विषयवाक्यदीपिका जन्माद्यधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

अथ विषयवाक्यदीपिका ।(श्रीरङ्गरामानुजमुनिप्रणीता)

अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया ।अञ्जनाचलश्रृङ्गारमञ्जलिर्मम गाहताम् ।।1।।

व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान्गुरूनपि ।भाष्योदाहृतवेदान्तवाक्यार्थस्संप्रकाश्यते ।।2।।

विस्तृतोपनिषद्भाष्यप्रवेशाक्षमचेतसाम् ।अनुग्रहेण साफल्यं कृतिरेषा प्रपत्स्यते ।।3।।

जन्माद्यधिकरणम्

जन्माद्यस्त यतः (ब्र.सू.1-1-2) भृगुवल्ल्यां श्रूयते “यतो वा इमानि भूतानि जायंते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति” ।जीवन्ति – येनात्मभूतेन जीवंतीत्यर्थः । प्रयन्ति सन्ति- भूतानि यदभिसंविशंति लीयमानाति सन्ति यदभिसंविशन्ति यत्र लीयंते । समित्येकीकरणे । एकीकृततया प्रवेशःसंवेशः । यद्वा यत्प्रयन्तीति मोक्षः । अभिसंविशन्तीति प्रलयः । अस्मिन्पक्षे यच्छब्दस्यावृत्तिः ।”यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।यत्प्रयन्त्यभिसंविशन्ती”त्यत्रप्रतिवाक्यं “तद्ब्रह्मे”त्यनुक्तेः न जगज्जन्मादि प्रत्येकं लक्षणम् ।प्रत्येकलक्षणत्वे लक्षणान्तरवैयर्थ्यप्रसंगाच्च । अतस्समुदितमेव लक्षणम् । न च जन्मादिसमुदायस्य लक्षणत्वेव्यावर्त्याभावेन निष्प्रयोजनत्वम् । लक्ष्याकारविपरीत शंकानिवारणक्षमत्वेन सप्रयोजनत्वात् ।उत्पत्तिकारणत्वमात्रेऽभिहिते हि तस्य स्थिति प्रलयकारणभूतवस्त्वंन्तरशङ्कया जगज्जन्ममात्र कारणस्य ब्रह्मणो निरतिशयं बृहत्त्वं न सिध्येत् । तथा लयकारणत्वानभिधाने प्रलयकारणभूतवस्त्वन्तरशंकया जगज्जन्म स्थितिमात्रकारणस्य ब्रह्मणो निरतिशयं बृहत्त्वं न सिध्येत् । तथा आत्यंतिकलय कारणत्वानभिधाने आत्यन्तिकलयरूपमोक्षप्रदात्रन्तर सद्भावशङ्कया मोक्षप्रदत्व प्राप्यत्वानुगुणगुणैर्बृहत्त्वं न सिध्येत् । अतो जगज्जन्माद्येकैककारणत्वमात्रस्य समस्त वस्तुव्यवच्छेदक्षमत्वेपि जन्मादिकारणसमुदायस्यैव बृहत्त्वातिशयौपयिकत्वात्सृष्टि स्थितिप्रलयसमुदाय कारणत्वं लक्षणमिति ज्ञापितम् । यतो-येन-यदिति यद्दृत्तयोगात्कारणमनू द्यतद्ब्रह्मेति कारणस्य ब्रह्मत्वं विधीयते । तेन कारणत्वस्य ब्रह्मलक्षणत्वं सिद्धं भवति । “तद्विजिज्ञासस्वेति” न विचारस्योपासनस्य वा विधिः । विचारात्मकं ज्ञानं रागप्राप्तत्वान्न विधेयम् । उपासनात्मकस्य तु ज्ञानस्य “ब्रह्मविदाप्नोति” इति प्राकरणिक वाक्यान्तरसिद्धत्वात् । उपक्रमे “अधीहि भगवो ब्रह्मेति” इति प्रश्नस्य तत्त्वपरत्वेनोपायविषयत्वाभावाच्च नोपासनज्ञानमिह विधेयम् । अतो विजिज्ञासस्वेत्युपदिश्यमानार्थे सावधानत्वार्थं संदेहनिवृत्यर्थं वोक्तं या गन्धवती तां पृथिवीं विद्धीतिवत् । अतःकारणत्वस्य ब्रह्मलक्षणत्वमेवास्य वाक्यस्य विधेयम् । “यथा यत्र सारसस्सदेवदत्तकेदारः” इत्युक्ते सारससंबन्धस्य देवदत्तकेदारलक्षणत्वमुक्तं स्यात् तद्वदिति व्यासार्यैरुक्तम् ।ननु ईश्वरस्य लिलक्षयिषितत्वे तदसाधारणसार्वज्ञादिप्रतिपादक सत्यज्ञानादि वाक्यानादरेण जन्मादिकारणत्वेन किमर्थं लक्ष्यत इति चेत् उच्यते । गुणैः स्वरूपस्य लक्ष्यत्वेतदपेक्षया बहिष्ठाया विभूतेरुपास्यान्तर्भावो न प्रतीयते । सर्गादिविषयभूतया तु विभूत्या स्वरूपे लक्ष्यमाणे विभूतेस्सर्गाद्यौपयिक सर्वज्ञत्वादि गुणानामपि जिज्ञास्यान्तर्भावस्सिध्यति । विभूतेश्च जिज्ञास्यान्तर्भावः “उपासात्रै विध्यात् (ब्र.सू.1.1.31)” इति सूत्रसिद्धः । नन्वेवमपिकृत्स्नविभूतेर्जिज्ञास्यान्तर्भावोन सिध्यति त्रिपाद्विभूतेर्जन्माद्यस्पृष्टत्वादिति चेन्न।यत्प्रयन्तीति प्रलयवाक्यस्थ यच्छब्देन मुक्तप्राप्यस्य ब्रह्मणो विवक्षितत्वात् । नित्यविभूतिविशिष्टस्यैव मुक्त प्राप्यत्वान्नित्यविभूतेरपि जिज्ञास्यत्वसिद्धिः । एवं च जगज्जन्मादिकारणत्वं लक्षणं विशिष्टनिष्ठं सत्यज्ञानादिलक्षणं तु विशेष्यनिष्ठमिति भिदा । एवमेव व्यासार्यैरुक्तम् ।अत्र यत इति पञ्चमी हेत्वर्थिका । यच्छब्दस्यानुवादरूपत्वात् । अनुवादस्य चप्रापकवाक्यसापेक्षतया तद्विरुद्धार्थपरत्वासंभवात् । प्रापकवाक्येषु “एकमेवाद्वितीयम्- तदैक्षतबहुस्यां प्रजायेयेति” (छां 6.2.3) “तत्तेजोसृजत” (छां 6.2.3) इति निमित्तत्वोपादानत्वयोःप्रतिपादनात्तदनुवादिनि लक्षणवाक्ये यत इति पदमुभयविषयकमिति व्यासार्यैरुक्तम् ।नच “हेतौ पञ्चमी” नानुशिष्टेति शक्यं वक्तुम् । “अइउण्” इति सूत्रे विवारभेदादिति भाष्यनिर्देशेन”विभाषागुणेऽस्त्रियाम्” (अष्टा 2.3.27) इत्यत्र विभाषेति योगविभागस्याश्रिततया तत एव हेतुपञ्चम्युपपत्तेरिति द्रष्टव्यम् ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.