॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
लिङ्गभूयस्त्वाधिकरणम्
लिंगभूयस्त्वात्तद्धि बलीयस्तदपि (ब्र.सू.3.3.43)तैत्तिरीयके षष्ठप्रश्ने दशमानुवाके ।।दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् ।तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदंतस्तदुपासितव्यम् ।।अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुंडरीकं वेश्म दहरोऽस्मिन्नंतराकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यमिति च्छांदोग्योक्तरीत्योपास्यतया सन्निहितस्य परस्य ब्रह्मणः पुरभूतस्योपासकस्य शरीरस्य मध्ये संस्थितं दहरमल्पं विपाप्मं निरस्तपापं परमात्मनोऽवरवेश्मभूतं यद्धृदयपुण्डरीकं तत्रापि यदल्पं विशोकोपलक्षितापहतपाप्मत्वादिगुणकं गगनं गगनवदपरिच्छेद्यं ब्रह्म तस्मिन्नंतश्च यत्तदुभयमप्युपासितव्यमित्यर्थः । अत्र वक्तव्यं छादोग्यप्रकाशिकायामुक्तं तत्रैव द्रष्टव्यम् । दहरविद्योपास्यदेवताविशेषः क इति जिज्ञासायां नारायणस्य तदुपास्यत्वं प्रतिपादयितुं सकलपरविद्योपास्यत्वौपयिकं महेश्वरत्वं नारायणस्य दर्शयति ॥यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥”ब्रह्मणः प्रणवं कुर्य्यादादावंते च सर्वदा । स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यते” इतिमानवस्मरणात् । वेदाद्यंते प्रतिष्ठितस्वरः प्रणवः । तस्य प्रकृतिरकारः समस्तशब्दमूलत्वादकारस्य ।तत्र लीनत्वं तद्रूपतामापन्नत्वमोंकारस्येति यावत् । तस्य यः परः प्रतिपाद्यः इदं परस्तत्पर इत्यादौ परशब्दस्य वाच्ये प्रयोगदर्शनात् “अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः” “अकारो विष्णुवाचकः” इति श्रुतिस्मृतिभ्यामकारवाच्यो विष्णुः स एव महानीश्वर इत्यर्थः । (दशमोनुवाकः) पूर्वस्मिन्ननुवाके दहरविद्योपास्यो नारायण एवेत्युक्तम् ।अधुना तु परविद्याप्रकरणेषु शिवशंभुपरब्रह्मपरंज्योतिःपरतत्त्वपरमात्मादिशब्द निर्दिष्टवस्तुनो नारायणत्वं प्रतिपाद्यते ॥सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम् ।विश्वतः परमं नित्यं विश्वं नारायणँ हरिम् । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वस्यात्मेश्वरँ शाश्वतं शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् । नारायणपरं ब्रह्म तत्त्वं नारायणः परः । नारायणपरो ज्योतिरात्मा नारायणः परः । यच्च किंचिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा । अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । अनंतमव्ययं कविँ समुद्रेंऽतं विश्वशंभुवम् ॥लिङ्गभूयस्त्वाऽधिकरणे (ब्र.