॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
वेधाद्यधिकरणम्
वेधाद्यर्थभेदात् (ब्र.सू.3.3.24)आथर्वणिका उपनिषदारंभे अधीयते ।।शुक्रं प्रविध्य हृदयं प्रविध्य धमनीः प्रविध्य शिरोभिव्रज्य त्रिधा विवृत्त इति ॥अभिचारकर्मणि देवताप्रार्थनार्थो मंत्रः । अस्य चायमर्थः । हे देवते मच्छत्रोः शुक्रं तेजिष्ठमंगं प्रविध्य । लोण्मध्यमैकवचनम् । विदारयेत्यर्थः । हृदयं प्रविध्य हृदयं च विदारयेत्यर्थः । धमनीः – सिराः प्रविध्य विदारयेत्यर्थः । शिरोभिव्रज्य त्रोटयेत्यर्थः । एवं मम शत्रुस्त्रिधा भिन्नशिरा भवत्वित्यर्थः ॥देवसवितः प्रसुव यज्ञम् ।।हे सवितः देव यज्ञं प्रसुव अनुजानीहीत्यर्थः ।काठास्तैत्तिरीयाश्च ।।”शन्नो मित्रः शं वरुण” इत्यादि ।।सूर्यवरुणादयः सुखं कुर्वंत्वित्यर्थः।।।।इति वेधाद्यधिकरणम् ।।