॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
अन्तरत्वाधिकरणम्
अंतरत्वाधिकरणंसू. ॥ अन्तराभूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥(ब्र.सू.3.3.35)बृहदारण्यके पंचमाध्याये चतुर्थब्राह्मणारम्भे ॥अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ॥नाम्ना उषस्तः । चक्रस्य गोत्रापत्यम् । नडादिभ्यः फक् । चाक्रायणः ॥याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वांतरस्तन्मे व्याचक्ष्वेति ।।अपरोक्षादपरोक्षमित्यर्थः । सुपां सुलुगित्यादिना आदादेशः । अपरोक्षत्वं नाम सर्वदेशकालसन्निहितत्वम् । देशकालसन्निकर्षे ह्यापरोक्ष्यदर्शनाद्यदपरोक्षं साक्षाद्ब्रह्म । अव्यवधानेन ब्रह्म । अगौणं मुख्यमिति यावत् । सर्वांतर आत्मा च द्रष्टव्यः श्रोतव्य इति दर्शनादिविषयत्वेनोक्तश्च यः तादृशं वस्तु मे व्याचक्ष्व विविच्याचक्ष्व प्रदर्शयेत्यर्थः । न दृष्टेर्द्रष्टारं पश्येरिति द्रष्टव्यत्वादेरन्यत्र निषेधाद्द्रष्टव्यत्वादिकमपि प्रश्नविषय इति द्रष्टव्यम् । उत्तरमाह ।।एष त आत्मा सर्वांतरः । कतमो याज्ञवल्क्य सर्वान्तरः । यः प्राणेन प्राणिति स त आत्मा सर्वांतरः । योऽपानेनापानिति स त आत्मा सर्वांतरः । यो व्यानेन व्यानिति स त आत्मा सर्वांतरः । य उदानेनोदानिति स त आत्मा सर्वांतरः । एष त आत्मा सर्वांतरः ॥ते य आत्मा स एव सर्वांतर्यामी अपरोक्षं मुख्यं ब्रह्म द्रष्टव्यश्चेत्यर्थः । पुनः पृच्छति । “कतमो याज्ञवल्क्य सर्वांतरः” ।यदुक्तं ते आत्मा सर्वांतरः इति तदस्तु । कतम आत्मा सर्वांतर इति तवाभिप्राय इति न जाने । देहेंद्रियप्राणजीवादिषु कश्चिन्मे आत्मांतरः उत ततोऽन्य इत्यर्थः । यद्यपि ते आत्मेति व्यतिरेकनिर्देशेन प्रत्यक्षदृष्टाभिमुखशरीरव्यतिरेकः सिध्यति । तथापींद्रियाद्यन्यतमत्वसंदेहो नापाकृत इति भावः । उत्तरमाह – यः उक्त इति शेषः । प्राणितीत्यादौ ‘रुदश्च पंचभ्यः’ (पा.सू. 7.3.98) इतीट् (उत्तमूर् स्वामिनः – ‘रुदादिभ्यः सार्वधातुके’ (7.2.76) इत्यस्मादिति वेति मन्यन्ते) । प्राणादिव्यापारकर्त्ता यः स सर्वांतर आत्मेत्यर्थः । अत्र प्राणस्य करणतया निर्देशात्प्राणव्यतिरेकः सिद्धः । सुषुप्तौ बाह्याभ्यंतरेंद्रियोपरतावपि प्राणनादिव्यापारदर्शनात् तद्व्यतिरेकोऽपि सिद्धः । सुषुप्तौ जीवस्याप्युपरतव्यापारतया प्राणेन प्राणितत्वाभावात्तद्व्यतिरेकोऽपि सिध्यतीत्याशयः ॥स होवाचोषस्तश्चाक्रायणः ।।आशयमविद्वान्पुनराहेत्यर्थः ।।यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति ।।यथा गां प्रदर्श्यासौ गौरसावश्व इति गव्यश्वाभेदोपदेशो विरुद्धः एवमेवैतद्व्यपदिष्टं भवति । एवमेव यत्साक्षादपरोक्षाद्ब्र्रह्म य आत्मा सर्वांतरस्तं मे व्याचक्ष्वेति मामकप्रश्ने एष त आत्मा सर्वांतरः यः प्राणेन प्राणितीति प्राणनादिकर्तुर्मदात्मनो जीवस्य सर्वांतरत्वकथनं विरुद्धवचनमेव । जीवस्य भिन्नभिन्नत्वेन सर्वांतरत्वासंभवात् । अतः कतमो याज्ञवल्क्य सर्वांतरः । स तावदविरुद्धतया वक्तव्य इत्यर्थः । उत्तरमाह ॥