सू.3.3.43) भगवता भाष्यकृता न च सहस्रशीर्षमित्यादि द्वितीयानिर्देशेन पूर्वानुवाकोदितोपासिना संबंधः शंकनीयः । तस्मिन्यदंतस्तदुपासितव्यमित्युपासिगतेन कृत्प्रत्ययेनोपास्यस्य कर्मणोऽभिहितत्वादुपास्ये द्वितीयानुपपत्तेः । विश्वमेवेदं पुरुषस्तत्त्वं नारायण इत्यादिप्रथमानिर्देशाच्च प्रथमार्थे द्वितीया वेदितव्या । अतंर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । नीवारशूकवत्तन्वी पीताभा स्यात्तनूणूपमा । तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा (ह्म) स शिवः सेंद्रः सोऽक्षरः परमः स्वराडिति निर्देशैः सर्वस्मात्परो नारायण एव सर्वत्रोपास्य इति निर्णीयमानत्वात्प्रथमार्थे द्वितीयेति निश्चीयत इति भाषितम् । व्यासार्यैरपि द्वितीयांतपदस्वारस्यानुरोधे तु विद्यादुपासीतेति विधिपदाध्याहारः । प्रथमांतपदस्वारस्यानुरोधे तु नाध्याहारः । सहस्रशीर्षमित्यादिद्वितीयाया येनावृतं खं च दिवं महीं चेतिवत्प्रथमाश्रयणमात्रमिति वर्णितम् । विश्वाक्षत्वं सर्वविषयकसाक्षात्कारवत्त्वम् । विश्वशंभुत्वं सकलजगत्क्षेमकरत्वम् । ननु विश्वं नारायणमित्यभेदनिर्देशः कथमित्याशंक्योक्तं विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवतीति । विश्वेनात्मतयोपजीव्यतया विश्वत्वं न तु स्वरूपेणेत्यभिप्रायः । नारायणपरं ब्रह्मेत्यत्र नारायणात्परं ब्रह्मेति नार्थः शङ्कनीयः । पूर्वापरविरोधात् । नारायणः परं ब्रह्मेति महोपनिषदि स्फुटमावेदनात् । समुद्रे अंतः स्थानं यस्य समुद्रेंऽतः । सप्तम्यास्तत्पुरुषे कृति बहुलमित्यलुक् । “अन्तः समाप्तौ स्थाने च निर्णयेऽभ्यंतरेऽपि चे”ति नैघण्टुकाः । इतरत्स्पष्टम् । ननु सहस्रशीर्षमित्यादिद्वितीयाया येनावृतं खं च दिवं महीं चेतिवत् प्रथमाश्रयणे तस्मिन्यदंतस्तदुपासितव्यमिति प्रकृतदहरविद्योपास्यनिश्चायकत्वमेव युक्तम् । पद्मकोशप्रतीकाशमित्यस्मिन्ननुवाके दहरविद्याप्रत्यभिज्ञानात् प्रकृतहान्यनौचित्यादिति पूर्वपक्षे प्राप्ते उच्यते – “लिंगभूयस्त्वात्तद्धि बलीयस्तदपि” यद्यपि दहरविद्या प्रकृता तदेकवाक्यत्वं च युक्तम् । तथापि सकलपरविद्योपास्यनिर्द्धारणत्वे बहूनि लिंगान्युपलभ्यन्ते तत्तत्परविद्यावाक्यगतानि परब्रह्मपरतत्त्वादिपदरूपाणि चिह्नानीह वाक्ये दृश्यन्ते । यदि प्रकृतविद्योपास्यदेवताविशेषसमर्पकमिदं वाक्यजातं स्यात् परब्रह्मपरतत्त्वादिप्रयोगो नारायणपदावृत्तिश्च न स्यात् । एकेन नारायणपदेनैव समीहितसिद्धेः, अतः परब्रह्मादिपदवाच्यस्य नारायणत्वविधानायैवायं संरंभः । शिवश्च नारायणः शक्रश्च नारायणः परतत्त्वमपि नारायण इति वाक्यभेदोऽपि न दोषाय । तच्च लिङ्गं प्रकरणाद्बलीयः । तदुक्तं पूर्वकाण्डे । “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्” इति । न च सकलपरविद्योपास्यनिश्चायकत्वे पद्मकोशप्रतीकाशमिति दहरविद्योपास्यविशेषेणोपसंहारो न युक्त इति वाच्यम् । ऐतदात्म्यमिदं सर्वमिति सामान्येन निर्द्दिष्टस्य तत्त्वमसीति विशेषे उपसंहारवत्सकलपरविद्योपास्यतयाभिहितस्य नारायणस्य प्रकृतदहरविद्योपास्यतयोपसंहारे दोषाभावादिति स्थितम् ॥