभावो हि प्रति पाद्यते । तरतेः प्राप्तिवाचित्वात् । पापशब्दश्च पुण्यपापरूपोभयविधकर्मपरः । परमात्मप्रकरणेषु “नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युर्नशोको न सुकृतं न दुष्कृतम् । सर्वे पाप्मानोऽतो निवर्तं ते” (छां.8.4.2) इति सुकृतेऽपि पापशब्दप्रयोगात् । “पाप्मानः किल जरामृत्युशोकादयः संख्यातत्वादिति” वाक्यकारवचनादलौकिकत्वे सत्यनिष्टफलसाधनत्वरूपप्रवृत्तिनिमित्त योगात्पुण्यस्यापि पापशब्दाभिधेयत्वोपपत्तेः । मुमुक्ष्वपेक्षया स्वर्गादीनामप्यनिष्टत्वात् । “एते वै निरयास्तातस्थानस्य परमात्मनः”(वि.पु. 2.6.42) । “क्व नाकपृष्ठगमनं पुनरावृत्ति लक्षणम् । सर्वपापोदितत्वं नाम कर्मवश्यतागन्धराहित्यमिति फलितोर्थः । कृतानामपि कर्मणां फलजननशक्तिप्रतिभटलक्षणः कश्चिदैश्वरस्वभावविशेषोऽपहत पाप्मत्वाख्यः सर्वपापोदित शब्दार्थ इति द्रष्टव्यम् । एवं नाम विशिष्टस्य ध्यानस्य फलमाह ।।उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ।।स्पष्टोर्थः ।।तस्य ऋक्साम च गेष्णौ ।।ऋक्सामेतद्गानरूपे अग्नीन्द्रादिप्रतिपादकऋक्सामज्ञेयत्वोक्त्या सर्वात्मकत्वमुक्तं भवत।।ितस्मादुद्गीथः ।यस्मात्परमात्मनः उन्नामकत्वं तद्गेष्णत्वं च ऋक्सामयोः अतः ऋक्सामात्मकद्वितीयभक्तेरुद्गीथत्वम् ।।तस्मात्त्वेवोद्गाता एतस्य हि गाता ।उन्नामकपरमात्मगातृत्वादेव ऋत्विग्विशेषस्य उद्गातृसंज्ञत्वम् ।।स एष ये चामुष्मात्परांचो लोकास्तेषां चेष्टे देवकामानां च ।।स एष हिरण्मयः पुरुषः आदित्यमण्डलोर्ध्ववर्तिलोकानां देव भोग्यभोगोपकरण भोगस्थानानां च नियन्तेत्यर्थः ।इत्यधिदैवतम् ।।उपदिष्टमिति शेषः ।अथाध्यात्मम् ।।1।।2।।3।।4।।उपदिश्यत इतिशेषः ।अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैव ऋुक्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म ।स एव ऋग्यजुः सामात्माउक्थादिशास्त्रात्मा ब्रह्म चेत्यर्थः । अत्रोक्थस्य त्रय्यपेक्षया पृथक्परिगणनं गोबलीवर्दन्यायेन द्रष्टव्यम् ।तस्यैतस्य तदेवरूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ।एतस्याक्ष्यन्तरवर्तिनः आदित्यान्तरवर्तिनो यद्धिरण्मयत्वादिरूपमुदिति नाम ऋक्सामरूपगेष्णौ च तानि सर्वाणि भवंतीत्यर्थः ।स एष एवैतस्मादर्वाञ्चोलोकास्तेषां चेष्टे मनुष्यकामानां चेति ।एतस्मादक्षिस्थानादधोवर्तिनां लोकानां मनुष्यभोग्यादीनां च नियंतेत्यर्थः ।तद्य इमे वीणायां गायंत्येतं ते गायंति ।।यस्मादयमीश्वरस्तस्माद्धेतोर्वीणागायकाः सर्वेपि इममेव गायंतीत्यर्थः । तस्य सर्वात्मकत्वेन देवमनुष्यादिकर्मकगानस्यापि परमात्मविषयकत्वादितिभावः ।।तस्मात्ते धनसनयः ।सनिर्लाभः । घनानां सनिर्येषां ते धनसनयः । ईश्वरगायकत्वादेव वीणागायकानां धनलाभवत्वं न ह्यनीश्वरगातृत्वे धनप्रशक्तिरस्तीति भावः ।।अथ य एवंविद्वान्साम गायति उभौ स गायति ।अध्यात्माधिदैवतभिन्नविद्यायुक्तः सन्नुद्गीथं यो गायति स चाक्षुषमादित्यस्थं च परमात्मानं गायतीत्यर्थः । उद्गीथस्य चाक्षुषेण परमात्मना आदित्यांतरवर्तिना च परमात्मना ऐक्याध्यासविशिष्टतया तादृशोद्गीथगायकस्यैव परमात्मगायकत्वादितिभावः । तस्यैवंविदः फलमुच्यते ।साऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास्तां श्चाप्नोति देवकामांश्च ।।7।।अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामां श्च ।सविद्वानमुनैवादित्यान्तरवर्तिना उपासितेन तदुपासनाविशिष्ट एषः तर्द्ध्वलोकान्देवकामां श्चाप्नोति । अनेनाक्ष्यन्तरवर्तिना मनुष्यलोकाधस्तनलोकान्मनुष्यकामांश्चाप्नोति चक्षुरादित्यस्थानवर्तिपरमात्मोपासनया सर्वलोकावाप्तिर्भवतीत्यर्थः ।तस्मादुहैवंविदुद्गाता ब्रूयात् कं ते काममागायानीति ।।एतादृशा विद्यायुक्त उद्गाता यजमानं प्रति हे यजमान ते कं देवकामं मनुष्यकामं वा गायानि संपादयानीति ब्रूयादित्यर्थः । नन्वेतादृशोक्तावुद्गातुः कथं सामर्थ्यमित्यत्राह ।एष ह्येवकामगानस्येष्टे य एवं विद्वान्सामगायति साम गायति ।एवं विदुषस्सामगस्य कामसंपादकगानसामर्थ्यमस्तीत्यर्थः । द्विरुक्तिर्विद्यासमाप्त्यर्था ।इति सप्तमः खण्डः ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.