न दृष्टेर्द्रष्टारं पश्येः न श्रुतेः श्रोतारं शृणुयाः न मतेर्मंतारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः ॥अत्र दृष्टेर्द्रष्टारमिति पाकं पचतीतिवन्निर्देशः । दृष्टेर्द्रष्टारं – दर्शनकर्त्तारमित्यर्थः । दर्शनश्रवणमनननिदिध्यासनानां यः कर्ता जीवः स न द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्यः । दर्शनादिकर्त्तुर्जीवादन्य एव दर्शनादिकर्मभूतः सर्वांतर आत्मा । इंद्रियाधीनदर्शनादीनां कर्त्तारं जीवं प्राणनकर्तृत्वेन न पश्येर्न मन्वीथा इति वाक्यार्थः ॥अतोऽन्यदार्तम् ।।अतः परमात्मनः अन्यत् व्यतिरिक्तं त्वदभिमतं प्राणितृत्वादिमज्जीवजातमार्त्तं दुःखीत्यर्थः । अत एव नित्यमुक्तानां कदाप्यस्पृष्टदुःखत्वादतोऽन्यदार्त्तमित्युक्तः कथमिति शंका प्रत्युक्ता । तेषामिहाप्रसक्तत्वात् । अन्यशब्दस्य सन्निहितप्राणितृत्वादिमज्जीवपरत्वात् । यद्वा आ ऋतमीषन्निर्विकारं नित्यमुक्तानां निर्विकारत्वस्यान्याधीनत्वेन तन्निर्विकारत्वस्याल्पत्वात् ॥ततो होषस्तश्चाक्रायण उपरराम ।।इति चतुर्थं ब्राह्मणम् ।।अथ हैनं कहोलः कौषीतकेयः पप्रच्छ ।।कहोलो नामतः कुषीतकस्यापत्यं कौषीतकेयः । “विकर्णकुषीतकात्काश्यपे” इति ढक् ।।याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वांतरस्तन्मे व्याचक्ष्वेति एष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः ।।पूर्ववदर्थः । यद्यपि प्रश्नोऽयमुषस्तेन कृत एव दत्तोत्तरश्च । निरुपाधिकसर्वप्राणिप्राणनहेतुत्व-निरंकुशसर्वांतरत्वादस्य जीवव्यावृत्तिरपि सिद्धा । न दृष्टेर्द्रष्टारमित्यादिना दर्शनश्रवणादिकर्तुर्जीवस्य द्रष्टव्यत्वादिनिषेधमुखेन मुख्यब्रह्मत्वमपि प्रतिषिद्धम् । तथापि प्राणितृत्वस्य जाग्रदादिदशाविशेषे जीवेऽपि संभवाद्यत्किंचिद्देहाद्यपेक्षयांतरे जीवे आपेक्षिकसर्वांतरत्वसंभवान्न दृष्टेर्द्रष्टारमित्यत्रापि दृष्टिव्यतिरिक्तद्रष्टुनिषेधपरत्वसंभवेन ज्ञानस्वरूपजीवप्रतिपादकत्वसंभवादुक्तधर्माणां परमात्मैकांतिकत्वं निश्चेतुमसमर्थस्य कहोलस्य दृढतरेण व्यावर्त्तकधर्म्मेण जीवव्यावृत्तिनिश्चिकीर्षया पुनः प्रश्न उपपन्न इति द्रष्टव्यम् । अत एव “व्यतिहारो विशिंषंति हीतरवत्” (ब्र.सू.3.3.52) इति सूत्रे व्यावर्त्तकधर्म्मभूयस्तया व्यावृत्तिबुद्ध्यतिशयार्थमेकविषयकं प्रश्नद्वयमित्युक्तं व्यासार्यैः । तदभिप्रायं जानन्नाह ॥योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति ।।अशनाया बुभुक्षा । पातुमिच्छा पिपासा । शोक इष्टानिष्टोभयवियोगसंयोगजः । मोहः कामादिजनितः अज्ञानं वा । जीवस्य कर्माधीनदेहसंसर्गितयाऽशनायाद्यनतीतत्वात्तद्व्यावृत्तिः सिध्यतीति भावः । यद्यपि मुक्तानां नित्यानां चाशनायाद्यतीतत्वमस्ति । तथापि तेषामशनायाद्यतीत्वस्य परमात्मसंकल्पायत्तत्वात्, अनन्यसंकल्पाधीनाशनायाद्यतीतत्वं परमात्मन एव । किंच प्रकृते बद्धजीवव्यावृत्तेरेव स त आत्मेति निर्दिष्टस्योपदेष्टव्यतया नित्यमुक्तव्यावर्त्तकधर्मानुक्तावपि न दोष इति द्रष्टव्यम् ॥एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरंति ॥तमेतं सर्वांतरमशनायाद्यतीतं परमात्मानमनार्त्तं विदित्वा ब्राह्मणा इत्यनेन क्षत्रियादिव्यावृत्तिः । पुत्रैषणायाश्च । इषेः स्वार्थे ण्यंतात् स्त्रियां ‘ण्यास-श्रन्थो युच्’ (3.3.107) इति युच् । क्तिन्नपवादः । अण्यंतात्तु इच्छेति निपातः । इषेः स्वार्थे णिच् छांदसः । पुत्रैषणेत्यनेन जाया मे स्यात् प्रजायेयेति योक्ता सा गृह्यते । वित्तैषणायाश्चेत्यनेन वित्तं मे स्यादथ कर्म कुर्वीय इति योक्ता सा गृह्यते । लोकैषणायाश्चेत्यनेन जायाप्रजावित्तकर्मसाध्यसकललोकेच्छा गृह्यते । उक्तैषणात्रयाद्व्युत्थायेषणात्रयं हित्वा यथाविधि संन्यस्येति यावत् । अथानंतरं देहयात्रार्थं भिक्षाटनं कुर्वंतीत्यर्थः । इदं चोपलक्षणं सर्वसंन्यासाश्रमधर्मानुष्ठानस्य । अत्र वाक्ये अप्राप्तत्वात्पारिव्राज्यं विधीयते ॥या ह्येव पुत्रैषणा सा वित्तैषणा ॥अवर्जनीयपरस्परसंबंधादिति भावः ।।उभे ह्येते एषणे एव भवतः ।।सर्वथा साध्यसाधनविषयकैषणाद्वयमेव पर्यवस्यतीति भावः ।।तस्माद्ब्राह्मणः पांडित्यं निर्विद्य बाल्येन तिष्ठासेत् ।।यस्माद्वैराग्यमावश्यकं तस्माद्ब्राह्मण अधीतवेद इत्यर्थः । ब्रह्माधीते ब्राह्मणः, जातिपरो वा । पांडित्यं निर्विद्य – ऊहापोहक्षमा धीः पंडा, सास्य संजातेति पंडितः. तस्य कर्म पांडित्यम् – औपदेशिकार्थाधिगमरूपं विवेकं, निर्वेदविरक्तिफलकं निर्विद्य लब्ध्वा बाल्येन स्वमाहात्म्यानाविष्करणलक्षणबालस्वभावेन युक्तस्सन्ब्रह्मणि तिष्ठासेत् तन्निष्ठां लभेत । उपासीतेति यावत् ॥बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ॥बाल्यपाण्डित्ये निर्विद्य लब्ध्वाऽऽलम्बनसंशीलनलक्षणमननशीलः स्यादित्यर्थः । ध्यानविच्छेददशायामप्यत्यंतविषयोन्मुखत्वराहित्याय शुभाश्रयवस्तुसंशीलनं कर्त्तव्यमित्यर्थः ॥अमौनं च मौनं च निर्विद्याथ ब्राह्मणः ।।अमौनं मौनादन्यत्पूर्वनिर्दिष्टबाल्यपांडित्यलक्षणं मौनं चालंबनसंशीलनात्मकमौनं च निर्विद्याथ ब्राह्मणो ब्रह्मविद्भवति । लब्धनिदिध्यासनो भवतीत्यर्थः ॥स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव ।।लब्धनिदिध्यासनो ब्रह्मविदुक्तोपायादन्येन केन स्यादिति प्रश्नः । उत्तरं येन स्यात्तेनेदृश एव येन मौनपर्यंतेन ब्राह्मणः स्यादित्युक्तं तेनैवेदृशः स्यान्न केनाप्यन्येनोपायेन ॥अतोऽन्यदार्तम् ।।अस्मात्परमात्मनः यदन्यत्प्राणिजातं तद्दुःखीत्यर्थः ।ततो ह कहोलः कौषीतकेय उपरराम ।।स्पष्टोऽर्थः।